महानाम्नीनामृचामुपसर्गा ये उपसर्जनभूतास्तनुपसृजति संयोजयति

(ग्रन्थारम्भस्य सङ्गतिकथनम्)

मूलम्

२-मूलम्-महानाम्नीनामृचामुपसर्गा ये उपसर्जनभूतास्तनुपसृजति संयोजयति । महन्नाम यास्वृक्षु विद्यते ता महानाम्न्य: । परस्य ब्रह्मणो यन्नामेन्द्रादिकं तन्महार्थत्वान्महत् । महद्धि तत्परं ब्रह्म । अशेगुणपूर्तेः ॥

टीका

ननु ब्राह्मणमध्यगतस्यास्यैव खण्डस्य व्याख्याने को हेतुः? अत्राहु :- कर्मकाण्डकौशलपरीक्षार्थं दुर्विद्वद्भिरेतत् खण्डव्याख्यानमनुयुक्तो मुनिस्तदकार्पीर्त् । ततः शिष्याभ्यर्थनया ग्रन्थे निवबन्ध इति । इयमस्य खण्डस्य सङ्गतिः- अग्निष्टोमाद्यासु सप्तसु संस्थासु षोडशी नाम संस्था । तत्र षोडश्यभिधानं शस्त्रम् । तस्य चतुर्थेऽह्नि शंसनीयत्वे युक्तिम् लक्षणं चाभिधातुं 'देवा वै प्रथमेनाह्ना' इत्याद्यं खण्डं प्रवृत्तम् । ततः षोडशिनः शस्त्रस्य विहृताविहृतभेदेन द्वैविध्यम्, 'गौरवीतं षोडशि साम कुर्वीत' इति द्वितीयेन प्रतिपादितम् । विहृतपक्षे च यासामृचां याभिर्विहरणं कार्यं तत्प्रदर्शनाय 'अथातः छन्दांस्येव व्यतिपजति' इत्यादिको ग्रन्थः प्रवृत्तः । तत्रान्तरे पठ्यते-'त्रिकद्रुकेषु महिषो यवाशिरं प्रोष्यस्मै पुरोरमित्यतिच्छन्दसः शंसति' इति । तदनुपपन्नम्। षोडशभिरक्षरैरादत्त इति षोडशाक्षरार्धर्चवत्वस्य षोडशिलक्षणत्वोनोक्तत्वात् । एतासामृचां चाथिकाक्षरत्वात् । अथापि स्यात् । त्रिकद्रुकेष्वित्याद्ये तृचे षोडशाक्षर-चतुष्पादास्तावदृचः । तत्र पादावेवार्धर्चीकृत्यैकैका ऋग्द्वेद्वे सम्पाद्ये, 'प्रोष्वस्मै' इति द्वितीयेऽपि तृचे द्वौ द्वौ पादावर्धर्चीकृत्यैकैका ऋग्द्वेद्वे कार्ये इति । तदप्यनुपपन्नम् । आद्ये तृचे यद्यपि प्रथमा द्वित्वमापादयितुं शक्यते । षोडशाक्षरपादचतुष्टयवत्वात् । द्वितीयतृतीययोस्तु द्वादशाक्षरतृतीयपादवत्योस्तथाकरणमशक्यम् । अक्षरचतुष्टयन्यूनत्वेन 'न वा एकेनाक्षरेण छन्दांसि वियन्ति न द्वाभ्याम्' इत्येतदविषयत्वात् । द्वितीये च तृचे ऋचोऽष्टाक्षरसप्तपादाः । तत्राष्टाक्षरन्यूनतया नोक्तः प्रकारः सम्भवतीति । तदेतदाशङ्कासमाधानपूर्वकं स्त्रशेषं समापयितुं महानाम्नीनामित्यादिको ग्रन्थः । तत्र 'महानाम्नीनामुपसर्गानुपसृजति' इति प्रथमवाक्यं संक्षेपतस्तावद्व्याचष्टे-महानाम्नीनामिति ।। महानाम्नी-संज्ञकानाम् ऋग्विशेषाणामित्यर्थः । उपसर्जनभूता वर्णा इति शेषः । संयोजयति अतिच्छन्दोभिस्तेपामनुष्टुप्त्वसिध्यर्थमिति वाक्यशेषः । अस्यैव सङ्ग्रहवाक्यस्य 'इत्युपसृजति' इत्यन्तेनोत्तरग्रन्थेन विवरणं भविष्यति । तत्रर्चां महानाम्नीत्वं कथमित्यत आह-महदिति ।। 'नत्रा निर्दिष्टम-नित्यम्' इति वा वेदत्वाद्वाऽत्र 'मनः' इति ङीपः प्रतिषेधो न प्रवर्तते । कस्य नाम ? किंच तत् ? कस्माच्च महदिति ? अत आह-परस्येति ।। इन्द्रादिकम् इन्द्र इत्यादिकम् । अत्रावान्तरवाक्यभेदेन त्रयाणामपि प्रश्नानां त्रीण्युत्तराणि द्रष्टव्यानि । कथं परब्रह्मनाम्नो महार्थत्वमित्यत आह-महद्धीति ।। यस्यैतन्नाम तत् । हिर्हेतौ । तस्मान्नाम्नो महार्थत्वं युक्तमिति । परब्रह्मणो महत्वमेव कुतः ? इत्यत आह- अशेषेति ।। अशेगुणैः पूर्तेः अशेगुणानां पूर्तेरिति वा । महत्वं हि परिमाणपूर्त्या, सत्तापूर्त्या वा भवति, यथा गगनादेः । ज्ञानादिगुणपूर्त्या वा, यथा सिष्टादेः । इदन्त्वशेगुणपूर्णं कथं न महदिति ॥

भावदीपः

(रा.टि)

अनुयुक्त इति ।। पृष्ट इत्यर्थः । मूले खण्डव्याख्यानस्यैवारम्भेण सङ्गत्यनुक्तेः स्पष्टत्वस्य स्वयमाह-इयमस्येति ॥ व्याचिख्यासितस्य चतुर्थपञ्चकस्थचतुर्थखण्डस्येत्यर्थः । अग्निष्टोमाद्यास्विति ।। अग्निष्टोमात्यग्निष्टोमोक्थ्यषोडश्यतिरात्राप्तूर्यामवाजपेयाख्यासु सोमयाग-प्रभेदभूतास्वित्यर्थः । शास्त्रमिति । यज्ञाङ्गतया पठ्यमानमन्त्रविशेषः शस्त्रमुच्यते । तस्येति ।। षोडश्याख्यशस्त्रस्येत्यर्थः । अह्नीति ।। सोमरसहोमदिनत्याहरिति नाम, षोडश्याख्यसंस्थानामकयागसम्बन्धिचतुर्थेऽह्नि इत्यर्थः । युक्तिमिति ॥ शत्रुप्रहरवज्ररूपत्वयुक्तिमित्यर्थः । लक्षणं चेति ॥ शस्त्रस्येति योज्यम् । षोडशाक्षरार्धचंवत्वादिरूपमित्यर्थः । आद्यं प्राथमिकमित्यर्थः । तत इति ॥ अनन्तरमित्यर्थः । विहृतेति ।। मन्त्रान्तराणां मन्त्रान्तरे संयोजनेन तथा पाठसंयोजनेन पाठरूपपाठभेदेनेत्यर्थः । द्वितीयेनेति ।। खण्डेनेति योज्यम् । विहरणं संयोजनम् । इत्यादिको ग्रन्थ इति ।। तृतीयखण्ड इत्यर्थः । तत्रान्तरे तृतीयखण्डान्त इत्यर्थः । त्रिकद्रुकेष्विति, प्रोष्वस्मा इति तृचद्वयस्य प्रतीकग्रहणेन इत्यतिच्छन्दस इति द्वितीयाबहुवचनम् । षोडशिशखत्वेन शंसति कथयति होतृनाम ऋत्विगित्यर्थः । अर्धर्चेति ।। 'ऋक्पूरब्धूपथामानक्षे' इति समासान्तेनाकारन्तम् । (पाठः) 'पूर्वं द्वेधाकारम् । उत्तरमनुष्टुब्गायत्र्याकारम्' इत्याद्याश्वलायनसूत्रं हृदि कृत्वा समाधानमुपोद्धातपूर्वं शङ्कते-अथापि स्यादिति ।।॥ उत्तर ऋचे सप्तपादा ऋच इति वक्ष्माम इनि तावत् छन्दः । ऋचः इति बहुवचनं छत्रिण इति लाक्षणिक आद्यायाः एव ऋचः षोळशाक्षरचतुष्पादत्वेनान्ययो ऋचोस्तदभावेन तत्साहचर्यालक्षणा ध्येया । द्वितीये तृच इति ।। अनुष्टुब् गायत्र्याकारम् इत्यष्टाक्षरोपेतपादा ऋच इत्यवगमात् द्वौ द्वौ पादावित्याद्युक्तम् । द्वितीयतृतीययो ऋचोरिति योज्यम् । एकेनेति ।। न्यूनेनाधिकेन वेति योज्यम् । एवं द्वाभ्यामित्यत्राक्षराभ्यामित्यनुङ्गः । न्यूनाभ्यामधिकाभ्यां वेत्यर्थः । वियन्ति क्षयमापद्यन्ते नश्यन्तीत्यर्थः । नोक्तप्रकारेति ॥ द्वौ द्वौ पादावित्युक्तप्रकार इत्यर्थः । शस्त्रशेमिति ।। न्यूनाक्षरपूरणप्रदर्शनरूपसमाधानपूर्वकं शाखेऽर्पिता ऋचः प्रप्रवस्तृष्टुभमित्यादिनोत्क्त्वा समापयितुमित्यर्थः । इति सङ्गतिग्रन्थः

तत्रेति ॥ चतुर्थे खण्डे । निर्धारणषष्ठीभ्रमनिरासाय समानाधिकरणमेत-दित्येतद्टयति-महानाम्नीसंज्ञकानामिति ।। सर्वासां तदभावादुक्तम्-ऋग्विशेषाणामित्यर्थ इति ।। पुंलिङ्गघटनायोक्तम्-वर्णा इति शेषः इति ।। अन्यथाक्षरपदस्यैवात्र बहुधा व्यवहारात्तस्यैवात्रोक्तौ पुंलिङ्गायोग इति भावः । 'अक्षरचतुष्टयन्यूनत्वेन' इत्यादिप्रागुक्तशङ्कासमाधिसिध्यर्थमाह-अतिच्छन्दोभिरिति ।। अन्यत्र संयोजनोक्तावुक्तशङ्कायास्समाधानादिति भावः । एतेन कैः संयोजनमित्याकाङ्का च निवृत्ता भवति । संयोजनफलमाह-अनुष्टुप्त्वेति ।। संयोजनप्रकारः कथमित्याकाङ्गायामाह-अस्यैवेति ।। ननु महानाम्नीनामिति कथम् ? 'ऋनेभ्यो ङीप्' इति सूत्रप्राप्तङीप्प्रत्ययस्य 'मनः' इति चतुर्थाद्यपादीयसूत्रे मन्नन्तात्प्रातिपादिकात् ङीप् न भवतीति निषेधादित्यत आह-नत्रा निर्दिष्टमिति ॥ वेदत्वाद्वेति । 'संज्ञाछन्द-सोर्बहुलम्' इति सूत्रे संज्ञायां छन्दसि चोपधालोपिनोऽन्नन्तान्नित्यं ङीप् भवतीत्युत्क्त्वा गां पञ्चनाम्नीमित्युदाहृतत्वात् तेन सूत्रेण विशिष्य ङीपो विधानान्महानाम्नीति साध्वित्येके । 'सङ्घचान्ययादेर्डीप्' इति सूत्रात् सट्र‌यापदानुवृत्तेः सङ्ख्यापूर्वस्यैवान्नन्तस्य ङीप्, गां पञ्चनानीमित्युदाहृतत्वाच्च नैवं समाधिरत्र युक्तेत्यन्ये । इन्द्रादिकमित्यस्य शब्दपरत्वलाभायाह-इन्द्र इत्यादिकमिति ।। तेन यन्नामेत्यनेनान्वयोपपत्तिः । अत्रेति ।। महावाक्य इत्यर्थः । अवान्तरेति ।। 'परस्य ब्रह्मणः' इति कस्य नामेत्यस्य, 'इन्द्रादिकं नाम' इत्येतत् किञ्च तदित्यस्य, 'तन्महार्थत्वान्महत्' इत्येतत् कस्माच्च महदित्यस्य इत्येवंरूपेण त्रीण्युत्तराणीत्यर्थः । ब्रह्मणो महत्वे नाम्नो महार्थत्वं कुत इत्यतो नाम्म्रो महार्थत्वं घटयति यस्मैतदिति ।। अशेषपदकृत्यं वक्तुंमाह-महत्वं हीति ।।

विवरणम्

(श्री.टि.) को हेतुरिति ।। ब्राह्मणगतयत्किञ्चित्खण्डव्याख्यानेनापि कर्मनिर्णयस्य कर्तुं शक्यत्वादिति भावः । आहुः सम्प्रदायाभिज्ञा निमित्तमाद्दुः इत्यर्थः । व्याख्यानमनुयुक्तो व्याख्यानं प्रति प्रेरितः । मुनिः आनन्दतीर्थः । चतुर्थपञ्चके महानाग्नीनाम् इति चतुर्थखण्डम् । तस्य स्पष्टार्थत्वाय तदाद्यखण्डमारम्भ सङ्गतिमाह इयमिति ॥ अग्निष्टोमाद्यास्विति ॥ अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडश्यतिरात्रोऽप्तूर्यामो वाजपेय इति सप्तसंस्थास्त्वित्यर्थः । संस्था नाम सोमक्रतुविशेषः । युक्तिमिति ।। 'देवा वै प्रथमेनाह्नेन्द्राय वज्रं समभरंस्तं द्वितीयेनाह्नाऽसिञ्चंस्तं तृतीयेनाह्वा प्रायच्छंस्तं चतुर्थेऽहन् प्राहरत्तस्मात् चतुर्थेऽहन्षोळशिनं शंसति' इति प्रथमेऽह्नि संभृतस्य द्वितीयेऽह्नि तीक्ष्णीकृतस्य तृतीयेऽह्नि देवैरिन्दस्य दत्तस्य वज्रस्य चतुर्भेऽह्वीन्द्रेण वृत्रशिरसि पातितत्वात्पोळश्यपि चतुर्थेऽह्नि शंसनीया । ननु वज्रस्यैवंभावेऽपि षोळशिनः कस्माचतुर्थेऽह्नि शंसनीयत्वमसङ्गतेरिति चेन्न । षोळशिनः शखस्य द्विषद्रातृव्यवधसाधनत्वसाधर्म्मण वज्रत्वोक्तेर्व्रज्रवत् चतुर्थेऽह्येवास्य द्विद्भातृव्यमुद्दिश्य शंस्यत्वमित्याशयेन खण्डशेषे 'वज्रो वा एष यत् षोळशी तद्यचतुर्थेहन् षोळशिनं शंसति वज्रमेव तत्प्रहरति द्विपते भ्रातृव्याय वधम्' इति युक्तिरुक्तेत्यर्थः । लक्षणमिति ।। तदाहुः किं षोळशिनः षोळशित्वमिति षोळशभिरक्षरैरादत्त इति षोळशिनः संमृष्टासंसृष्टभेदेन द्वैविध्यमित्यर्थः । स्वात्स्थानाद्विभज्यान्यत्र नयनं विहरणं तद्युक्तं विहृतं संसृष्टं संयोजितमिति यावत् । यथास्थितमविहृतमसंसृष्टमिति यावत् । विहरणं संयोजनम् । 'अथातः छन्दस्ये व्यतिषजति' इति प्रतिज्ञाय 'गायत्रीश्चङ्क्तिश्च व्यतिषजति' इत्यादिवदतिछन्दसो व्यतिषजतीति नोक्तम्। किं नाम शंसतीति । अतोऽत्रातिच्छन्दसां व्यतिषङ्गानिरूपणादित्यादिखण्डमित्यनुक्तत्वा इत्यादिको ग्रन्थ इत्युक्तम् । अतिच्छन्दस इति ।। अतिजगत्यतिशक्करीशाक्कर इत्येतानि छन्दांस्यतिच्छन्दरशब्देनोच्यन्ते । तत्र 'त्रिकद्रुकेषु' इत्याद्या ऋगतिजगती । उत्तरे द्वे अतिशक्वर्यौ । प्रोष्विति तृचशशाक्कर इति विवेकः । तृच इति ॥ तिस्रो ऋचो यस्मिन् मन्त्रेऽसौ तृचः । तिस्र ऋच इत्यत्र समासप्रत्यययो समासान्तर्गताया विभक्तेः प्रत्यये परे लोपः स्यादिति विभक्तिलोपे त्रि ऋचेति स्थिते 'ऋचि चेरुत्तरपदादि-लोपश्च' ऋच्यभिधेये त्रेः त्रिशब्दाद्यदुत्तरं पदं तदादेर्लोपश्चशब्दात्पूर्वपदस्य सम्प्रसारणम् । तथाचोत्तरपदस्य ऋक्शब्दस्याऽद्यभूतस्य ऋवर्णस्य लोपे त्रिच इति जाते, 'इग्यणस्सप्रसारणम्' यणः स्थाने भूतो भावी इक् सम्प्रसारणसंज्ञः स्यादिति रेफस्य ऋवर्णात् इकाररूपेऽचि परतः पूर्वरूपं जातम् । इकारः पूर्वस्य ऋवर्णस्यैव रूपं स्वरूपं जातम् । ऋवर्ण एव जात इति यावत् । तथा च तृचेत्यकारान्तं प्रातिपदिकं निष्पद्यत इति ध्येयम् । तदनुपपन्नमिति ।। त्रिकद्रुकेष्वित्यादेरतिच्छन्दसः षोळशित्वेन शंसनमभिप्रेतं तदनुपपन्नमित्यर्थः षोडशाक्षरचतुष्पादास्तावदृच इति ।। आद्याया ऋचः षोडशाक्षरचतुष्पादवत्वेनोत्तरे अपि तथा भविष्यत इत्यविचारमूलकभ्रान्त्येयमुक्तिः । अत एव भ्रान्तिखण्डनेन द्वितीय-तृतीययोस्त्वित्युत्तरं वक्ष्यतीति द्रष्टव्यम् । द्वितीयेऽपि तृच इत्यत्रापि एकैका ऋक् द्वे द्वे कार्ये इति भ्रान्त्या शङ्का । अत एव तत्राष्टाक्षरन्यूनतयेति भान्तिखण्डनेनोत्तरमिति ज्ञेयम् । प्रथमाद्वित्वमिति । प्रथमा ऋग् ऋग्द्वयं कर्तुं शक्यमित्यर्थः । द्वितीयतृतीययोरिति ।। प्रथमे तृचे द्वितीयतृतीययो ऋचोरित्यर्थः । ननु 'नवा एकेन' इति वचनादक्षरन्यूनता न दोषायेत्यत आह-अक्षरचतुष्टयेति ॥ विन्ति नश्यन्तीति यावत् । एकेनाक्षरेण न्यूनेनाधिकेन वा द्वाभ्यामक्षराभ्यां न्यूनाभ्यामधिकाभ्यां वेत्यर्थः । ऋचः प्रोष्वस्मा इत्याद्या ऋचः । शस्त्रशेमिति ।। 'प्रप्रव' इत्यादिना शस्त्रशेषोक्तेरित्यर्थः । 'अयं वै लोकः' इत्यादेः शङ्कासमाधानरूपत्वाभावेन प्रयोजनार्थत्वसूचनार्थं प्रतिग्रन्थव्याख्यान-सूचनार्थं च इत्यादिको ग्रन्थ इत्युक्तमिति द्रष्टव्यम् । विशेष्यानुरुक्तेराह-वर्णा इति ।। ननु संयोजनेन कथम् उक्तशङ्कासमाधानमित्यत आह-तेषामनुष्टुस्वेति ।। तेषाम् अतिच्छन्दोबद्धवाक्यानाम् । संक्षेपतस्तावदित्युक्तम् । विस्तरतः कुत्र व्याख्यातमित्यत आह-अस्यैवेति ।। ननु महार्थत्वेन नाम्नो महत्वङ्गीकृत्य महन्नामेति समानाधिकरणबहुव्रीहिः कस्मानाश्रित इति चेदुच्यते । व्यधिकरणबहुव्रीह्याश्रयणे महन्नामपदयोः समानाधिकरणत्वाभावेन 'आन्महतः समानाधिकरणजातीययोः' महतः आकारोऽन्तादेशः स्यात् समानाधिकरणे जातीये च परत इति सूत्रेण महत आकारान्ता देशाभावप्राप्त्या महानाम्नीनामित्येव स्यान्न महानाम्नीनामिति । अतो महन्नामेति समानाधिकरणबहुव्रीह्याश्रयणमत्रेति द्रष्टव्यम् । ननु महानाम्नीत्यत्र ङीप् कथम् । न च वाच्यम् 'न्नेभ्यो ङीप्' ऋदन्तेभ्यो नान्तेभ्यश्च स्त्रियां ङीप् स्यात् कर्जी दण्डिनीत्युक्तत्वादस्य च नान्तत्वात् ङीप् इति । 'मनः' मन्नन्तात् स्त्रियां ङीप् न स्यात् सीमेतिमन्नन्तात् शब्दात् ङीपः प्रतिषिद्धत्वेन महानामन्-शब्दस्यापि मन्नन्तत्वेन ङीपोऽसम्भवादित्यत आह-नत्रा निर्दिष्टमिति ॥ नन्वत्र सूत्रे नत्रोऽश्रवणात् कथमेतत् ? मैवम् । 'मनः' इति सूत्रे 'न षट्स्वस्त्रादिभ्यः' इति पूर्वसूत्रात् नत्रोऽनुवृत्यङ्गीकारादनुवृत्तस्यापि सूत्रावयवत्वेन निर्दिष्टतुल्यत्वादिति भावः । वेदत्वाद्वेति ।। 'छन्दसि सर्वे विधयो विकल्प्यन्ते' इति वचनादिति भावः । इन्द्रादेरर्थस्य नामत्वाभावादिति शब्दाध्याहारेण व्याचष्टे इन्द्र इत्यादिकमिति ।। इतिशब्दस्य पदार्थविपर्यासार्थत्वेनार्थप्रकरणे पठितस्येतिशब्दस्य गौरित्ययमाहेतिवच्छब्द-पदार्थकत्व-व्यवस्थापनपरत्वादिति भावः । अत्रेति ।। परस्य ब्रह्मणः इत्यनेन कस्य नामेति प्रश्नस्य, न्नामेन्द्रादिकमित्यनेन किं च तदिति प्रश्नस्य, महार्थत्वादित्यनेन कस्माच्च महदिति प्रश्नस्य उत्तरमिति द्रष्टव्यम् । हि यस्मात्तत्परं ब्रह्म महदित्यस्य साकाङ्त्वादाह तस्मादिति ।। कथमनेन परब्रह्मणो महत्व-मुपपादितमित्यत आह-महत्वं हीति ।। परिमाणपूर्त्येति ।। अपरिच्छिन्नत्वरूपदेशतोव्याप्तत्वेनेत्यर्थः । सत्तापूर्त्येति ।। सार्वकालिक सत्तावत्वरूप-कालतोनित्यत्वेनेत्यर्थः । वसिष्टादेरिति ।। 'महर्षयः सप्त पूर्वे' इति वसिष्ठा-देर्ज्ञानादिगुणपूर्णत्वेन महत्वस्योक्तेरित्यर्थः । इदं त्विति ।। ब्रह्म त्वित्यर्थः ।

कर्मप्रकाशः

(स.टि) अत्राहुरिति ।। सम्प्रदायविद इति शेषः । ग्रन्थो निद्ध इति ।। निर्मित इत्यर्थः । सप्तसु संस्थास्त्विति ।। अग्निष्टोमः अत्यग्निष्टोमः उक्थ: षोळशी अतिरात्रः अप्तूर्यामो वाजपेय इति सोमस्य सप्तसु क्रतुषु मध्ये षोळशीनामको यागविशेषोऽस्ति । तत्र शंसनीयस्य स्त्रस्यापि षोळशीति नामेति बोध्यम् । आद्यखण्डमिति ।। ॐ देवा वै प्रथमेनाहेन्द्राय वज्र समभरंस्तं द्वितीयेनान्हा सिञ्जंस्तं तृतीयेनान्हा प्रायच्छन्स्तं चतुर्थेऽहन् प्राहरत्तस्माच्चतुर्थेऽहन् षोळशिनं शंसति । वज्रो वा एष यत्षोळशी तद्यच्चतुर्थेऽहन् षोळशिनं शंसति वज्रमेव तत्प्रहरति द्विषते भ्रातृव्याय वधं योऽस्यः स्तृत्यस्तस्मै स्तर्तवै वज्रो वै षोळशी पशव उक्थानि तं परस्तादुक्थानां पर्यस्य शंसति तं यत्परस्तादुक्थानां पर्यस्य शंसति वज्रेणैव तत्षोळशिना पशून् परिगच्छति । तस्मात्पशवो वज्रेणैव षोळशिना परिगता मनुष्यानभ्युपावर्तन्ते । तस्मादश्वो वा पुरुषो वा गौर्वा हस्ती वा परिगत एव स्वयमात्मनेऽत एव वाचाऽभिषिद्ध उपावर्तते वज्रमेव षोळशिनं पश्यन्वज्रेणैव षोळशिना परिगतो वाग्धि वज्रो वाक् षोळशी । तदाहुः किं षोळशभिः प्रणौति षोळशपदान्निविदं दधाति तत्षोळशिनः षोळशित्वम् । द्वे वा अक्षरे अतिरिच्येते षोळशिनोऽनुष्टुभमभिसम्पन्नस्य वाचो वा व तौ स्तनौ सत्यानृते वा व ते अवत्येनं सत्यं नैमनृतं हिनस्ति य एवं वेद । अस्यार्थः । देवासुर युद्धे प्राप्ते असुरान्हन्तुम् इन्द्राय इन्द्रस्यार्थे वज्राख्यमायुधं प्रथमेऽन्हि देवाः समभरन् सम्पादितवन्तः । तं वज्रं द्वितीयेनाऽन्हा द्वितीयेऽहनि मन्त्र-पूतेनाऽम्भसाऽसिञ्चन् प्रोक्षितवन्तः । तृतीयेनान्हा तृतीयेऽहनि इन्द्राय वज्र प्रायछन् । तं वज्रं चतुर्थेऽहन् चतुर्थेऽहनि दैत्येषु प्राहरत् क्षिप्तवान् । तस्मात्कारणाच्चतुर्थेऽहनि प्राज्ञ ऋत्विक् षोळशिनं शंसति । चतुर्थेऽहनि षोळस्यभिधानं शस्त्रं दांसनीयमिति यावत् । तस्मादित्युक्तं हेतुं विवृणोति-वज्रो वेति ।। यत् यः षोळशी स एष वज्रः वज्रषोळश्योरेकदेवताकत्वमिति यावत् । ततश्च किमित्यत आह-तद्यदिति ।। चतुर्थेऽहन् चतुर्थेऽहनि यत् यदि षोळशिनं शंसति तर्हि द्विषते भ्रातृव्याय शत्रोर्वधमुद्दिश्यैव वज्र प्रहरतीव वज्रप्रहरणेनैव चतुर्थेऽहनि षोळशिशंसनमात्रेण शत्रुवधो भवतीति भावः । शंसनस्य फलान्तरमाह-योऽस्य इति ।। यो द्वेषी अस्य दूरे निरसनीयः स्तृत्यः छेद्यः तस्य स्तर्तवै छेत्तुं वज्रमेव प्रहरतीत्यन्वयः । वज्रप्रहरणेनैव षोळशिशंसनमात्रेण शत्रुः छिन्नगात्रो भवति इति भावः । उक्थशंसनानन्तरं षोळशिशंसने निमित्तमाह-वज्र इति ।। वज्रो वै षोळशीत्युक्तार्थम् । पशव उक्थानि उक्थेनैकदेवताकाः पशव इत्यर्थः । तं षोळशिनम् । उक्थानां परस्तात्पर्यस्य स्थापयित्वा शंसति उक्थानन्तरं षोळशी शंस्तव्य इति भावः । अनूद्य फलमाह-तं यदिति ।। उक्थानां परस्तात् षोळशिनं पर्यस्य स्थापयित्वा शंसतीति यत् तत् षोळशिना वज्रेण पशून् परिगच्छतीव । दैत्यापहृतगोप्राप्त्यर्थं वज्रं गृहीत्वा इन्द्रस्य गमनमिव षोळशिशंसनं पशुप्राप्तिफलकमिति भावः । तदेवानुभवारूढं करोति तस्मादिति ॥ यस्माद्वज्रस्य भीकत्वं, तस्मात् षोळशिना वज्रेण षोळशिसमानदेवताकेन वज्रेण प्रहरणसाधनेन यष्ट्यादिना परिगताः इतस्ततो गता अपि मनुष्यानभ्युपावर्तन्ते । गनुष्यसमीपमायान्ति । पशुशब्देनोक्तमर्थं विशदमाह-तस्मादश्व इत्यादिना ॥ परिगत एवेत्युक्तमर्थमाह- स्वयमिति ॥ स्वयमात्मना स्वेच्छया इतः गत इत्यर्थः । न केवलं यष्ट्यादेरभिहत उपावर्तते । अपि तु वाचाऽभिषिद्धः भर्सित उपावर्तते । कुत इत्यत आह-वज्रमेवेति ।। षोळशिसमानदेवताकं वज्रम् पश्यन् परिगतोऽपि षोळशिना उपावर्तते । को वज्र इत्यत आह-वाग्धीति ।। कुतो वाग्वज्र इत्यत आह-वाक् षोळशीति ।। यस्मात् षोळशिसमानदैवत्या वाक्, तस्माद्वज्र इति भावः । चतुर्थेऽहनि षोळशिनः शंसनीयत्वे युक्तिरूक्ता । षोळशिनो लक्षण-निरूपणार्थम् उत्तरो ग्रन्थः ।

त्षोळशिनः शंसनीयत्वे अभिहिते षोळशिनः किं षोळशित्वमिति शिष्या आहुः पृष्टवन्त इत्यर्थः । उत्तरमाह-षोळश इति ।। षोळशस्स्तोत्राणां षोळशः शस्त्राणां चाऽर्थशः षोळशिभिः षोडशसङ्ख्याकैरक्षरै राद‌त्ते उपादानं करोति । यागावसरे षोळशभिरक्षरैरेव प्रणौति स्तौति । षोळशभिरक्षरैरवसनं कृत्वा प्रणौतीति यावत् । षोळशपदात् षोळशसंज्ञकस्य पादैरेव निविदं दधाति । निवित्संज्ञकं स्तोत्रं करोति । तत् षोळशार्थवत्वं त्रिविधषोळशिनः षोळशिशब्दवाच्यत्वे प्रकृतिनिमित्तं षोळशस्तोत्र-शस्त्र-निविद्भेदेन त्रिविधः । त्रिविधस्यापि षोळशार्थवत्वं लक्षणमिति भावः । षोळशिक्रग्गतान्त्याक्षरयोर्माहाम्त्यमाह-द्वे वा इति ।। अनुष्टुप्त्वं प्राप्तस्य षोळशिनः द्वे अक्षरे इतराक्षरेभ्योऽतिरिच्यते उत्तमे भवतः । कुत इत्यत आह-वाचो वा वेति ।। ये अतिरिच्यते ते अक्षरे यौ च द्रौ प्रसिद्धौ वाचो भारत्या स्तनौ तदाश्रितौ । ततोऽपि किमित्यत आह-सत्यानृते इति ॥ ते अक्षरे स्तनाश्रिते सत्यानृतसमानाधिकरणे । तथा च एताभ्यामक्षराभ्यां स्तुवन्तमधिकारिणं सत्याभिमानिदेव एनमवति । असत्याभिमानिदेवो हिनस्ति । य एवं वेद तं च सत्यमवति अनृतं न हिनस्ति इति ॥ १ ॥

इति ब्राह्मणखण्डस्यार्थः

विहताविहृतभेदेन द्वैविध्यमिति ॥ यस्याम् ऋचि षोळशाक्षरार्धवत्वं नास्ति ऋगन्तरवर्णानाहत्य षोळशित्वं सम्पाद्यते सा विहृतषोळशी । यस्याम् ऋचि स्वत एव षोळशद्वयात्मकार्थद्वयमस्ति साऽविहृतषोळशीत्यर्थः । द्वितीयेन प्रतिपादितमिति ।।

द्वितीयः खण्डः

गौरवीतं षोळशिसाम कुर्वीत तेजस्कामो ब्रह्म वर्चसकामस्तेजो वै ब्रह्मवर्चसं गौरवीतं तेजस्वी ब्रह्मवर्चसी भवति य एवं विद्वान् गौरवीतं षोळशिसाम कुरुते नानदं षोळशिसाम कर्तव्यमित्याहुरिन्द्रो वै वृत्राय वज्रमुदपच्छत्तमस्मै प्राहरत्तमभ्यहनत्सोऽभिहतो व्यनदद्यन्यनदत्तन्नानदं सामाभवत्तन्नानदस्य नानदत्वमभ्रातृव्यं वा एतद्भातव्यहा साम यन्नानदम-भ्रातृव्यो भ्रातृव्यहा भवन्ति य एवं विद्वानानदं षोळशिसाम कुरुते तद्यदि नानदं कुर्युरविहृतः षोळशी शंस्तन्यो विहृतासु हितासु स्तुवत यदि गौरवीतं विहृतः षोळशी शंस्तव्यो विहृतासु हितासु स्तुवते ।इति द्वितीयः खण्डः अस्यार्थः । तेजस्कामो ब्रह्म वर्चसकामश्च षोळशिनं गौरवीतं साम कुर्वीत षोळस्यध्यारूढं गौरवीतं साम गायेदिति यावत् । कुत इत्यत आह-तेजो वा इति ।। कार्यकारणयोरभेदोपचारोऽयम् । गौरवीतं तेजःप्रदं ब्रह्मवर्चसप्रदं चेत्यर्थः । ज्ञात्वा शंसितुः फलमाह तेजस्वीति ।। य एवं गौरवीतसामर्थ्य विद्वान् षोळशिन्यध्यारूढं गौरवीतं साम करोति सः तेजस्वी ब्रह्मवर्चसी भवति । केचन ऋषयः षोळश्यध्यारूढं साम गातव्यमित्याहुः । नानदसाम्नो गातव्यत्वसिद्धचर्थं कथामाह-इन्द्रो वा इति ॥ इन्द्रः वृत्राय वृत्रं हन्तुं वज्रमुदयच्छत् वज्रं विकोशमकरोत् । तं वज्रम् अस्मै वृत्राय प्राहरत् । आदरातिशयादुक्तमेवार्थं पुनराह तमभ्यहनदिति ।। हननं सफलमित्याह-सोऽभिहत इति ।। सः वृत्रः अभिहतः मृतः अथ इन्द्रः व्यनदत् । यत् व्यनदत् तनानदं सामाभवत् । तस्मिन् नादे नानदं सामाभिव्यक्तमित्यर्थः । तन्नादे अभिव्यक्तत्वमेव नानदसाम्ग्नो नानदशब्दवाच्यत्वे निमित्तम् । साम्रो माहात्म्यमाह-अभ्रातृव्यमिति ।। स्वयमभ्रातृव्यं प्रतिपक्षशून्यं स्तोतुः भातृव्यहा च भवतीत्यर्थः । शंशितुः फलमाह अभ्रातृव्य इत्यादिना ।। य एवं नानदस्य माहात्म्यं विद्वान्षोळश्यध्यारूढं नानदं साम गायति सः अभ्रातृव्यो भवति शत्रुशून्यो भवति । यस्मात् साम्नः शंसनमात्रेण भ्रातृव्यहा भवति।यः शंसनमात्रेण भ्रातृव्यहा भवति तस्य कुतः शत्रुः न कुतोऽपीत्यर्थः । नानदसाम्नो गानपक्षे ऋनियममाह तद्यदीति ।। यदि यदा नानदसाम कुर्युः तदा अविहृतः षोळशी शंस्तव्यः कुत इत्यत आह-अविहृतास्विति ।। हि यस्मात् सम्प्रदायविदः अविहृतासु षोळशीषु नानदसाम स्तुवते स्तुवन्ति । गौरवीतसाम्नो गानपक्षे ऋग्नियममाह यदीति ।। यदि गौरवीतं साम जनाः कुर्युः तदा विहृतः षोळशी शंस्तव्यः । सम्प्रदायमाह विहृतासु ऋक्षु स्तुवत इति ।। इत्यादिको ग्रन्थ इति ।।

तृतीयः खण्डः

अथातश्छन्दांस्येव व्यतिषजत्या 'आत्वा वहन्तु हरय उपोषु शृणुही गिर' इति गायत्रीश्च पङ्क्तीश्च व्यतिषजति । गायत्रो वै पुरुषः पाताः पशवः । पुरुषमेव तत्पुरुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति यदु गायत्री च पङ्क्तिश्च ते द्वे अनुष्टुभौ तेनो वाचोरूपादनुष्टुभो रूपाद्वज्ररूपात् नैति यदिन्द्रप्रतनाज्येऽर्यते अस्तु हर्यत इत्युष्णिहश्च बृहतीश्च व्यतिषजत्यौष्णिहो वै पुरुषो बार्हताः पशवः पुरुषमेव तत्पशुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति । यदुष्णिक्व बृहती च ते द्वे अनुष्टु‌भौ तेनो वाचोरूपादनष्टुभोरूपाद्वज्ज्ररूपान्नैत्याधूष्वस्मै ब्रम्हन्वीर ब्रह्मकृतिं जुषाण इति द्विपदां च त्रिष्टुभं च व्यतिषजति । द्विपादूवै पुरुषोवीर्य त्रिष्टुप्पुरुषमेव तद्वीर्येण व्यतिषजति वीर्ये प्रतिष्ठापयति । तस्मात्पुरुषो वीर्ये प्रतिष्ठितः सर्वेषां पशूनां वीर्यवत्तमो यदुद्विपा च विंशत्यक्षरा त्रिष्टुप्च ते द्वे अनुष्टुभौ तेनो वाचोरूपादनुष्टुभो रूपाद्वज्र: रूपानैत्येष ब्रह्मा प्र ते महे विदधे शंसिषं हरी इति द्विपदाश्च जगतीश्च व्यतिषजति । द्विपाद्वै पुरुषो जागताः पशवः । पुरुषमेव तत्पशुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति । तस्मात्पुरुषः पशुषु प्रतिष्ठितोऽत्ति चैनाधिं च तिष्ठति वशे चास्य यदु द्विपदा च षोळशाक्षरा जगती च ते द्वे अनुष्टु‌भौ तेनो वाचोरूपादनुष्टुभो रूपाद्वज-रूपान्नयति त्रिकद्रुकेषु महिषो यत्राशिरं प्रोष्वस्मै पुरोरथमित्यतिच्छन्दसः शंसति च्छन्दसां वै यो रसो त्यक्षरत्सोतिच्छन्दसमभ्येत्यक्षरत्तदतिच्छन्दसोऽतिच्छन्दस्त्वं सर्वेभ्यो वा एष च्छन्दोभ्यस्सन्निर्मिमीतो यत् षोळशी तद्यदति-च्छन्दसः शंसति सर्वेभ्यः एवैनं तच्छन्दोभ्यः संनिर्मिमीते सर्वेभ्यश्छन्दोभ्यः संनिर्मिमीतेन षोळशिना राप्नोति य एवं वेद ॥ ३ ॥

अथ यज्ञप्रारभ्यानन्तरं अतः प्रयोजनसद्भावात् । स्तोत्रकाले छन्दांसि व्यतिषजति परस्परं संयोजयति । गायत्र्यादिकमनुष्टुभं करोतीति यावत् । व्यतिषङ्गं विवृणोति-आत्वा वहन्त्वित्यादिना ॥ अत्रात्वा वहन्त्विति गायत्री अष्टाक्षरपादत्रयोपेता । 'आद्यं छन्दत्रिपदा गायत्री' इति परिभाषोक्तेः। 'उपोषु श्रुणुही गिर' इति पङ्गिः अष्टाक्षरपञ्चपदा 'पङ्किः पञ्चपादे' इति परिभाषोक्तेः । पञ्च पादोपेता पङ्किः पञ्चमं छन्दः इति परिभाषार्थः । गायत्री पङ्कचोर्व्यतिषङ्गफलमाह-गायत्रो वै पुरुष इत्यादिना ।। पुरुषो गायत्रः गायत्र्यभिमान्यभिमानिकः । पशवः पाङ्काः पङ्कच्चभिमान्यभिमानिकाः। तत्तदा गायत्रीपङ्कचोर्व्यतिषङ्गानन्तरमेव स्तुत्या प्रसन्नो देवः पुरुषं पशुभि-व्यतिषजति पुरुषं पशुयुक्तं करोति इति यावत् । तदेवादरात्पुनराह-पशुषु प्रतिष्ठापयतीति ।। व्यतिषङ्गे सति गायत्री पङ्कयोः किं छन्दः इत्यत आह-यदु गायत्रीति ।। यत् या गायत्री या च पङ्गिः ते उभे अनुष्टुभौ भवतः इत्यर्थः । अनुष्टुप्त्वसम्पादनफलमाह तेनेति ।। अत्र तेन उ इति पदच्छेदः । तेनैव अनुष्टुप्त्वसम्पादनेनैव वाचोरूपात् वाङ्गनियामकात् । अनुष्टुभोरूपादनुष्टुप्तत्वनियामकात् । वज्ररूपात् वज्रनियामकात् भगवद्रूपात् दुःखं नैति न प्राप्नोति ।

व्यतिषङ्गान्तरमाह-यदिन्द्रेति ।। यदिन्द्रेत्याद्या उष्णिक् त्रिपदा तत्राद्यौ द्वौ पादावष्ठाक्षरौ । तृतीया द्वादशा द्वितीयमुष्णिक् त्रिपदा, अन्त्यो द्वादशेति परिभाषोक्तेः । उष्णिक् द्वितीयं च्छन्दः । सा त्रिपदा अन्त्यः पादो द्वादशाक्षर इति परिभाषार्थः । उष्णिम्बृहत्योर्व्यतिषङ्गफलमाह-औष्णिह इति ।। पुरुष औष्णिहः उष्णिगभिमानिनियम्यः पशवो वार्हताः । बृहत्यभिमानिनियम्याः । तत्तदा उष्णिग्वृहत्योर्व्यतिषङ्गानन्तरमेव स्तुत्या प्रसनो देवः पुरुषं पशुभिर्व्यतिषजति । पुरुषं पशुयुक्तं करोतीति यावत् । तदेवादरात्पुनराह-पशुष्विति ।। उष्णिम्बृहत्योर्व्यतिषङ्गे सति किं च्छन्द इत्यत आह-यदु उष्णिक् चेति ।। यत् या उष्णिक् या बृहती ते द्वे अनुष्टुभौ भवत इत्यर्थः ।

अनुष्टुप्त्वसम्पादनफलमाह-तेनो इति ।। तेनो तेनैव अनुष्टुप्त्वसम्पादनेनैव वाचोरूपात् वान्गनियामकात् । अनुष्टुभोरूपात् अनुष्टुप्त्वनियामकात् । वज्ररूपात् वज्रनियामकात् भगवद्रूपात् दुःखं नैति न प्राप्नोति ।

व्यतिषङ्गान्तरमाह-आधूष्वस्मा इति ।। आ धूर्वस्मा इत्याद्या द्विपदा । यत्र द्वयोः पदयोरेव ऋक्संज्ञा सा द्विपदा ब्रह्मन्वीरेत्येकादशाक्षरचतुष्पादा त्रिष्टुप् । ते उभे व्यतिषजति । व्यतिषङ्गफलमाह-द्विपाद्वै पुरुष इत्यादिना ।। पुरुषो द्विपात् द्विपदाभिमानिनियम्यः । वीर्यं त्रिष्टुप् त्रिष्टुबभिमानिनियम्यम् । तत्तदा द्विपदा त्रिष्टुभो व्यतिषङ्गानन्तरम् स्तुत्या प्रसन्नो देवः पुरुषं वीर्येण व्यतिषजति पुरुषं वीर्यवन्तं करोतीति यावत् । तदेवादरात्पुनराह वीर्य इति ।। तस्मादेवं वीर्ये प्रतिष्ठितः सर्वेषां पशूनां मध्ये वीर्यवत्तमो भवति । वीर्येण पशुभिश्च सम्पनो भवतीति यावत् ।

द्विपदा त्रिष्टप्संयोगे कथमनुष्टुभः सम्पत्तिरित्यत आह-यदु द्विपदेति ॥ यत् या विंशत्यक्षरा द्विपात् । यद्यपि विंशत्यक्षराणि नोपलभ्यन्ते, तथापि संयुक्ताक्षर विभज्य विंशत्यक्षरता द्रष्टव्या । या च एकादशाक्षरा चतुष्पात् त्रिष्टुप् ते उभे परस्परसंयोगेन अनुष्टुभौ भवतः विंशत्यक्षरा द्विपाच्चतुर्धा विभक्तव्या । त्रिष्टभ एकैकपदात्पूर्वं द्विपद एकैको भागः संयोज्यः । ततश्चैकादशाक्षराश्चत्वारः पादाः द्विपद एकैकभागेन संयोगे षोळशाक्षर-त्वाचत्वार अनुष्टुवर्धचा भवन्तीति ।

मत्र संयुक्तऋपाठक्रमः । 'आधूष्वस्मै ब्रह्मन्वीर ब्रह्मकृतिं जुषाणः । दधाताश्वानर्वाचनोहरिभिर्याहित्यम् । इन्द्रो न वज्री अस्मिन्नूषुसवने मादयस्व । हिरण्यवाहुरूपब्रह्माणिश्रुणुव इमान' इति । एवमन्त्रापि द्रष्टव्यम् । तेनैव अनुष्टुत्वसंपादनेनैव वाचोरूपाद्वानियामकानुष्टुभोरूपादनुष्टुप्त्वनियामकाद्वजरूपाद्वज्रनियामकाद्भगवद्रूपादेव दुःखं नैति न प्राप्नोति ।

व्यतिषङ्गान्तरमाह-एषब्रह्मेति ।।॥ एष ब्रह्मेति तिस्रो द्विपदा शाखान्तरस्था प्रतेमहीति या जगत्यः द्वादशाक्षरचतुष्पदा द्विपाद्वै पुरुष इत्यादिव्याख्यातम् । पुरुषः पशुषु प्रतिष्ठितः अत्ति अनुभवति एतान् पशून्प्रति अधितिष्ठति आधिपत्येन तिष्ठति । अस्य वशे पशवो भवति । द्विपाज्जगतीनां व्यतिषङ्गे षोळशिनिष्पत्तिः कथमित्यत आह-यदु द्विपदेति ।। यत् यद्विपदा द्विपदाः षोळशाक्षरायाश्वजगत्यः प्रत्येकं द्वादशाक्षर चतुष्पादाः । तत्र द्विपदाश्च विभज्य जगतीनां चतुषु पादेषु क्रमेण संयोगे कृते सति उभे प्रत्येकं अनुष्ठभौ भवत इति भावः । तेनो वाचोरूपादनुशुभोरूपाद्वज्ररूपानैति इति व्याख्यातम् ।

व्यतिषङ्गान्तरं वक्तुमाह-त्रिकेति ।। 'त्रिकद्रुकेषु मदिषो यवाशिरमित्यति छन्दस्तृचं प्रोष्वस्गा' इति अतिछन्दस्तृचं चानुष्टुभः कृत्वा शंसतीत्यर्थः । अतिजगती-शकरी-अतिशकरी अष्टिः अत्यष्टिः धृतिः-अतिधृति इति सप्त-छन्दसामातिछन्द इति संज्ञेति बोध्यम् । एतासामतिछन्दस्त्वं कुत इत्यत आह छन्दसामिति ।। अतिछन्दसां यो रसः सारः अत्यक्षरत् प्रवाहरूपेणात्यसरदिति श्रूयते । स रसः अतिछन्दसं अभ्येत्य प्राप्य अत्यक्षरत् इत आरभ्य अत्यक्षरदिति यावत् । तत् क्षरणावधित्वमेव अतिछन्दसो अतिछन्दस्त्वम् अतिछन्दश्शब्दवाच्यत्वे निर्निमित्तम् । यत् यदा अतिछन्दसः षोळशिरूपेण शंसति तदा ए षोळशी सर्वेभ्यः छन्दोभ्यो निर्मितो भवति । सर्वछन्दोरसस्य अतिछन्दसि विद्यमानत्वात् । आदरादुक्तमेवार्यमाह-सर्वेभ्य इति ।। षोळशिस्वरूपमनूद्य फलमाह-सर्वेभ्य इति ।। राध्नोति ऋद्धिं प्राप्नोति । ज्ञातुरपि इदमेव फलमित्याह-य एवं वेदेति ।। आद्ये ऋचि प्रथमऋचः षोळशाक्षरचतुष्पादत्वं दृष्ट्वा सर्वासामपि तथात्वमिति मन्यमानो भ्रान्तः शङ्कते अथापीति ॥ द्वितीये चेति ॥ तिस्रोऽपि ऋचः अष्टाक्षरसप्तपादा इति एकैका ऋक् द्वित्वमापादयितुं न शक्येत्यर्थः । इत्यादिको ग्रन्थ इति ।

चतुर्थः खण्डः

ॐ महानाम्नीनामुपसर्गानुपसृजत्ययं वै लोकः प्रथमा महाम्यन्तरिक्षलोको द्वितीयाऽसौ लोकस्तृतीया सर्वेभ्यो वा एष लोकेभ्यस्सन्निर्मितो यत्षोळशी तद्यन्महानाम्नीनामुपसर्गानुपसृजति सर्वेभ्यः एवैनं तं लोकेभ्यस्सन्निर्मिमीते सर्वेभ्यो लोकेभ्यस्सन्निर्मितेन षोळशिना राप्नोति य एवं वेद । प्रप्रवत्त्रिष्टुभमिषमर्चत प्रार्चत यो व्यतींरफाणयदिति प्रज्ञाताऽनुष्टुभः शंसति तद्यथेह चेह चापथेन चरित्वा पन्थानं पर्यवेयात्तादृक्तद्यत्प्रज्ञाताऽनुष्टुभः शंसति स यो व्यात्पोगतश्रीरिव मन्येताविहृतं षोळशिनं शंसयेनेच्छन्दसां कृच्छादवपद्या इत्यथ पः पाप्मानमपजिधांसुः स्याद्विहतं षोळशिनं शंसयेत् व्यतिषक्त इव वै पुरुषः पाप्मना व्यतिषक्तमेवास्मै तत्पाप्मानं शमलमपहन्त्यपपाप्मानं हते य एवं वेदोद्यद्रनस्य विष्टपमित्युत्तमया परिदधाति स्वर्गों वै लोको ब्रश्नस्य विष्टपं स्वर्गमेव तं लोकं यजमानं गमयत्यपाः पूर्वेषां हरिवः सुतानामिति यजति सर्वेभ्यो वा एष सवनभ्यस्सन्निर्मितो यत् षोळशी तद्यदपाः पूर्वेषां हरिवः सुतानामिति यजति पीतवद्वै प्रातः सवनं प्रातः सवनादेवैनं तत्सन्निर्मिमीतेऽथो इदं सवनं केवलं त इति माध्यान्दिनं वै सवनं केवलं माध्यन्दिनादेवैनं तत्सवनात्संनिर्मिमीते ममद्धि सोमं मधुमन्तमिन्द्रेति मद्वद्वै तृतीयसवनं तृतीयसवनादेवैनं तत्संनिर्मिमीते सत्रा वृषन् जठर आवृषस्वेति वृषण्वद्वै षोळशिनो रूपं सर्वेभ्यो वा एष सवनेभ्यस्सनिर्मितो यत् षोळशी तद्यदपाः पूर्वेषां हरिवः सुतानामिति यजति सर्वेभ्य एवैनं तत्सवनेभ्यः संनिर्मिमीते सर्वेभ्यः सवनेभ्यः संनिर्मिमीतेन षोळशिना राप्नोति य एवं वेद मुहानाम्नीनां पञ्चाक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु सर्वेभ्यो वा एष छन्दोभ्य संनिर्मितो यत् षोळशी तद्यन्महानाम्नीनां पञ्चाक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु सर्वेभ्य एवैनं तच्छन्दोभ्यः संनिर्मिमीते सर्वेभ्य छन्दोभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद । इति खण्डः ॥ ४ ॥

यद्यप्ययं खण्डो भगवत्पादेरैव व्याख्यातः । तथापि मन्दानां बुध्यारोहाय तदीयं व्याख्यानमस्माभिः अनूद्यते । महत् नाम यासु ऋक्षु ता महानाम्न्यो 'विदा मघवन्' इत्याद्याः । तासामुपसर्गान् उपसर्जनीयभूतान् वर्णान् 'प्रचेतन प्रचेतय ।। आयाहि पिवमत्स्व । क्रतु छन्दऋचं वृहत् । सुम्न आधेहि नो वसो' इत्येवं रूपान् त्रिकद्रुकेषु प्रोष्वस्मा इत्यतिछन्दसामनुष्टुप्त्वसिद्धयर्थ अतिच्छन्दोऽभिरुपसृजति संयोजयेत् । कथं संयोजयेत् । इत्थम् ।त्रिकद्रुकेषु महिषोयवाशिरं तु विशुष्मस्तृपत्सोममपिबद्विष्णुनासुतं यथावशत् । स ईं ममादमहि कर्मकर्तवे महागुरुं सैनं सचदेवो देवं सत्यमिन्दुः ॥ १ ॥ अधत्विषीमाँ अभ्योजसा क्रिविं युधा भवदारोदसी अपूणदस्य मज्मना प्रवावृधे । अथत्तान्यं जठरे प्रेमरिच्यत सैनं सश्रदेवो देवं सत्यमिन्द्रं सत्यमिन्दुः ।। २ ।। साकं जातः क्रतुना साकमोजसा ववक्षित साकं वृद्धो वीर्येस्सा सहिमृधो विचर्षणिः । दाताराधस्तुवते काम्यं वसु सैनं सश्चदेवो देवं सत्यमिन्द्रं सत्यमिन्दुः ।॥ इत्याद्यास्तृचः आद्या ऋक् षोळशाक्षरचतुष्यादा । ततो द्वित्वापादनेन षोळशीकर्तुं शक्यत इति नात्र संयोज्यम् ।अधत्विषीमामिति द्वितीया ऋक् षोळशाक्षरप्रथमद्वितीयचतुर्थपादवती । द्वादशाक्षरतृतीयपादवती । अतो महानाम्युपसर्गस्य प्रचेतनेत्यस्य संयोगः कार्यः । ततश्चैवं तृतीयपादपाठः ।

अधत्तान्यं चठरे प्रेमरिच्यत प्रचेतनेति । साकं जात इति तृतीयापि ऋक् षोळशाक्षरप्रथमद्वितीयचतुर्थपादवती । द्वादशाक्षरतृतीयपादवती । अतो महानाम्युपसर्गस्य प्रचेतयेत्यस्य संयोगः कार्यः । ततश्चैवं तृतीयपादपाठः ।

दाताराधस्तुवते काम्यं वसु प्रचेतयेति । प्रोष्वस्मै पुरोरथमिन्द्राय शूषमर्चत । अमीकेचिदुलोककृत्सङ्गे समत्सु बृहत्राऽस्माकं बोधिचोदिता नभन्तामन्यकेषां ज्याका अधिधन्वसु । त्वं सिन्धूरवासृजो धराचो अहन्नहिम् । अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं तं त्वा परिष्वजामहे नभन्तामन्यकेषां ज्याका अधिधन्वसु । विषुविश्वा अतरायोर्योनशन्तनो थियः । अस्तासि शत्रवे वधं यो न इन्द्र जिधांसति या ते रातिर्ददिर्वसु नभन्तामन्यकेषां ज्याका अधिधन्वसु । इति द्वितीयस्तृचः ।

अत्र तिस्रोऽपि ऋचः प्रत्येकमष्टाक्षरसप्तपादवत्यः एकपादन्यूनत्वात्प्रत्येकं द्वित्वमापाद्य षोळशीत्वं सम्पादयितुं न शक्यम् । ततः संयोजनं कार्यम् । कथम् । इत्थम् । आद्या या ऋचः षष्ठपादस्थाने 'आयाहि पिबमत्स्व’ इत्युपसर्गसंयोजनं कार्यम् । ततश्चाष्टौ पादाः सम्पन्ना इत्याद्या ऋक् अनुष्टुवृग्द्धयं भवति । 'त्वं' सिन्धूरवासृज इति द्वितीयऋचः षष्ठपादस्थाने ऋतुच्छन्द ऋतं बृहदित्युपसर्गः संयोज्यः । ततश्चाष्टौ पादाः सम्पन्ना इति ऋग्द्धयं भवति । विषु विश्वा अरातय इति तृतीयऋचोऽपि षष्ठपादस्थाने सुम्न आधेहि नो सो इति उपसर्गसंयोजनं कार्यम् । ततश्चाष्टौ पादाः सम्पन्ना इत्यनुष्टुबृग्द्वयं भवति । अशेषमहानाम्यर्थपरिज्ञानपूर्वकम् । उपसर्गसंयोजनं कार्यमित्येतदर्थत्वेन महानाम्नीप्रशंसार्थम् 'अयं वै लोकः' इत्यादिको ग्रन्थः । 'विदा मघवन्' इत्यारभ्य तमूतय इत्यन्तः प्राक्तनाः पञ्च ऋचो मिलित्वा प्रथमा महानाम्यः । तमूतय इत्यारभ्य नूनमित्यन्तः प्राक्तनाः तिखः ऋचो मिलित्वा द्वितीया महानाम्न्यः । नूनमित्यारभ्य द्वौवौ ऋचौ सप्त निगदाश्च मिलित्वा तृतीया महानाम्न्यः । अयं वै लोकः प्रथमा महानाम्यः अयं वै लोकः पृथिवीलोकान्तर्गतो हरिः प्रथमा महानाम्नी तत्प्रतिपाद्यः ।

अन्तरिक्षलोकः अन्तरिक्षलोकान्तर्गतो हरिः द्वितीयमहानाम्नीप्रतिपाद्यः । असौ लोकः स्वर्गान्तर्गतो हरिः तृतीया तृतीयमहानाम्नीप्रतिपाद्यः । उपसर्गसंयोजनं कृतवतः प्रशंसार्थं सर्वेभ्यो वेत्यादिको ग्रन्थः । पूर्वैः पुरुषैः सर्वलोकान्तर्गतभगवत्प्रतिपादकमहानाम्युपसर्गसंयोजनेन सम्पन्नेभ्यः सर्वेभ्यो लोकेभ्यः तदन्तर्गतभगवद्रूपेभ्यः एष सन्निर्मितो वै लोकः यत् यः षोळशी क्रतुः । तत् तस्मात् अद्यापि यत् यदि महानाम्नीनामुपसर्गानुपसृजति कश्चित्तर्हि सोऽपि सर्वेभ्यो लोकेभ्यः एव तदन्तर्गतभगवद्रूपेभ्य एव एनं षोळशिना राप्नोति । किन्तु य एवं वेद । भगवद्ज्ञानपूर्वकं क्रतुनिर्माणेनेति भावः ।

शखशेषाँस्त्रीन् तृचानाह-प्र प्र वस्त्रिष्टुभमित्यादिना ।। प्र प्रवखिष्टुभमिषं मन्दद्वीरायेन्दवे । धिया वो मेधसातये पुरन्ध्या विवासति ॥ १ ॥ नदं व ओदातीनां नदं यो युवतीनां । पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ।। २ ।। ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः । जन्मन्देवानां विशखिष्वारोचने दिवः ।। ३ ।। इत्येकस्तृचः । अर्चत प्रार्चत प्रियमेधासो अर्चत । अर्चन्तु पुत्रका उत पुरं न धृष्ण्वर्चत ॥ १ ॥ अवस्वराति गर्गरो गोधा परिसनिप्वणत् । पिङ्गापरिचनिष्कददिन्द्राय ब्रम्होद्यतम् अयत्पतन्त्येत्यस्तुदुधा अनपस्फुरः । अपस्फुरं गृभायत सोममिन्द्राय पातवे ।। ३ ।। इति द्वितीयतृचः ।

यो व्यतीरँफाणयत्सुयुक्ताँ उपदाशुषे । तक्को नेता तदिद्वपुरुमायो अमुच्यत ॥ १ ॥ अतीदुशक्र ओहत इन्द्रो विश्वा अतिद्विषः । भिनत्कनीन ओदनं पच्यमानं परो गिरः ॥ २ ॥ अर्भको न कुमारकोऽधितिष्ठन्नवं रथम् । सपक्षन्माहिषं मृगं पित्रे मात्रे विभुक्रतुम् । इति तृतीयतृचः ।

एताः सर्वाः प्रज्ञातानुष्टुभः । ऋगन्तरसंयोगमन्तराऽनुष्टुप्त्वस्य प्रतीय-मानत्वात् । एताः शंसेत् । पूर्वं खण्डोक्तानाम् 'आत्वा वहन्तु हरय' इत्यादीनामतिछन्दोऽन्तानां व्यतिषञ्जनशंसनानन्तरं यत् प्र प्रव इत्यादीनां यथावस्थितानां शंसनं तत्प्रशंसार्थं तद्यथोहचेत्यादिकं वाक्यम् । तत् निदर्शनं यथा । इह च दक्षिणतो वामतश्च अपथेन चरित्वा पन्थानं पर्यवेयात् प्राप्नुयात् तादृक् तत्समानं तत्किं यत् व्यतिषिक्तशंसनानन्तरं प्रज्ञातानुष्टुप्रशंसतीति । व्यतिषिक्तशंसनेन श्रान्त एतच्छंसनप्राप्तावाप्यायितो भवतीति भावः ।

विहृताविहृतभेदेन द्विविधोक्तशस्त्रस्य सफलत्वेन प्रशंसार्थं वा-वयं सय इत्यादि ।। तत्र स य इत्यारभ्य अय पय इत्यतः प्राक्तनमविहृतपक्षप्रशं-सार्थम् । अविहृतं नाम ऋगन्तरसंयोजनरहितं वाक्यम् । यः पुरुषः स्वात्मानं प्राप्तः आपदं प्राप्तोऽस्मीति मन्येत अपगतश्रीकारणं दृष्ट्वा गतश्रीर्भविष्यामीति मन्येत तथा छन्दसां कृच्छ्रात् तद्विहरणजनितश्रमनिमित्तदुःखात् नेति नैवावपद्ये गतशोभत्वं न प्राप्नुयामिति मन्येत सः प्राप्तव्यापत्परिहाराय श्रीस्थैर्याय शोभापगमाभावाय चाविहतम् असंसष्टं षोळशिनं शंसयेदिति । अत्र त्रीणि प्रयोजनानि प्राप्तव्यापत्परिहारः श्रीस्थैर्यं शोभापगमाभावश्चेति । आद्ये  द्वे यजमानगामिनी । तदभयसिद्धचर्यं यजमानः होत्रा शंसयेत् । तृतीय सिध्यर्थं होता स्वयमेव शंसेदिति भावः । व्यतिपक्त इवेति ॥ यस्मात् पुरुषः पाप्मना व्यतिषक्तः तस्मात् व्यतिषक्तमेव शंसनम् अस्मै अस्य पुरुषस्य पाप्मानं शमलं रागादिकं च हन्ति । य एवं वेद उपास्ते सोऽपि पाप्मानमपहते ।

प्रज्ञातानुष्टुप्छन्दश्शंसनानन्तरं कर्तव्यमाह-उद्यदिति ।। उद्यत् ब्रध्नस्य विष्टपं गृहमिन्द्रश्च वहि । मध्वः पीत्वा स चैव हि त्रिः सप्तसख्युः पदे इत्युक्तमया एतां ऋचं शस्त्रस्योत्तमां कृत्वा तया परिदधाति परिदध्यात् छादपेत् । तस्य फलमाह- सर्ग इति ॥ यस्मात् ब्रध्नस्य विष्टपं नाम स्वर्गलोकं गमयति । शस्त्रसमाप्त्यनन्तरं कर्तव्यमाह-अपा इत्यादि । तया ऋचा यजति यजेत् । एतदृग्यजनफलमाह- सर्वेभ्यो वेति ॥ यच्चानया ऋचा होमं कुर्यात् तर्हि सर्वेभ्यः सवनेभ्यः सवननियामकभगवद्रूपेभ्यः 'वृषन्-शब्दवाच्यभगवद्रूपेण च सन्निर्मितो भवति । कः । यः षोळशी प्रथमपादमनूद्य तत्फलमाह-तद्यदपा इति ।। यजतीत्यन्तमनुवादः । प्रातस्सवनं पीतवत् । अतिशयेन पीतशब्दवत् । अयं च पादः पीतशब्दवान् पीतशब्द-प्रकृतिभूतुधातुजन्यपा-इतिशब्दवांस्तस्मात् प्रातः सवनपरः । तत् तस्मात् प्रातस्सवनविषयपादेन होमान्निमित्तात् प्रातस्सवनादेव तद्गतात् भगवद्रूपादेव तत्प्रसादादेव ।
एनं क्रतुं सन्निर्मिमीत इत्यर्थः । द्वितीयपादानुवादपूर्वकं तज्जन्यहोमफलमाह- अथो इदमिति ।। केवलं त इत्यन्तमनुवादः । माध्यन्दिनं सवनं केवलं केवलशब्दवाच्येन्द्रस्वामिकम् । तस्मात्केवलशब्दघटित अयं पादो माध्यन्दिनसवनविषयः । तत् तस्मात् माध्यन्दिनसवनविषयपादेन होमा-न्निमित्तात् माध्यन्दिनादेव सवनात्तदेवताप्रसादादेवैनं क्रतुं सत्रिर्मिमीते । तृतीयपादानुवादपूर्वकं तज्जन्यहोमफलमाह-ममद्धीति ।॥ इन्द्रोतीत्यन्त-मनुवादः । मद्वद्वै तृतीयसवनमिति ।। अतिशयेन मदवत् अयं च पादः मन्दं ब्रवीतीति तृतीयसवनविषयः । तत् तस्मात् तृतीयसवनविषयपादेन होमा-निमित्तात् तृतीयसवनादेव तद्देवताप्रसादादेवैनं क्रतुं सनिर्मिमीते । चतुर्थ-पादमनूद्य तज्जन्यहोमफलमाह-सत्रावृषन्निति ।। आवृषस्वेत्यन्तमनुवादः । षोळशिनो रूपं वृषण्वन् वृषन्शब्दवाच्येन्द्रप्रियं अयं च पादो वृष्ण-प्रतिपादकः । तस्मादनेन पादेन होमात् कृष्णप्रसादेन षोळशिनं सनिर्मिमीते । उक्तमर्थं पिण्डीकृत्याह- सर्वेभ्य एवेति ।। यत् यः षोळशी सः पूर्वैः पुरुषैः सर्वेभ्यः सवनेभ्यः वृष्णश्च सम्यक् निर्मिमीते वै तत् तस्मात् अद्यापि यत् यदि यः कश्चन अपाः पूर्वेषामिति यजति सर्वेभ्यः सवनेभ्यः वृष्णश्च एनं षोळशिनं सन्निर्मिमीते । फलमाह सर्वेभ्य इति ।। सर्वेभ्यः सत्रनेभ्यः सनिर्मितन षोळशिना रानोति रुद्धिं प्राप्नोति । उपासकस्य फलमाह य एवं वेदेति ।। यः एवं वेद उपास्ते सोऽपि राप्नोति । अपाः पूर्वेषामित्यनया यागः उक्तः । तन्नोपपद्यते । षोळशिनैव होमस्य कर्तव्यत्वात् । अस्याश्च त्रिष्टुप्त्वादित्या-शङ्कापरिहारायाह- महानाम्नीनामिति ।। अपाः पूर्वेषामिति ऋचः चतुर्षु पादेषु महानाम्नीनां पञ्चाक्षरोपेतमहानाम्न्युपसर्गाः । 'एवाह्येवैवा' 'एवै-वाहीन्द्रं' 'एवाहि शक्रः' 'वशी हि शक्रः' इति चत्वारः अस्य ऋचः पादाश्चत्वारः । तेषु क्रमेण महानाम्युपसर्गाः संयोज्याः । अयमत्र संयोजितपाठक्रमः । 'एवाह्येवैवापाः पूर्वेषां हरिवः सुतानाम् । एवैवाहीन्द्र-मथो इदं सवनं केवलं ते । एवाहि शक्रो ममद्धि सोमं मधुमन्तमिन्द्र । वशी हि शक्रः सत्रा वृषं जठर आवृषस्व' इति । उपसर्गसंयोजनप्रशंसार्थं सर्वेभ्यो वेत्यादिको ग्रन्थः । यः षोळशी स एषः पूर्वैः पुरुषैः महानाम्युपसर्ग-संयोजनेन प्रसन्नेभ्यः सर्वेभ्यः छन्दोभ्यः सन्निर्मितः । तस्मादद्यापि यः कश्चित् यदि महानाम्नीनामुपसर्गानुपसृजति सोऽपि सर्वेभ्यः छन्दोभ्यः षोळशिनं न्निर्मिमीते । उपासकस्य फलमाह- य एवं वेदेति ।। यः एवं वेद उपास्ते सोऽपि राध्नोतीति । इत्युपसृजतीत्यन्तेनेति ।। अधत्तान्यं जठरे प्रेम रिच्यत प्रचेतनेत्यादिना इति शेषः । महतीति ।। इतः परं टीकायां श्रूयमाणं 'नञा निर्दिष्टमनित्यं' इति वा वेदत्वाद्वा मन इति ङीपः प्रतिषेधो न प्रवर्तत' इति वाक्यं न टीकावाक्यम् । अपि तु महानाम्नीत्यत्र 'ऋन्नेभ्यो ङीप्' इति सूत्रप्राप्तप्रतिषेधकत्वेन प्रतिषेधाप्राप्तिकथनवैय्यर्थ्यात् ।

गूढवाक्यार्थपञ्चिका

(छ.टि.) ब्राह्मणमध्यगतस्येति ।। चतुर्थपञ्चिकागतचतुर्थखण्डस्येत्यर्थः । कर्मनिर्णयार्थमस्य व्याख्यानत्वे खण्डान्तरव्याजेनापि कर्तुं शक्यत्वादिति भावः। अनुयुक्तः व्याख्यानं प्रति प्रेरित इत्यर्थः । अथ चतुर्थखण्डव्याख्यानं स्पष्टयितुं चतुर्यपञ्चिकायाः प्रथमखण्डत्रयस्य सङ्गतिमाह इयमस्य खण्डस्येत्यादिना ॥ अग्निष्टोमाद्यास्त्विति 11 'अग्निष्टोमात्यग्निष्टोमोक्थ्यषोडश्यतिरात्राप्तोर्या-मवाजपेय' इति सप्तसंस्थाः । संस्था नाम सोमक्रतुविशेषः । षोडश्यभिधानं शत्रमिति । षोडशिनामकं शस्त्रं राक्षसनिर्हरणार्थं ॐ शां शावां इत्येतत्संहितः शंसनीयो ऋग्विशेषः । शंसनीयत्वे होत्रा कथनीयत्वे इत्यर्थः । युक्तिं लक्षणं चेति ॥ देवा वै प्रथमेनाह्वा' इत्यादिना तदाहुरित्यतः प्राक्तनाद्यखण्डांशेन युक्तिरुच्यते । तदाहुरित्यादिना तु लक्षणमिति भावः । लक्षणमिति तु समुदायैकवचनम् । षोडशस्त्रोत्राणामित्यादिनानेकलक्षणाभिधानात् इति ज्ञेयम् । आद्यं खण्डमिति ।। देवा वै प्रथमेनाह्वेन्द्राय वज्रं समभस्तंद्वितीयेनाह्नाऽ-सिचंस्तं तृतीयेनाह्ना प्रायछंस्तं चतुर्थेऽहन्प्राहरत्तस्माच्चतुर्थेऽहन् षोडशिनं शंसति वज्रो वा एप यत्पोडशी तद्यच्चतुर्थेऽहन्पोडशिनं शंसति वज्रमेव तत्प्रहरति द्विषते भ्रतृव्याय वधं योऽस्य स्तृत्यस्तस्मै स्तत्तवै वज्रो वै षोडशी पशव उत्तत्थानि तं परस्तादुत्तत्थानां पर्यस्य शंसति तं यत्परस्तादुत्क्तत्थानां पर्यस्य शंसति वज्रेणैव पोडशिना पशून् परिगच्छति तस्मात्पशवो वज्रेणैव षोडशिना परिगता मनुष्यानभ्युपवर्तन्ते तस्मादश्वो वा पुरुषो वा गौर्वा हस्ती वा परिगत एव स्वयगात्मने त एव वाचाऽभिषिद्धः उपावर्तते वज्रमेव षोडशिनं पश्यन् वज्रेणैव षोडशिना परिगतो वाग्धिः वज्रो वाक् षोडशी । तदाहु किं पोडशिनः पोडशित्वं इति । पोडशः स्तोत्राणां पोडशः स्तोत्राणां पोडशिभि-रक्षरैरादते पोडशिभिः प्रणीति पोडशपदान्निविदंदधाति तत् षोडशिनः पोडशित्वम् । द्वेवा अक्षरे अतिरिच्येते षोडशिनोऽनुष्टुभमभिसंपनस्य वाचो वाव तौ स्तनौ सत्यानृते वाव ते अवत्येनं सत्यं नैनमनृतं हिनस्ति य एवं वेद ॥ १ ॥

अस्यार्थः । देवासुरयुद्धे प्राप्ते असुरान् हन्तुं इन्द्राय इन्द्रस्यार्थे देवाः वज्राख्यमायुधं प्रथमेनाह्ना । सुपां सुपो भवन्तीति वार्तिकेन सप्तम्याः तृतीया-देशः । एवं द्वितीयेनाह्वेत्यादवपि ज्ञेयम् । प्रथमेऽह्नि समभरन् संपादितवन्तः । तं वज्रं द्वितीयेनाह्वा द्वितीयेन द्वितीयेऽहनि मन्त्रपूतेनाम्भसा असिंचन् । प्रोक्षितवन्तः । तृतीयेनाह्ना तृतीयेऽहनि इन्द्राय वज्रं प्रायच्छन् । ददुः । तं वज्रं चतुर्थेऽहन् चतुर्थेऽहनि 'सुपां सुलुक्' इति सप्तम्याः लुकिं 'नङि सम्बुद्धौ' इति नलोपाभावः । दैत्येषु प्रहरत् निक्षिप्तवान् । तस्मात्कारणात् चतुर्थेऽहनि प्राज्ञो ऋत्विक् षोडशिनं शंसति । चतुर्थेऽहनि षोडश्यभिधानं शखं शंसनीयमिति यावत् । तस्मादित्युक्तं हेतुं विवृणोति वज्रो वेति ।। यत् यः षोडशी स एष वज्रः । वज्रषोडश्योरेकदेवताकत्वमिति यावत् । ततश्च किमित्यत आह-तद्यदिति ।। चतुर्थेऽहन् अहनि यत् यदि षोडशिनं शंसति तर्हि द्विषते भ्रातृव्याय शत्रोः वधमुद्दिश्यैव वज्रं प्रहरतीव वज्रप्रहरणेनैव चतुर्थेऽहनि षोडशिशंसनमात्रेण शत्रुवधो भवतीति भावः । शंसनफलमाह-योऽस्येति ।। यो द्वेषी । अस्यः दूरे निरसनीयः असुक्षेपे इति धातोः । स्तृत्यः छेद्यः स्तृधातोः छेदनार्थकात् क्यप्प्रत्यये ह्रस्वस्येति तुक् । तस्य स्तर्तवै छेत्तुं तुमर्थे इति स्तृधातोरेव तवैप्रत्ययः । वज्रमेव प्रहरतीत्यन्वयः । वज्रप्रहरणेनैव षोळशिशंसनमात्रेण शत्रुः छिन्नगात्रो भवतीति भावः ।उक्थशंसनानन्तरं षोळशिशंसने निमित्तमाह- बज्र इति ।। वज्रः षोडशी-त्युक्तार्थ । पदशव उक्थानि । उक्थेन तन्नामकसाम्ना एकदेवताकाः पशव परस्तात् । पर्यस्य स्थापयित्वा शंसति । इत्यर्थः । तं षोडशिनं उक्थानां उक्थ्यानन्तरं षोळशी शस्तव्यः इति भावः । अनूद्य फलमाह- तयदिति ॥ उत्तत्थानां परस्तात् षोडशिनं पर्यस्य स्थापयित्वा शंसतीति यत् तत्पोडशिना वज्रेण पशून् परिगच्छतीव दैत्यापहृतगोप्राप्त्यर्थं वज्रं गृहीत्वा इन्द्रस्य गमनमिव षोडशिशंसनं पशुप्राप्तिफलकमिति भावः । तदेवानुभवारूढं करोति-तस्मादिति । यस्मात् वज्रस्य भीषकत्वं तस्मात्षोडशिना वज्रेण षोडशि-समानदेवताकेन वज्रेण प्रहरणसाधनेन यष्ट्यादिना त्रस्ताः परिगताः इतस्ततो गता अपि मनुष्यानुपावर्तन्ते । मनुष्यसमीपमायान्ति । पशुशब्देनोक्तमर्थं विशदमाह- तस्मादश्व इत्यादिना ।। परिगत एवेत्युक्तमर्थमाह- स्वयमिति ॥ स्वपमात्मना स्वेच्छया इतः गत इत्यर्थः । इण्गताविति धातोः क्तप्रत्ययः । न केवलं यष्टचादिना भीता उपावर्तन्ते अपि तु वाचा अभिषिद्धः भर्त्सितः उपावर्तते । कुत इत्यत आह- वज्रमेवेति ।। षोडशिसमानदेवताकं वज्रं पश्यन् परिगतोऽपि वज्रेणैव षोळशिना उपावर्तते । को वज्र इत्यत आह-वाग्धीति ।। कुतो वाकू वज्र इत्यत आह- वाक् षोळशीति ।। यस्मात्षोडशिना समानदैवत्या वाक् तस्मात् वज्र इति भावः । चतुर्थेऽहनि षोडशिनः शंसनीयत्वे युक्तीरुत्क्तवा षोडशिनो लक्षणनिरूपणार्थं उत्तरो ग्रन्थः । तत् तत्र षोडशिनः शंसनीयत्वेऽभिहिते षोडशिनः किं षोडशित्वमिति शिष्या आहुः पृष्टवन्त इत्यर्थः । उत्तरमाह-षोळशेति ।। षोडशस्तोत्राणां षोडश-शखाणां च अर्धर्चशः षोडशिभिः पोडशसङ्ख्याकैरक्षरैः आदत्ते उपादानं करोति । गानावसरे षोळशीभिरक्षरैरेव प्रणोति । स्तौति । णुस्तुताविति धातो आदेर्णोन इति नकारादेशेऽपि प्रशब्दपरत्वात् उपसर्गादसमासेऽपि णोपदेशस्येति णत्वम् । षोळशिभिरक्षरैरवसानं कृत्वा प्रणौतीति यावत् । षोळशपदात् षोळशसंज्ञकस्य पदैरेव निविदंदधाति । निवित्संज्ञकं स्तोत्रं करोति । तत्पोडशाक्षरार्धवत्वं त्रिविधषोडशिनः षोळशशब्दवाच्यत्वे प्रवृत्ति-निमित्तम् । षोडशीस्तोत्रशखनिविच्छेदेन त्रिविधः । त्रिविधस्यापि पोडशाक्षरार्धवत्वं लक्षणमिति भावः । षोडशक्रग्णतान्त्याक्षरयोर्माहात्म्यमाह-द्वे वा इति ।। अनुष्टुत्वे प्राप्तस्य षोडशिनः द्वे अक्षरे इतः अर्थारेभ्यः अतिरिच्यते उत्तमे भवतः । कुत इत्यत आह बाचो वा वेति ॥ ये व्यतिरिच्येते ते अक्षरे यौ च द्वौ प्रसिद्धी वाचः भारत्याः स्तनौ तदाश्रितौ । ततोऽपि किमित्यत आह- सत्यानृत इति ॥ ते अक्षरे स्तनाश्रित-सत्यानृतसमानाधिकरणे । तथा च ताभ्यामक्षराभ्यां स्तुवन्तं एवं अधिकारिणं सत्याभिमानिदेवः अवति रक्षति असत्याभिमानिदेवो न हिनस्ति । वधं न करोति । हिसि हिंसायामिति धातोः । य एवं वेद। तं च सत्यमवति अनृतं न हिनस्तीति ।। १ ।।

विहृताविहृतभेदेन द्वैविध्यमिति ।। यस्यां ऋचि षोडशाक्षरार्थवत्वं नास्तीति ऋगन्तरवर्णानावृत्य षोडशित्वं सम्पाद्यते । सा विह्नता षोळशी । यस्यां तु ऋचि स्वत एव षोडशवर्णात्मकार्थद्वयमस्ति साऽविहृता षोडशीत्यर्थः । द्वितीयेन प्रतिपादितमिति ।। गौरवीतं षोळशी सामकुर्वीत तेजस्कामो ब्रह्मवर्चसकामस्तेजो वै ब्रह्मवर्चसं 'गौरवीतं तेजस्वी ब्रह्मवर्चस्वी भवति य एवं विद्वान् गौरवीतं षोडशि साम कुरुते । नानदं षोडशि साम कर्तव्यमित्याहुरिन्द्रो वै वृत्राय वज्रमुदत्यच्छत्तमस्मै प्रहरत् तमभ्यहनत् सोऽभिहितो व्यनदत् यव्यनदत्तन्नानदं सामाभवत् तन्नानदस्य नानदत्वमभ्रातृव्यं वा एतद्रातृव्यहा साम यन्नानदमभ्रातृव्यो भ्रातृव्यहा भवति य एवं विद्वान्नानदं षोळशि साम कुरुते तद्यदि नानदं कुर्युरविहृतः षोडशी शंस्तव्यो विहृतासु हि तासु स्तुवते यदि गौरवीतं विहृतः षोळशी शंस्तव्यो विहृतसु हि तासु स्तुवते' । इति द्वितीयं खण्डम् ।। अस्य अर्थः । तेजस्कामो ब्रह्मवर्जसकामश्च षोळशिनं गौरवीतं साम कुर्वीत । षोडश्यध्यारूढं गौरवीतं साम गायेदिति यावत् । कुत इत्यत आह- तेजो वा इति ।। कार्यकारणयोरभेदोपचारोऽयम् । गौरवीतं तेजःप्रदं ब्रह्मवर्चसप्रदं चेत्यर्थः । ज्ञात्वा शंसितुः फलमाह-तेजस्वीति ॥ यः एवं गौरवीतसामर्थं विद्वान् षोडशिनि अध्यारूढं गौरवीतं साम करोति सः तेजस्वी ब्रह्मवर्चस्वी भवति । केचित् ऋषयः षोडश्यध्यारूढं नानदं साम गातव्यमित्याहुः नानदसाम्नो गातव्यसिध्यर्थं कथामाह-इन्द्रो वा इति ।। इन्द्रं वृत्राय वृत्रं हन्तुं वज्रमुदयच्छत् । वज्रं विकोशमकरोत् । तं वज्र अस्मै वृत्राय प्राहरत् । आदरातिशयादुक्तमेवार्थं पुनराह- तमभ्यहनदिति ॥ हननं सफलमित्याह-सोऽभिहत इति ।। सः वृत्रः अभिहतः मृतः । अथ इन्द्रः व्यनदत् यत् व्यनदत् तत् नानदं सामाभवत् तेऽस्मिन्नादेनानदं सामाभिव्यक्तमित्यर्थः । तत् नादे अभिव्यक्तत्वमेव नानदं साम्नः नानदशब्द-वाच्यत्वे प्रवृत्तिनिमित्तम् । साम्नो माहात्म्यमाह- अभ्रातृव्यमिति ।। स्वयम-भ्रातृव्यं प्रतिपक्षशून्यं स्तोतुर्भातृव्यहा च शत्रुहा भवतीति अर्थः । व्यन् सपत्ने इति भ्रातृशब्दात् द्वेष्पर्धी व्यन्प्रत्ययः । शंसितुः फलमाह अभ्रातृव्य इत्यादिना ।। य एवं नानदस्य माहाम्त्यं विद्वान् षोडश्यारूढं नानदं साम गायति स अभ्रातृन्यो भवति । शत्रुशून्यो भवति । भ्रातृहा च भवतीत्यर्थः । नानदसाम्नो गानपने ऋनियममाह- अविहृत इति ।। यत् यदा नानदसाम कुर्युस्तदाऽविहृतः षोळशी शंस्तव्यः । कुत इत्यत आह- अविहृतास्विति ॥ हि पस्नात् संप्रदायविदः अविहृतासु षोळशीषु नानदसाम स्तुवते स्तुवन्ति । गौरवीतसाम्नो गानपक्षे ऋड्नियममाह यदीति ।। यदि गौरवीतं साम जनाः कुर्युः तदा विहृतः षोळशी शंस्तव्यः । संप्रदायमाह- विहृतासु तासु ऋक्षु स्तुवत इति ।। २ ।।

इत्यादिको ग्रन्थ इति ।। अथातः छन्दस्ये व्यतिषजति 'आत्वा वहन्तु हरय उपोषु श्रुणुहि गिर' इति गायत्रीश्च पंक्तीश्च व्यतिषजति गायत्रो ह वै पुरुषः पाङ्का पशवः पुरुषमेव तत्पशुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति यदु गायत्री च पंक्तिश्च ते द्वे अनुष्टुभौ तेनो वाचोरूपादनुष्टुभीरूपाद्रव्ररूपानयति यदिन्द्रपुतनाज्येऽयंते अस्तु हर्यत इत्युष्णिश्च बृहतीश्र व्यतिषजति औष्णिही वै पुरुषो बार्हताः पशवः पुरुषमेव तत्पशुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति यदुष्णिक्य बृहती च तद्रे अनुष्टुभी तेनो वाचीरूपादनुष्टुभीरूपाद्वज-रूपानयत्या धूर्वस्मै ब्रह्मन् वीर ब्रह्मकृतिं जुषाण इति द्विपदां च त्रिष्टभं च व्यतिषजति द्विपाद्वै पुरुषो वीर्य त्रिष्टुप् पुरुषमेव तद्वीर्येण व्यतिषजति तस्मात् पुरुषो वीर्ये प्रतिष्ठितः सर्वेषां पशूनां वीर्यवत्तमो गदु द्विपदा च विंशत्यक्षरा तद्वै अनुष्टुभौ तेनो वाचोरूपादनुष्टुभोरूपाद्वज्ररूपात्रयत्येष ब्रह्मा प्रतेमहे विन्दथे शंशिपं हरीति द्विपदाश्च जगतीश्च व्यतिषजति द्विपाद्वै पुरुषो जागताः पशवः पुरुषमेव तत्पशुभिर्व्यतिषजति पशुषु प्रतिष्टापयति तस्मात्पुरुषः पशुषु प्रतिष्टितोऽत्ति चैनानधिचतिष्ठति वशे चास्य यदु द्विपदा च षोडशाक्षरा जगतीति द्वे अनुष्टुभौ तेनो वाचोरूपादनुष्टुभोरूपाद्वज्ररूपानयति त्रिकद्रुकेषु महिषो यवाशिरं प्रोष्वस्मै पुरोरथमित्यतिछन्दसः शंसति च्छन्दसां वै यो रसोऽत्यक्षरत्सोऽतिच्छन्दसमभ्येत्यक्षरत्ततदतिछन्दसोऽतिछन्दस्त्वं सर्वेभ्यो वा एष छन्दोभ्यः संनिर्मितो यत् षोळशी तद्यदतिछन्दसः शंसति सर्वेभ्य एवैनं तच्छन्दोभ्यः संनिर्मिमीत सर्वेभ्यः छन्दोभ्यः संनिर्मिमीते षोडशिना राध्नोति य एवं वेद ।।

अथ यज्ञप्रारम्भानन्तरं अतः प्रयोजनसद्भावात् स्तोत्रकाले छन्दांसि व्यतिषजति परस्परं संयोजयति । गायत्र्यादिकमनुष्टभं करोतीति यावत् । तत्र वेदे प्रयुज्यमानानि छन्दांसि सप्त। तथा। अतिछन्दांसि च । 'गायत्र्युष्णिगनुष्टुप् च बृहतीपंक्तिरेव च । त्रिष्टुप् च जगती चेति छन्दसां सप्तकं स्मृतम् ।। अतिपूर्वा तु जगती शक्करी चातिशक्करी । अष्टय्त्यष्टी धृतिश्चातिधृतिश्चेति तु सप्तकम् ।। अतिछन्द इति ज्ञेयं गायत्र्यादेस्तु लक्षणं । चतुविंशत्यक्षरकं प्रथमं तु तदुत्तरम् ।।चतुर्भिश्च चतुर्भिश्च ह्यक्षरैरधिकं विदुः' ।।

व्यतिषङ्गं विवृणोति आत्वा बहंत्विति ।। अत्र आत्वा वहंत्विति गायत्री अष्टाक्षरपादत्रयोपेता। आयं छन्दः त्रिपदा गायत्रीति परिभाषोक्तेः । उपोश शृणुही गिर इति पक्ङ्किः । अष्टाक्षरपञ्चपादा पञ्चमापङ्किः पञ्चपादेति परिभाषोक्तेः । पञ्चपादोपेता पङ्किः पञ्चमछन्द इति परिभाषार्थः । गायत्री. पङ्कचोः व्यतिषङ्गफलमाह- गायत्रो वै पुरुष इत्यादिना । पुरुषः गायत्रः । गायत्रीनामकः छन्दोभिमान्यभिमानिकः । पशवः पाङ्काः पङ्किच्छन्दोभिः मान्यभिमानिकाः । तत् तदा गायत्रीपङ्क्र्योव्यतिषङ्गानन्तरमेव स्तुत्या प्रसत्रो देवः पुरुषं पशुभिर्व्यतिषजति । पुरुषं पश्वादियुक्तं करोतीति यावत् । तदेव आदरात् पुनराह- पशुपु प्रतिष्टापयतीति ।। व्यतिषङ्गे सति गायत्रीपङ्कयोः कि छन्द इत्यत आह- यदु गायत्रीति ।। यत् या गायत्री या च पङ्किः । ते उमे अनुष्टुभौ भवत इत्यर्थः । अनुष्टुप्त्वसंपादनफलमाह- तेनो इति ।। अत्र तेन 'उ' इति पदच्छेदः । तेनैव अनुष्टुप्त्वसंपादनेन वाचोरूपात् वान्ग्नियामकात्। अनुष्टुभोरूपात् अनुष्टुप्त्वनियामकात् वज्ररूपात् वज्रनियामकात् भगवद्रूपात् देवात् दुःखं नैति न एतीति पदच्छेदः । 'इण् गतौ' इत्यस्य धातोः लटि रूपमेतत् । न प्राप्नोति ।

व्यतिषङ्गान्तरमाह- यदिन्द्रेति ।। यदिन्द्रेत्याद्या उष्णिक् त्रिपदा तत्राद्यौ द्वौ पादौ अष्टाक्षरौ तृतीया द्वादशा द्वितीयमुष्णिक् त्रिपदा अन्त्यो द्वादशेति परिभाषोक्तेः । उष्णिक् द्वितीयं छन्दः सा त्रिपदा अन्त्यः पादः द्वादशाक्षर इति परिभाषार्थः । उष्णिक्बृहत्योर्व्यतिषङ्गफलमाह औष्णिह इति ।। पुरुषः औष्णिहः उष्णिगभिमानिनियम्यः । पशवो बार्हताः बृहत्यभिमानिनियम्याः । तत् तदा । उष्णिकृबृहत्योर्व्यतिषङ्गानन्तरमेव स्तुत्या प्रसन्नो देवः पुरुषं पशुभिर्व्यतिषजति । पुरुषं पश्वादियुक्तं करोतीति यावत् । तदेवादरात्पुनराह-पशुप्विति ।। उष्णिवृहत्योर्व्यतिषङ्गे सति किं छन्द इत्यत आह- यदुष्णिक् चेति ।। यत् या उष्णिक् या च बृहती ते उभे अनुष्टुभौ भवत इत्यर्थः ।अनुष्टुप्त्वसंपादनफलमाह- तेनो इति ।। तेनो तेनैव अनुष्टुप्त्वसंपादनेनैव वाचोरूपात् वान्गनियामकात् अनुष्टुभोरूपादनुष्टुप्त्वनियामकत्वान् वज्रनियामकात् भगवद्रूपाद्देवात् दुःखं नैति न प्राप्नोति । व्यतिषङ्गान्तरमाह-आधूर्ध्वस्मा इति ।। आधूर्ध्वस्मा इत्याद्या द्विपदा यत्र द्वयोः पादयीरैव ऋक्संज्ञा सा द्विपदा । ब्रह्मन् बीरेति एकादशाक्षरचतुष्णात् आत्रिष्टुप् । ते उभे व्यतिषजति । व्यतिषङ्गफलमाह- द्विपाडै पुरुष इत्यादिना ।। पुरुषः द्विपात् द्विपादाभिमानिनियम्यः । वीर्यं त्रिष्टुप् त्रिष्टुवभिमानिनियम्यम् । तत् तदा द्विपात् त्रिष्टुभो व्यतिषङ्गानन्तरं स्तुत्या प्रसन्नो देवः पुरुषं वीर्येण व्यतिषजति । पुरुषं वीर्यवन्तं करोतीति यावत् । तदेवादरात्पुनराह-वीर्य इति ।। तस्मादेव वीर्ये प्रतिष्ठितः सर्वेषां पशूनां मध्ये वीर्यवत्तमो भवति । वीर्येण पश्रुभिश्च संपन्नो भवतीति यावत् ।

द्विपात्त्रिष्टुप्संयोगे कथमनुष्टुभः संपत्तिरित्यत आह-यदु द्विपदेति । यत् या विंशत्यक्षरा द्विपात् । यद्यपि विंशत्यक्षराणि नोपलभ्यन्ते, तथापि संयुक्ताक्षरद्वयं विभज्य विंशत्यक्षरता द्रष्टव्या । या च एकादशाक्षरचतुष्पदा त्रिष्टुप् ते उभे परस्परसंयोगेनानुष्टुभौ भवतः । विंशत्यक्षरद्विपात् चतुर्धा विभक्तव्या । त्रिष्टुभः एकैकपादानन्तरं द्विपदः एकैको भागः संयोज्यः । ततश्च एकादशाक्षराः चत्वारः पादाः द्विपदः एकैकभागेन संयोगे षोडशाक्षरत्वात् चत्वार अनुष्टुभार्धर्चा भवन्तीति ।

अयमत्र संयुक्तऋपाठक्रमः । 'आधूर्ध्वस्मै ब्रह्मन्वीर ब्रह्मकृतिं जुषाणो दधाताश्वानर्वाचीनो हरिभिर्याहि तूयं । इन्द्रो न वज्री अस्मिन्नूषु सवने मादयस्व । हिरण्यबाहुरुपब्रह्माणि शृणव इमान' इति । एवमन्यत्रापि द्रष्टव्यम् । तनैव अनुष्टुप्त्वसंपादनेनैव वाचोरूपात् वाङ्नियामकात् अनुष्टुभो-रूपात् अनुष्टुप्त्वनियामकात् भगवद्रूपात् देवात् दुःखं नैति न प्राप्नोति । व्यतिषङ्गान्तरमाह-एष ब्रह्मेति ।। आद्या द्विपदा शाखान्तरस्था । द्वितीया जगती द्वादशाक्षरचतुष्पादा । द्विपाद्वै पुरुष इत्यादि व्याख्यातम् । पुरुष: पशुषु प्रतिष्ठितः । अत्ति अनुभवति । तान् पशून् प्रति अधितिष्ठति आधि पत्येन तिष्ठति । अस्य वशे पशवो भवन्ति । द्विपदज्जगत्योर्व्यतिषङ्गे षोडशिनिष्पत्तिः कथमित्यत आह- यदु द्विपदेति ।। यत् या द्विपदा षोडशाक्षरा या च जगती प्रत्येकद्वादशाक्षरा चतुष्पादा तत्र द्विपदा चतुर्धा विभज्य जगत्याश्चतुषु पादेषु क्रमेण संयोगे कृते उभे अनुष्टुभौ भवत इति भावः । तेनो वाचोरूपादनुष्टुभोरूपाद्वज्जरूपान्नैतीति व्याख्यातम् । व्यति-षङ्गान्तरं वक्तुमाह- त्रिकेति ।। 'त्रिकद्रुकेषु महिषो यवाशिरं' इति ऋचं प्रोष्वस्मा इत्यतिच्छन्दस्तृचं च इत्यतिच्छन्दसः अनुष्टुभः कृत्वा शंसतीत्यर्थः । एतासां अतिच्छन्दस्त्वं कुत इत्यत आह छन्दसामिति ।। छन्दसां यो रसः सारः अत्यक्षरत् । 'प्रवाहरूपेणात्यसरत्' इति श्रुतेः । सरसः अतिच्छन्दसां अभ्येत्य प्राप्य अत्यक्षरत् इत आरभ्य अत्यक्षरदिति यावत् । तत् क्षरणावधित्वमेव अतिच्छन्दसः अतिच्छन्दस्त्वं अतिच्छन्दश्शब्दवाच्यत्वे निमित्तम् । यत् यदा अतिच्छन्दसः षोडशिरूपेण शंसति तदा एषः षोळशी सर्वेभ्यः छन्दोभ्यः निर्मिता भवति । सर्वछन्दोरसस्य अतिच्छन्दसि विद्य मानत्वात् । आदरादुक्तमेवार्थमाह-सर्वेभ्य इति ।। षोळशिस्वरूपमनूच फलमाह- सर्वेभ्य इति । रान्नोति ऋद्धिं प्राप्नोति । ज्ञातुरपि इदमेव फलमित्याह-य एवं वेदेति ।। तत्रान्तरे इति ।। तृतीयखण्डे । अतिच्छन्दस इति ।। अष्टीसंज्ञकातिच्छन्दस इत्यर्थः । अत्र ब्राह्मणे 'त्रिकद्रुकेषु महिषो यत्राशिरं' इत्यतः परं प्रोष्वस्मै पुरोरथमित्यतः परं च इति तिस्रो ऋच इति शेपो द्रष्टव्यः । 'त्रिकद्रुकेषु महिषो यवाशिरं' इत्यादि ऋक्त्रयस्य 'प्रोष्वस्मै पुरोरथं' इत्यादि ऋक्त्रयस्यापि पोडशाक्षरपादचतुष्टयवत्वेन अष्टीरूपातिच्छन्दस्त्वात् । गायत्र्यादिछन्दसां अतिजगत्याद्यतिच्छन्दसां च लक्षणानां पूर्वमेवोक्तत्वात् ।। छ ।।

षोडशिलक्षणत्वेनेति ।। षोडशिनामकशास्त्ररूपऋचोलक्षणत्वेनेत्यर्थः । षोळशभिरक्षरैरादत्त इति ब्राह्मणवाक्यस्य शखस्यार्थमिति शेषं कृत्वा यस्यार्थ षोडशाक्षरैरादत्ते षोडशाक्षरयुक्तम् । अर्थात् यत् त्रिंशदक्षरं तत् षोडशि-शखमिति व्याख्यानादिति भावः । अधिकाक्षरत्वादिति ।। त्रिकद्रुकेष्विति प्रथमायां ऋचि चतुःषष्टचक्षरवत्वात् । द्वितीयतृतीययोस्तु षष्ठ्यश्क्षरत्वात् । प्रोष्वस्मै पुरोरथमिति चैकैकस्याष्टर्चः प्रायः अष्टाक्षरसप्तपादवत्वेन षट्पञ्चाश-दक्षरवत्वात् द्वात्रिंशदक्षरत्वरूपषोडशिशखलक्षणापेक्षया अधिकाक्षरवत्वादित्यर्थः । समाधानमाशङ्कते-अथापि स्यादिति ।। त्रिकद्रुकेष्वित्याये तृचे इति ।। तृचशब्दः ऋक्क्रयवाचकः । त्रिस्रो ऋचो यस्मिन्युक्ते तत् तृचमिति विग्रहः । त्रिशब्दात् ऋचूशब्दात् बहुव्रीहिसमासे 'ऋक्यूरव्यूः पथामानक्षे' इति सूत्रेण समासान्ते उच्प्रत्यये 'ऋचि त्रेरुत्तरपदादिलोपः संप्रसारणं छन्दसि' इति वचनेन ऋचिशब्दे परे त्रिशब्दे संप्रसारणस्य ऋचिशन्दे ऋकारलोपस्य च विधानात् । तृचमिति रूपसिद्धिः । तिस्रो ऋचः षोडशाक्षरचतुष्पादाः सप्तमैकादशपादन्यतिरिक्ता इति शेषः । एतयोरपि षोडशाक्षरत्वोक्तिस्तु अल्पत्वाद्विवक्षयेति भावः ।

पादाने (वे) वार्धर्चीकृत्येति ।। तथा चाश्वलायनसूत्रं 'पूर्वं द्वेधाकारम्' इति । इदं तु वृत्तिकारेण व्याख्यातम् । अनयोः त्रिकद्रुकेषु प्रोष्वस्मै इति तृतीयतृचयोः पूर्वं तृचं द्वेधा कृत्वा शंसेत् । कथम् । पादेन पादमेवार्थं कृत्वेति एकैकामृचं द्वे द्वे कुर्यादित्यर्थ इति । तथा उत्तरमनुष्टुप्णायत्र्याकार-मित्याश्वलायनसूत्रं च वृत्तौ व्याख्यातम् । प्रोष्वस्मा इति तृचस्य सप्तपादत्वात् एकैकामृचं एकैकामनुष्टुभं एकैका गायत्री च संपादयेदित्यनेन प्रकारेण एता अपि षट्टचो भवन्तीति । एतामाशङ्कां दूषयति (ए) तदपीति ।। द्वितीयतृतीयोस्त्विति अर्धर्चिषमिति द्वितीयायां तृचि अधत्तान्यं जठरे प्रेमरिच्यतेति तृतीयपादे द्वादशाक्षरवत्वं 'साकं जातः क्रतुना' इति तृतीयायामृचि 'दाताराधः स्तुवते काम्यं वसु' इति तृतीयपादे एकादशाक्षरवत्वेऽपि 'नवा एके नाक्षरेण' इति न्यायेन द्वादशाक्षरत्वमुक्तमिति बोध्यम् ।

ननु 'न वा एकेन' इत्युक्तेः किञ्चिन्यूनेऽपि षोडशित्वं भविष्यतीत्यत आह- अक्षरचतुष्टयन्यूनत्वेनेति ॥ न वा एकेनेति ब्राह्मणवाक्ये एकेन द्वाभ्यामिति विशेषोक्तेर्नियमार्थत्वात् त्र्यक्षरादिन्यूनाधिक्ये छन्दस्त्वोपगमस्य अनङ्गीकारादिति भावः । ब्राह्मणवाक्ये एकेनेत्यत्र न्यूनेन अधिकेन वेति शेषः। एवं द्वाभ्यामित्पत्रापि । वियन्ति विगत्यादाविति धातोः गच्छतीत्यर्थो वोध्यः। द्वितीयेऽपि (च) तृचे इति ।। प्रोष्वस्मै पुरोरथमित्यादि ऋक्क्रय इत्यर्थः । अष्टाक्षरत्तप्तपादा इति ।। 'प्रोष्वस्मै पुरोरथं नभन्तामन्यकेषां' इत्यादिपादेषु सप्ताक्षरवत्वेऽपि 'न वा एकेनाक्षरेण' इति न्यायेन अष्टाक्षरवत्वं ज्ञेयम् । अनेनैवाशयेन अन्यत्रापि कचित् न्यूनाक्षरामधिकाक्षरछन्दस्त्वोक्तिरिति ज्ञेयम्। नोक्तः प्रकार इति ।। द्वात्रिंशदक्षरात्मकशखद्वयत्वम् । शस्त्रशेषमिति ॥ प्रप्रवखिष्टुभमित्यादिना शखशेषोक्तेरिति भावः । इत्यादिग्रन्थ इत्युत्तरखण्ड इत्यनुत्त्वा ग्रन्थ इत्युक्तिः त्रिकद्रुकेष्वित्यादिना विहरणप्रदर्शनात् । महा-नान्नीति वक्ष्यमाणविहरणप्रदर्शनोपयोगितयाऽनेनापि ग्रन्थेनातिच्छन्दसां शंसनीयत्वकथनात् ग्रन्थस्यैव ग्रहणमेतदिति भावेनेति ज्ञेयम् ।।छ।। श्रीरस्तु ।

महानाम्नीनामुपसर्गानुपसृजत्ययं वै लोकः प्रथमामहानाम्न्यंतरिक्षलोको द्वितीयोऽसौ लोकस्तृतीया सर्वेभ्यो वा एष लोकेभ्यः संनिर्मितो यत्षोडशी तद्यन्महानाम्नीनामुपसर्गानुपसृजति सर्वेभ्यः एवैनं तल्लोकेभ्यः संनिर्मिमीते सर्वेभ्यो लोकेभ्यः सनिर्मितेन षोडशिना राप्नोति य एवं वेद प्रप्रव खिष्टुभ-मिषमर्चत प्रार्चत । यो व्यतौरफाणयदिति प्रज्ञातानुष्टुभः शंसति तद्यथेह चेह चापथेन चरित्वा पन्थानं पर्यवेयात् तादृक् तद्यत प्रज्ञातानुष्टुभः शंसति स यो व्याप्तो गतश्रीरिव मन्येताविहृतं षोडशिनं शंसयेन्न छन्दसां कृछ्रादववपद्या शत्यथ यः पाप्मानमपजियांसुः स्याद्विहृतं पोडशिनं शंसयेत् व्यतिषिक्त इव वै

पुरुषः पाप्मना व्यतिषक्तमेवास्मै तत्पाप्मानं शमलमपाईत्पपपाप्मानं हते य एवं वेद उद्यद् ब्रश्नस्य विष्टपमित्युत्तमया परिदधाति स्वर्गों वै लोको प्रश्नस्य विष्टपं स्वर्गमे तल्लोकं य ईजानानं गमयत्यपाः पूर्वेषां हरिवः सुतानामिति यजति सर्वेभ्यो वा एष सत्रनेभ्यः संनिर्मितो यत् षोडशी तयदपाः पूर्वेर्षा हरिवः सुतानामिति यजति पीतवद्वै प्रातः सवनं प्रातः सवनादेवैनं तत्स-निर्मिमीतेऽथो इदं सवनं केवलं ते इति माध्यंदिनं वै सवनं केवलं माध्यंदिनादेवैनं तत्सवनात्सानिर्मिमीते ममद्धि सोमं मधुमन्तमिन्द्रेति तृतीयसवनं तृतीयसवनादेवैनं तत्सनिर्मिमीते सत्रा वृषन् जठर आवृषस्वेति वृषण्वद्वै षोडशिनो रूपं सर्वेभ्यो वा एष सत्रनेभ्यः संनिर्मिमीते सर्वेभ्यः सवनेभ्यः सन्निर्मितेन पोडशिना रानोति य एवं वेद महानाम्नीनां पंचाक्षरा-नुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु सर्वेभ्य एवैनं तच्छन्दोभ्यः सनिर्मिमीते सर्वेभ्यः च्छन्दोभ्यः सनिर्मितेन पोडशिना रान्नोति य एवं वेदेति ।। ४ छ ।।

यद्यप्यं खण्डः भगवत्पादैरेव व्याख्यातः । तथापि मन्दानां बुध्यारोहाय तदीयं व्याख्यानमस्माभिरनूद्यते । महत् नाम यासु ऋक्षु ताः महानान्यः विदा मघवन्नित्याद्याः । तासामुपसर्गान् उपसर्जनीभूतान् वर्णान् । प्रचेतन प्रचेतय । आयाहि पिव मत्स्व । क्रतु ऋतं छन्द बृहत् । सुम्न आधेहि नो वसो इत्येवंरूपान् । 'त्रिकद्रुकेषु प्रोष्वस्मा' इत्यतिच्छन्दसामनुष्टुप्त्वसिध्यर्थं अतिच्छन्दोभिः उपसृजति संयोजयेत् । कथं संयोजयेत् । इत्थम् ।

त्रिकद्रुकेषु महिषो यवशिरं तु विशुष्मस्तृपत्सोममपिचद्विष्णुना सुतं यथावशत् । स ई ममाद कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्यमिन्दुः ॥ १ ॥ अधत्विषीमां अभ्योजसा क्रिविं युद्धाभवदारोदसी अपृण देहस्य यज्मना प्रवावृधे । अधत्तान्यं जठरे प्रेमरिच्यत सैनं साश्चिद्देवो देवं सत्यमिन्दुः ।। २ ।। साकं जातः क्रतुना साक़मोजसा ववक्षिथ साकं वृद्ध वीर्येस्सा सहि मृधो विचर्षणिः । दाताराधस्तुवते काम्यं वसु । सैनं सश्वदेवो देवं सत्यमिन्द्रं सत्यमिन्द्रः ॥ ३ ॥ इत्याद्यास्तृचः । अत्राद्या ऋक् षोडशाक्षरचतुष्पादा हि । ततो द्वित्वापादनेन षोडशीकर्तुं शक्यते इति नात्र संयोजनम् । अधत्विषीति द्वितीया ऋक् षोळशाक्षरप्रथमद्वितीयचतुर्थपादवती । द्वादशाक्षरतृतीयपादवती । अतो महानान्युपसर्गस्य प्रचेतयेत्यस्य संयोगः कार्यः । ततश्चैवं तृतीयपादपाठः दाताराधस्तुवते काम्यं वसु प्रचेतति ॥ छ ॥

प्रोष्वस्मै उरोरथमिन्द्राय शूषमर्चत । अभीकेचिदुलोककृत्संगे समत्सु वृत्रहा अत्त्मकं बोधि चोदिता नभंतामन्यकेषां जाकाधि धन्वसु ॥ १ ॥ त्वं सिंधूरवासृजोधराचो अहन्नहिः । अशत्रुरिन्द्रजज्ञिपे विश्वं पुष्यसि वार्य तं त्वा परिष्वजानहे नभन्ता । विषुवश्वा अरातयोर्यो न शंतनो धियः । अस्तासि शत्रवे वर्ष यो न इन्द्र जिघांसति यातेरातिर्ददिर्वसु । इति द्वितीयस्तृचः । अत्र तिस्रोऽपि ऋचः प्रत्येकमष्टाक्षरपादवत्यः एकपादन्यूनत्वात् प्रत्येकं द्वित्व-मापाद्य षोडशित्वं संपादयितुं न शक्यम् । ततः संयोजनं कार्यम् । कथं इत्थं आद्याया ऋचः षष्ठपादे स्थाने आयाहि पिव मत्स्वेति उपसर्गसंयोजनं कार्यन् । ततश्च अष्टी पादाः संपन्ना इति आद्या ऋक् अनुष्टुप् ऋग्द्वयं भवति । त्वं सिन्चूँरवासृज इति द्वितीयऋचः षष्ठपादस्थाने 'क्रतुच्छन्द ऋतं बृहत्' इति उपसर्गः संयोज्यः । ततश्चाष्टौ पादाः संपन्ना इति ऋग्द्वयं भवति । 'विषु विश्वाः अरातय' इति तृतीयऋचोऽपि षष्ठपादस्थाने 'सुम्नाधेहिनो वसो' इत्युपसर्गसंयोजनं कार्यम् । तच्चाष्टौ पादाः संपन्ना इत्यनुष्टुप् ऋग्द्वयं भवति । अशेषमहानाम्यर्थपरिज्ञानपूर्वकं उपसर्गसंयोजनं कर्तव्यमित्येतदर्थत्वेन महानाम्नीप्रशंसार्थे 'अयं वै लोक' इत्यादिको ग्रन्थः । विदा मघवन्नित्यारभ्य तमूतय इत्यतः प्राक्तना पञ्चक्रचः मिलित्वा प्रथममहानाम्यः । तमूतय इत्यारभ्य नूनमित्यतः प्राक्तनाः तिस्रोऋचः मिलित्वा द्वितीयमहानाम्यः । नूनमित्यारभ्य द्वे ऋची सप्तनिगदाश्च मिलित्वा तृतीया महानाम्यः । अयं वै लोकः पृथिवीलोकान्तर्गतो हरिः प्रथममहानाम्नी तत्प्रतिपाद्यः । अन्तरिक्षलोकः अन्तरिक्षलोकान्तर्गतो हरिः द्वितीया द्वितीयमहानाश्रीप्रतिपायः । उभौ लोकः स्वर्गान्तर्गतो हरिः तृतीयमहानाम्नीप्रतिपाद्यः । उपसर्गसंयोजनं कृतवतः प्रशंसार्थं सर्वेभ्यो वेत्यादिको ग्रन्थः । पूर्वीः पुरुषैः सर्वलोकान्तर्गतभगवत्प्रतिपादकमहानाम्युपसर्गसंयोजनेन प्रसनेभ्यः सर्वेभ्यो लोकेभ्यः तदन्तर्गतभगवद्रूपेभ्यः एषः सनिर्मितो वै । कः । यत् यः षोडशी क्रतुः । तत् तस्मात् अद्यापि यत् यदि महानाम्नीनामुपसर्गानुपसृजति कश्चित्तर्हि सोऽपि सर्वेभ्यो लोकेभ्य एव तदन्तर्गतभगवद्रूपो य एव एनं षोडशिनं क्रतुं संनिर्मिमीते । ततः किम् । उक्तेभ्यः सर्वेभ्यो लोकेभ्यः संनिर्मितन षोळशिना राध्नोति सिद्धो भवति । किं क्रतुनिर्माणमात्रेण । न । किन्तु य एवं भगवज्ज्ञानपूर्वकं क्रतुनिर्माणेनेति भावः ।

शस्त्रशेषान् त्रीन् तृचानाह-प्रप्रवत्रिष्टुभमित्यादिना ।। प्रप्रवस्रिष्टु-भमिषमन्दद्विरायेन्दवे । धिया वो मेधसातये पुरंध्या विवासति नदं व ओदतीनां नदं यो युवतीनां । पतिं वो अग्न्यानां धेनूनामिषुध्यसि । ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः । जन्मन् देवानां विशखिष्वारोचने दिवः ॥ ३ ॥ इत्येकस्तृचः । अर्चत प्रार्चत प्रिय मेधासो अर्चत । अर्चन्तु पुत्रका उत पुरन धृष्ण्वर्चत ।। १ ।। अवस्वराति गर्गरो गोधा परिसनिष्वणत् । पिङ्गा परिचनिष्कददिन्द्राय ब्रह्मोद्यतं ।। २ ।। आयप्रतन्यः सुदुघा अनपस्पुरः । अपस्फुरं गृभायत सोममिन्द्राय पातवे ।। ३ ।। इति द्वितीयतृचः । यो व्यतीरफणयत्सुयुक्तां उपदाशुषे । तक्को नेता तदिद्धपुरुपमायो अनुच्यते ।। १ ।। सतीदुशूक्तं ओहत इन्द्रो विश्वा अतिद्विषः । भिनत्कनीन ओदनं पच्यमानं परो गिरा ॥ २ ॥ अर्भको न कुमारकोऽधितिष्ठन्नवं रथं सपक्षन्महिषं मृगं पित्रे मात्रे विभु क्रतुं ॥ ३ ॥ इति तृतीयस्तृचः । एताः सर्वाः प्रज्ञातानुष्टुभः ऋगन्तरसंयोगमन्तरानुष्टुप्त्वस्य प्रतीयमानत्वात् । एताः शंसेत् । पूर्वखण्डोक्तानां 'आत्वावहन्तु हरय' इत्यादीनां अतिछन्दान्तानां व्यतिषञ्जनशंसनानन्तरं यत् 'प्रप्रव' इत्यादीनां यथावस्थितानां शंसनं तत्प्रशंसार्थम् । तद्यथेह चेत्यादिकं वाक्यम् । तत् निर्दर्शनं यथा । इह च । दक्षिणतो वामतश्च अपधेन चरित्वा पन्थानं पर्यवयात् प्राप्नुयात् । तादृक् तत्समानम् । तत् किं । यत् व्यतिषिक्तशंसनानन्तरं प्रज्ञातानुष्टपूर्शसतीति । व्यतिषक्तशंसने न श्रान्त एतच्छंसनप्राप्तावप्यायितो भवतीति भावः । विहृताविहृतभेदेन द्विविधोक्तस्य शशस्त्रस्य सफलत्वेन प्रशंसार्थं अग्रेतनो ग्रन्थः । तत्रादौ वाक्ये स य इत्यारभ्य अथ इत्यतः प्राक्तनमविहृतपक्षप्रशंसनार्थम् । अविहृतं नाम ऋगन्तर. संयोजनरहितं वाक्यम् । यः पुरुषः स्वात्मने व्याप्तः आपदं प्राप्तोऽस्मीति मनुते अपगतश्रीकारणं दृष्ट्ा गतश्रीर्भविष्यामीति च मन्येत तथा छन्दसां कृच्छ्रात् तद्विहरणजनितश्रमनिमित्तदुःखात् नेत् नैव अवपद्ये गतशोभत्वं न प्राप्नुयामिति मन्येत संप्राप्तव्यात्परिहाराय श्रीस्थैर्याय शोभापगमाभावाद चाविहृतं असंसृष्टं षोडशिनं शंसयेदिति । अत्र त्रीणि प्रयोजनानि प्राप्तव्यापत्परिहारः श्रीस्थैर्य शोभापगमाभावाश्चेति आद्ये द्वे यजमानगामीनी । तदुभयसिद्धचर्यं यजमानः होत्रा शंसयेत् । तृतीयसिध्यर्थं होता स्वयमेव शंसेदिति भावः ।

व्यतिषिक्तः शंसनप्रशंसार्थम् । अथ यः पाप्मानमपजिघांसुः स्याद्विह्रतं संसृष्टं षोडशिनं शंसयेत् । कुत इत्यत आह-व्यतिषिक्त इवेति ॥ यस्मात्पुरुषः पाप्माना व्यतिषिक्तः । तस्माद्व्यतिषिक्तमेव शंसनं अस्मै अस पुरुषस्य पाप्मानं शमलं रागादिकं च हन्ति य एवं वेद उपास्ते सोऽपि पाप्मानमपहते । नाशयति । हनधातोर्व्यत्ययेनात्मनेपदलट्त्वादेशस्य ङित्त्वात् अनुदात्तोपदेशेति नकारलोपः । प्रज्ञातानुष्टुप्छन्दःशंसनानन्तरं कर्तव्यतामाह-उद्यदिति ।। उद्यद्गध्नस्य विष्टपं ग्रहमिन्दश्च गन्वहि मध्वः पीत्वा सचेवहि त्रिः सप्तसख्यः पदे ॥ १ ॥ उद्यद्भन्नस्य विष्टपमित्युत्तमायां एतां ऋचं शास्त्रस्योत्तमां अन्ते विद्यमानां कृत्वा तया परिदधाति । परिदध्यात् । छादयेत् । तस्य फलमाह- स्वर्ग इति ।। यस्मात्त्रन्नविष्टपं नाम स्वर्गों लोकः तत्प्राप्तिश्च एतया प्रार्थ्यते । तस्मादेतयर्चा परिधानं यजमानं स्वर्गे लोकं गमयति । शस्त्रसमाप्त्यनतन्तरं कर्तव्यमाह अपा इत्यादि ।। एतया ऋचा यजति यजेत । अनया ऋचा यजनफलमाह- सर्वेभ्यो बेति ।। यद्यनया ऋचा होमं कुर्यात् । तर्हि सर्वेभ्यः सवनेभ्यः वृषन्शब्दवाच्यभगवद्रूपेण सनिर्मितो भवति । कः । यः षोडशीप्रथमंपादमनूद्य तत्फलमाह- तद्यदपा इति ।। यजतीत्यंतमनुवादः । प्रातः सवनं पीतवत् अतिशयेन पीतशब्दवत् । अयं च पादः पीतशब्दवान् पीतशच्दप्रकृतिभूतधातुजन्याऽपा इतिशब्दवान् तस्मात्प्रातः सवनपरः । तत् तस्मात् प्रातः सवनविषयपदेन होमानिमित्तात् प्रातः सवनादेव तद्गतात् भगवद्रूपादेव तत्प्रसादादेव एनं क्रतुं सनिर्मिमीत इत्यर्थः ।

द्वितीयपादानुवादपूर्वकं तज्जन्यहोमफलमाह- अयो इदमिति ।। केवलं त इत्यन्तमनुवादः । माध्यंदिनं सवनं केवलं केवलशब्दवाच्येंद्रस्वामिकम् । तस्मात्केवलशब्दद्घटित अयं पादः माध्यंदिनसवनविषयः । तत् तस्मात् । माध्यंदिनविषयपादेन होमानिमित्तात् माध्यंदिनादेव सवनात्तद्देवताप्रसादादेवैनं क्रतुं संनिर्मिमीते ।

तृतीयपादानुवादपूर्वकं तज्जन्यहोमफलमाह- ममद्धीति ।। इन्द्रेतीत्यन्त -मनुवादः । मद्वद्वैतृतीयसवनम् । अतिशयेन मध्ववत् । अयं च पादः । मदं ब्रवीति तृतीयसवनविषयः । तत् तस्मात् तृतीयसवनन्विषयपादेन होमनिमित्तात् तृतीयसवनादेव तद्देवताप्रसादादेव एनं क्रतुं संनिर्मिमीते ।

चतुर्थपादमनूद्य तज्जन्यहोमफलमाह- सत्रावृषन्निति ।। आवृषस्वेतीत्यन्त-मनुवादः । षोळशिनोरूपं वृष्णवत् वृषन्शब्दवाच्येन्द्रप्रियम् । अयं च पादो वृष्णप्रतिपादकः तस्मादनेन पादेन होमात् वृष्णप्रसादेन षोळशिनं सन्निमिमीते। उक्तमर्थ पिण्डीकृत्याह-सर्वेभ्यो वा इति ॥ यत् षोळशी यः षोळशी सः पूर्वैः पुरुषैः सर्वेभ्यः सवनेभ्यः सवननियामकभगवद्रूपेभ्यः कृष्णश्च सम्यक् निर्मिमीते, वै । तत् तस्मात् अद्यापि यत् यदि यः कश्चन अपाः पूर्वेषामिति यजति सर्वेभ्यः सवनेभ्यः वृष्णश्च एनं षोळशिनं सन्निर्मिमीते । फलमाह-सर्वेभ्य इति ॥ सर्वेभ्यः सवनेभ्यः सनिर्मितेन षोडशिना राध्नोति ऋद्धिं प्राप्नोति । उपासकस्य फलमाह एवं वेदेति ॥ य एवं वेद उपास्ते सोऽपि राध्नोति । अपाः पूर्वेषामित्यनया याग उक्तः । तन्नोपपद्यते । षोळशिनैव होमस्य कर्तव्यत्वात् । अस्याश्च त्रिष्टुत्वादित्या-शङ्कापरिहारायाह-महानाम्मीनामिति ।। अपाः पूर्वेषामिति ऋचः चतुषु पादेषु महानान्नीनां पञ्चाक्षरान् पञ्चाक्षरोपेतमहानाम्युपसर्गान् उपसृजति । संयोजयेत् । कथं इत्थम् । पञ्चाक्षरोपेतमहानाम्युपसर्गाः, एवाह्येवैव । एवै वाहीन्द्रं । एवाहि शक्रः । वशी हि शक्रः इति चत्वारः । अस्या ऋचः पादाश्चत्वारः तेषु क्रमेण महांनाम्युपसर्गाः संयोज्याः । अयमत्र संयोजित-पाठक्रमः । एवाह्यवैवापाः पूर्वेषां हरिवः सुतानां । एवैवाहीन्द्रमथो इदं सवनं केवलं ते । एवाहि शक्रो ममद्धि सोमं मधुमन्तमिन्द्र । वशी हि शक्रः सत्रावृषन् जठर आवृषस्वेति । उपसर्गाणां संयोजनफलमाह-सर्वेभ्यो वेति ॥ यः षोडशी स एषः महानाम्युपसर्जनेन सर्वेभ्यः छन्दोभ्यः निर्मितो भवति । उक्तमेवार्थमाद्रेणाहतद्यदित्यादिना ।। संनिर्मित इत्यन्तेन षोडशिनिर्माणस्य फलमाह-सर्वेभ्य इति ।। उपासकस्य फलमाह य एवं वेदेति ।। य एवं वेद उपास्ते सोऽपि राध्नोतीति ।। छ ।।

मूलस्थमहानाम्नीनामित्यस्य आचार्ये ऋचामिति विशेष्योक्तावपि अर्था-प्रतीतेराह महानाम्नीसंज्ञिकानामिति ।। उपसर्जनीभूताः अप्रधानभूता इत्यर्थः । उपसर्जनीत्येतत्पदं व्याकुर्वन्नेवापेक्षितमध्याहरति संयोजयतीति ॥ अतिच्छन्दोभिः त्रिकद्रुकेष्वित्यादितृचद्वयस्थैः । तेषां ऋग्विशेषाणां तत्र त्रिकद्रुकेष्विति प्रथमा ऋक् अनुष्टुव्छन्दस्का । उत्तरेति शङ्कार्थे । प्रोष्विति ऋचः तिस्रोऽपि शाकर्य इति ज्ञेयम् । तद्धि अनुष्टुभादिति सूत्रे तव्यतिषङ्गफलस्योक्तस्य अनुष्टुप्त्वस्योक्तेरित्यभिप्रेत्याह- अनुष्टुत्वसिद्धयर्थंमिति ।। तथा च महानाम्नीसंज्ञिकानां विदा मघवत्रित्यादि ऋग्विशेषाणां उपसर्जनभूतान् वर्णान् अतिच्छन्दसां मध्ये त्रिकद्रुकेष्वित्याद्येकैकऋचो व्यनुष्टुभत्वसिद्धचर्थं तैखिकद्रुकेष्वित्यादिभिः संयोजयति । एवं च षोडशिलक्षणोपेतत्वात् पोडशित्वमुपपन्नमिति ब्राह्मणवाक्यार्थ उक्तो भवतीति भावः । अस्यैव संग्रहवाक्यस्येति ।। संकोचव्याख्यानरूपवाक्यस्य विवरणम् । महत् नाम 'या स्वृक्षु' इत्यादिनेति शेषः । नत्रा निर्दिष्टमनित्यमिति ।। नञा नशब्देन निर्दिष्टं उक्तं कार्यं अनित्यं कचित् भवति, कचिन्न भवतीति परिभाषार्थः । महानाम्नीत्यत्र नकारान्तत्वात् 'ऋनेभ्यः ङीप्' इति सूत्रेण प्राप्तङीप्प्रत्ययस्य 'मन' इति सूत्रं 'न पट्स्वस्रादिभ्य' इति सूत्रात् नोऽनु-वृत्तेर्मनन्तात् स्त्रियां ङीप् निषेधस्य नञा निर्दिष्टत्वेन अनित्यत्वादभावात् ङीप् जातः । अस्याः परिभाषायाः ज्ञापकं यद्वृत्तान्नित्यमिति तिङ्स्वर-निषेधेऽपि निपातैर्यद्यदिहंतेति पुनस्तिस्वरनिषेधः । एतदुपपादनं तु मत्कृतशाब्दिककण्ठमणौ तट्टीकायां च द्रष्टव्यम् । प्रकारान्तरमप्याह- वेद-त्वाद्वेति ।। सर्वेविधयश्छन्दसि विकल्प्यन्त इत्युक्तेः मन इति ङीनिषेधस्य वेदे वैकल्पिकत्वादिति भावः । कस्मादिति ॥ प्रवृत्तिनिमित्तादिति शेषः । इन्द्रादिकमित्यस्य अर्थप्रकरणत्वात् नामशब्दसामानाधिकरण्यानुपपत्तेराह - इन्द्र इत्यादिकमिति ॥ इन्द्रादिकमिति शाकपार्थिवादित्वात् उत्तरपदलोपि समासोऽयमिति भावः ।

ननु परस्य ब्रह्मण इत्यादेरेकवाक्यत्वात् कथमस्य वाक्यस्य प्रश्नोत्तरत्व-मित्यत आह- अत्रेति ।। तथा च कस्य नामेत्यस्य प्रश्नस्य परस्य ब्रह्मण इत्युत्तरम्, किञ्च तदित्यस्य इन्द्रादिकं यन्नामेत्युत्तरम् । कस्माच्च महदित्यस्य महार्थत्वादित्युत्तरमित्यनन्तरवाक्यात्दुक्तानि भवन्ति । महार्थत्वमिति ।। महान् अर्थः प्रतिपाद्यो यस्य नाम्नस्तन्महार्थः तस्य भावो महार्थत्वमित्यर्थः । यस्यैतन्नामेति ।। यस्य परन्ब्रह्मणः एतत् इन्द्रशक्रादिकं नामेत्यर्थः । महद्धीत्यत्र हिशब्दस्य वैय्यर्थ्यमाशङ्कच तत्परिहरति हिर्हताविति ॥ तदुपपादयति-तस्मादिति ।। अशेषगुणपूर्तेरित्यत्र अशेषगुणानां पूर्ति प्रति-कर्तृत्वं कर्मत्वं वा विवक्षयित्वा विग्रहं प्रदर्शयति । अशेषगुणैरित्यादिना || गुणानां कर्तृत्वपक्षे वा अशेषगुणशब्दात् कर्तृकर्मणोः कृतीति कृतायाः षष्टट्याः पूर्तिशब्देन षष्ठीसमासः इति भावः ।

ननु गुणपूर्त्या ब्रह्मणो महत्वं कथम् । कुत्राप्यदृष्टत्वादित्यतः महत्वभेदं सदृष्टान्तं वदन् ब्राह्मणप्युपपादयति महत्वं हीति ।। परिमाणपूर्त्या सर्व-देशव्याप्त्या सत्तापूर्त्या सर्वकालव्याप्त्या यथा गगनत्वादेरिति । अव्या कृताकाशवणदिः सर्वदेशकालव्याप्तान्महत्वम् । प्रकारद्वयेन महत्वमुक्तत्वा प्रकृतोपयोगार्थं तृतीयेन प्रकारेण महत्वमाह-ज्ञानादिगुणपूर्त्या वेति ।। यया वसिष्ठादेरिति ।। महर्षयः सप्त पूर्वे चत्वारो मनवस्तथेत्यादौ वसिष्ठादि-सप्तऋषीणां यन्महत्वं व्यह्रीयते तद्ज्ञानादिनैवेति भावेन महर्षय इति भगवद्गीतायां कृष्णेन व्यवहृतम् । 'ऋष ज्ञाने' इति धातोः । ब्रह्मणि कैमुत्यन्यायेन महत्वमुपपादयति इदं त्विति ।। परब्रह्मेत्यर्थः ।