अर्चत प्रार्चत प्रियमेधासो अर्चत
(अर्चतप्रार्चतेति मन्त्रस्यार्थोपवर्णनम् )
मूलम्
३३-मूलम्-अर्चत प्रार्चत प्रियमेधासो अर्चत । अर्चन्तु पुत्रका उत पुरन्न धृष्णवर्चत ॥ १ ॥
अर्चनं यज्ञादि, प्रार्चनं ज्ञानध्यानादि । 'श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप' इति भगवद्वचनात् । प्रिययज्ञा अर्चत प्रियज्ञानाः प्रार्चत । पुत्रका अल्पका अप्यर्चत । 'न बुद्धिभेदं जनयेदज्ञानां कर्मसहिनाम् । जोपयेत् सर्वकर्माणि विद्वान्युक्तस्समाचरन् ॥' इति च । उतशब्दाज्ज्ञानिनामप्यर्चनं युक्तम् । स्वाश्रमानुसारेणेति । 'अधा ते विष्णो विदुषा चिदर्थ्यस्तोमो यज्ञ राध्यो हविष्मता' इति श्रुतेः । किं तदर्चनीयम् ? धृष्णु धृष्टं परं ब्रह्म वासुदेवाख्यम् । पुरं देहं नार्चत । ' प्रत्युद्गमप्रश्रयणाभिवादनं विधीयते साधु मिथस्सुमध्यमे । प्राज्ञै: परस्मै पुरुषाय चेतसा गुहाशयायैव । न देहमानिने ।।' इति भागवते । ' सदेहमानिहरये प्रणमेत्केवलाय वा । न देहाय न तन्मानपराय च कथञ्चन ॥' इति व्यासस्मृतौ । पुनरर्चतेति तात्पर्यार्थः ॥ १ ॥
टीका
टीका- अर्चत ॥ अर्चनमित्यादिनाऽनुपसर्गसोपसर्गप्रकृत्यर्थावुक्तौ । तत्र कुतो यज्ञादितो ज्ञानादेः प्रकर्ष इत्यत आह- श्रेयानिति ॥ प्रियमेधास इत्येतद् द्व्यर्थम् । प्रियो मेधो यज्ञो येषामिति 'आज्जसेरसुक्' । प्रिया मेधा ज्ञानं येपामिति वा । ‘नित्यमसिच् प्रजामेधयोः' । द्वयमपि तन्त्रेणोपात्तमिति भावेन यथायोग्यं योजयति-प्रियेति ॥ ननु प्रिययज्ञाः कर्मिणोऽल्पकास्तेऽनादरणीया एव न विधेया इत्याशङ्कानिरासार्थत्वात् 'अर्चन्तु पुत्रकाः' इति न पुनरुक्तमिति भावेनाह -पुत्रका इति ॥ अर्चतेत्यनेन पुरुपव्यत्ययोऽयमित्युक्तम् । ननु तेऽनादरणीया इत्युक्तमिति नेत्याह-न बुद्धीति ॥ ननु प्रियमेधासः पुत्रका अर्चत अर्चतेत्यादरार्थाभ्यासतया कुतो न व्याख्यायते । एवं व्याख्यानेऽपिशब्दश्च नाध्याहर्तव्य इत्यत आह-उतशब्दादिति ॥ समुच्चयार्थस्योतशब्दस्य विद्यमानत्वान्नैकवाक्यता । तस्यैवाप्यर्थत्वाच्च नाध्याहार इति भावः । ननु प्रिययज्ञा एव तावदल्पकाः । तेषां कैस्सह समुच्चयः? न च ज्ञानिभिः । तेषां प्रार्चनाधिकारिणामर्चनाभावात् । समानविषय एव समुच्चय इत्यत आह-ज्ञानिनामपीति ॥ युक्तं प्रमितम् । 'तस्मात्कर्म न कुर्वन्ति यतयः ' इत्यादिविरोधादित्यत उक्तम्-स्वाश्रमेति ॥ अस्वकीयकर्मविषयं तदिति भावः । इति हेतोः समुच्चयो युज्यत इति शेषः । युक्तमित्युक्तमुपपादयति-अधेति ॥ परं ब्रह्म भगवतोऽन्यदिति केचित्, अत उक्तम्- वासुदेवाख्यमिति ॥ पुरशब्देन केवलस्तदभिमानी चोच्यते । धृष्णुशब्देन निर्भयत्वसभयत्वयुक्तिरुक्ता । आगमसम्मतिं चाह-प्रत्युद्गमेति ॥ नन्वेवमप्यर्चतेत्येकं पदमवशिष्टमित्यत आह-पुनरिति ॥ १ ॥
भावदीपः
(रा.टि.) अर्चतेति प्रतीकम् । 'अर्चत प्रार्चत प्रियमेधासोऽर्चत । अर्चन्तु पुत्रका उत पुरं न धृष्णवर्चत' । अर्चतेत्यादेरर्चनमित्यादि कथं व्याख्येत्यतः प्रकृत्यर्थकथनमेतदित्याह- अर्चनमित्यादिनेति । द्व्यर्थमित्येतत्क्रमेण व्यनक्तिप्रिय इति ।। आज्जसेरिति ।। ‘अवर्णान्ताज्जसेरसुक्' इत्यसुगागम इत्यर्थः । नित्यमिति ।। यद्यपि पञ्चमान्त्यपादे पूर्वसूत्रात् नञ्दुःसुभ्य इत्यनुवर्तनाद् अमेधा दुर्मेधाः सुमेधा इत्युदाहरणाच्च नञादिभ्यस्त्रिभ्यः परस्य मेधाशब्दस्यासिज्विहितः, तथाप्यन्यत्रापि भवति । अल्पमेधा इत्यपि वृत्तावुक्तत्वात्प्रियमेधा इत्यत्रापि भवतीत्येवमुक्तम् । द्वयमपीति ।। कर्म ज्ञानं चेति द्वयमित्यर्थः । सकृदुच्चरितमनेकार्थदं तन्त्रम् । मेधाप्रातिपदिकेनार्थद्वयमपि सहैवोक्तमित्यर्थः ।
ननु प्रियमेधाः प्रिययज्ञा अर्चतेत्यनेन पुनरुक्तं पुत्रका अर्चतेति, कर्मिणामल्पकत्वादित्यतोऽभ्यधिकाशङ्कानिरासकमेतदित्यवतारयति-नन्विति ॥ न विधेया इति ।। अर्चनं कुरुतेति न विधेया इत्यर्थः । अयमिति ।। अर्चतेति प्रयोग इत्यर्थः । न वुद्धीति ।। विद्वान् ज्ञानी युक्तो भगवति मनोयुक्तो भूत्वा कर्माचरन्नज्ञान् कर्मसङ्गिनो जनान् कर्मणि जोषयेत् 'जुषी प्रीतिसेवनयो:' सेवयेत् । ते यथा कर्म कुर्वन्ति तथा कुर्यादित्यर्थः । विदुषा कर्मकरणे शिष्टाचाराच्चेति कर्म करिष्यन्तीत्यभिप्रायः । विद्वान् स्वयं कर्मानाचरन्नज्ञानं कर्महिनां बुद्धिभेदं कर्माकरणबुद्धिं च जनयेत् । स्वस्याननुष्ठाने तद् दृष्ट्वा न तेऽपि कर्म कुर्युरतः स्वानुष्ठानाननुष्ठानप्रयुक्तत्वादज्ञानकर्मकरणाकरणयोः स्वयमवश्यमनुतिष्ठन् तैरपि कारयेदिति गीतावाक्यतात्पर्यावगतेस्तेऽनादरणीया न भवन्तीत्यर्चतेति विधिर्युक्तेति भावः । अर्चन्त्वित्यस्यानुवादः-अर्चतेति ||
नन्वेकवाक्यतया योजने अर्चतेति क्रियाऽवृत्तिर्व्यर्येत्यत उक्तम्-आदराभ्यासतयेति ।। आदरार्थाभ्यासतयेत्यर्थः । एवमिति ॥ पूर्वोक्तदिशा वाक्यभेदेन व्याख्यान इत्यर्थः । प्रार्चनेति । ज्ञानध्यानाधिकारिणामर्चनस्य यज्ञाद्यनुष्ठानस्याभावादित्यर्थः । युक्तेरनुपन्यासादाह-युक्तं प्रमितमिति ॥ वक्ष्यमाणश्रुत्येति भावः । इतिशब्दस्यार्थान्वययोरप्रतीतेराह - इति हेतोस्समुच्चयो युज्यत इति ।। अधेतिमन्त्रः स्वाश्रमानुसारेणेत्यनेनोक्तार्थः । तथा हि- अधा अथ विष्णो ते स्तोमः स्तुतिर्यज्ञथ हविष्मता हविरुपलक्षितयज्ञादिसाधनवता विदुषाचिद् ज्ञानिनाऽपि अर्व्यः राध्यः साध्यश्चेति । मूले देहमित्युक्तिरुपलक्षणमिति भावेनाह-पुरशब्देनेति । वक्ष्यमाणस्मृत्यनुरोधादिति भावः । युक्तिरुक्तेति ॥ देहादेरनर्चनीयत्वे युक्तिरुक्तेत्यर्थः । प्रत्युद्गमेतीति ।। प्राज्ञैः वैष्णवेषु आगच्छत्सु यत् प्रत्युद्गमनादिकं चेतसा मिथो विधीयते तद्गुहाशयायैव परस्मै पुरुषाय हरये न देहमानिने जीवायेति चतुर्थस्कन्धे भवानीं प्रति रुद्रवचनम् । एतच्च समविषये । गुर्वाद्युत्तमविषये तु सदेहमानिने हरय इति । मन्त्रार्थस्तु-हे प्रियमेधासः प्रिययज्ञा धृष्णु धृष्टम्, 'ञिधृषा प्रागल्भ्ये ' ' त्रसिगृधि धृषिक्षिपे: क्क्रुः' निर्भयं ब्रह्म, अर्चत यज्ञादिभिस्तत्पूजां कुरुत । हे प्रियमेधासः प्रियज्ञाना यूयं धृष्णु प्रार्चत ज्ञानध्यानादिना प्रकृष्टार्चनं कुरुत । हे प्रिययज्ञा यूयं पुत्रका उत अल्पका अपि धृष्णु अर्चन्तु अर्चत । हे प्रियज्ञाना यूयमप्यर्चत । प्रार्चनं कुर्वन्तोऽपि यज्ञादिभिरर्चनं कुरुत । पुरं देहं देहाभिमानिनं जीवं वा नार्चतेति । पुनरर्चतेति आदरार्था ॥ १ ॥
कर्मप्रकाशः
(स.टि.) 'अर्चत प्रार्चत प्रियमेधासो अर्चत । अर्चन्तु पुत्रका उत पुरं न धृष्णवर्चत ।।' इत्यृचं व्याचष्टे-भप्ये अर्चनं यज्ञादीति ॥ ननु मेधशब्दस्य अकारान्तत्वेन प्रियमेधा इति भाव्यम् । प्रियमेधास इति कथमित्यत आह- आज्जसेरसुक् इति ॥ अकारान्तस्य मेधशब्दस्य रूपसिद्धिं स्मारयति-नित्यमसिजिति । एतेन अस्य वाक्यस्य न टीकान्तभवो युक्तः । अन्वयविरुद्धत्वादिति परास्तम् अस्य ग्रन्थस्य रूपसिद्धिस्मरणार्थत्वेन पूर्वेण वोत्तरेण वा अन्यथा भावस्यादोषत्वात् । एवमेवंजातीयके सर्वत्र एष्टव्यम् । यद्यपि नस्तु इत्येतेभ्यः परयोः प्रजामेधाशब्दयोः बहुव्रीहौ समासान्तासि-च्प्रत्ययस्य विधायकमेतत्सूत्रम् । प्रकृते च नञ् दुस्तुशब्देष्वेत्यस्याप्यभावात् अत्रैतदुदाहरणमयुक्तमिति प्रतिभाति । तथापि नित्यग्रहणस्यान्यत्रापि प्रत्ययाभ्यनुज्ञापकत्वादत्रैतत्सूत्रोदाहरणमुचितमित्यवधेयम् उक्तं च काशिकायां ‘नित्यग्रहणादन्यत्रापि भवतीति सूच्यते' इति । भाष्ये अध इति ।। अधा अथ हे विष्णो हविष्मता हविदादियज्ञसाधनवता ते विदुषाचित् विदुषापि ते स्तोमः स्तुतिः यज्ञश्च अर्घ्यः राध्यश्च साध्यश्चेत्यर्थः । धृष्णुशब्देनेति । विष्णोः पूज्यत्वे निर्भयत्वात् कण्ठतः उक्तम् । नीचस्य देहाभिमानिनः पूज्यत्वाभावे सभयत्वयुक्तिः अर्थादुक्तेति विवेकः ।
गूढवाक्यार्थपञ्चिका
( छ.टि.) ब्राह्मणखण्डद्वितीयऋचः प्रतीकग्रहणम्-अर्चत प्रार्चतेति ॥ तत्र ऋक्त्रयमध्ये टीकायां प्रथमऋचः प्रतीकग्रहणम्-अर्चतति ।। सोऽयं ऋक् ‘अर्चत प्रार्चत प्रियमेधासो अर्चत । अर्चन्तु पुत्रका उत पुरन्न धृष्णवर्चत' इति । अस्यां श्रुतौ अविद्यमानार्चनप्रार्चनशब्दयोः मूले कुतो व्याख्यानमित्यत आह-अर्चनमित्यादिनेति । ऋचि अर्चत प्रार्चति ॥ अनुपसर्गसोपसर्गार्चधातोरर्थावुक्तावित्यर्थः । अन्यथा सोपसर्गत्वस्य वैय्यर्थ्यप्रसङ्गात् । कुत इति ।। अर्चतेत्यनेन यज्ञादिरूपविष्णुपूजाया विवक्षितत्वातदपेक्षया ज्ञानादेः प्रशब्देन प्रकर्षस्य विवक्षितत्वात्स प्रकर्ष: कस्मात्प्रमाणसिद्ध इत्यर्थः । मूले तु द्रव्यमयात् चरुपुरोडाशादिद्रव्यप्रचुरात् श्रेयान् अतिप्रशस्तः प्रशस्यशब्दादतिशयार्थे ईयसुन्प्रत्यये प्रशस्यस्य श्रः इति श्रादेश इति ज्ञेयम् । प्रियमेधास इत्येतद् व्यर्थमिति । अस्मिन्वाक्ये पूर्वं नन्वित्यध्याहारः पश्रादित्यत इति । तथा चैवं योजना | अर्चत प्राचतेत्यनेनैवाधिकारिणः यज्ञदानस्य विहितत्वात्पुनः प्रियमेधास इति पदमिति भावेन मूले द्वेधा व्याख्यातम् । ननु अर्चत प्रार्चतेत्यत्र प्रिययज्ञा प्रियज्ञाना इति सम्बुध्यन्तपदद्वयाध्याहारो व्यर्थः । प्रियमेधास इत्यस्यैव सम्बुध्यन्तत्वेनोक्त्वाऽत्रान्वयसंभव्रादित्यत आह- प्रियमेधास इत्येतत् व्यर्थमित्येतत् श्रौतपदं द्व्यर्थं द्वौ अथो यस्य तत् न तादृशं । मेधशब्दविवक्षयैतदुक्तम् । तद्घटयति-प्रिय मेध यज्ञो येषामिति । मेधशब्दस्य निघंटी 'यज्ञ: वेन: मेध:' इति यज्ञनामसु पाठात् ।
ननु तर्हि मेधशब्दस्य अकारान्तत्वात् प्रियमेधा इति स्यात्कथं प्रियमेधास इत्यत आह-आज्जसेरसुगिति । अनेन सूत्रेण छन्दसि जसोऽसुगागम-विधानादिति शेषः । प्रियज्ञाना इति द्वितीयं व्याख्यानं घटयति-प्रिया मेधा ज्ञानं अस्येति च (येषामिति वा ) इति || ' धारणावती मेधा' इत्यमरेण धारणायुक्तबुद्धेर्मेधाशब्दवाच्यत्वोक्तेः । नन्वत्रापि सकारः क्वत्य इत्यत आह-नित्यमसिच् प्रजामेधयोरिति । अस्मिन् सूत्रे नञ्दुसुभ्य इत्यनुवृत्तावपि नित्यग्रहणादन्यस्मादपि परस्य मेधाशब्दस्य समासान्तासिच्प्रत्ययविधानात् प्रियशब्दसहितमेधशब्दादपि असिच्प्रत्यय इति भावः । अत एव पुराणे 'दृष्ट्वा पुंसोऽल्पमेधसः' इति प्रयोगः |
ननु श्रुत्युक्तैकमेधाशब्देनार्थद्वयं कथं ग्राह्यमित्यत आह-द्वयमपि तन्त्रेणेति ।। द्वयमपि अर्थद्वयमपि ' सकृदुच्चारितस्य शब्दस्यानेकोपकारकत्वं तन्त्रं' इति न्यायेनेति भावः । नन्वर्चतेत्यत्र प्रिययज्ञा इति मूले अन्वय उक्तः। प्रार्चतेत्यत्र प्रियज्ञाना इत्यनेनान्वयः । एकत्र द्वयं कुतो नोक्तमित्यत आह-यथायोग्यमिति ॥ प्रियमेधास इत्यस्य सम्बुध्यन्तत्वात् अर्चतेति लोट्मध्यमपुरुषबहुवचनान्तस्य कर्तृसापेक्षत्वात् यूयमित्यध्याहारेऽपि प्रिययज्ञानां विष्णु सामान्यपूजकत्वात् प्रकृष्टपूजकत्वाभावात् अर्चतेत्यनेनान्वयायोग्यत्वात् मूले तथोक्तिः । ज्ञानिनां परमेश्वरस्य विशेषेण पूजकत्वात् प्रार्चतेत्यनेनान्वयोक्तिरिति भावः ।
| नन्वर्चतेत्युक्तमेव पुनः अर्चन्तु पुत्रका इति किमर्थमुच्यते इत्यतस्तनिवर्त्तनीयशङ्कां दर्शयन्मूलमवतारयति-ननु प्रिययज्ञा इति ।। अर्चतेत्यत्र प्रिययज्ञानां विष्णुपूजाविधिविषयत्वोक्तौ शङ्का प्राप्ता । प्रिययज्ञानां कर्मित्वेन ज्ञान्यपेक्षया अल्पाधिकारित्वेन विष्णुपूजाविधिविषयत्वासंभवादनादरणीयान्प्रति अर्चतेति विधानं व्यर्थमिति । एतदाशङ्कानिवारणाय पुनरुक्तं युक्तमिति शेषः|
ननु पुत्रका इति पदस्य मूले वयसानीचापत्यवाचकत्वेन ' कप्रत्ययस्य अल्पे' इत्यल्पार्थे विधानाच्च अल्पका इति सम्यख्याख्यानेऽपि श्रौतस्यार्चत्विति प्रथमपुरुषप्रयोगस्य अर्चतेति कथं मध्यमपुरुषेण प्रतिपदमित्यत आह- अर्चतेत्यनेनेति ।। अनेन एवं मध्यमपुरुषप्रयोगेण अर्चत्विति श्रौतप्रयोगः । ‘व्यत्ययो बहुलं’ इति सूत्रेण मध्यमपुरुषस्थले प्रथमपुरुषादेश इत्युक्तं भवति इति सूचितं भवति । अस्यापि अर्चत प्रार्चतेत्यादिसमभिव्याहरात्तथैव वक्तव्यत्वात् ।
न बुद्धिभेदं इति प्रमाणोदाहरणस्य प्रकृतोपयोगार्थं संगतिमाह-नन्विति ॥ नेत्याहेति ।। इतिशङ्कायामिति शेषः । नेत्याह अल्पका अपि नादरणीया इति न इति गीतायां कृष्णः आहेत्याहेत्यर्थः ।
अस्यार्थः । कर्मसंगिनां यज्ञादिकर्मकरणासक्तानां अज्ञानिनां बुद्धिभेदं बुद्धी वैपरीत्यं यज्ञादिकर्म न करिष्यामीति बुद्धिं विद्वान् ज्ञानी न जनयेत् । न बोधयेत् । प्रत्युत विद्वान् स्वयं सर्वकर्माणि समाचरन् सम्यक् कुर्वन् युक्तः परमेश्वरे कर्तुत्वकारयितृत्वादिमनसा अनुसन्धानयुक्त: । जोषयेत् अज्ञानां कर्मकरणप्रीतिं जनयेदिति ।
श्रुती विद्यमानस्य उत पुरन्नेत्यत्रत्यस्य उतशब्दस्य सार्थक्याय तनिवर्तनीयां शङ्कां दर्शयति-ननु हे प्रियमेधास इति || आदरार्थाभ्यासतया आदरार्थः तात्पर्यार्थः । योऽभ्यासः पुनः अर्चन्त्विति वचनं तत्परत्वेनेत्यर्थः । कर्मिज्ञानपरत्वव्याख्याने बाधकमाह - एवं व्याख्याने इति ॥ समुच्चयार्थस्येति || उक्तार्थे प्रमाणकथनेनेति शेषः । ' अधा ते' इत्यस्यायमर्थः । हे विष्णो ते तव यज्ञः हविष्मता यजमानेन अर्ध्यः कार्यः । अधा अथ 'तृतीयोऽतिशये' इति सूत्रात् थकारस्य धकारादेशः । ते विदुषा चित् ज्ञानिनाऽपि ते स्तोमः स्तुतिगुणव्यवहारः राध्यश्च साध्यः कार्यः । चशब्दाद्यज्ञश्वेति । तथा चास्यां श्रुतौ ज्ञानिनोऽपि यज्ञकरणोक्तेः तस्मात्कर्म न कुवन्तीत्यत्र यतय इत्युक्तेश्च । यत्यतिरिक्तग्रहस्थादिज्ञानिनां यज्ञादिकरण- प्राप्तेर्यतिब्रह्मचारिणोश्च शौचादिकर्मविधानाच्च स्वाश्रमानुसारेण कर्म कर्तव्य- मित्युक्तमिति भावः ।
नन्वर्चतेति श्रुतौ कर्माप्रतीतेः मूले तदाशङ्कय परिहृतम्-धृष्ण्विति ॥ तस्यार्थाप्रतीत्या व्याख्यातम्-परं ब्रह्मेति ॥ तस्य विष्ण्वतिरिक्तस्याभावाद्वासुदेवाख्यमिति व्यर्थमित्यत आह-परं ब्रह्मेति ॥ वासुदेवशब्देन 'दिवक्रीडाविजिगीषाव्यवहारद्युतिमोदमदस्वप्नकान्तिगतिषु' इति धातोः क्रीडादिविशिष्टत्वोक्तेः ब्रह्मशब्दस्य 'बृहन्तो ह्यस्मिन्गुणा' इति श्रुत्या गुणपूर्णत्वोक्तेश्चेति भावः । ननु ‘पुरं पुरि शरीरे च' इति विश्वकोशे अनेकार्थत्वोक्तेः पुरं नार्चतेत्यत्र पुरशब्देन किं विवक्षितमित्यतः मूले व्याख्यातम्-पुरं देहमिति ।। तच्च उदाहरिष्यमाणप्रमाणसङ्गतम् । तत्र देहस्यानिषेधादित्यतः उपलक्षणत्वेन मूलं योजयति-पुरशब्देनेति ॥ न देहायेति ॥ उत्तरत्रोभयोर्नमननिषेधादिति भावः । तथाच देहाभिमानिने इति भागवतपदं च देहोपलक्षणमित्युक्तं भवति ।
धृष्णुशब्देनेति ॥ ञिधृषा प्रागल्भ्य' इति धातो: 'सिगृधि धृषिक्षिपे: क्रुः' इति ताच्छील्यादौ प्रत्यये निष्पन्नधृष्णुशब्देन ब्रह्मणः धाष्टर्चक्तेः अर्चनादौ निर्भयत्वयुक्तिरुक्ता । पुरस्य अपूजने सभयत्वयुक्तिः सूचिता धृष्विति विशेषणाभावात् । आगमसम्मतिं चेति ॥ विष्णुपूजने शरीरतत्स्थजीवमात्रापूजने चेति शेषः । प्रत्युद्गमेत्यस्य योजना तु प्राज्ञ: ज्ञानिभिः मिथः परस्परं यत् प्रत्युद्गमप्रश्रयणाभिवादनं प्रत्युद्गमः सन्मुखगमनं, प्रश्रयणं नम्रीभावः, अभिवादनं नमस्कारादिः, साधु विधीयते सम्यक्क्रियते । तत्प्रत्युद्गमनादिकं गुहाशयाय तद्धृदयान्तर्गताय परस्मै पुरुषाय विष्णवे एव चेतसा अन्तःकरणेन क्रियते । न तु देहमानिने जीवमात्राय देहमात्राय चेति इदं चतुर्थस्कन्धे दक्षयज्ञप्रसङ्गे पार्वतीं प्रति हे सुमध्यमे इति रुद्रस्य सम्बोधनम् ।
ननु देहाभिमानिनां ब्रह्मादिविष्णुभक्तानां प्रत्युद्गमादियोग्यत्वान्न देहमानिने इति कथमुक्तमित्याशङ्कानिवारणार्थे मूले उदाहृतं-'सदेहमानिहरये' इति । अस्यायमर्थः । देहमानिनो ब्रह्मादयः तैः सहिताय हरये प्रणमेत् । केवलाय वा हरये प्रणमेत् सकलगुणपरिपूर्णत्वादिना केवलविष्णोर्नमस्कारः । हरिभक्तरमाब्रह्मादीनां नमस्कारादिकं तत्तदधिष्ठानत्वेन तत्परिवारत्वेन तद्गतहरये च कार्यमिति भावः । तर्हि न देहमानिने इत्यस्य कोऽभिप्राय इत्यत आह-न देहायेति ।। केवलभक्तदेहाय तन्मानपराय देहमानातिशयोपेताय जीवाय च न प्रणमेदिति । भूमनिन्दप्रशंसासु नित्ययोगातिशायिने इत्युक्तेः न देहमानिने इत्यत्र इनिप्रत्ययस्यातिशयार्थत्वात् कथंचनेत्युक्तत्या चशब्देन समुच्चितस्य समस्वनीचानां अवैष्णवानां च यत्प्रत्युद्गमनादिकं तत् न तज्जीवानां किन्तु तत्तद्गतहरय एवेत्युक्तं भवति । अर्चतेत्येकमिति ॥
पूर्वार्धर्चति पदमित्यर्थः । मन्त्रार्थस्तु हे प्रियमेधास: प्रियकर्मयज्ञाः यूयं धृष्णु धृष्टं निर्भयं परंब्रह्म वासुदेवाख्यं अर्चत तत्प्रीतये यज्ञादिकर्म कुरुत | हे प्रियमेधाराः प्रियज्ञानाः यूयं धृष्णु प्रार्चत ध्यानादिकं कुरुत । पुनः अर्चति आवश्यकत्वार्थे पुत्रका उत अल्पका अपि कर्मिणः यूयं अर्चतु अर्चत कर्म कुरु । तथा हे प्रियमेधास: कर्मिणो ज्ञानिनश्च यूयं पुरं देहं, हरिसाहित्यरहितं जीवं नार्चतेति ॥ छ ॥