न चानिर्वचनीयविशेष इति भवति । अनिर्वचनीयासिद्धेः
(सदसद्वैलक्षण्यानुमाने प्रतिज्ञाव्याहत्युक्तिः)
मूलम्
९-मूलम्-न चानिर्वचनीयविशेष इति भवति । अनिर्वचनीयासिद्धेः । न हि तत्र प्रत्यक्षमस्ति । मिथ्याशब्दस्त्वभाववाच्येव । तदन्यत्र प्रमाणाभावात् । न चान्यत् प्रमाणम् । प्रतिज्ञाव्याहते: । नहि सदन्तरादसतश्चान्यत् सदसद्विलक्षणं प्रसिद्धम् । असन्न भवतीत्युक्ते 'द्वौ नयौ प्रकृतमर्थं सातिशयं गमयतः' इति सदेव भवति । असदन्तरं वा विशेषविवक्षायाम् ॥
टीका
टीका- ननु मिथ्याविशेषशब्देनास्माभिरनिर्वचनीयविशेषोऽभिहितः । न त्वसन् । तथा च न व्याहतिः । सत्वाभावेऽप्यसद्विलक्षणत्वेन मतुवर्थसम्भवात् । अत एव नोक्तदोषतादवस्थ्यम् । वचनादीनामसद्विलक्षणविषयप्रदानादित्यत आह-न चेति ॥ यद्यप्यसत्त्वपक्षेऽपि व्याहत्यसङ्गती सुपरिहरे । प्रतिभासापेक्षया मतुब्, वचनादीनि भ्रान्तानीत्याशयोद्घाटनसम्भवात् । तथाप्यपसिद्धान्तो दुष्परिहर एवेत्यन्ययाशङ्कितम् । भवति युक्तमिति शेषः । कुत इति चेदुच्यते । स्यादिदं वचनादीनां विषयप्रदानं यदि ब्रह्मणो जगत्कर्तृत्वादेर्विषयस्यानिर्वाच्यं प्रमाणं स्यात् । न च तदस्ति। न तावदत्र प्रत्यक्षम् । नाप्यागमः । 'अद्भुतत्वादनिर्वाच्यं ब्रह्म' इत्यागमेनैवान्यथा व्याख्यातत्वात् । न च वचनद्वयविरोधादर्थापत्तिः । अन्यथैव विरोधस्य परिहृतत्वात् । ब्रह्मणो जगत्कर्तृत्वादिकमनिर्वचनीयं दृश्यत्वादित्यादिकमनुमानं तर्हि भवत्वित्यत आह-अनिर्वचनीयेति ॥ अनिर्वचनीयस्य कस्याप्यसिद्धेर्दृष्टान्ताभावान्नानुमानं युक्तम् । न च केवलव्यतिरेकि । त्वत्पक्षे सपक्षसद्भावात् । कथमनिर्वचनीयासिद्धिरिति चेत् प्रमाणाभावादित्याशयवांस्तावत् प्रत्यक्षाभावमाह न हीति ॥ न हि कश्चिन्ननीलमिदमितिवद् अनिर्वचनीयमेतदिति प्रत्यक्षेण प्रत्येतीति हेरर्थः । तत्र अनिर्वचनीयेऽर्थे । ननु शुक्तिरजतादिभ्रान्तेरुत्थितो मिथ्यैवेदं रजतमिति तावदनुवदति । मिथ्याऽनिर्वचनीयमिति च पर्यायायेतौ । तथा च तेन तन्मूलं प्रत्यक्षमनुमीयते । तत्कथमुच्यते प्रत्यक्षमात्र नास्तीति तत्राह-मिथ्येति ॥ न भवतीत्यभावोऽसन् । अभावप्राधान्याद्वा । कुत इत्यत आह-तदन्यत्रेति ॥ अनिर्वचनीयवचनत्वे । नाप्यागमः । शुक्तिरजतादिकमनिर्वचनीयमित्येवमात्मकस्यागमस्यादर्शनात् । अस्तु तर्हि शुक्तिरजतादिकमनिर्वचनीयं बाध्यत्वाद् व्यतिरेकेण ब्रह्मवत् इत्यनुमानमत्र मानमित्यत आह-न चेति । अन्यत् प्रत्यक्षागमाभ्याम् । कुत इत् आह प्रतिज्ञेति ॥ यदि अनिर्वचनीयत्वं नाम निर्वचनविरहः तदा अहं मूक इतिवत् प्रतिज्ञायाः स्वक्रियाविरोधः । यदि च सदसद्विलक्षणं तदापि वन्ध्या पुत्रवतीतिवत् प्रतिज्ञायाः स्ववचनव्याहतिः स्यात् सदसद्वैलक्षण्यसाधनेऽप्रसिद्धविशेषणतां चाह-न ही ॥ सदसद्विलक्षणं नहि प्रसिद्धमिति सम्बन्धः । ननु घटस्तावत् सतः पटात् असतश्च शशविषाणाद् विलक्षणः प्रसिद्धः । तत्कथमेवमुच्यत इत्यत उक्तम्-सदन्तरादसतश्चान्यदिति ॥ असतश्चेत्यतः परं विलक्षणादित्युपस्कर्तव्यम् । सत्यमेवं सदसद्विलक्षणं प्रसिद्धम् । न चेदं परस्य साध्यम् । किन्त्वन्यदेव । सत्त्वेन चासत्त्वेन चानिरूप्यत्वम् । तच्चा-प्रसिद्धमेव । न हि शब्दसाम्यमात्रेणानुमानस्य प्रवृत्तिरतिप्रसङ्गादिति । सदसद्वैलक्षण्यप्रतिज्ञा स्वव्याहतेत्युक्तम् । तद्व्युत्पादयति-असदिति ॥ शुक्तिरजताद्यसन्न भवतीत्युक्ते सदेवोक्तं भवति । कुतः ? ' द्वौ नयौ प्रकृतमर्थं सातिशयं गमयतः' इति व्याप्तेरिति योजना । तथा च पुनः सन्न भवतीति वदतः कथं न स्वव्याहतिरिति शेषः । एवं सन्न भवती-त्युक्तेऽसदेवोक्तं भवति । पुनरसन्न भवतीति ब्रुवाणस्य स्यादेव स्वव्याहतिरित्यपि द्रष्टव्यम् । यद्वस्तुस्वरूपमेकेन नयर्थेन विशिष्टम् प्रतिपाद्यते तदेव तस्य विशिष्टस्य पुनर्नयर्थसम्बन्धे सति लभ्यते । अघटो न भवतीत्युक्ते घटो यथेत्युक्तम् । तदसत् । प्रागसन्न भवतीत्युक्ते प्रध्वस्तासतोऽत्यन्तासतो वा प्राप्तेः सत्प्राप्त्यभावाद् व्याप्यसिद्धेरित्यत आह-असदन्तरं वेति ॥ विशेषविवक्षायां प्रथमनत्रर्थविशिष्टस्य विशेषणे विवक्षिते सत्येव । पुनस्तस्य नञर्थसम्बन्धे असदन्तरमेव लभ्यते । न तु विशेषविवक्षाभावे । प्रकृते च सा नास्तीति । अत्रासदन्तरमिति प्रकृतापेक्षयोक्तम् । वस्तुतस्तु प्रकृतजातीयान्तरमिति द्रष्टव्यम् । इदमत्राकूतम् । ‘विशिष्टविषयौ विधिनिषेधौ विशेषणमुपसङ्क्रामतः' इति तावत् ‘लोहितोष्णीपा ऋत्विजः प्रचरन्ति' 'न जीर्णमलवद्वासाः स्नातकः स्यात्' इत्यादौ प्रसिद्धम् । क्वचिद्विशिष्टसम्बन्धश्चागत्यैव । प्रकृते चासदिवि चाघट इति च नञर्थेन निषेधेन विशिष्टं सच्च घटश्चोच्यते । तद्विषयश्च द्वितीयो निषेधो विशेषणीभूतेन निषेधेनैव सम्बध्यते । ततश्च निषेधेनिषिद्धे सच्च घटवोक्तो भवति । प्रागसन्न भवतीत्यादौ च द्वितीयो निषेधो नञर्थविशिष्टस्य यदपरं विशेषणं प्राक्त्वादि तेनैव सम्बध्यत इत्यसदन्तराद्येव लभ्यते । न चैवं प्रकृते शुक्तिरूप्यादेरसत्त्वाभ्युपगमप्रसङ्गात् । ननु यदि द्वौ नत्रौ प्रकृतमेवार्थं गमयतस्तदा तत्प्रयोग एव व्यर्थः स्यात् । न स्यात् । प्रतिषेधप्राप्तेरपि प्रतिषेधेनाऽतिशयलाभादिति ॥
भावदीपः
(रा. टि. ) एतत्पक्षशङ्का प्राचीनपक्षशङ्कावन्न ( अ ) समाहितेति भावेनोक्तदोषं निराह तथाच न व्याहतिरित्यादिना ।। प्रतिभासापेक्षयेति ॥ शुक्तिरूप्यादेरिव ब्रह्मणि विशेषप्रतीतिमात्रापेक्षया मतुप् न तत्र सत्त्वापेक्षयेत्यर्थः । अन्यथेति । 'न चानिर्वचनीय' इति पक्षान्तरमाशङ्कितमित्यर्थः । भवतीति मूलपदमनूद्य तत्र शेषमाह युक्तमिति शेष इति ॥ युक्तं न भवतीत्यर्थः । न तावदत्र प्रत्यक्षमिति । अनुपलम्भादिति भावः । पुराणेष्वनिर्वाच्यत्वाद्युक्तिरस्तीत्यत आह अद्भुतत्वादिति ॥ 'अद्भुतत्वादनिर्वाच्यं ब्रह्म चिचेत्यमेव च' इत्यादिना तत्वोद्योतादौ स्पष्टं व्याख्यानादिति रूपवचनद्वपविरोधान्यथानुपपत्तिरूपार्थापत्तिरूभयवैलक्षण्यरूपानिर्वाच्यत्वे भावः । न चेति ॥ ‘नासदासीन्नो सदासीत्' इति सत्त्वनिषेधासत्त्वनिषेध-प्रमाणमिति न चेत्यर्थः । अन्यथैवेति ॥ तत्वोद्योतादौ 'मूर्तं सदिति सम्प्रोक्तम्' इत्यादिना मूर्तामूर्तनिषधपरत्वेन व्याख्यानादिति भावः । पत 'सत्यः सो अस्य महिमा' इति, 'नेह नाना' इति च सत्वासत्त्वबोधक वचनद्वपविरोधः सदसद्वैलक्षण्यरूपानिर्वचनीयत्वं विनाऽनुपपद्यमानत्वरूपार्थापत्तिस्तत्र प्रमाणमित्यर्थः । 'नेह नाना' इत्यादिवाक्यस्य भगवद्रूपगुणकर्मभेदनिषेधपरतया विरोधस्यानुव्याख्यानादावन्यथैव परिहृतत्वादित्याह- अन्यथैवेति ।। ‘यः सर्वज्ञः' इत्यादि ‘एकधैव’ इत्यादिवचनद्वयविरोधस्य ‘श्रुतिस्तु’ इत्यादिना पूर्वतनग्रन्थेनैव परिहृतत्वादिति भावः । न च केवलव्यतिरेकीति ।। दृश्यत्वानुमानमित्युनुषङ्गः । सपक्षसद्भावादिति तन्मते शुक्तिरूप्पस्यानिर्वचनीयत्वात्तस्य सपक्षत्वादिति भावः । तन्मूलमिति ॥ अनुवादमूलमित्यर्थः । न भवतीत्यभाव इति ।। कर्तृसाधनोऽयं भावशब्दो न भावसाधनः, ‘भवतेश्च’ इति णप्रत्यय इति भावः । अहं मूक इतिवदिति ॥ अनिर्वचनीयमिति शब्देन निर्बुवन्नेव अनिर्वचनीयं वचनहीनमिति स्ववचनक्रियया विरोध इत्यर्थः । वन्ध्या पुत्रवतीतिवद्व्याहतिरित्येतदग्रे स्पष्टम् । काङ्क्षितपूर्त्या वाक्यतात्पर्यमाह-इत्युपस्कर्तव्यमित्यादिना ॥ सदन्तरादित्यत्रापि विलक्षणादिति पदमनुपञ्जनीयमिति भावः । शब्दसाम्यमात्रेणेति । सदसद्विलक्षणमित्येवंरूपेणेत्यर्थः । अतिप्रसङ्गादिति ।। गोत्वाद्भूः शृङ्गवतीत्याद्यपि स्यादिति भावः । शेषोक्त्या व्याहतिं स्पष्टयति- तथाचेति ।। शङ्कते-यद्वस्तुस्वरूपमिति । तदेव तद्वस्तुस्वरूपमेवत्यर्थः । लभ्यत इत्यत्रान्वयः ।तदुपपादनम्-तस्येत्यादिना || विशिष्टस्येति । नञर्थविशिष्टस्येत्यर्थः । प्रागिति । पूर्वकालेऽसनेत्युक्ते प्रध्वंसात्पूर्वं घटोऽसन्नेति, प्रध्वंसेनासन् यो घटः प्रध्वस्तासन्, तस्य प्राप्तेः । त्रिकाले असन् यो नृशृङ्गादिः सोऽपि प्रागसन्न भवति । त्रिकालेऽसत एककालावच्छिन्नासत्त्वाव्यपदेशादतः तस्य प्राप्तेरित्यर्थः । विशेषविवक्षायामित्यनुवादः प्रथमेत्यादिव्याख्या । विशेषण इति ।। असदित्यस्य प्राक्त्वादिरूपे विशेषणे सत्येवेत्यर्थः । न त्विति ।। प्रथमनञर्थविशिष्टस्य प्राक्त्वादिविशेषणविवक्षाभाव इत्यर्थः । प्रकृते चेति || सदसद्विलक्षणमिति प्रतिज्ञागतासच्छदे विशेषणविवक्षा नास्तीत्यर्थः । प्रकृतजातीयेति ।। अतिपूर्वतनो नेत्युक्तेऽधुनातनप्रध्वंसवान्वा अत्यन्ताभावाभाववान्वा अन्तरमित्यादि ध्येयमित्यर्थः । अस्फुटत्वाद्व्यनक्तिइदमत्राकूतमिति ।। लोहितेति ।। रक्तविशिष्टवस्त्राः सन्त ऋत्विजः प्रचरन्ति कर्मानुतिष्टन्तीत्यत्र लौहित्यरूपविशेषणमात्रविधावुदाहरणमेतत् । विशेषणमात्र निषेधोदाहरणम्- न जीर्णेति ॥ स्नातकव्रतं कुर्वन् जीर्णवाससा मलवद्वाससा वा वेष्टितो न स्यात्, किन्त्वजीर्णमलवासोयुक्तः सन् कुर्यादित्यर्थः । क्वचिदिति ।। दण्डिनमानय, दण्डी नास्तीत्यादौ । विशिष्टसम्बन्धो विधिनिषेधयोरित्यनुषङ्गः । न चैवं प्रकृत इति ।। असन्नेत्यत्र विशेषणान्तरस्यैव निषेधो, न प्रथमनञर्थनिषेधनिषेधो द्वितीयनञर्थेनेत्येवं न च तथात्वेऽसत्त्वस्यानिषेधेन तदभ्युपगमप्रसङ्गादित्यर्थः । इदानीं 'सदेव भवति' इत्यत्रैवकारतात्पर्यं वक्तुमाह-ननु यदीति ।। लाभादित्यनन्तरम् अत एव सदेवेत्येवकारप्रयोग इति योज्यम् । सदसद्वैलक्षण्यानुमाने प्रतिज्ञाव्याहत्युक्तिः ||
विवरणम्
(श्री.टि.) उक्तदोषेति ।। अशेषविशेषवचनानुभवादिविरोधरूपाविशेषपक्षोक्तदोषेत्यर्थः । अत एवेत्युक्तं विशदयति वचनादीनामिति ॥ ननु 'नचानिर्वचनीय' इति मूलेन मिथ्याविशेषशब्देनानिर्वचनीयविशेष एवोच्यते । नासन् विशेषः इति कस्मादाशङ्कयते । न च विशेषाणां मिथ्यापदेना-सत्त्वाङ्गीकारपक्षे मतुपोऽस्त्यर्थाङ्गीकारे स्ववचनव्याहतिः, तदप्रयोगे चासंगतिरिति तद्भियाsसत्वपक्षं परित्यज्यानिर्वचनीयत्वं शंक्यत इति वाच्यं ।विशेषाणां मिध्यापदेनासत्त्वाङ्गीकारपक्षेऽपि व्याहत्यसङ्गत्योः सुपरिहरत्वात् । रजतवदिति प्रतिभासापेक्षया मतुपः सम्भवेन न व्याहतिरित्यर्थः । मतुपोऽकथम्? इत्यत आह-प्रतिभासेति । असन्विशेषोऽस्तीति प्रतीयते शुक्ति-प्रयोगेऽसङ्गतिपरिहारः कथमित्यत आह-वचनादीनीति | विशेषो मिध्या । ततश्च तत्प्रतिपादकवचनादीनि भ्रान्तानीत्याशय उद्घाट्यतेऽतो नासङ्गतिरित्यर्थः । तथापीति ॥ यद्यप्येवं व्याहतेरित्यस्य न व्याहत्यर्थकत्वं यदा तदैव तत्परिहारेऽपसिद्धान्तार्थकत्वं यदा तदा तत्परिहारः कयापि रीत्या सम्भवति विशेषणामसत्त्वाङ्गीकारे तस्य वज्रलेपत्वादित्यर्थः । अन्यथेति || 'न च' इति मूलेन मिथ्याविशेषपदेनानिर्वचनीयविशेष उच्यत इति प्रकारान्तरेण शङ्कितमित्यर्थः । युक्तमितीति ॥ भवतीत्यतः पूर्वं युक्तमिति शेष इत्यर्थः ' सगुणत्वनिर्गुणत्वप्रतिपादकवचनद्वयविरोधान्यथानुपपत्त्या तद्गुणानामनिर्वचनीयतेत्यर्थः । वचनद्वयेति ॥ अन्यथैवेति । सगुणपरवाक्यानां पारमार्थिकगुणप्रतिपादनपरत्वेन निर्गुणवाक्यस्य च सत्त्वादिगुणाभावप्रतिपादनपरत्वेन च विरोधस्य परिहृतत्वादर्थापत्तेरन्यथैवोपपत्तिरित्यर्थः । सपक्षेति ॥ शुक्ति-रजतादिरूपेत्यर्थः । अस्मत्पक्षे शुक्तिरजतादेरसत्त्वेनानिर्वचनीयत्वाभावात् त्वत्पक्ष इत्युक्तम् । तथाचासत्सपक्षत्वरूपलक्षणाभावान्न केवलव्यतिरेकित्वमिति भावः । तेन अनुवादेन । अनुमीयत इति ।। भ्रान्त्युत्थितोऽयमनिर्वचनीयार्थप्रत्यक्षवान्, प्रेक्षावत्त्वे सत्यनिर्वचनीयार्थकमिथ्याशब्दप्रयोक्तृत्वात् । यः प्रेक्षावत्त्वे सति यत्प्रतिपादकशब्दप्रयोक्ता स तदर्थज्ञानवानिति व्याप्ति-मूलस्थोऽभावशब्दः प्रतियोगिप्राधान्यविवक्षायां कर्तृव्युत्पत्त्याऽसत्पर इत्यर्थः । अत्यन्ताभावप्रतियोगीति यावत् । अभावेति ।। मिथ्यैव रजतमित्यस्य नास्ति रजतं किन्तु तदत्यन्ताभावोऽस्तीति ह्यर्थः । तथाचाभावप्राधान्याद् अभाव वाचीत्युक्तमिति भावः । अहं मूक इति ।। शुक्तिरजताद्यनिर्वचनीयमित्यत्रशुक्तिरजतादीतिपदेनैव निर्वचनादिति भावः । वन्ध्येति ॥ सहिलक्षणमित्युक्तेऽसत्त्वस्य प्राप्त्या पुनरसद्विलक्षणमित्युक्ते स्ववचनव्याहतिः । एवमेवासद्विलक्षणमित्युक्ते सत्त्वस्यैव प्राप्त्या पुनः सन्न भवतीत्युक्ते स्ववचन-व्याहतिरित्यर्थः ।
ननु सदन्तरादसतचान्यदित्यनेन कथमुक्ताकापरिहार इत्यत आह-असतश्चेत्यतः परमिति ।। इदं सदन्तरविलक्षणत्वे सत्यसद्विलक्षणत्वम् । अर्थान्तरप्रसङ्गादिति शेषः । तर्हि कीदृशं साध्यमिति पृच्छति किन्त्विति ॥ उत्तरमाह अन्यदिति ।। तदेव दर्शयति-सत्त्वेन चेति ॥ ननु सदन्तरविलक्षणत्वे सत्यसद्विलक्षणत्वरूपस्य सदसद्वैलक्षण्यस्य घटादौ प्रसिद्धत्वात्सत्त्वेनासत्त्वेन वा निर्वक्तुमशक्यत्वस्यापि सदसद्वैलक्षण्यशब्दार्थत्वेन शब्दसाम्यसत्त्वान्न साध्याप्रसिद्ध्याऽनुमानाप्रवृत्तिरित्यत आह-नहीति । अतिप्रसङ्गादिति ।। शब्दसाम्येन चेदनुमानं तर्हि पृथिव्यावाचश्च गोत्वेन प्रसिद्धेर्गोवच्छृङ्गित्वसाधनापत्तिरित्यर्थः । उक्तमिति ॥ अनेन मूले 'सदेव' इत्यनन्तरम् उक्तमिति शेष उक्तो भवति । मूले इतीत्यनन्तरं व्याप्तेरिति शेष इत्यभिप्रेत्य व्याप्तेरित्युक्तम् । पूर्वग्रन्थस्य फलितमर्थं वदनुत्तरवाक्य मवतारयति-यद्वस्त्वित्यादिना ॥ इत्युक्तमिति ॥ इति लब्धमित्यर्थः । तदेव वस्त्वित्यर्थः । प्रागित्यादि । अत्र प्रागभावप्रतियोगित्वं प्रागसत्त्वम्. प्रध्वंसाभावप्रतियोगित्वं प्रध्वस्तासत्त्वम् अत्यन्ताभावप्रतियोगित्वमत्यन्तासत्त्वं प्रागसदादिशब्दैर्विवक्षितम् । अभावप्रतियोगित्वरूपमसत्त्वन्तूक्तत्रितयसाधारणमतः प्रागसदादेरसद्विशेषत्वादसदन्तरत्वं विवक्षितम् । एवं च प्रागसन्न भवतीत्युक्ते प्रागभावप्रतियोगि नेत्युक्तं स्यात् । तथा च ध्वंसप्रतियोगित्वादिरूपं प्रध्वस्तासत्त्वादिकमेवाऽयास्यति । न तु सदित्युक्तव्याप्तेर्व्यभिचार इति भावः । विशेषविवक्षायामित्यनूद्य प्रथमेत्यादि सत्येवेत्यन्तं व्याख्यानम् । विशेषणे प्रथमनञर्थरूपविशेषणभिन्नविशेषणे प्राक्त्वादिरूप इत्यर्थः । तस्य | प्राक्तत्वादिरूपविवक्षितविशेषणान्तरस्य । असदन्तरमेवेत्यनेन मूले वाशब्द एवार्थ इत्युक्तं भवति । प्रकृते चेति । असन्न भवतीत्यत्र सति असदिति प्रथमनञर्थरूपविशेषणभिन्नविशेषणान्तरविवक्षा नास्तीत्यर्थः । तथाच यद्वस्त्वित्यादिरूपा विशेषविवक्षाविरहघटितैव व्याप्तिरभिमतातो न व्यभिचार इति भावः ।
ननु यद्वस्त्वेकेन नञर्थेन विशिष्टमादौ प्रतिपाद्यते तस्य विशेषणान्तरविवक्षायां तस्य पुनर्नञन्तरसम्बन्धेऽसदन्तरं लभ्यत इति नियमोऽयुक्तः । नीलघटो नेत्यादौ व्यभिचारात् । एवं च नीलघटो नेत्युक्ते पीतघटस्यैव प्राप्त्याऽसदन्तरप्राप्त्यभावादित्यत आह-अत्रेति । प्रागसन्नेत्यादौ व्यभिचार-परिहारस्य प्रकृतत्वात्तदपेक्षयैवासदन्तरमित्युक्तम् । न तु सार्वत्रिकनियमविवक्षयेत्यर्थः । वस्तुतः सार्वत्रिकनियमविवक्षायामसदन्तरमिति स्थाने कि वाच्यमित्यत आह-वस्तुतस्त्विति ।। प्रथमनञर्थविशिष्टं प्रकृतशब्देनोच्यते । एवं च यद्वस्तु एकेन नञर्थेन विशिष्टमादौ प्रतिपाद्यते तस्य विशेषणान्तरविवक्षायां तस्य नञन्तरसम्बन्धे सति प्रकृतनञर्थविशिष्टजातीयान्तरं लभ्यत इति नियमो द्रष्टव्यः । एवं च प्रागसन्नेत्यादौ प्रथमनञर्थविशिष्टं यत् प्राक्सत् तज्जातीयं यत्प्रध्वस्तसदादि तल्लभ्यते । नीलघटो नेत्यादावपि न व्यभिचारः । तत्रापि प्रथमनञर्थविशिष्टो यो नीलघटस्तज्जातीयान्तरं यत् पीतघटादिकं तदेव लभ्यत इति भावः । लोहितोष्णीष इति ।। ' लोहितोष्णीषा ऋत्विजः प्रचरन्ति' इत्यनेन सोष्णीषऋत्विक्प्रचरणस्य प्राप्तत्वादप्राप्तस्यैव विधेयत्वालोहितोष्णीषा इति विधेर्विशिष्टे न तात्पर्यं किन्त्वप्राप्ते लोहितरूपविशेषण एवेति भावः ।
न जीर्णेति । नन्विदं किं विशिष्टविषयस्य विशेषणमात्रपरस्य विधेरेवोदाहरणान्तरं तादृशनिषेधोदाहरणं वा । नाद्यः । वैयर्थ्यात् । निषेधस्यैव प्रकृतत्वेन तादृशनिषेधमनुदाहृत्य विधेरेवोदाहरणद्वयस्यासङ्गतेश्च । नान्त्यः |न जीर्णेत्यादेर्निषिद्धत्वस्यैवासम्भवात् । तथा हि । किमत्र जीर्णमलवत्त्वोभय विशिष्टं वासो निषिध्यते, किं वैकेकविशिष्टं वास: उत विशेष्यं वासोमात्रम्, अथ जीर्णमलवत्वरूपं विशेषणद्वयम् । आहोस्विज्जीर्णत्वं मलवत्त्वं वैकेक विशेषणम् । नाद्यः । विशिष्टनिषेधेन विशेष्यवाससोऽपि निषेध्यतया नवस्याप्यन्वयापत्तेः । एकैकविशिष्टस्योपादानापत्तेश्च । न द्वितीयः । वाक्यभेदापत्तेः । न तृतीयः । नग्नस्यैवान्वयप्रसङ्गात् । नापि चतुर्थः । एकैकविशिष्टस्योपादानापत्तेरेव । नापि पञ्चमः । वाक्यभेदप्रसङ्गादेव । अतोऽनन्यगत्या नानुयाजेष्विव पर्युदासलक्षणया जीर्णमलवदन्यत्वविशिष्टवासोविधिरेवायम् । अत एव ‘सुवाससा भवितव्यमिति श्रुतिरत्र मूलम्' इति भाट्टोक्तमपि युज्यते । निषेधकत्वे हि विधायकमूलत्वं न स्यात् । तथा चात्र कथमेतदुदाहरणमिति ।
अत्र ब्रूमः । विशिष्टनिषेधादौ नग्नान्वयापत्त्यादिना विशेषणमात्र-निषेधाङ्गीकारात् । तत्रापि न जीर्णमलवत्त्वोभयनिषेधः । येनैकैकविशिष्टस्योपादानं स्यात् । किन्त्वेकैकनिषेध एव । तथा सति वाक्यभेदः स्यादिति चेत्, स्नातकवासो जीर्णं न स्यान्मलवन्न स्यादिति प्रसज्यप्रतिषेधार्थक-नञोऽन्वयमङ्गीकृत्य वाक्यार्थप्रतीत्यङ्गीकारे हि वाक्यभेदः स्यात्, न चैत्रम् । किन्तु स्नातकसामानाधिकरण्यानुपपत्त्या विशिष्टान्वयेनैव नञा जायमान-निषेधवाक्यार्थप्रतीतिर्विशेष्यबाधादिना तात्पर्यवशादेकैकविशेषणप्रतियोगिक-निषेधद्वयं विषयीकरोतीति । नचैवं सति वाक्यभेददोषोऽस्ति । अन्यथा विशिष्टपक्षेऽप्यगतेः । नह्यत्र जीर्णमलवत्त्वोभयान्वयविशिष्टं वासो विधीयते । एकैकविशिष्टस्योपादानापत्तेः । किन्त्वेकैकप्रतियोगिकान्योन्याभावद्वयविशिष्टं वासो विधीयत इति वाच्यम् । तथाऽन्योन्याभावभेदेन तवापि वाक्यभेदापत्तिर्दुर्वारा । इयान् परं विशेषः । तव विधेयभेदो मम निषेध्यभेद इति । ‘सुवाससा भवितव्यम्' इति विधेरपि जीर्णत्वमलवत्त्वाभावरूपवास:सौष्ठव- विधायकस्योभयनिषेधकं 'न जीर्णमलवद्वासा:' इति वाक्यं प्रति मूलत्वम-विरुद्धम् । उभयोरेकार्थत्वादिति सर्वमकलङ्कम् । अत्रादिपदेन 'यजमानपञ्चमा ऋत्विजः न भृशं वदेत्' इत्यादेर्ग्रहणम् ।
क्वचिदिति || ' सोमेन यजेत' इत्यत्र । तत्र हि सोमरूपद्रव्यवता यागेनेति मत्वर्थलक्षणया विशिष्टविध्यङ्गीकारादित्यर्थः । सोमस्य द्रव्यस्य यागनामत्वानुपपत्तेर्द्रव्ययागोभयविधौ च वाक्यभेदापत्तेर्वाक्यभेदोऽङ्गीकृतः । तदभिप्रायेणागत्येत्युक्तम् । तद्विषयश्चेति ।। नञर्धविशिष्टसद्घटविषयक इत्यर्थः। निषेधेनैवेति । 'न जीर्ण' इत्यादाविव प्रकृतेऽपि विशेष्यभूतस्य सतो घटस्य च निषेधायोगादिति भावः । ननु यथा प्रागसन्न भवतीत्यादौ प्रथमनञर्थविशिष्टे सति प्राक्त्वादिरूपविशेषणान्तरस्य विवक्षितत्वात्तस्य पुन-र्नञन्तरसम्बन्धेऽसदन्तरमेव लभ्यते न सदित्युच्यते । एवं प्रकृतेऽपि शुक्तिरजतादिकमसन्न भवतीत्येव नोच्यते । येन सतः प्राप्त्या व्याहतिः स्यात्, किं नामात्यन्तासन्न भवतीत्युच्यते । तथा च प्रथमनञर्थविशिष्टेऽसत्वत्पन्तत्वरूपविशेषणान्तरस्य विवक्षितत्वात्तस्य पुनर्न भवतीति नञनन्तर-सम्बन्धे प्रागसत्त्वप्रध्वस्तासत्त्वयोः प्राप्त्या सतः प्राप्त्यभावान्न व्याहतिरित्यत आह-नचैवमिति ।। कुतो नेत्यत आह-शुक्तीति ।। सत्त्वाभ्युपगमेति ॥ तथा च विशेषणान्तरविवक्षायां प्रागसन्नेत्यादौ यथाऽसदन्तरस्य प्राप्तिरेवमत्राप्यत्यन्तत्वरूपविशेषणान्तरविवक्षायां सत्यां शुक्तिरजतादिकमत्यन्ता- सन्नेत्युक्तं स्यात् । तथा च प्रागभावध्वंसप्रतियोगित्वरूपप्रागसत्त्वादि- रूपासत्त्वाभ्युपगमप्रसङ्गेन सिसाधयिषितासद्वैलक्षण्यासिद्धिप्राप्त्याऽपसिद्धान्त इति भावः । अतोऽत्यन्तत्वरूपविशेषणान्तरविवक्षा न कार्येति स्यादेव व्याहतिरिति ज्ञेयम् । ‘द्वौ नत्रौ प्रकृतमर्थं सातिशयं गमयतः' इत्युक्तव्याप्तौ सातिशयपदकृत्यं वक्तुमाहनन्विति । तत्प्रयोग एवेति ।। सन् घट इत्येव प्रयोगं बिना नञ्द्रयप्रयोगो व्यर्थ एवापन्न इत्यर्थः । अतिशयेति ॥ सर्वथाप्यप्रामाण्यशङ्काशून्यज्ञानविषयत्वरूपातिशय इत्यर्थः । अतो व्याप्तौ सातिशयं गमयत इत्युक्तमिति भावः ||
कर्मप्रकाशः
(स.टि ) सत्वाभावेऽपीति । पारमार्थिकसत्वाभावेऽपि मतुवर्थस्य व्यावहारिकसत्वस्य सम्भवादित्यर्थः । धनवान् ज्ञानवान् इत्यादी व्यावहारिकरात्वस्य मतुवर्थत्वदर्शनात् । व्यावहारिकसत्वमेव मत्वर्य इति भावः । न चेति प्रतीकग्रहणानन्तरं टीकायां श्रूयमाणं 'यद्यपि असत्वपक्षेऽपि व्याहत्यसङ्गती सुपरिहारे । प्रतिभासापेक्षया मतुवचनादीनि भ्रान्तानीत्याशयोद्घाटनसम्भवात् । तथाप्यपसिद्धान्तो दुष्परिहार एवेत्यन्यथाशङ्कितम्' इति वाक्यं प्रक्षिप्तं न तट्टीकावाक्यम् । अवश्यम् चैतदेवं विज्ञेयम् । अनिर्वचनीत्वपक्षस्य मायावाद्यभिमतत्वेन तद्दृपणाय अनिर्वचनीयत्वशङ्कायाः अवश्यं कर्तव्यत्वेन शङ्कायाः वैय्यर्थ्यमाशङ्कय सार्थक्यकथनायोगात् । प्रतिभासापेक्षया मतुब्वचनादीनीत्यङ्गीकारे मतुवचनादीनामप्रामाण्यप्रसङ्गेन इत्थमाशयोद्घाटनस्यायुक्तत्वाच्च । यथा मतुवचनादीनां प्रतिभासापेक्षया भ्रान्तत्वं तथा आचार्यवचनमपि भ्रान्तमित्यभिधाय अपसिद्धान्तस्य परिहर्तुं शक्यत्वेनापसिद्धान्तो दुष्परिहर एवेत्यभिधानायोगाच्च ।
नाप्यागम इति ॥ अनिर्वचनीयत्वशब्दघटित इति शेषः । वचनद्वयविरोधादिति ।। सगुणत्वनिर्गुणत्वप्रतिपादकवचनद्वयविरोधादित्यर्थः । अन्यथैवेति ॥ निर्गुणत्वश्रुतेः सत्वादिगुणाभावपरत्वेन व्याख्यातत्वादित्यर्थः । तत्पक्ष इति ।। सपक्षोऽस्त्येवेति परस्य भ्रान्तिसद्भावात् । केवलञ्यतिरेक्यनुमानमिदमिति न परेण समाधातुं शक्यमिति भावः । एतेनोभयसिद्धसपक्षाभावेन केवलव्यतिरेकित्वसम्भवात् न केवलव्यतिरेकित्वनिषेधो युक्त इति परास्तम् । परेण नैवं समाधातुं शक्यमित्यत्र तात्पर्यम् । ननु शुक्तिरजतं नाभावः किन्त्वसत् । ततश्च रजतविशेषवाचिनो मिथ्याशब्दस्य अभाववाच्येवेत्यभाववाचीत्युक्तमिति नोक्तदोष इति भावः । प्रकारान्तरेण अभाववाचीति मूलं घटयति-अभावेति । यद्यपि मिध्याशब्दः अभावप्रतियोगिवाच्येव । तथापि अभावप्राधान्यविवक्षया अभाववाचीत्युक्तमिति भावः ।समुद्रः कुण्डिका विन्ध्यो वर्धितकमित्यादौ असतोऽपि विवक्षादर्शनात् । इह विद्यमानं प्रतियोगिप्राधान्यम् अविवक्षितत्वात् असदेव | अभावप्राधान्य प्रतियोगीत्येवार्थ इत्यवधेयम् । न हि शब्दसाम्येति । यद्यपि घटादिकं विवक्षितमित्युक्तम् । ततश्च शशविषाणमसदित्यस्य केवलान्वय्यत्यन्ताभावसदन्तरविलक्षणत्वे सति असद्विलक्षणशब्दवाच्यम् । साध्यन्तु सदसन्मात्रविलक्षणशब्दवाच्यमिति न शब्दसाम्यम् । तथापि अङ्गीकारवादेन शब्द-साम्यमात्रेणेत्युक्तमिति बोध्यम् । द्वौ नञाविति । यद्यपि साध्ये द्वौ नयौ न स्तः । तथापि विलक्षणशब्द नञर्थभेदवाचीति विलक्षणशब्दस्य भेदार्थक-नञ्पर्यायत्वमभिप्रेत्य द्वौ नञौ इत्युक्तमिति बोध्यम् । यद्यपि द्वितीय एव नञ् प्रकृतमर्थं गमयति । तथापि छत्रिन्यायेन द्वौ नञावित्युक्तमिति बोध्यम् ।
इतः परं टीकायां 'तथा च पुनः सन्न भवतीति वदतः कथं न स्वव्याहतिरिति शेष इति । एवं सन्न भवतीत्युक्ते असदेवोक्तं भवति । पुनः असन्न भवतीति ब्रुवाणस्य स्यादेव व्याहतिरित्यपि द्रष्टव्यम्' इति वाक्यद्वयं श्रूयते । तत्राद्यं वाक्यं प्रक्षिप्तम् । द्वितीयवाक्येऽपि एवमिति प्रक्षिप्तम् । अपि द्रष्टव्यमित्यपि प्रक्षिप्तम् । भाव इत्युच्छिन्नम् । ततश्चैवं टीकावाक्यपाठः । सन्न भवतीत्युक्ते असदेवोक्तं भवति । पुनरसन्न भवतीति ब्रुवाणस्य स्यादेव व्याहतिरिति भाव इति ।
अवश्यं चैतदेवं विज्ञेयम् । सद्विलक्षणमित्युक्त्यैवाससद्विलक्षणमिति वचनस्य व्याहतेर्व्युत्पादयितुं शक्यत्वेन पुनः सन्न भवतीत्युक्त्यङ्गीकारे प्रयोजनाभावात् । पूर्वपक्षिणा एवंकारमेव सद्विलक्षणमित्युक्तत्वेन पुनः सन्न भवतीत्यनुक्तेश्च । यदा पूर्वमसद्विलक्षणमित्युक्त्वा पश्चात् सद्विलक्षणमिति ब्रूयात् तदा व्याहतिप्रदर्शनमिदमिति न युक्तम् । प्रकृतसाध्यवचने व्याहतिं प्रतिज्ञाय प्रयोगान्तरे व्याहतिव्युत्पादनस्यासङ्गतत्वात् । द्वितीयवाक्यस्य प्रकृतसाध्यवचने व्याहतिव्युत्पादकत्वेन एवमिति वचनस्यायुक्तत्वात् ।मूलाभिप्रायकथनावसरे इति भाव इति वक्तव्यत्वेन द्रष्टव्यमित्युत्ययोगात् । उपलक्षणतया अर्थान्तरकथनावसर एवं हि इति द्रष्टव्यमिति वदन्ति । न पुनः अभिप्रायकथनावसरे । समुच्चयाभावेन अपिशब्दवैयर्थ्याच्च । असन्न भवतीत्युक्ते च 'द्वौ नयौ प्रकृतमर्थं सातिशयं गमयत' इति संदेव भातीति मूलाभिप्रायमुद्घाटयन् शङ्कते । यद्वस्तुस्वरूपमिति || यस्य वस्तुनः स्वरूपम् एकेन नञर्थेन विशिष्टं एकेन नञर्थेन प्रतियोगितया विशिष्टम् । आभासप्राप्त प्रतियोगित्वमनूदितमिति यावत् । तस्य विशिष्टस्य अभावप्रतियोगित्वस्य नञर्थसम्बन्धे सति प्रतियोगितया नञर्थसम्बन्धे सति तस्मिन्नभावप्रतियोगित्वे निषिद्धे सतीति यावत् । तदेवाभावप्रतियोगितया यत्प्रागनूदितं तदेव वस्तुस्वरूपं लभ्यत इत्यर्थः । एतेन एकनञर्थविशिष्टतया प्रतिपाद्यस्य पुनर्नञर्थान्तरसम्बन्धे अभावान्तरप्रतियोगित्वमेव लब्धं भवेत्, न तु तदेव लब्धं भवेत् । अत्र घटो नास्तीति अत्यन्ताभावप्रतियोगितया प्रतिपादितस्य नायं घट इति अभावान्तरवैशिष्ट्ये प्रतिपादिते अन्योन्याभावप्रतियोगित्वस्यैव लाभदर्शनादिति निरस्तम् ।
एतदेवोदाहरणमुखेन योजयति-अघट इति । घटस्य भ्रान्तिप्राप्तं पुरोवर्तिनिष्ठान्योन्याभावप्रतियोगित्वं प्रथममनूद्य द्वितीयेनानूदितस्य निषेधात् । प्रतिपन्नं वस्तु घट एवेति यथा लभ्यते, तथा असन्नेत्युक्ते सदेव लभ्यते इति भावः । प्रागिति ।। अस्मिन् प्रयोगे नञ्द्वयप्रयोगेऽपि सच्छच्दवाच्यस्य भावस्य न नियमेन प्राप्तिः । कदाचिदत्यन्ताभावस्य कदाचित् प्रध्वंसाभावस्य प्राप्तेर्दर्शनात् प्रागुक्तमयुक्तमिति भावः । विशेषणविवक्षायामिति ॥ अत्र विशेषणविवक्षायामिति मूलस्थपदानुवादः । प्रथमनञर्थविशिष्टस्येत्यादि-व्याख्यानं प्रथमनञर्थभूतस्य अभावत्वविशिष्टस्याभावस्य विशेषणे विवक्षिते सत्येव प्रात्त्वरूपविशेषणे विवक्षिते प्रागभावे विवक्षिते सतीति यावत् । पुनश्शब्दो वाक्यालङ्कारार्थः तस्य प्रागभावस्य नञर्थसम्बन्धे अन्योन्याभावरूपनञर्थस्य प्रतियोगितया सम्बन्धे प्रागरानेत्यादिशब्देन असदन्तरमेव लभ्यते अत्यन्ताभावः प्रध्वंसाभाव:, अन्योन्याभावः । उपलक्षणमेतत् । घटादिर्वा लभ्यते । सर्वेषां प्रागभावभिन्नत्वादित्यर्थः । इदमुक्तं भवति । द्वाभ्यां नञ्भ्यां विशिष्टाः शब्दाः बहवः असन्नेत्यादयः प्रागसत्यादयश्चेति । असदित्यत्र आद्येन नञा प्रतिपन्नोपाधिनिष्ठाभाव-प्रतियोगित्वं भ्रान्तिप्राप्तं सच्छब्दवाच्यस्यानूद्यते । द्वितीयेन च नञा अनूदितं प्रतियोगित्वं तस्य निषिध्यत इति असन्न भवतीति शब्देन सदेव लभ्यते । एवमेवंजातीयकेषु घटो नेत्यादिकेषु द्रष्टव्यम् । प्रागसन्न भवतीत्यत्र तु न प्रथमनञा सच्छब्दवाच्यस्य भ्रान्तिप्राप्तं प्रतियोगित्वं अनूद्यते किन्तु असदिति विशिष्टेन शब्देनाभाव उच्यते । प्राक्शब्देन तस्य प्राक्त्वं विशेषणमुच्यते । तथा सति प्रागसच्छब्देन प्रागभावो लभ्यते । तस्य नञा विप्रतिपन्नाधिकरणनिष्ठान्योन्याभावप्रतियोगित्वरूपम् अन्योन्याभाववैशिष्ट्यमुच्यते । ततश्च प्रागसन्नेत्यनेन प्रागभावभिन्नम् अत्यन्ताभावादिकं लभ्यते । एवं पश्चादसन्न अत्यन्तासन्नेत्यादिकेषु द्रष्टव्यमिति । एतेन प्राक्त्वस्य प्रथमनञर्थविशिष्ट-सच्छब्दार्थविशेषणत्वाभावात् तद्विशेषणत्वकथनमयुक्तम् । तथा पुनः तस्य नञर्थसम्बन्ध इत्यप्ययुक्तम् । प्रागभावस्यैव प्रतियोगितया अन्योन्याभावरूपनञर्थसम्बन्धस्येहाविवक्षितत्वेन सच्छब्दवाच्यस्य द्वितीयनञर्थवैशिष्ट्याभावादिति निरस्तम् । अनेन विशेषविवक्षायां असदादिशब्देनोक्तस्याभावस्य प्राक्तत्वादिरूपविशेषविवक्षायां नञा च प्रात्त्वरूपविशेषणविशिष्टाभावभिन्नत्वे उक्ते असदन्तरं प्रध्वंसाभावादिकं लभ्यत इति मूलस्य योजना सूचितेति द्रष्टव्यम् ।
ननु असदन्तरं वा विशेषविवक्षायामित्युक्तम् । षट्पदार्थातिरिक्ताभावो नेत्यत्र असदन्तरलाभाभावात् । प्रत्युत भावान्तरस्यैव लाभादित्यत आह-अत्रासदन्तरमिति ॥ अत्र अस्मिन्मूले असदन्तरमिति प्रकृतापेक्षया प्रागसचेति प्रकृतोदाहरणापेक्षयोक्तम् । वस्तुतस्तु नजर्थभेदप्रतियोगितया यत्प्रकृतं तज्जायतीयान्तरं लभ्यत इत्यर्थः । नन्वसन्न भवतीत्युक्ते च सदेव भवतीत्युक्तमसत् । नञर्थाभावप्रतियोगित्वविशिष्टे सति नञसम्बन्धेन सदन्यलाभस्योचितत्वात् । न हि यस्य नञसम्बन्धस्तदन्यो न लभ्यते । यस्य नञर्धप्रतियोगित्वस्य नञसम्बन्धिना सता पदार्थन सम्बन्धः तस्य निषेध गम्यत इति साम्प्रतम् । प्रागसन्न भवतीत्यादावेतद्वैरूप्ये निमित्ताभावत्या-शङ्कापरिहारायासन्न भवतीत्युक्ते चेत्यादेरभिप्रायमाह-इदमत्राकूतमिति ॥ सद्विशेषणीभूताभावप्रतियोगित्वस्य निषेधवुद्धिरसन्नेति वाक्येन भवतीत्येतत् सम्भावितं कर्तुं न्यायं तावदाह-विशिष्टविषयाविति । विशेषणमुपसङ्क्रामतः विशेषणविधिनिषेधाभिप्रायं व्याप्नुतः । यो विशिष्टविषयो विधि: स विशेषणविध्यभिप्रायेण उत्सर्गतो व्याप्तः । यश्च विशिष्टविषयो निषेधः स विशेषणनिषेधाभिप्रायेण उत्सर्गतो व्याप्त इति भावः ।
एतेन विशिष्टविषययोर्विधिनिषेधयोर्विशेषणोपसङ्क्रामकत्ववचनमयुक्तम् । अन्यविषययोर्विधिनिषेधयोः अन्योपसङ्क्रामकत्वे घटविषयकविधिनिषेधयोः पटोपसङ्क्रामकत्वप्रसङ्गस्स्यादविशेषादिति निरस्तम् । विशिष्टविषययोर्विधिनिषेधयोर्विशेषणोपसङ्क्रामकत्वमङ्गीकृत्य विशेषणमुखेन दर्शयतिलोहितोष्णीषा इति ।। लोहितोष्णीषा इति विध्युदाहरणम् । न जीर्णमलवद्वासाः स्नातकः स्यात्' इति निषेधोदाहरणम् । ननु यथा ‘लोहितोष्णीषाः ऋत्विजः प्रचरन्ति' इति विध्युदाहरणं, तथा 'न जीर्णमलवद्वासाः स्नातकः स्यात्’ इत्यपि विध्युदाहरणमेव । नानुयाजेष्वितिवत् पर्युदासलक्षणया जीर्णमत्वदन्यत्वविशिष्टवासोविधिरिति भाट्टवाक्यपर्यालोचनया लाभात् । यदाह भट्टः । ‘सुवाससा भवितव्यमिति श्रुतिरत्र मूलं' इति । एवं च निषेधोदाहरणत्वमयुक्तमिति चेन्न । जीर्णवासा न स्यात् मलवद्वासा न स्यात् इति विशेषणद्वयनिषेधतात्पर्यस्य विस्पष्ठं प्रतीयमानत्वात् । न च वाक्यभेदः ।एकवाक्यत्वसम्भव एव वाक्यभेदस्य दोषत्वात् । तदुक्तम् । 'सम्भवत्येक वाक्यत्वे वाक्यभेदो हि दूषणं' इति । न च नानुयाजेष्वितिवदेकवाक्यत्व-प्रसङ्गः (सम्भवः) । लक्षणाश्रयणस्य जघन्यत्वाच्च । न च भट्टवचनविरोधः । तस्य फलितार्थप्रदर्शनपरत्वात् ।
ननु - घटो नास्तीत्यत्र घयस्यैव भूतलादौ निषेधे तात्पर्यं न तु विशेष्य-भूतघटनिषेध इत्यापन्नमित्यत आह- क्वचिदिति ।। क्वचिदेकेनैव शब्देन विशेषणविशेष्ययोर्वाच्यत्वस्थल एवागत्या लोकव्यवहारसिद्ध्यर्थं विशेष्यविधिनिषेधयोरावश्यकत्वात् विशिष्टनिषेधस्य विशेष्यनिषेधे तात्पर्यमिति भावः । असन्नेत्यस्य विशिष्टनिषेधत्वं वक्तुं असच्छब्दस्य विशिष्टवाचित्वमाह- प्रकृते चेति ॥ अत्रापट इति दृष्टान्तार्थम् । प्रकृते चासदितिशब्देन नञर्थेन प्रतिपन्नोपाधिनिष्ठाभावप्रतियोगित्वेन विशिष्टं सदनूद्यते । तद्यथा अघटो नेत्यत्र अटशब्देन अभावप्रतियोगित्वेन विशिष्टो घटो अनूद्यते । विशिष्टविषयश्च निषेधः विशेषणनिषेधाभिप्रायेण व्याप्तो भवति । ततश्च विशेषणे निषिद्धे सदेवोक्तं भवति । विशिष्टाभावस्य विशेष्ये सत्यपि विशेषणाभावमात्रेण सम्भवादिति भावः ।
प्रागसन्नेत्यत्र प्रकृतोदाहरणवैलक्षण्यमाह-प्रागसदिति ।। नञर्थभूतस्य विशिष्टस्याभावत्वविशिष्टस्याभावस्य यदपरं विशेषणं प्राक्तत्वादि तेनैव द्वितीयनञः सम्बध्यते । तदभावप्रयुक्तं प्राक्त्वविशिष्टनञर्थभेदं गमयति । न तु अभावत्वाभात्रमयुक्तम् । प्रागसन्नेत्युक्त्या प्रागभावभेदप्रतीते इति असन्त भावश्च लभ्यत इति भावः । न चैवमिति ।। असन्नेत्यत्र द्वितीयनञ्-विशेषणान्तरेण न सम्बध्यत इत्यर्थः । शुक्तिरजतादिकमसन्नेत्यस्य अत्यन्तासन्नेत्यर्थः । ततश्च द्वितीयो नञ् त्रैकालिकत्वरूपविशेषणान्तरविशिष्टेनाभावेन सम्बध्यते ।
गूढवाक्यार्थपञ्चिका
(छ. टि.) अभिहित इति ।। अनेन मूले अनिर्वचनीयविशेष इत्येतदनन्तरं अभिहित इति शेष इत्युक्तं भवति । मतुबर्थसंभवादिति || अस्तीतिमत्वर्यस्य असद्धिलक्षणपरत्वादिति भावः । प्रतिभासापेक्षयेति । मिथ्याविशेषवत्वं नाम मिथ्याविशेषसत्त्वप्रतीतिमात्रं न तु वस्तुतः सत्वं येन व्याहतिः स्यात् । तथा वचनादिभिः प्रतिपादितविशेषाणामधिकरणत्वेन ब्रह्मणः प्रतीतिमात्रं न वस्तुतो अधिकरणत्वं येनासङ्गतिः स्यादित्येवमादायोद्घाटनसम्भवादिति भावः । भान्तानि भ्रान्तिविषयविषयाणीत्यर्थः । अपसिद्धान्तो दुष्परिहर एवेति ॥ अनेनैवाशयेन पूर्वं व्याहतिशब्दस्यापसिद्धान्तपरत्वेन जयतीर्थाचार्यैः कृतमिति भावः । इति हेतोः । अन्यथा मिथ्याशब्दस्य असत्वपक्षं विहाय अनिर्वचनीयपरत्वे नाशङ्कितमित्यर्थः । भवति युक्तमिति शेष इति ।। भवतीति शब्दात्पूर्वं मूले युक्तमित्यध्याहार इत्यर्थः । अनिर्वचनीयासिद्धेरिति मूलवाक्यस्य ब्रह्मण: जगत्कर्तृत्वादिधर्माणामनिर्वचनीयत्वनिराकरणे हेतुत्वासम्भवात् । सामान्यतः ब्रह्मधर्मानिर्वचनीयत्वे प्रमाणसामान्याभावं हेतुमभिधाय तत्र यद्विशेषाभावं वक्तुं प्रत्यक्षाभावं स्वयमुक्त्वा तत्र अनुमानाभावपरत्वेन अनिर्वचनीयासिद्धेरिति मूलं योजयति-कुत इति चेदित्यादिना ॥ वचनद्वयविरोधादिति ॥ ‘मय्यनन्त गुणे’ इति 'साक्षी चेता केवलो निर्गुणश्च' इति वचनद्वये विरोधादित्यर्थः । अर्थापत्तिः गुणानामनिर्वचनीयत्वे प्रमाणमिति शेषः । अन्यथैवेति ।। सगुणपदस्य सत्यगुणपरत्वे निर्गुणपदस्य सत्वादिगुणराहित्यपरत्वेनेत्यर्थः । इदानीं ब्रह्मगुणानिर्वचनीयत्वे अनुमानमाशङ्कय तन्निराकरणहेतुत्वेन अनिर्वचनीयासिद्धेरित्येतन्मूलमवतारयति-ब्रह्मण इति ॥ कस्याप्यसिद्धेरिति ।। अप्रसिद्धेरित्यर्थः । त्व(त)त्पक्षे इति ॥ मायिपक्षे शुक्तिकारजतस्य अनिर्वचनीयस्याङ्गीकारात् केवलव्यतिरेकित्वसम्भवात् । अस्मान् प्रति तु अप्रसिद्धविशेषणतेति भावः । प्रत्येतीति ।। ' इण् गतौ' इति धातोः जानातीत्यर्थः । भ्रान्तेरुत्थित इति ।। शुक्तिकायां रजतत्वज्ञानस्य भ्रान्तित्वनिश्चयवानित्यर्थः ननु रजतं मिथ्येत्यनुवादेन रजतस्य अनिर्वचनीयत्वे कथं प्रत्यक्षं प्रमाणमागतमित्यत आह- मिथ्यानिर्वचनीयमिति चेति । तन्मूल अनुवादकारणं-अनुमीयत इति । भ्रान्त्युत्थितो अनिर्वचनीयविषयकप्रत्यक्षवान् तदा तद्वाचकशब्दप्रयोक्तृत्वात् । संप्रतिपन्नवदित्यनुमीयत इत्यर्थः । न भवतीति ॥ 'भू सत्तायां' इति धातोः नास्तीत्यर्थः । अभाववाचीति मूलस्थाभावशब्दः कर्तृव्युत्पत्त्या असत्पर इत्यर्थः । भूधातोः दारजारादिशब्दवत् 'कृत्यल्युटो बहुलं' इति बहुलवचनात् 'अकर्तरि च कारके संज्ञायां' इति घञः कर्तरि निषेधाभावात् घञ् । 'उणादयो बहुलं' इत्युक्तेरुणादिणप्रत्ययान्तो वा । अभावप्राधान्याद्वेति मिध्याशब्दस्यासद्वाचकत्वमपि अत्यन्ताभावप्रतियोगित्वनिमित्तकम् । तथा च मिथ्यैव रजतमित्यस्य नास्ति नासीन्न भविष्यति रजतं तदत्यन्ताभावोऽस्तीत्यर्थः । एवं च भावप्राधान्यात् अभाववाचीत्युक्तमिति भावः । अनिर्वचनीयवचनत्व इति ।। तदन्यत्रेति मूले तच्छब्देनाभाववाचकग्रहणात् । अन्यत्रेति अनिर्वचनीयवाचकत्वस्य समागतत्वादिति भावः । न चान्यत्प्रमाणमित्युत्तरमूलं वाक्यं आगमानुमानाभावपरमभिप्रेत्य आगमाभावपरत्वमूलहेतोरनुक्ते स्वयं हेतुं वदन्नाहनापीति ।। इदानीं अन्यत्प्रमाणमित्यस्यानुमानपरत्वमाश्रित्य तदनुमानं दर्शयन्नवतारयति- अस्तु तर्ही || प्रतिव्याहतेरिति मूले व्याहतिशब्दस्य स्वक्रियाविरोधं स्ववचनविरोधं चार्थ मनसि निधाय अनिर्वचनीयमिति साध्ये निर्वचनानर्हत्वं सदसद्विलक्षणत्वं वेति प्राप्तपक्षद्वयमध्ये प्रथमपक्षमनूद्य मूलं सङ्गमयति-यदि अनिर्वचनीयं नामेति|| स्वक्रियाविरोध इति ।। यथा मूकोऽहमिति स्ववचनक्रियामूलक-शब्दार्थभूतवचनाभावोक्तेर्विरोधः तथा शुक्तिकारजतमनिर्वचनीयं इति वचनक्रियया अनिर्वचनीयमिति साध्यार्थभूतनिर्वचनाभावोक्तेर्विरोध इति भावः । द्वितीयपक्षं दूषयति-यदि सदसद्विलक्षणमिति ॥ यथा वन्ध्येत्युक्ते पुत्ररहितेत्यर्थप्रतीतेः पुत्रवतीवचनेन विरोधः । तथा सद्विलक्षणेत्युक्ते असत्वप्रतीतेः असद्विलक्षणमिति वचनेन विरोध इति भावः । मूले सदन्तरादित्यायुक्तिव्यावर्तनीयमाशङ्कते ।ननु घटस्तावदिति मूले सदन्तरादित्यस्य स्वापेक्षया अन्यस्मात्सत इत्यर्थः ।
ननु अस्मिन्पक्षेऽपि व्याहतिप्राप्तेः कथं सदराद्विलक्षणमिति भिन्नः पक्ष इत्यत आह-विलक्षणादित्युपस्कर्तव्यमिति । उभयपदविशेषणीभूतमिति शेषः । तथा च सदन्तरात् पदात् विलक्षणात् असद्विलक्षणाच अन्यत् सत्वासत्वावच्छिन्न यावत्सदसदन्यदित्यर्थं इति भावः । ननु सत्वासत्वाभ्यां अनिरूप्यत्वे साध्येऽपि घंटे उक्तरीत्या सदसद्वैलक्षण्यप्रसिध्या अप्रसिद्धविशेषणत्वदोषपरिहारो भविष्यतीत्यत आह-न हि शब्दसाम्यमात्रेणेति || अतिप्रसङ्गादिति ।। नेत्रधेन्वोर्गौशब्दवाच्यत्वसाम्येन नेत्रं शृङ्गवत् गोशब्दवाच्यत्वात् धेनुवदित्यपि अनुमानं स्यादिति भावः । असन्न भवतीत्युक्त इति मूलवाक्यं किं दूषणप्रतिपादकमिति न ज्ञायत इत्यतः पूर्वोक्तत्र्याहत्युपपादकपरत्वेनावतार्य व्याचष्टे सदसद्वैलक्षण्यप्रतिज्ञेति । शुक्तिरजताद्यसन्न भवतीत्युक्त इति ॥ असद्विलक्षणमित्यत्र विलक्षणशब्दस्यान्योन्याभावपरत्वादेवमुक्तम् । अनेनैवाशयेन 'द्वौ नञौ प्रकृतमर्थं' इत्यपि वाक्यं मूले टीकायां च प्रवृत्तमिति बोध्यम् । मूले शुक्तिकारजतमिति व्याप्तेरिति च अध्याहार इति भावः । तथा च शुक्तिकारजतं असद्विलक्षणमित्यस्य असन्न-भवतीत्यर्थप्रतीतेः सदित्युक्तम् । विलक्षणशब्दस्य भेदपर्यांय अन्योन्याभावार्थकत्वादिति भावः । असन्न भवतीत्यस्य सदर्थत्वव्युत्पादनमात्रेण व्याहतिर्नोपपादिता स्यादित्यतः शेषं पूरयति-तथा च पुनरिति ॥
ननु असद्विलक्षणं सद्विलक्षणमित्युक्ते व्याहतिः भवेत् । तथापि सदसद्विलक्षणमित्युक्ते कथं स्वव्याहतिरित्यत आह एवं सन्न ( सद्विलक्षणं न) भवतीत्युक्त इति । इदानीं असदनन्तरं वा विशेषविवक्षायां इति वाक्यं अनुवादव्याजेन द्वौ नञाविति व्याप्तिं विवृण्वन् अवतारयति- यद्वस्तुस्वरूपमिति ।। तदेव तद्वस्तुस्वरूपमेव । तस्य विशिष्टस्य नञर्थविशिष्टस्य । पुनः नञर्थसम्बन्धे द्वितीयनञर्थसम्बन्धे सतीत्यर्थः । तस्योदाहरणमाह-अघटो न भवतीत्युक्ते घटो यथेति ॥ प्रागिति । प्राक् असत् अविद्यमानं प्रागभावप्रतीयोगि न भवतीत्युक्ते वर्तमानसत्वप्रतीतिवत् प्रध्वस्तासतः प्रध्वंसप्रतियोगिनः असतः अविद्यमानस्य तथा अत्यन्तासतः अत्यन्ताभावप्रतियोगिनः अविद्यमानस्य वा प्रतीतेः नियमेन सत्वप्रतीतेरभावात् । 'द्वौ नञ' इति न्यायस्य व्याप्तेरत्र व्यभिचार इति भावः । विशेषविवक्षायामिति मूलस्थपदप्रतीकग्रहणं इतिशब्दोऽत्राध्याहार्यः । तद्व्याचष्टे-प्रथमनञर्थेति । तथा च द्वौ नञावित्यत्र विवक्षितव्याप्तौ विशेषणराहित्यं विवक्षितं विशेषणरहितो नद्वयप्रयोगो यत्र तत्र प्रकृतार्थगमकत्वम् । न तु विशेषणे विवक्षित इत्यर्थः । प्रकृते चेति ।। असन्न भवतीत्यसद्विशेषणविवक्षा । प्रागिति विशेषणस्यानुक्तत्वात् । अतो न व्यभिचार इति भावः ।
ननु अशुद्धघटो न भवतीत्यत्र विशेषणविवक्षायामपि शुद्धघटरूपसतः प्रतीतेः असतोऽप्रतीतेः कथमसदन्तरं वा विशेषणविवक्षायामित्युक्तमित्यत आह-प्रकृतापेक्षयेति ॥ प्रकृतप्रागभावापेक्षया असदन्तरं प्रध्वंसादिकं विवक्षित्वेत्यर्थः । प्रकृतजातीयान्तरमिति प्रथमनञर्थविशिष्टजातीयान्तरं ‘प्रकारवचने जातीयर्” इति पाणिनीयोक्तेः तत्सदृशमित्यर्थः । तज्जातियुक्तमिति तु नार्थः । अस्मिन्मते जातेरेकत्वाभावात् । ननु द्वौ नञावित्युक्तव्याप्तौ विशेषणंराहित्यं कथमागतमित्यत आह-इदमत्राकूतमिति ॥ अभिप्रेतं मीमांसोक्तन्यायसिद्धमित्यर्थः । तत्र विशिष्टविषयस्य विधेर्निषेधस्य च विशेषणसम्बन्धत्वं क्रमेण दर्शयति-लोहितोष्णीषा इत्यादिना ॥ लोहितं रक्तवर्णं उष्णीषं शिरोवेष्टनवस्त्रं येषां ते इत्यर्थः । अत्र सोष्णीषा ऋत्विजः प्रचरन्तीत्यनेन सोष्णीषऋत्विक्प्रचारस्य प्राप्तत्वात् अप्राप्तस्यैव विधेयत्वात् अप्राप्तलौहित्यगुणे लोहितोष्णीषा इति विधेः तात्पर्यं न तु विशिष्ट इति भावः । न जीर्णमलवद्वासा इति ॥ स्नातकः स्नातकव्रतवान् । जीर्णमलद्वासाः जीर्णमलोपेतं वासः वस्त्रं यस्य तथा न स्यादित्यन्वयः ।वाससुशब्दः सकारान्तो नपुंसकः । 'वसेर्णित्' इति औणादिकागुनप्रत्ययान्तत्वात् । अत्र न स्यादिति निषेधस्य विशिष्टसम्बन्धे स्रातकत्वप्राप्त जीर्णत्वमलत्वरूपवस्त्रविशेषणेनैव सम्बन्धः जीर्णत्वमलत्वान्यतरविशेषणविशिष्टवत्रवानित्यर्थप्रतीतेः न वाक्यभेदः शङ्कनीयः । उभयान्यान्यत्वेन ऐक्यविवक्षणात् । तथा च नूतनशुभ्रवस्त्रवान् स्रातकः स्यादिति तात्पर्यार्थः । अत एवान्यत्र सुवाससा भवितव्यमित्युक्तम् । तत्र सौष्ठवं नाम वस्त्रस्प जीर्णत्वमलत्वराहित्यमेव ज्ञेयम् । उभयोरेकार्थत्वात् । आदिपदेन यजमानपञ्चमा ऋत्विजाः इडां भक्षयन्ति न भृशं वदेदित्यादिग्रहणम् । इडां पुरोडाशम् । ऋत्विज इति ।। ऋत्विजां इडाभक्षणस्य सिद्धत्वात् यजमान- पञ्चमा इति विशेषणीभूतयजमानस्य इडाभक्षणविधानार्थम् । न भृशं वदेदिति निषेधस्तु भृशत्वमिति विशेषणमात्रस्य न तु यजमानस्यापि । कचिदिति || ‘सोमेन यजेत’ ‘न हिंस्यात्सर्वाभूतानि' इत्यादौ । अत्रापि सोमविशिष्टयाग- विधानस्य सर्वत्वविशिष्टभूतहिंसानिषेधस्याङ्गीकारात् । अगत्यैव द्रव्ययागविधायकस्यान्यस्य तत्राभावात् । भूतानां सर्वत्वविशेषविवक्षाभावे केषाञ्चित् हिंसाप्राप्तेश्चेति भावः । विशिष्टविषयाविति न्यायं प्रकृते योजयति- प्रकृते चेति ।। ननु प्रागसन्न भवतीत्यत्र तर्हि असदन्तरप्रतीतिः कथमित्यत आह-प्रागसन्न भवतीत्यादौ चेति ॥ ननु प्रकृतेऽपि विशेषविवक्षाऽस्त्येव । शुक्तिकारजतादिकं असन्न भवतीत्यत्र प्रागित्यस्याभिप्रेतत्वात् । तथा चासिद्धिरित्यत आह-न चैवं प्रकृते इति ॥ कुतो नेत्यत आह-शुक्तिकेति ॥ शुक्तिरजतादिकमसन्न भवतीत्यत्र प्रागित्यभिप्रेतत्वे असत्वाभावाभ्युपगमप्राप्तेः उक्तरीत्या असदन्तरत्वाभ्युपगमप्राप्त्या सिसाधयिषितस्यासद्विलक्षणत्वस्याप्राप्तेरित्यर्थः । तत्प्रयोग इति ।। नञ्द्वयप्रयोगः । प्रकृतार्थस्य नञ्द्वयप्रयोगं विनाऽपि प्रतीतेरिति भाव: । अतिशयलाभादिति ॥ तत्प्रयोगसामर्थ्यादिति शेषः । अत एव ' द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत' इत्याहुरिति भावः ।