किञ्चैतद्वैलक्षण्यं भेदोऽभेदो भेदाभेदो वा ..

(शब्दार्थस्य प्रश्नपूर्वकं खण्डनम्)

मूलम्

१०- मूलम्-किञ्चैतद्वैलक्षण्यं भेदोऽभेदो भेदाभेदो वा । न तावद्भेदः । अनङ्गीकारात् । व्यावहारिकभेदश्चानिर्वाच्यसिद्धौ वक्तव्यः । न चाव्यावहारिकं किञ्चित् । न चाशेष व्यावहारनिवृत्तौ किञ्चिन्मानम् । न च मिथ्यातथ्ययोस्सामान्यं व्यावहारिकत्वं धूमबाष्पयोर्धूमत्ववत् । न चा-भेदोऽनङ्गीकारदेव । तथैवोभयम् । अभेदे चानिर्वाच्यब्रह्मणोस्तच्छब्दयोः पर्यायत्वम् ॥

टीका

टीका-एवं सत्त्वासत्त्वप्रतिषेधं सदसद्धैलक्षण्यशब्दार्थं सिद्धवत्कृत्य दूषणमुक्तम् । इदानीं सदसद्धैलक्षण्यशब्दार्थं दूयितुं परमेव पृच्छति-किंचेति । सामान्यतः पृष्टमेव विशेषतः पृच्छति भेद इति ॥ भेदाभेद-वैलक्षण्यं वेत्यपि द्रष्टव्यम् । शब्दानुसारात्प्रथमः पक्षः । ' तदनन्यत्वम्' इत्यादौ यथाश्रुततत्सिद्धान्तानुसारेण साङ्केतिकत्वाभिप्रायतो द्वितीयः परिशेप्राप्तस्तृतीयः । निष्कृष्टतत्सिद्धान्तानुसारेण चतुर्थः । आद्यंदूयति-न तावदिति ॥ ब्रह्मव्यतिरेकेण सतोऽभावाच्छुक्तिरजतादिकं ब्रह्मणो भिन्नमिति प्रतिज्ञार्थः स्यात् । तथाचापसिद्धान्तः । भेदस्य परेण क्वाप्यनङ्गीकारात् । अर्थान्तरत्वं तु स्पष्टत्वानोक्तम् । ननु मया पारमार्थिक एव भेदो नाङ्गीक्रियते । व्यावहारिकस्तु सोऽभ्युपगम्यत एव । अतः स एवात्र वैलक्षण्यशब्दार्थोऽस्त्विति चेत्, किमयं व्यावहारिकशब्दः स्वसमयेनानिर्वचनीयार्थः? किं वा व्यवहारविषयमात्रार्थः ? तत्र प्रथमे दोमाह-व्यावहारिकेति ॥ चस्त्वर्थः । अप्रसिद्धविशेषणतैवं सति स्यादिति भावः । भेदसामान्यं साध्यं न तु पारमार्थिकोऽनिर्वचनीयो वा भेदोऽतो न कश्चिद्दो इति चेन्न । पारमार्थिकानिर्वचनीयभेदसामान्यासिद्धेः । न द्वितीयः । शुक्तिरजतादेर्ब्रह्मभेदस्य व्यावहारिकत्वाङ्गीकारे सत्यत्वप्राप्तेः । विमतो भेदः सत्यो व्यावहारिकत्वादिति प्रयोगसम्भवात् ।ननु सतः सपक्षस्य विद्यमानत्वात्तत्राविद्यमानो हेतुरसाधारणानैकान्तिक इति तत्राह-न चेति ॥ किञ्चित्सदित्यर्थः । कुतो नेत्यत आह-न चाशेषेति । सत्यादशेषव्यवहारनिवृत्तौ सत्यस्याशेषव्यवहाराविषयत्वे । यदि कश्चित्तत्र प्रमाणं ब्रूयात्तदा स्वक्रियाविरोधः स्यात् । अत एव 'अदृष्टमव्यवहार्यम्' इत्यादिवाक्यं व्यवहारविशेषावियत्वपरं व्याख्येयम् । अत एवोक्तमशेषेति ।

अस्तु सतो व्यावहारिकत्वम् । मिथ्याभूतस्यापि शुक्तिरजतादे-र्व्यावहरिकत्वात्साधारणानैकान्तिकत्वमित्यत आह-न च मिथ्येति ॥ शुक्त्यादिकमेव व्यावहारिकं रजतादिकं तु व्यावहारिकता कल्प्यत एव । न च कल्पितेन विपक्षगामित्वेना (विपक्षगामिना) नैकान्तिकत्वम् । तथात्वे धूमवत्त्वस्यापि तत्प्रसङ्गात् । आरोपितधूमत्वस्यापि बाप्पस्य ह्रदेऽपि वर्तमानत्वादिति भावः । द्वितीयं दूषयति न चेति ॥ एतेन सर्वात्मकत्वाद् ब्रह्मणो महत्वमित्यपास्तं भवति । तृतीयं निराकरोति-तथैवेति ॥ उभयं भेदाभेदाख्यम् । तथैव अनङ्गीकृतमेव परेण । परस्याभेदपक्षानाङ्गीकारे हेतुं सूचयन्नेव तत्र दोषान्तरमाह-अभेदे चेति ॥ अनिर्वाच्यब्रह्मणोरित्यनेन विरुद्धस्वरूपत्वं सूचितम् । तथा च शुक्ति-रजतादिकं सर्वं ब्रह्मण्यारोपितम् इत्यादिव्यवहारानुपपत्तिरिति भावः । अनङ्गीकृतार्थदूणे व्यर्थोऽयं समारभ्य इति चेत्, सत्यम् । तथापि सत्यज्ञानादिवाक्यस्याखण्डार्थतानिरासप्रसत्त्यर्थमेतदित्यदोषः। तथैवोभयमित्युक्तातिदेशमात्रत्वान्न व्यवधानम् ॥

भावदीपः

(रा. टि) सदसद्वैलक्षण्यशब्दार्थमिति । क्रमेण दूषयितुमिति योज्यम् । पृच्छतीति ।। सद्वैलक्षण्यशब्दार्थमिति शेषः । असद्वैलक्षण्यमिति पक्षदूषणानि तु किं चासद्विलक्षणम् इत्यत्र इत्याद्युक्तरीत्या ध्येयानि । पृष्टस्यैव पुनः प्रश्ने पुनरुक्तिरित्यत आह-सामान्यत इति ॥ किं चैतत्' इति सामान्यम् ।'भेदः' इत्यादिविशेषः । शब्देति ॥ वैलक्षण्यशब्दानुसारादित्यर्थः । कथं तर्ह्यभेदस्य पक्षस्योत्थितिरित्यत आह-साङ्केतिकत्वाभिप्रायत इति ॥ कथं साङ्केतिकत्वमित्यत उक्तम्-तदनन्यत्वेति ॥ ' तदनन्यत्वमारम्भणशब्दादिभ्यः' इति युक्तिपादीयाधिकरणे ब्रह्मविलक्षणेऽपि जगति ब्रह्मानन्यत्वं ब्रह्माभिन्नत्वमिति यथाश्रुतसिद्धान्तः । तात्पर्यतस्तव्यतिरेकेण जगतोऽभाव इति यथा-श्रुत्युक्तम् । अर्थान्तरत्वमिति ॥ सत्त्वानधिकरणत्वरूपपराभिमततत्वासिद्धेरिति भावः । समुच्चेयाभावादाह-चस्त्वर्थ इति ।। पारमार्थिकव्यावृत्त्यर्थस्तु-प्रागुक्ताया: प्रतिज्ञाया इति योज्यम् । व्यवहारविषयमात्रार्थ इति पक्षं निराह शब्द इति भावः । अप्रसिद्धेति । शुक्तिरजतादिकं सदसद्विलक्षणमिति न द्वितीय इति ॥ किञ्चित्सदित्यर्थ इति । तथा च हेतोरपि सत्यपदार्थ । स्वक्रियेति ॥ इदं सत्यवस्तु व्यवहाराविषय इति प्रतिज्ञायां व्यवहाराविषय इत्येवंरूपव्यवहारविषयत्वान्मूकोऽहमितिवत् स्वक्रियाविरोध इत्यर्थः । अत एवेति । व्यवहारसामान्यनिषेधे स्वक्रियाविरोधादेवेत्यर्थः । 'अदृष्टमव्यवहार्यमग्राह्यम्' इत्यादिमाण्डूकवाक्यमपि 'विना मुक्तिं यतस्तेनाव्यवहार्य' इति तद्भाष्यदिशा व्यवहारविशेषाविषयत्वपरमित्यर्थः । अत एवेति ॥ विशेषव्यवहारनिवृत्तावपि ।। सामान्यव्यहारनिवृत्तेरयोगादेवाशेषेत्युक्तमित्यर्थः । एतेनेति । 'तत्रैक आहुः, अगुणं ब्रह्मेति' इत्येतद्वाक्यव्यख्यावसाने परेण यदुक्तंगुणपूर्त्या ब्रह्मणो न महत्वं किन्तु सर्वात्मकत्वादेव' इत्येतत् एतेनानङ्गीकारेण निरस्तमित्यर्थः । तथैवेत्यस्यार्थः-नाङ्गीकृतमेव परेणेति । तथाचेति ।। पर्यायत्वे सतीत्यर्थः । अयं समारम्भ इति ।।अभेदे चानिर्वाच्यब्रह्मणो:' इत्यादिसमारम्भ इत्यर्थः। नन्वेवं 'न चाभेद:' इत्यादिग्रन्थानन्तरमेव 'अभेदे च' इति वाक्यं निवेश्यमित्यत आह-तथैवोभयमितीति ॥

विवरणम्

(श्री.टि.)भेदाभेदवैलक्षण्यमप्युक्तरीत्यैवापास्तम्' इति वक्ष्यमाणमूलानुसारेणाह भेदाभेदेति । शब्देति । वैलक्षण्यशब्दस्य भेदवाचित्वप्रसिद्धेरिति भावः । तदनन्यत्वमितीति ।। ' तदनन्यत्वम्' इति सूत्रे सद्विलक्षणेऽपि कार्यभूते प्रपंचे कारणभूतब्रह्मव्यतिरेकेणासत्त्वरूपाभेदाख्यया अनन्यशब्दार्थतया सिद्धान्तितत्वात्तादृशाभेदपरसङ्केताभिप्रायेण द्वितीयकल्प इत्यर्थः । वस्तुतोऽस्मद्रीत्या तस्य सूत्रार्थत्वाभावाद्यथाश्रुतेत्युक्तम् । तथा च सूत्रे यथा श्रूयते तदनुसारेणैव कृतो यस्तत्सिद्धान्तस्तदनुसारेणेत्यर्थः । सद्विलक्षणमिति प्रतिज्ञाया ब्रह्मणो भिन्नमित्यर्थः कुतः ? सच्छन्दस्यान्यार्थत्वादित्यत उक्तम्-ब्रह्मव्यतिरेकेणेति । तमुपपादयति भेदस्येति । तदङ्गीकारे चापसिद्धान्तः स्पष्ट इति भावः । अर्थान्तरत्वमिति । तन्नामकनिग्रहस्थानम् । सत्त्वानधिकरणत्वसाधनस्यैव प्रकृतसङ्गतत्वेन ब्रह्मभिन्नत्वसाधनस्य प्रकृतानुपयुक्तत्वेनार्थान्तरत्वादिति भावः । मात्रेति ॥ केवलं व्यवहारविषयत्वार्थक एवेत्यर्थः । चस्त्वर्थ इति । चशब्दस्तुशब्दार्थक इत्यर्थः । भेदसामान्येति ।। पारमार्थिकानिर्वचनीयोभयभेदानुगत भेदत्वसामान्येत्यर्थः । ब्रह्मभेदस्य ब्रह्मण भेदस्य । विमतो भेदः, शुक्तिरजतादेर्ब्रह्मण भेद इत्यर्थः । सतः सत्यस्य ब्रह्मण इत्यर्थः । हेतुः व्यावहारिकत्वाख्यः । तस्य सर्वव्यवहारातीतत्वादिति भावः । किञ्चिदित्यनूद्य तस्यार्थमाहकिञ्चिदिति ॥ मूले सत्यादिति शेषमभिप्रेत्य व्याचष्टे-सत्यादिति ॥ किञ्चिन्मानमिति मूलम् । येन व्यावहारिकत्वहेतोरसाधारण्यं स्यादिति वाक्यशेषः । तदेति ॥ प्रमाण-जन्यव्यहारविषयत्वस्यैव प्राप्तेरित्यर्थः । ननु ब्रह्मणि व्यवहारविषयत्वाख्य-व्यावहारिकत्वरूपहेत्वभावस्य 'अदृष्टमव्यवहार्यम्' इति श्रुतिसिद्धत्वाद-साधारण्यं स्यादेवेत्यत आह-अत एवेति ॥ स्वक्रियाविरोधस्य सूचनीयत्वादेवेत्यर्थः । यद्यत्र सर्वथा व्यवहाराविषयत्वमेव ब्रह्मणोऽभिप्रेतं स्यात् तदैतत्प्रमाणजन्यव्यवहारविषयस्यैव सत्त्वेन श्रुतेः स्वक्रियाविरोधः स्यादतोऽज्ञव्यवहाराविषयत्वरूपव्यवहारविशेषाविषयत्वपरं व्याख्येयमित्यर्थः I अत एवाव्यवहार्यमित्यस्याज्ञव्यवहाररूपव्यवहारविशेषाविषयत्वपरत्वादेव । अशेषेत्याद्युक्त्या विद्वद्वैदिकव्यवहारविषयत्वमस्तीत्यभिप्रायत इति ध्येयम् ।

अस्त्विति ॥ तथा च नासाधारण्यमिति भावः । कुतः साधारणानैकान्तिकत्वमित्यतो विपक्षेऽपि सत्त्वेन पक्षत्रयवृत्तित्वादित्याह-मिथ्याभूतस्यापीति ।। शुक्त्यादिकमिति ।। तथा चातथ्ये शुक्तिरजतादौ व्यावहारिकत्वं कल्पितमेवेति न व्यभिचार इति भावः । आरोपितधूमत्वस्य वाष्पस्य आरोपितधूमत्ववतो बाष्पस्येत्यर्थः । एतेन अभेदपक्षदूषणेन 'अशेषगुणपूर्त्या ब्रह्मणो न महत्वं किन्तु सर्वात्मकत्वेन' इति यत्पूर्वमाशङ्कितं तदित्यर्थः । को | हेतुरनेन सूचित इत्यत आह-अनिर्वाच्येति । ब्रह्मेत्यनेनानिर्वाच्यत्वविरुद्धं सत्त्वं तस्य सूचितमिति ध्येयम् । अस्तु पर्यायत्वम्, तत: को दोष इत्यत आह-तथाचेति ।। व्यवहारोऽपर्यायव्यवहारः । सह प्रयोग इति यावत् । अनङ्गीकृतार्थेति ।। अभेदपक्ष इत्यर्थः । व्यर्थ इति ।। अनङ्गीकारेणैव तस्य दुष्टत्वादिति भावः । ननु 'अभेदे च' इत्यादिवाक्येनाभेदपक्षदूषणस्य क्रियमाणत्वेन तस्य तथैवोभयमित्यतः पूर्वमनङ्गीकारादेवेत्यनन्तरं निवेशनमुचितम् ।तथैवोभयम्इत्यनेन व्यवधानकरणादकौशलमित्यत आह-तथैवेति ।। यद्यत्रानङ्गीकारादेवेत्यनन्तरम् 'अभेदे च' इत्यादिदूषणमुक्त्वाऽनन्तरं भेदाभेदपक्षौ दूषणीयः । तत्र तथैवेत्यतिदेशकरणायोगादुभयं नानङ्गीकारादेवेति वाक्यविन्यासस्य कार्यत्वेन गौरवं स्यादतः सौकर्यायाभेदपक्षोक्तानङ्गीकाररूपदूषणस्य भेदाभेदपक्षेऽपि स्फूर्त्या तद्दूषणातिदेशमात्रस्यैव तथैवेतिवाक्येन करणान्न तदभेदपक्षे दूषणान्तरकथनस्य व्यवधायकमिति भावः ||

कर्मप्रकाशः

(स.टि) ततश्च नैवं प्रकृत इत्ययुक्तमित्यत आह-शुक्तिरजतादेरिति ॥ शुक्तिरजतादिकमसन्नेत्यस्य असत्वावच्छिन्नमसन्नेत्येवार्थः । न तु अत्यन्तासन्नेत्यर्थः इति त्वया वाच्यम् प्रागभावाद्यसन्मात्रभेदस्य त्वयाऽङ्गीकारात् । अन्यथा सामान्यनिषेधं परित्यज्य विशेषनिषेधे कारणान्तराभावात् शुक्तिरजतादेस्राद्विशेषत्वमेव सामान्यनिषेधानङ्गीकारे कारणमिति वाच्यं स्यादिति भावः ।

शब्दानुसारादिति । वैलक्षण्यशब्देन भेदस्य प्रतीयमानत्वात् प्रथमः पक्षः शब्दानुसारीत्यर्थः । तदनन्यत्वमिति ॥ ' तदनन्यत्वमारम्भणशब्दादिभ्य' इत्यधिकरणे जगति ब्रह्माभेदस्य परेणापातत: सिद्धान्तितत्वात् । अभेदे वैलक्षण्यशब्दसङ्केतसम्भावनया द्वितीयः पक्ष इत्यर्थः । परिशेषत इति । भेदाभेदपक्षयोरनुपपत्तिदर्शनात् प्राप्तस्तृतीयः पक्ष इत्यर्थः । निष्कृष्टेति ॥ भेदाभेदवैलक्षण्यं वैलक्षण्यशब्दार्थ इति परेण निष्कर्षस्य कृतत्वात् तदनुसारेण चतुर्थपक्ष इत्यर्थः । ननु यदि विप्रतिपन्नमनिर्वचनीयत्वं साधनीयं तद्विहाय ब्रह्माभिन्नत्वसाधने अर्थान्तरत्वमित्येव दूषणं कुतो नोक्तमित्यत आह-अर्थान्तरत्वं त्विति || भेदसामान्यं साध्यमिति ॥ पारमार्थिकानिर्वचनीयभेदसाधारणभेदत्वरूपसामान्यरूपेण भेदसामान्यं साध्यमित्यर्थः । स्वक्रिया-विरोध इति ।। अशेषव्यवहाराविषयत्वमुक्त्वा प्रमाणोपन्यासो प्रामाणोपन्यासरूपस्वक्रियाविरोध इत्यर्थः ।

ननु साधारणानैकान्तिकपरिहाराय हेतोर्विपक्षगामित्वं खण्डनीयम् । तद्विहाय मिथ्यातथ्ययोः सामान्याश्रयखण्डनमयुक्तमित्याशङ्कानिरासाय मूलाभिप्रायमाह-शुक्त्यादिकमेवेति ॥ नन्वस्तु शुक्तिरजतादौ व्यावहारिकता कल्पिता । तथापि साधारणानैकान्तिकमेव हेतुतावच्छेदकावच्छिन्नस्य व्यावहारिकत्वरूपहेतुजातीयस्य विपक्षगामित्वापरिहारात् । न हि यत्र साधारणानैकान्तिकत्वमुच्यते तत्र पक्षवृत्तिहेतुव्यक्तिरेव विपक्षे वर्तते । धर्माणां प्रत्यधिकरणं भेदात् । किन्तु हेतुजातीयं विपक्षे वर्तते । तच्च प्रकृतेऽपि समानम् । अवान्तरवैजात्यन्तु अप्रयोजकमित्यत आह-न च कल्पितेनेति ।।

अत्र विपक्षगामित्वेनेति प्रक्षिप्तम् । विपक्षगामिनेत्युच्छिन्नम् । ततश्चैवं टीकावाक्यपाठः । न च कल्पितेन विपक्षगामिना अनैकान्तिकत्वं भवति इति ।अस्पार्थः । कल्पितेन विजातीयेन विपक्षगामिना हेतुविजातीयस्य विपक्षगामित्वेनेति यावत् । हेतोरनैकान्तिकत्वं भवतीति ॥ मिथ्यातथ्ययोरेकस्य सामान्यस्याभावात् । शुक्तिरजतनिष्ठव्यावहारिकत्वस्य हेतुविजातीयत्वमेव । ततश्च तस्य विपक्षगामित्वप्रयुक्तं हेतोरनैकान्तिकत्वं नेति भावः । एतेन परेण रजतादौ व्यावहारिकत्वरूपहेतुजातीयस्य सत्त्वप्रयुक्तव्यभिचारस्य चोदितत्वात् विपक्षगामित्वस्य कल्पितत्वानङ्गीकारात् कल्पितेन विपक्षगामित्वेनानैकान्तिकत्वं नास्तीति कथनमयुक्तामिति परास्तम् । तथात्व इति ।। कल्पितहेतो-र्विपक्षगामित्वेन हेतोरनैकान्तिकत्व इत्यर्थः । तदेवोपपादयति-आरोपितेति ॥

अत्रारोपितधूमत्वस्य बाष्पस्येति न टीकावाक्यपाठः । किन्तु बाष्पारोपित-धूमस्य ह्रदेऽपि वर्तमानत्वादिति पाठः । अवश्यं चैतदेवं विज्ञेयम् । अतिप्रसङ्गोपपादनायारोपितस्यैव विपक्षगामिताया वक्तव्यत्वेनानारोपितस्य बाष्पस्य विपक्षगामिताया अवक्तव्यत्वात् । यद्यप्यस्मन्मते आरोपितमसदेवेति आरोपितं वर्तत इत्ययुक्तम् । तथापि पररीत्या एतदुक्तमित्यदोषः । परमते आरोपितस्य प्रातिभासिकसत्यत्वात् । मूले वाष्पधूमयोरिति । अत्र बाष्प-शब्देन बाष्पारोपितधूम उच्यते । तथा च धूमे बाष्पारोपितधूमे च धूमत्ववदिति भावः । एतेन मिथ्यातथ्ययोः सामान्यं नास्तीति प्रतिज्ञाय उपपादनावसरे बाष्पग्रहणमयुक्तम् तस्य धूमवत्सत्यत्वेन मिथ्यात्वाभावादिति निरस्तम् । अखण्डार्थतानिरासप्रसक्त्यर्थमिति || प्रत्यक्षानुमानयोर्न ब्रह्मधर्मसाधकत्वम् ब्रह्मणस्तदविषयत्वात् । आगमस्याखण्डार्थत्वे उक्ते धर्मसाधकप्रमाणाभावात् निर्धर्मकमेव ब्रह्म भविष्यतीत्याशयेन सत्यज्ञानादिवाक्यनामखण्डार्थत्वं परेणोक्तमिति तन्निराकरणमावश्यकमिति भावः ।

गूढवाक्यार्थपञ्चिका

( छ.टि.) ननु किंचेत्यादिना सदसद्वैलक्षण्यप्रश्नपूर्वं कथं व्याहत्यादि-दोषोद्भावनमित्यत आह-एवमिति । सदसद्वैलक्षण्यशब्दार्थं विलक्षण-शब्दस्यान्योन्याभावार्थकत्वेनेति शेषः । ननु किंशब्दस्य प्रश्न्यार्थत्वेन वैलक्षण्यशब्दार्थस्य पृष्टत्वात् । भेदो वेत्यादिव्यर्थमित्यत आह-सामान्यतः पृष्टमेवेति । ननु भेदाभेदवैलक्षण्यस्य अग्रे दूष्यमाणत्वात् तत् कुतो नोक्तमित्यत आह-भेदाभेदवैलक्षण्यं वेत्यपि द्रष्टव्यमिति ।। उपलक्षणत्वेनेति शेषः । विलक्षणशब्देन भेदादिपक्षचतुष्टयप्राप्तिः कथमित्यत आह-शब्दानुसारादिति ॥ विलक्षणशब्दस्य विरुद्धधर्मार्थकत्वेन भेदानुमापकत्वात् । तदनन्यत्वमिति ।। 'तदनन्यत्वमारम्भणशब्दादिभ्यः' इत्याद्यधिकरणे सद्विलक्षणेऽपि कार्यभूते जगति कारणभूतव्यतिरेकेणासत्वलक्षणाभेदस्य परेणानन्यत्वशब्देनापाततः सिद्धान्तितत्वात् । तादृशाभेदे वैलक्षण्यशब्दस्य सङ्केताभिप्रायेण द्वितीयः पक्षः । निष्कृष्टतत्सिद्धान्तेति ॥ मुख्यमायिसिद्धान्तानुसारेणेत्यर्थः । सद्विलक्षणमिति साध्ये सच्छब्दस्यमुख्यामुख्ययोःइति न्यायेन पारमार्थिकसत्वार्थकत्वमभिप्रेत्य मूलोक्तं दूषणमिति भावेनाह-ब्रह्मव्यतिरेकेणेति ।। सतोऽभावात् पारमार्थिकसतः अविद्यमानत्वादित्यर्यः । क्वापीति । ब्रह्मातिरिक्तपदार्थस्य सत्यस्यानङ्गीकारादिति भावः ।

ननु शुक्तिकारजतस्य ब्रह्मभेदे साधिते मिथ्यात्वासिद्धेः प्रकृतानुपयुक्तत्वेनार्थान्तरत्वं कुतो नोक्तमित्यत आह-अर्थान्तरत्वं त्विति ॥ वस्त्वर्थ इति ॥ समुच्चेतव्यस्यान्यस्याभावात् समुच्चयासम्भवादिति भावः पारमार्थिकेति ।। अनिर्वचनीयभेदस्याप्रसिद्धत्वेन पारमार्थिकधूमबाष्पारोपित-धूमयोः धूमत्वसामान्यवत् भेदत्वसामान्यस्याप्यप्रसिद्धेरिति भावः । शुक्ति-रजतादेरिति || शुक्तिरजताधिकरणकसच्छन्दवाच्यब्रह्मप्रतियोगिकभेदस्य साध्यरूपस्येत्यर्थः । सतः सपक्षस्येति । ब्रह्मरूपस्य । तत्रावर्तमान-(तत्राविद्यमान) इति ।। ब्रह्मणि व्यावहारिकत्वहेतुरवर्तमान इत्यर्थः ।

ननु शशविषाणादीनां दर्शनग्रहणादिव्यवहाराविषयत्वात् कथं न चा-व्यावहारिकं किञ्चिदिति कथमुक्तमित्यतः किञ्चिदित्यस्य विवक्षितमर्थमाह-किञ्चित्सदित्यर्थ इति । न चाशेषव्यवहारनिवृत्तावित्यस्य प्रकृतोपयोगाप्रतीते: सत्यादितिपदमध्याहृत्य तत्तात्पर्यार्थमाह- सत्यादिति ॥ ननु ब्रह्म सर्व-व्यवहारविषयीभूतं न निर्धर्मिकत्वादित्यनुमानं अत्र प्रमाणं भविष्यतीत्याशङ्कय दूषयति-यदि तत्रेति । तत्र ब्रह्मणः सर्वव्यवहारविषयत्वे स्वक्रियाविरोधः । ब्रह्मण अनुमितिरूपस्वव्यवहारविषयत्वाङ्गीकारेण सर्वव्यवहारविषयत्वभावस्य बिरोधादिति भावः । ननु तर्हि 'अदृष्टमव्यहार्यम्' इत्यदिश्रुतिः तत्र मानम् भविष्यतीत्यत आह-अत एवेति ।। स्वक्रियाविरोधादेव दुखित्वपारतंत्र्यदोषित्वादिव्यवहारविशेषाविषयत्वं अदृष्टमित्यादिश्रुतेरर्थं इति भावः । तत्र ज्ञापकमाह-अत एवोक्तमिति ।। स्वक्रियाविरोधस्य सूचनीयत्वादेवेत्यर्थः । विपक्षे कल्पितहेतुसत्वेन अनैकान्तिकत्वेऽङ्गीकृते बाधप्रदर्शनायोक्तंधूमबाप्पधूमवत्वादिति ।। तत्तात्पर्यमाह-तथात्वे इति ।। एतेनेति ।। महानाम्नीनामित्यत्र ब्रह्मणो महत्वं आचार्यैः अशेषगुणपूर्त्या व्युत्पादितं मायिभिस्तु सर्वात्मकत्वेनोच्यते । तदपि अत्र अभेदखण्डनेन निराकृतमित्यर्थः । अभेदपक्षानङ्गीकारे को वा हेतु: सूचित इत्यत आह-अनिर्वाच्यब्रह्मणोरिति ।। शुक्तिकारजतब्रह्मणोरिति वक्तव्ये विरुद्धस्वरूपत्वं शुक्तिकारजतस्य सूचयितुं अनिर्वाच्यग्रहणं कृतम् । ब्रह्मणः सत्यत्वात् शुक्तिकारजतस्य अनिर्वाच्यत्वेन सत्यत्वाभावात् । अभेदस्यासम्भवेनानङ्गीकरणमिति भावः । मूले तच्छब्दयोरित्यस्यार्थः शुक्तिकारजतसच्छब्दयोरिति । विचार्यत्वे को दोष इत्यत आह-तथा चेति || आदिशब्दात् शुक्तिकारजतं मिथ्या ब्रह्म सत्यं इत्यादेर्ग्रहणम् । अनङ्गीकृतार्थेति । अनङ्गीकृतत्वेनैव दुष्टत्वज्ञानात् तद्ज्ञापनस्य भवतां वैय्यर्थमिति भावः । अखण्डार्थतेति । निर्विशेष-ब्रह्मार्थकत्वनिराकरणप्रस्तावायेत्यर्थः ।

ननु तर्हि तथैवोभयमित्यतः पूर्वं अभेदे चेत्यादिवाक्यं निवेशनीयं व्यवधानं कुत इत्यत आह-तथैवोभयमिति । उक्तातिदेशमात्रत्वात् । उक्तस्यानङ्गीकारादेवेत्यस्य हेतोः तथैवेत्यनेन भेदाभेदपक्षेऽपि तद्वति अतिदेशकरणादित्यर्थः ।