न च मिथ्याविशेषवत् । व्याहतेः
(ब्रह्मतत्वस्य मिथ्याविशेषत्वोक्तौ व्याहृत्युद्भावनम् )
मूलम्
८- मूलम्-न च मिथ्याविशेषवत् । व्याहतेः । मिथ्याविशेष इत्युक्ते ह्यसद्विशेष इत्येव भवति । तथा चाविशेषविशिष्टपक्षोक्तदोष एव ||
टीका
टीका-स्यादेतत् । निर्विशेषमेव वस्तुतो ब्रह्मतत्वं मायाकल्पितेश्वरभावं जगत्कर्तृत्वादिमिथ्याविशेषवद्भवति । तद्विषयाण्ये वा । वचनादिति अस्मदुक्ते तु श्रुत्युनुमाने परमार्थविषये । तत्कथं युष्मदुपन्यस्तैर्वचनादिभिर्बाधिते स्यातामित्यत आह-न चेति ॥ तिष्ठतु तावदियं व्यवस्था । ब्रह्म मिथ्याविशेषवदित्येव वक्तुं न शक्यते । स्वव्याहतत्वात् । कथं स्वव्याहतत्त्वमित्यत आह- मिथ्येति ॥ असंश्चासौ विशेषश्चासद्विशेष इत्येवोक्तं भवति । मिथ्याशब्दस्यार्यान्तराभावादित्येवार्यः । हिशब्दो यस्मादित्यर्थे । मतुप् चास्तीत्यर्थे । ' तदस्यास्त्यस्मिन्निति मतुप्' इति स्मारणादिति वाक्यशेषः । असदस्तीति हि व्याहतेर्मुख्योदाहरणम् । किञ्चैवं वदता योऽस्माभिर्ब्रह्मणोऽविशेषत्वपक्षे दोषो वचनादिविरोधोऽभिहितः, स न परिहृत एवेत्याह-तथाचेति ॥ दोषस्तदवस्थ एव । न च ब्रह्मणो निर्विशेषत्वे विशेषप्रतिपादकप्रमाणविरोधः स्यादिति दोषोऽभिहिते पुनर्ब्रह्म विशेषरहितमित्युक्त्या स दोषः परिहृतो भवति प्रत्युत दृढीकृतः स्यात् । अग्नेरनुष्णत्वे प्रत्यक्षविरोध इत्युक्ते पुनरग्निरनुष्ण इत्युक्त्या न हि किमपि कृतं भवति । मतुप्प्रयोगमकृत्वाऽन्यथा प्रयोक्ष्यत इत्येतदप्यनेन परिहृतम् । व्याहतिपरिहारेऽप्यसङ्गतेरपरिहारात् । जगत्कर्तृत्वादेरसत्वेऽपसिद्धान्तस्तु स्फुट एव ॥
भावदीपः
(रा.टि.) वचनादीनीति || ' यतो वा इमानि भूतानि जायन्ते' इत्यादीनीत्यर्थः । अस्मदुक्ते इति ॥ नैर्गुण्यवादिनोक्ते 'केवलो निगुणश्च' 'एकधैवानुद्रष्टव्यम्' इत्यादिश्रुतिः । ब्रह्म निर्गुणम्, विशेषवत्वं कुतश्चिद्व्यावृत्तम् इत्यनुमानं चेत्यर्थः । इयं व्यवस्थेति ॥ त्वदीयमदीयप्रमाणयोः सत्यमिथ्याविषयकत्वमिति ह्यर्थः । इत्येवार्थ इति । एवकारार्ध इत्यर्थः । यस्मादित्यर्थ इति ॥ तस्मान्याहतिरिति पूर्वेणान्वयः । शेषोत्तया व्याहतिं व्यनक्तिमतुविति ॥ तदिति बुद्धिस्थः प्रकृतो विशेष:, अस्य ब्रह्मणो वा अस्मिन् ब्रह्मणि वाऽस्तीति मतुविति स्मरणार्थस्य वाच्यत्वादिति भावः । ततश्च कथं न्याहतिरित्यत आह-असदस्तीति । किंचेति ।। न केवलं व्याहतिरन्यच्च दूषणमुक्तमित्यर्थः । वचनादीति ॥ वचनानुभवयुक्तिविरोध इत्यर्थः । अपूर्णोक्तिनिरासायाह तदवस्थेति । अतो न पुनरुक्तिदोषः । दोषवत्तां व्यनक्ति न हीति ॥ अन्यथेति ॥ मिथ्याविशेषं ब्रह्मेति प्रयोज्यत्व इत्यर्थः । अनेनेति ।। प्रागुक्तदोषापरिहारकथनेनेत्यर्थः ॥
विवरणम्
(श्री.टि.) ईश्वरभावम् ईश्वरत्वोपेतम् । श्रुतिः 'एकधैव' इत्याद्या । मिध्याशब्दस्यासदर्थकत्वोक्तिमात्रेण व्याहतिर्नोपपादिता स्यादित्यत आह-मतुप् चेति । तथा च तदस्यास्मिन् वाऽस्तीत्यर्थे मतुपो विधानान्मिथ्याविशेषवदिति मतुपोऽत्रास्तीत्यर्थतयाऽसद्विशेषोऽस्तीत्यर्थप्राप्तौ व्याहतिः स्पष्टेति भावः । अन्यथेति ।। मतुपं परित्यज्य मिथ्याविशेष इत्येव प्रत्युज्यत इत्यर्थः । व्याहतीत्यादि ।। यतो मतुप् न प्रयुज्यत इति भावः । असङ्गतेरिति । पूर्वं ब्रह्मणो निर्विशेषत्वे शङ्कितेऽस्माभिर्विशेषप्रतिपादकवचनादिविरोधेन दूषिते, तत्परिहाराय ब्रह्म मिथ्याविशेषवदतस्तत्पराणि वचनानीत्युक्तेरेव सङ्गतत्वेन विशेषो मिथ्येत्युक्तिरसङ्गतेत्यर्थः । ब्रह्मविशेषाणां मिथ्यात्वापरपर्यायासत्त्वाङ्गीकारे स्ववचनव्याहतिपरत्वेन 'व्याहते:' इति मूलं योजयित्वा इदानीं ‘स्ववाक्यविरोधोऽपसिद्धान्तजातिरूपेण' इत्युक्तेरपसिद्धान्तस्यापि व्याहतित्वेन ‘व्याहतेः' इत्यस्यापसिद्धान्तादित्यर्थान्तरमभिसन्धायाह-जगत्कर्तृत्वादेरिति ॥ असत्वे विशेषाणां मिथ्यापदेनासत्त्वाङ्गीकार इत्यर्थः । स्फुट इति ॥ मूले ‘व्याहतेः' इत्यनेन व्याख्यातुं शक्य इत्यर्थः ।।
कर्मप्रकाशः
(स.टि) श्रुत्युक्तानां गुणानां मिथ्यात्वात् न तद्विरोध इत्यभिप्रेत्य शङ्कते स्यादेतदिति । सर्वगुणानां मिथ्यात्वे ईश्वरभावस्य असत्यत्वमवर्जनीयमित्यत आह-मायाकल्पितेति ॥ अस्मदुक्ते त्विति ॥ परमार्थसत्कर्तृत्वादिधर्मनिषेधपरेत्यर्थः । एतेन गुणनिषेधस्यापि कर्तृत्वादिवत् मिथ्यात्वात् तस्य पारगर्धिकत्वाभिधानमयुक्तमिति भावः । तिष्ठतु तावदिति ॥ एको देव इत्यादीनि मिथ्याभूतधर्मविधायकानि निर्गुण इत्यादीनि पारमार्थिकधर्मनिषेधपराणि इति व्यवस्थेत्यर्थः । मिथ्याविशेष इति मूलस्यापूर्णत्वात् शेषमाह-'मतुप् चास्तीत्यर्थ' इत्यादिना वाक्यशेष इत्यन्तेन ।। किञ्चैवं वदतेति ॥ नास्माभिः श्रुतिप्रतिपादितानां कर्तृत्वादिधर्माणां निषेधः क्रियते । येन वचनादिविरोधः स्यात् । किं नाम श्रुत्युक्ताः कर्तृत्वादयः सन्त्येव । परन्तु ते धर्मा मिथ्याभूता अङ्गीक्रियन्ते इत्येवं वदता इत्यर्थः । न परिहृत एवेति || व्याहतभाष्युक्तव्यवस्थाया असाधुत्वादिति भावः । एतेन श्रुत्यादिप्रतिपादितस्य मिथ्यात्वोक्त्या श्रुत्याद्यप्रामाण्यस्योक्तप्रायत्वात् तद्विरोधः परिहृत एवेति वचनादिविरोधो न परिहृत इत्युक्तमिति परास्तम् ।
पुनर्ब्रह्म विशेषरहितमित्युक्त्येति ॥ मिथ्यात्वे नियामकमनुक्त्वा श्रुति-प्रतिपादिता धर्मा मिथ्याभूता इति प्रतिज्ञामात्रेण स दोषः न परिहृतो भवतीत्यर्थः । प्रत्युतेति । नियामकमनुक्त्वा श्रुत्यर्थो मिथ्येति त्वदीय-प्रतिज्ञामात्रं श्रुतवतः पूर्वोक्तदोष: दृढतरः इति बुद्धिर्भवति । यदि श्रुत्यर्थमिथ्यात्वे प्रमाणं स्यात् तर्हि अयमुदाहरेत् । न चोदाहृतवान् । तस्मान्नास्येव तन्मिथ्यात्वे मानम् । अयं तु प्रतिज्ञामात्रमेव करोति इति आलोचने सति पूर्वोक्तदोषविषयदृढतरनिश्चयस्यावर्जनीयत्वात् ।
एतदेव दृष्टान्तमुखेनाह-अग्नेरनुष्णत्व इति ॥ अग्निरनुष्ण इति केनचिदुक्ते तं प्रति परेण प्रत्यक्षविरोधेऽभिहिते तं पूर्ववादिना प्रमाणमनुक्त्वा प्रत्यक्षविषयः औष्ण्यं मिथ्येति वन्ध्यप्रतिज्ञायां कृतायां यथा विरोधो न परिहृतो भवतीत्यर्थः । ननु मिथ्याविशेषवद्भाह्मेति मतुप्योगो न क्रियते येन स्वव्याहतिः स्यात् । किन्तु ब्रह्मधर्मत्वेन प्रतीयमानाः कर्तृत्वादयो मिध्येति प्रयोक्ष्यते । एवं च कृत्वा न दोषो भवति इत्याशङ्कयाह-मतुप्प्रयोगमिति । असङ्गतेरिति ॥ ब्रह्मधर्मत्वेन प्रतीयमानाः कर्तृत्वादयः मिथ्येति वन्ध्यप्रतिज्ञायाः श्रुत्यादिविरोधपरिहाराक्षमत्वेन असङ्गतेरपरिहार: दोषपरिहारक्षमस्यैव वक्तव्यत्वेन तदन्यवचनस्यासङ्गतत्वादिति भावः । अपसिद्धान्तस्तु स्फुट एवेति ॥ अनिर्वचनीयत्वाङ्गीकारादिति भावः ।
गूढवाक्यार्थपञ्चिका
(छ.टि.) मायाकल्पितेश्वरभावमिति ॥ स्वाश्रयाव्यामोहिन्यविद्यैव मापेत्युच्यते । स्वाश्रयभूतब्रह्मस्वरूपप्रतीतिप्रतिबन्धकत्वेऽविद्येत्येवोच्यते । मायाकल्पितेश्वरभावः । ईश्वरत्वं यस्य तद्ब्रह्मेत्यर्थः । परमार्थविषये इति । यथार्थब्रह्मविषयेत्पर्थः । ननु मिथ्याशब्दस्य निर्वचनीयार्थकत्वात्कथं व्याहतिरित्यत आह प्रसिद्धेति ।। मिध्याशब्दस्याभिधानादौ अनिर्वचनीयार्थत्वानुक्ते-रिति भावः । मतुब्वेति ।। ननु मिध्याविशेषवदिति साध्ये निर्दिष्ट इति शेष: मिथ्याविशेषवत्वमिति मिथ्याशब्दप्रयोगं विहाय कल्पितविशेषवत्वं ब्रह्मण इत्युक्ते कथं व्याहतिरित्यतः तत्र तथाचेति वाच्यं दोषान्तरपरत्वेन योजयति-किञ्चेति ।। ननु विशेषरहितं ब्रह्मेत्युक्ते धर्मिसाध्यपदयोर्व्याहतावपि साध्यस्थपदयोर्व्याहतिपरिहारात् कथं अविशेषपक्षोक्तं दोष एवेत्युच्यत इत्यतस्तदवस्य इति पदमध्याहृत्य योजयति-तदवस्थ एवेति । अन्यथा प्रयोक्ष्यत इति ।। मिथ्याविशेषमिति बहुव्रीहिसमासमात्रं प्रयोक्ष्यत इत्यर्थः । व्याहति-परिहारेऽप्यसं(म)गतेरपरिहारादिति ।। मिथ्याविशेषवदित्युक्ते मतुप्प्रत्ययेन प्राप्तसत्वरूपार्थस्य मिथ्याशब्दार्थभूतासत्वेन विरोधात् मतुप्त्यागे तद्विरोधाभावेऽपि मिथ्याविशेषमिति प्रयोगे मिथ्या असन् विशेषो यस्मिन्निति बहुव्रीहिप्राप्तासद्धर्माधिकरणत्वस्य सङ्गतेः ब्रह्मण्यसम्बन्धस्यापरिहारात् । न हि असतां अधिकरणत्वं सम्भवतीति भावः । ननु मिथ्याविशेषवादिति पक्षे मूले व्याहतिरेवोक्ता अपसिद्धान्तस्तु कुतो नोक्त इत्यत आह जगत्कर्तृत्वादेरिति । स्फुटत्वादनुक्तिरिति भावः । अथवा अपसिद्धान्तस्य स्ववाक्यविरोधात्मकतया व्याहतित्वात् व्याहतिशब्देनैव अपसिद्धान्तस्यापि प्रमाणलक्षणादिग्रन्थावलोकने स्फुटमवभासनादिति भावः ।