प्र प्र वस्त्रिष्टुभमिषं मन्दद्वीरा येन्दवे

( प्र प्र व इत्यृगर्धकीर्तनम् )

मूलम्

३०- मूलम्-ऋक् प्र प्र वस्त्रिष्टुभमिषं मन्दद्वीरा येन्दवे । धिया वो मेधसातये पुरन्ध्या विवासति ॥ १॥

प्र प्र वः । हे ऋत्विजः प्रजा वा वः त्रिष्टुभमिषं त्रिष्टुभाख्यमन्नम्  इन्द्रः परमेश्वरः सोमाय आविवासति । पुरन्ध्या धिया अशेप्राणिदेहाश्रयया स्वबुद्धया प्र प्र प्रकर्षेणातितरां शस्यमाना त्रिष्टुप् प्रीतिं करोति सोमपानार्थमित्यर्थः । मन्दद्वीराय तस्य वीरस्य परमेश्वरस्य मदं प्रीतिं करोतीति मन्दद्वीरः सोमः । न त्वात्मप्रयोजनाय प्रीतिं करोति किं तहि वो मेधसातये यज्ञसिद्ध्यर्थम् । व इति गुरुत्वाद्, ईश्वरं प्रत्येव वा बहुवचनम् । तदा वः अन्नं त्रिष्टुभं वो मेधसातये भवद्दैवत्ययज्ञसिद्ध्यर्थं भवान् प्रप्राविवासतीत्यर्थः ॥ २ ॥

टीका

टीका- एवं शङ्कां परिहृत्य शस्त्रशेषांस्त्रींस्तृचानाह ब्राह्मणम् । प्रप्रस्त्रिष्टुभमिम्, अर्चत, प्रार्चत यो व्यतीं रफाणयदिति प्रज्ञातानुष्टुभः शंसति, इति । तत्र शस्त्रार्थस्य सर्वथा स्मर्तव्यत्वाच्छस्त्रस्य च भगवदर्थत्वादवश्यं तज्ज्ञानमपेक्षितमित्याशयवांस्त्यृचत्रयं व्याचिकिर्षुः प्रतीकग्रहणपूर्वकमाद्यामृचं तावद्व्याचष्टे-प्रप्रव इति ॥ व इत्युक्तत्वाद् है ऋत्विज इत्याद्याह । प्रजा यजमानाः । ' इन्द्रस्य त्रिष्टुप् ' इत्युक्तत्वा-द्विशेषेण त्रिष्टुभो ग्रहणम् । इन्द्रसूक्तत्वादिन्द्र इत्युक्तम् । आविवासति इच्छति ।कर्मण्यधिकरणे च' इति स्मरणात्, पुराणि धीयन्तेऽस्यामिति पुरन्धिरित्यर्थः । प्रकर्षेणेत्यादि वदता 'प्रसमुपोदः पादपूरणे' इत्येतदसदिति सूचितं भवति । तस्य वीरस्येत्यर्थकथनमात्रम् । मन्दन् वीरो येनेति विग्रहः । ' युष्मदि गुरावेकेषांम्' इति वचनादिति भावः ॥ १ ॥

भावदीपः

(रा.टि.) एवं शङ्कामिति ॥ अक्षरन्यूनताशङ्काम् ' उपसर्गानुपसृजतिइत्यनेन परिहृत्य शस्त्रशेषांस्त्रींस्तृचानाहेत्यर्थः । महानाम्नीनां संयोजनकर्तुः, क्रतुकर्तुश्च प्रशंसा तु प्रासङ्गिकीति पूर्वेणैव सङ्गतिरुक्ता । आद्यामृचमिति || 'प्र प्र वस्त्रिष्टुभमिषं मन्दद्विरायेन्दवे । धिया वो मेधसातये पुरन्ध्या विवासति' । इत्यृचमित्यर्थः । आदिपदोक्तप्रजाः का इत्यत आह-यजमाना इति ॥अनुष्टुबादिछन्दसां छन्दोऽन्तरं विना त्रिष्टुवग्रहणे को हेतुरित्यत आह-इन्द्रस्येति || ' इन्द्रस्य त्रिष्टुव्' इति श्रुत्यन्तरे प्रीतिविषयत्वेन त्रिष्टुभ उक्तत्वादित्यर्थः । इच्छतीति । वातेरिच्छायां सन्प्रत्यये 'सन्यङो' इति द्विर्वचनेसन्यतः' इतीत्वे आविवासतीति रूपमिति भावः । कर्मणीति ॥ कर्मकारक उपपदे घुसंज्ञकेभ्यो धातुभ्योऽधिकरणेऽर्थे किप्रत्यय इति स्मरणार्थो ज्ञेयः । अनेन किप्रत्ययेआतो लोप इटि च' इत्यतो लोप इति भावः । इत्येतदिति ।। इति सूत्रोक्तमसदित्यर्थः । अर्थकथनमात्रमिति । न तु विग्रहप्रदर्शनमित्यर्थः । कथं तर्हि विग्रह : ? इत्यत आह-मन्दन्वीर इति ॥ मन्दन् हृष्यन् वीरः परमेश्वरो येनेत्यर्थः । युष्मदीति ॥ युष्मदर्थे गुरावेकस्मिन्नपि बहुवचनमिति सूत्रार्थः । अयं मन्त्रार्थ :- हे ऋत्विजो यजमाना वा । इन्द्रः परमेश्वरो मन्दद्वीराय सोमाय सोमपानायेति यावत् । वो युष्मत्सम्बन्धिनीं युष्माभिः शस्यमानां त्रिष्टुभमिषं त्रिष्टुभाख्यमन्नं वो युष्माकं मेधसातये यज्ञसिद्ध्यर्थं पुरन्ध्या अशेषप्राणिदेहाश्रयया स्वबुद्ध्या प्रप्राविवासति प्रकर्षेण प्रकर्षेणातिप्रकर्षेणेच्छति । भवद्भिः शस्यमानया त्रिष्टुभाऽतितरां प्रीतिं सोमपानाय करोतीति । अर्थान्तरन्तु- हे इन्द्र भगवन् वो भवदीयां भवत्प्रियाम्, ‘युष्मदि गुरौइति बहुवचनम्, त्रिष्टुभमिषं वो मेधसातये भव- द्देवताकयज्ञसिद्धये मन्दद्वीरायेन्दवे पुरन्ध्या धिया भवान् प्रप्राविवासतीति ||||

कर्मप्रकाशः

( स. टि. ) आद्यामृचमिति || ' प्रप्रवस्त्रिष्टुभमिषं मन्द द्वीरायेन्दवे । धिया वो मेधसातये पुरन्ध्या विवासति' इत्याद्यामृचमित्यर्थः । यजमाना इति ॥ इतः परं टीकायां श्रूयमाणं 'इन्द्रस्य त्रिष्टुबित्युक्तत्वात् विशेषेण त्रिष्टुभो ग्रहणम्' इति वाक्यं प्रक्षिप्तम् । न टीकावाक्यम् । ऋचि त्रिष्टुभो गृहीतत्वे भाष्यकारेण विद्यमानत्रिष्टुप्पदानुपादानेन त्रिष्टुब्ग्रहणं न कर्तव्यमिति शङ्का- नुदयेन समाधानवैयर्थ्यात् । अनुष्टुबादिछन्दसः सामान्यतोऽप्यगृहीतत्वेन विशेषेत्यस्य वैय्यर्थ्याच्च । श्रुतावविद्यमानेन्द्रशब्दग्रहणं कथमित्यत आह- इन्द्रसूक्तत्वादिति ॥

पुरन्धिरिति रूपसिद्धयर्थमाह-कर्मण्यधिकरणे चेति । प्रसमुपोद इति ॥ इतः परं टीकायां वः इति गुरुत्वात्' इति प्रतीकग्रहणमुच्छिन्नमिति ग्राह्यम् । व इति गुरुत्वादिवाक्यप्रतीकाभावकथनायोगात् । युष्मदीति ॥ गुरावभिधेये युष्मच्छब्दे बहुवचनं भवतीति वचनार्थः ।

गूढवाक्यार्थपञ्चिका

(छ.टि.) त्रींस्तृचानीति ॥ प्रप्रवस्त्रिष्टुभमिषमिति ऋक्त्रयमेकतृचंअर्चत प्रार्चत' इति ऋक्त्रयं द्वितीयं तृचं, 'यो व्यतीं रफाणयत्' इति ऋक्त्रयं तृतीयं तृचमिति त्रींस्तृचानित्यर्थः । ननु ब्राह्मणखण्डे व्याख्येयतत्रोक्तशस्त्र- व्याख्यानस्य प्रयोजनं किमित्यत आह- तत्र शस्त्रार्थस्येति || मन्त्रत्वाच्छस्त्राणामिति भावः । मन्त्रत्वेऽपि कुतो वा तदर्थस्मरणमित्यत आह- भगवदर्थत्वादिति ॥ एषां विष्णुप्रतिपादकत्वाद्विष्णुस्मरणस्य च राक्षसनिवारकत्वादिति भावः । प्रतीकग्रहणपूर्वकमिति ॥ प्रथमतृचस्येति शेषः । अत्रत्यपदप्रतीकस्य व्याख्यानकाले करिष्यमाणत्वात् । प्रप्रव इत्यस्यां ऋचि ऋत्विजः प्रजा इति पदाभावात्कथं मूले ऋत्विज इत्याद्युक्तमित्यत आह-ब इत्युक्तत्वादिति । अस्य च बहुवचनस्य वस्त्रसाविति सूत्रेण सिद्धस्य युष्मच्छब्दषष्टीबहुवचनरूपस्य पराक्चैतन्यविषयस्य संबुध्यन्तपदं विनाऽनुपपत्तेरिति भावः ।

ननु त्रिष्टुपूच्छन्दसः वः इषमिति अन्नत्वोक्तेः सर्वप्रजानां त्रिष्टुपूच्छन्दः सम्बन्धाभावात्कथं हे प्रजा व इति सम्बोधनमित्यतः प्रजाशब्दं व्याचष्टे-यजमाना इति ।। यज्ञे शंसनीयमन्त्राणां इन्द्रादिप्रीतिकरत्वेन इन्द्रान्नानामपि यजमानार्थमृत्विग्भिः शंसनात् त्रिष्टुवादिमन्त्रस्य ऋत्विग्यजमानान्नत्वमिति भावः ।

ननु श्रुतौ देवप्रीतिकरहुमन्त्रेषु सत्सु विशेषतः त्रिष्टुभ एवान्नत्वोक्तिः किमर्थेत्यत आह- इन्द्रस्य त्रिष्टुविति || ' इन्द्रस्य त्रिष्टुबिह भागो अह्नः ' इत्यत्र त्रिष्टुपूच्छन्दस्कऋच: अह्नविशेषतः इन्द्रस्य अह्नः अहर्देवतायाश्च इह ग्नौम् । गायत्र्यभवदित्याद्युक्तगायत्र्यादिमन्त्रसमुदाये भाग इत्युक्त्या विशेषतः प्रतीकत्वोक्तेरिति भावः । ननु प्रप्रेति ऋचि इन्द्रशब्दस्याश्रवणात् मूले कर्तुत्वेनोक्तस्य इन्द्र इत्यस्य नियामकं किमित्याह - इन्द्रसूक्तत्वादिति ॥ 'अनादेशे त्विन्द्रो देवता' इति परिभाषया अनिर्दिष्टर्चस्यास्य सूक्तस्य इन्द्रदेवताकत्वात् प्रप्रव्यूनमनुष्टुभमित्यनुक्रमणिक्तोक्तेः प्रप्रेति सूक्तं प्रतिगृह्य ब्यूनमिति ऋग्द्वयन्यूनविंशतिसङ्ख्यामुक्त्वा अनुष्टुपूच्छन्दसस्तत्रोक्तेः । इन्द्रद्युम्नाय न इत्यादौ कण्ठोक्तेन्द्रशब्दमव्याख्याय परिभाषाप्राप्तमिन्द्राब्दमनूद्य परमेश्वर इति अत्र यदिन्द्रशब्दव्याख्यानं तदनादेशपरिभाषया प्राप्तेन्द्रसूक्तानां बहुत्वात्सर्वेन्द्रसूक्तेषु इदमेवेन्द्रशब्दव्याख्यानमिति ज्ञापनार्थम् इद परमैश्वर्ये' इति धातोः 'ऋजेन्द्रान' इत्यादि सूत्रेण रन्प्रत्ययनिपातनादेतदर्थकत्वादिन्द्रशब्दस्येति भावः । ऋचि 'इन्दवे' इत्यस्य रूढिप्राप्तचन्द्रार्थस्यानन्वयादित्यभिप्रेत्य अन्वितमर्थं व्यवहितत्वात् अन्वयं चाह मूलकार:- सोमाय आविवासतीति ।। तत्र दुर्गमार्थत्वात् आविवासतीति पदं व्याचष्टे-इच्छतीति ।।वा गति गन्धनयो:' इति धातोः वातुं गन्तुमिच्छतीति विग्रहे सनि द्वित्वे सन्यत इति अभ्यासस्य इकारादेशे विवासतीति रूपसिद्धिमभिप्रेत्य धात्वर्थानुगमस्य सिद्धत्वात्सन्प्रत्ययान्तत्वद्योतनार्थं इच्छतीति सन्प्रत्ययार्थमात्रानुवादः कृतः । श्रुतौ इन्दव इति च चतुर्थी तुक्रियार्थोपपदस्य च कर्मणि स्थानिनः' इति सूत्रेण ज्ञेयः । सूत्रार्थस्तु । क्रियार्थं क्रिया उपपदं यस्य तस्याप्रयुज्यमानस्य क्रियावाचकस्य कर्मणि चतुर्थी स्यादिति । तथा च विवासतीत्यनेनोक्तगमनेच्छायां पानार्थत्वात्तां ध्यानरूपक्रियां अप्रयुज्यमानां प्रति सोमस्य कर्मत्वाच्चतुर्थीति भावः । ' पुरन्धिः बहुधी:' इति यास्कोक्तं धियेति विशेष्यस्य अत्र सत्वान्न युज्यते । तथा धीशब्दस्य कर्मनामसु पाठेऽपि प्रकृते अनन्वयात् मूले 'पुरन्ध्या धिया' इत्येतदशेषप्राणिस्थत्वात् न युज्यते देहाश्रययेति व्याख्यानम् । तदुपपादयति- कर्मण्यधिकरणे चेतीति ।। स्मरणात् पाणिनीयसूत्रादित्यर्थः । कर्मण्युपपदे घुसंज्ञकेभ्यो धातुभ्योऽधिकरणेऽर्थे किप्रत्ययः स्यादित्युक्तेः शरीरवाचकपुरशब्दोपपदे दधातेरधिकरणे किप्रत्ययः । उपपदस्य नुमागमश्चान्दसः । यत् मूले अशेषप्राणिदेहाश्रययेत्युक्तं स तु नुमोर्थः । ' आधिक्येऽधिकं' इति महाव्याकरणसूत्रोक्तः अर्धाधिक्येव विवक्षिते शब्दाधिक्यं भवतीति सूत्रार्थः ।

ननु 'प्रसमुपोदः पादपूरणे' इति पाणिनीयसूत्रे प्रसं, उप, उदित चतुर्णामुपसर्गाणां वेदे पादपूरणविषये द्विरविधानात् द्वितीयप्रशब्दस्यार्थविशेषाभावान्मूले प्रकर्षेण प्रकर्षेणेति कथं द्वितीयस्याप्यर्थमुक्त्वा अतितरामिति तात्पर्यार्थकथनमित्यत आह-पादपूरण इत्येतदासदित्युक्तं (असदिति सूचितं) भवतीति ॥ आधिक्येऽधिकमिति महाव्याकरणसूत्रविरोधात् । लोके असर्वज्ञप्रयोगस्यापि वैय्यर्थ्यासंभवेन सर्वज्ञप्रयोगरूपस्य वेदस्य सर्वथा वैव्यर्थ्यासम्भवात् पणिनीयोक्तपादपूरण इत्यस्य अतिशयितत्वरूपे पादोक्तार्थपूरणे इत्यर्थान्तरसंभवाच्चेति भावः । टीकोक्तमसत्वं तु वृत्तिकारोक्तछन्दस्येत-द्विधानमित्यत्र ज्ञेयम् । न चातिप्रकर्षस्यापि प्रकर्षविशेषतयोक्तिसम्भवात्सजातीयमुपसर्गान्तरं व्यर्थम् । अत एव 'नव्यमायुः प्रसूतिः । प्रसुः विवश्वान्' इत्यादौ अतिप्रकर्षस्याप्यागतत्वान्न द्वितीयः प्रशब्दः प्रयुज्यत इति वाच्यम् । तत्र मुख्यामुख्यन्यायाश्रयणेन प्रकर्षातिशयप्राप्तेरङ्गीकारात् । वचनाभावे च न्यायाश्रयणम् । अतिविवक्षिते प्रमेये तु वचनमेव प्रयुज्यते । अन्यत्र तु न्यायमाश्रीयते । अतः अतिविवक्षितत्वद्योतनार्थं श्रुतौ प्रत्युक्तस्य मूले प्रकर्षेणेति व्याख्यानं कृत्वापि अतितरामिति तात्पर्यार्थ उक्तः । अस्य आविवासतीत्यनेनान्वयः । अत्र त्रिष्टुभः कर्मणः अत्यन्तेच्छाविषयत्वघटनार्थं मूले तात्पर्यार्थं उक्तः । शंस्यमानत्रिष्टुप् प्रीतिं करोति सोमपानार्थमित्यर्थं इतीति । शंस्यमानगायत्र्यादिशस्त्रसमुदायमध्ये त्रिष्टुपूच्छन्दस्के शस्त्रे शंस्यमाने इन्द्रः अतिप्रीतिं करोतीत्यर्थः । त्रिष्टुपूप्रीतिमित्यत्र त्रिष्टुभिः प्रीतिरिति विग्रहेसप्तमी शौण्डैः' इति शौण्डादेराकृतिगणत्वात्समासः । मन्दद्विरायेत्यत्र गन्दत् स्वल्पसामर्थ्यापित: वीरः पानकर्ता विष्णुर्यस्य सोमस्येत्यर्थभ्रान्तिं वारयितुं मूले प्रतीकग्रहणपूर्वकं व्याख्यातं तत्र तस्य वीरस्येत्यादिना विग्रह: प्रत इति भ्रान्तिं वारयितुमाह- तस्य वीरस्येत्यर्थकथनमात्रमिति ॥ तत्र विग्रहाप्रतीते: स्वयं विग्रहमाह-मन्दन् वीरो येनेति । तथा च हर्षार्थ 'मदि मोदमदस्वप्नकान्तिगतिषु' इति धातोः शतृप्रत्यये इदित्वानुमि मददितिरूपम् । मन्दन् हृष्यमाणः वीरो येन सोमेनेति विग्रहार्थः । अनेनैवाशयेन मूले मन्दन्नित्यनूद्य प्रीतिं करोतीति व्याख्यातमित्यवधेयम् ।

श्रुतौवो मेधसातयेइत्युक्तस्य व्यावर्त्यं वदन्नाशङ्कापूर्वकं तदनूद्यार्थमाह-न त्वात्मप्रयोजनायेति ।। इन्द्रः त्रिष्टुपूशंसनेन सोमपानार्थं यत्प्रीतिं करोति तदात्मसुखाय न किन्तु भवद्यज्ञसाफल्यार्थमिति मूलार्थः । मेधसातये इत्यत्र मेधशब्दो यज्ञार्थः ।मेधौ क्रतौ क्रियायां च' इति विश्वोक्तेः ।षणु लाभेइति धातोः भावे क्तिनि निष्पन्नसातिशब्दो लाभार्थः इति भावेन यज्ञसिद्ध्यर्थमित्युक्तम् । मूले प्रप्रव इति ऋचं व्याख्यानान्तरं कर्तुं व इति गुरत्वादित्यादिप्रवृत्तं तत्र परमेश्वरस्य संबोध्यस्यैकत्वात्तस्य व इति षष्टीबहुवचनान्तयुष्मच्छब्देन परामर्शं घटयितुमुक्तम्-गुरुत्वादीश्वरं प्रत्येव वेति ।। तदुपपादयति-युष्मदिति । अस्मिन् वार्तिके जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्यांइत्यस्मात्सूत्रादेकस्मिन् बहुवचनमित्यनुवृत्तेः गुरुवाचक-युष्मच्छब्दे एकार्थकेऽपि बहुवचनं स्यात् इत्युक्तेर्व इति बहुवचनं सम्भवतीति भावः । द्वितीयव्याख्याने ऋक्पदानि योजयति श्रीमदाचार्य:-तदेति ॥ भवान्प्राविवासतीत्यनेन प्रथमपुरुषप्रयोगस्य कर्त्ता उक्तः । अन्यथा व इति युष्मच्छब्दप्रयोगबलात् त्वमित्यध्याहारे व्यत्ययेन वाससीति कर्तव्यं स्यात् । प्रप्रेत्यस्य एतत्क्रियां प्रत्येवोपसर्गत्वं सूचितम् । तथा च अयं प्रप्रेति ऋगर्थसंग्रहः हे ऋत्विजः हे यजमाना वा । इन्द्रः परमेश्वरः वः युष्माकं मेधसातये यज्ञसाफल्यार्थं पुरंध्या अशेषप्राणिदेहरक्षकया धिया स्वबुध्या मन्दन् वीराय मदन् प्रीतिं कुर्वन् विष्णुर्येन तस्मै इंदवे सोमं पातुं वो युष्मदीपां युष्माभिः शंस्यमानामिति यावत् । त्रिष्टुभमिपं गायत्र्यादिशखापेक्षया अतिप्रीतिकरत्वेन अन्नतुल्यत्रिष्टुपूच्छन्दस्कं शखं प्रप्राविवासति अतिप्रकर्षेण वातुमिच्छति गन्तुमिच्छतीति । इन्द्रः भवद्भिः शंस्यमानां त्रिष्टुभं श्रुत्वा भवद्यज्ञसाफल्यं कार्यमिति बुध्या सोमपानमिच्छति न स्वसुखार्थम् । पूर्णानन्दत्वाद्धरिः स्तुत्या प्रीतः सन् सोमं पिवतीति भावः । अथवा हे इन्द्र वो भवदीयां भवत्प्रीयां त्रिष्टुभमिषं वो मेधसातये भवद्देवताकयज्ञसिद्ध्यर्थं पुरंध्या धिया भवान् मन्दन् वीरायेन्दवे सोमं पातुं प्रप्राविवासति अतिप्रकर्षेण वातुमिच्छति गन्तुमिच्छतीति ।