अर्भको न कुमारकोऽधितिष्ठन्नवं रथम्

(अर्भको नेतिमन्त्रस्यार्थोपवर्णनम् )

मूलम्

३९-मूलम्-अर्भको न कुमारकोऽधितिष्ठन्नवं रथम् । सपक्षन्महिषं मृगं पित्रे मात्रे विभुक्रतुम् ॥ ३ ॥

अर्भक इव स्थितोऽर्भकः । नवं रथमध्यतिष्ठत् । कुमारकः कुत्सितमारक: । अर्भक इव सूक्ष्मदेहः पूर्वं पूर्वं देहं परित्यज्य नवं नवं देहमध्यतिष्ठज्जीवमादाय । 'जीवदेहं परित्यज्य सह जीवेन चेश्वरः । जीवस्यान्यच्छरीरं च समुत्पाद्य विशत्यजः' इति मान्यसंहितायाम् । कुमार इवार्भकः सूक्ष्मदेह इति च । अर्भकस्सूक्ष्मदेहोऽपि न कुमार इति वा । सपक्षत् परिपक्वज्ञानादिगुणकमकरोत् । महिषं महान्तं ब्रह्माणम् । मृगं मृगयन्तं स्वात्मानम् । पित्रे स्वस्मै मात्रे लक्ष्म्यै । विभुक्रतुं पूर्णज्ञानम् । पितृमातृविषये पूर्णज्ञानम् । पुनः पूरयामासेत्यर्थः । 'ज्ञानपूर्णं विधातारं मोक्षदानेन केशवः । स्वपुत्रं पूरयामास महिषं महतां महान्' इति प्रवृत्ते

टीका

टीका- अर्भकः ॥ नेत्युपमाने । स्थित इत्यध्याहारः । क इवार्थ : ? कश्च नवो रथः? कस्य च कुत्सितस्य मारकः ? इत्यत उक्तं विवृणोति-अर्भक इवेति ।। पूर्वं पूर्वं देहं परित्यज्येत्यनेन कुमारक इत्येतद्विवृतम् । जरारोगादिग्रस्तत्वात् पूर्वदेहस्य कुत्सितत्वम् । अनादित एवमिति ज्ञापनाय द्विरुक्तिः । जीवभावेनेति प्रतीतिनिरासायोक्तम्-जीवमादायेति । अत्रैवार्थे स्मृतिसंवादमाह-जीवदेहमिति ॥ माभूद्वा स्थित इति शब्दाध्याहार इति भावेन प्रकारान्तरेण व्याचष्टे कुमारक इवेति ॥ शिशुरिव । यद्यपि परं नेतिपदम् इवार्थे प्रसिद्धम् । तथापि क्वचित्पूर्वमपि भवति । 'सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति वचनात् । अस्मिन् पक्षे नवाधिष्टानवचनेन पूर्वपरित्यागोऽर्थात्सिद्धः । प्रतिषेधार्थो वायं नशब्द इति प्रकारान्तरेण व्याख्याति-अर्भक इति ॥ न कुमारको न कस्याप्यपत्यम् । सपक्षदिति पचतेः सुट् छान्दसः । ' सिब्बहुलं लेटि' इति बहुलग्रहणात् लङन्यपि सिप् । अपचदित्यर्थः । 'मह पूजायाम्इत्यतःअविमह्योः ष्टिषञ्' इति ष्टिषच्प्रत्ययः ।मृग अन्वेषणे' इगुपधलक्षणः कः । पित्रे मात्र इति चतुर्थी सप्तम्यर्थ इति वदन् पूर्वमेव चेत्पूर्णज्ञानस्तदा किं करणीयमस्तीत्याशङ्कां परिहरति- पित्र इति ॥ पूरयामास ज्ञानादिना । पूरणं च योग्यस्य सर्वस्याभिव्यक्तिः । अत्रैवागमसम्मतिमाह-ज्ञानेति |

भावदीपः

(रा.टि.) अर्भक इति ।।अर्भको न कुमारकोऽधितिष्ठन्नवं रथम् । सपक्षन्महिषं मृगं पित्रे मात्रे विभुक्रतुम् ' । इवेति कस्यार्थ इत्यत आह-नेत्युपमान इति ।। इवार्थ इति ।। इवशब्दार्थ इत्यर्थः । इत्येतद्विवृतमिति ।। कुत्सितस्य मारक इति तस्य व्याख्यानात् । देहस्य कुत्सितत्वमाह-जरेति ।। कुमारक इवेत्यर्थेऽनुपपत्तिप्रसङ्गमाशङ्कच निराह-यद्यपीति ॥ परं पश्चात्तनम् । दोषान्तरमाशङ्कय निराह-अस्मिन्पक्ष इति ।। कुमारक इवेति व्याख्यापक्षे कुत्सितमारकत्वार्थस्याभावादिति भावः । नवेति ।।अधितिष्ठन्नवं रथम्' इति वचनेनेत्यर्थः । न कस्याप्यपत्यमिति । कनीनशब्दो व्यास उपचरित: प्रकारान्तरेण वा निर्वक्तव्य इति भावः । सुट् छान्दस इति । 'आद्यन्तौ टकितौ' इति धातोरादौ भवति । अडागमे च सपच इति । लङादेशे तिपि परतः सिपि शपि च कृतेचोः कुः' इति कुत्वे 'इण्कोः' इत्यधिकारवता षत्वे कषयोगे क्षे सति, ‘इतश्च' इति इकारलोपः सपक्षदिति रूपमिति भावः। अत्र सः पक्षदिति अध्यापकाः पठन्ति । अविमह्योरिति ॥ ' अण रक्षणे, ' ‘मह पूजायाम्इत्यनयोः ष्ठिषच्प्रत्यये 'षः प्रत्ययस्य' इति षकारस्येत्संज्ञायां महिषेतिरूपमतो महान्तमिति व्याख्या युक्तेति भावः । इगुपधलक्षण इति ॥ इगुपधनिमित्तकः इत्यर्थः ।इगुपधज्ञाप्रीकिरः कः' इति सूत्रेण कप्रत्ययः । कित्त्वाद्गुणाभावः । अतो मृगयन्तमित्यर्थ उक्त इति भावः । चतुर्थ्यन्तयाऽनुवादेऽपिपितृमातृविषये' इत्यग्रेतनवाक्यानुरोधेन सप्तम्यर्थ इति वदनित्युक्तम्। पूरयामासेत्यत्राकाङ्क्षां पूरयति-ज्ञानादिनेति ॥ ऋगर्थस्तु-अर्भको न शिशुरिव स्थितः सूक्ष्मदेहस्सन् कुमारकः कुत्सितस्य जीवसम्बन्धिपूर्वपूर्वदेहस्य मारको निवर्तकः, यद्वा नकुमारकः न कस्याप्यपत्यभूत इन्द्रः परमेश्वरः कुत्सितपूर्वदेहं निर्वर्त्य पूर्वदेहस्थं जीवमादाय नवं नूतनं रथं देहमधितिष्ठन् अध्यतिष्ठत् । मृगम् अन्वेषमाणं पित्रे मात्रे सप्तम्यर्थे चतुर्थ्यां पितृमातृभूतदेवदेव्योर्विषये विभुक्रतुं पूर्णज्ञानं महिषं महान्तं चतुर्मुखं सपक्षत् पूरयामास स्वयोग्यताज्ञानादिपूर्त्यभिव्यक्तिमकरोदित्यर्थः । इति शस्त्रार्थोक्तिः

कर्मप्रकाशः

(स.टि.) अर्भको न कुमारकोऽधितिष्ठन्नवं रथम् । सपक्षन्महिषं मृगं पित्रे मात्रे विभुक्रतुं' इति ऋचं प्रतीकतयोपादत्ते अर्भक इति ॥ शिशुरिवेति ॥ इतः परं टीकायां श्रूयमाणं 'यद्यपि परं नेतिपदमिवार्थे प्रसिद्धम्' तथापि क्वचित्पूर्वमपि भवति । सर्वे विधयः छन्दसि विकल्प्यन्त इति वचनादिति वाक्यत्रयं प्रक्षिप्तम् । न टीकावाक्यम् । अवश्यं चैतदेवं विज्ञेयम् । कुमारक इवार्भक इत्यभिधानात् नशब्दस्य कुमारशब्दात्परत्वमेव लब्धम् । न तु पूर्वत्वमस्तीति । यद्यपीत्यादिविचारवैय्यर्थ्यात् । परस्य नशब्दस्येवार्थत्वविध्यभावेन सर्वे विधयः छन्दसि विकल्प्यन्ते इति वचनाभिधानायोगाच्च । ननु पचेर्लङि अपचदिति भवितव्यम् कथं सपक्षदिति प्रयोग इत्यत आह-सपक्षदितीति ।। पचेलिङि तस्य तिपि इकारलोपे शपि धातोः शिब्बहुलं लेटीति सूत्रे बहुलग्रहणात् सिपि धातोः छन्दसि सुटि अडागमे च चोः कुरिति कुत्वे सिपः सकारस्य आदेशप्रत्यययोंरिति षत्वे सपक्षदिति रूपम् । महिषमिति रूपं साधयति-मह पूजायामित्यत इति ॥ मृगमितिरूपं साधयति-मृगेति ।। सामानुयायित्वोक्तेति द्वितीयखण्डे यदि नानादं कुर्युः विहृतः पोळशी शंस्तव्यः । यदि गौरवीतं विहृतः षोळशी शंस्तव्य इति नानदगौरवीति सामानुसारित्वोक्तेत्यर्थः ।

गूढवाक्यार्थपञ्चिका

( छ. टि. ) 'अर्भको न कुमारकोऽधितिष्ठन्नवं रथम् । सपक्षन्महिषं मृगं पित्रे मात्रे विभुक्रतुम्' इति ऋचं प्रतीकतयोपादत्ते अर्भक इति ॥ ननु श्रौतार्भको नेत्यस्य मूले अर्भक इवेति कथं व्याख्यानम् । नेत्यस्य निषेधार्थकत्वादित्यत आह-नेत्युपमान इति ।। तथा चोक्तं निरुक्ते यास्केन-'नेति प्रतिषेधार्थी भाषायां उभयार्थः स्वाध्याये उपमार्थी निषेधार्थश्च' इतिनेन्द्रं देवममंसत' इत्यादौ प्रतिषेधार्थः । यत्र प्रतिषेध्यात्पूर्वं नेत्युच्यते । यत्रदुर्मदासो न सुरायांइत्यादौ अन्वीयमानात् पश्चात् नेत्युच्यते न तत्र उपमार्थः । उपरिष्टादुपचारः तस्य येनोपमीयत इति । तथा च अर्भको नेत्यत्रान्वीयमानात् अर्भकशब्दात् उपरिष्टाद्विद्यमानस्य नेत्यस्य उपमानार्थकत्वमिति भावः । स्थित इत्यध्याहार इति ।। ऋचीति शेषः । एवं उत्तरत्रापि ऋचीति शेषो ज्ञेयः । मूले सूक्ष्मदेह इत्युक्तिस्तु विष्णोर्व्याप्तत्वेन देहत्यागदेहान्तरप्रवेशासंभवात् कथं कुमारक इत्याद्युक्तिरित्याशङ्कापरिहारार्थत्वात् विष्णोर्व्याप्तत्वेऽपि सूक्ष्मदेहस्यापि विद्यमानत्वात् तद्देहसहितस्य प्रवेशनिर्गमौ घटते इति भावः । कथं विवृतमित्यत आह- जरारोगादिरिति ॥ जरा वार्धक्यम् ।

ननु मूले पूर्वं पूर्वं नवं नवं इति द्विरुक्तिः व्यर्थमित्यत आह-अनादित एवेति ।। जीर्णदेहपरित्यागपूर्वकं नूतनदेहग्रहणं जीवानां संसारे अनादिकालत एव सिद्धमिति ज्ञापनायेत्यर्थः । ननु मूले 'जीवमादाय' इति ऋचि किमर्थं अध्याहारः कृत इत्यत आह-जीवभावेनेति || इन्द्रो विष्णुः नवं रथं शरीरं अधितिष्ठन् जीवभावेन जीवत्वेन अधितिष्ठन् प्रविशतीति प्रतीतिनिरासायेत्यर्थः। जीवेतिस्मृतेरयमर्थः । अज ईश्वरः अर्भक इव स्वयं सूक्ष्मदेहः सन्नेवेति शेषः । जीवदेहं जीवसम्बन्धिजरारोगादिग्रस्तदेहं जीवेन सह जीवमादाय परित्यज्य जीवस्य अन्यच्छरीरं नूतनशरीरं समुत्पाद्य जीवेन सह विशतीति । मूले कुमारक इवेति व्याख्यानान्तरकरणे पूर्वव्याख्याने अरुचिं दर्शयति-मा भूद्धेति ॥ कुमारकशब्दं कुत्सितमारकत्वरूपार्थप्रतीतिं वारयितुं व्याचष्टे-शिशुरिवेति ॥ मूले अर्भकशब्देन पुनरुक्तिभ्रान्तिं वारयितुं गीणार्थी गृहीत:-सूक्ष्मदेह इतीति ॥ ननु न कुमारक इति कुमारकशब्दात् पूर्वं विद्यमानस्य नशब्दस्य कथमिवार्थकत्वं निरुक्ते अन्वीयमानपदात् पूर्वं विद्यमानस्य नशब्दस्य निषेधार्थकत्वपरस्य उपमानार्थकत्वं चोक्तं इति भावेन शंकते यद्यपीति ॥ अन्वीयमानादिति शेषः । निगमनिरक्तादावित्यपि समाधत्ते-तथापीति ॥ पूर्वमपि नेति पदं इवार्थकमित्यर्थः ।

ननु निरुक्तादौ परस्यैव इवार्थकत्वविधानात् कथं पूर्वस्येत्यत आह-सर्वे विधय इति । निगमनिरुक्तव्याकरणादिसर्वे विधय इत्यर्थः । व्याकरणवत् शिक्षादिसर्ववेदाङ्गानां वेदार्थोपयोगिनां स्वस्वप्रमेये विधिरूपत्वेन वैकल्पिकत्वात् न कुमारक इत्यत्र प्रथमनिषेधस्यापि उपमार्थत्वमित्यर्थः । ननु कुमारकशब्दस्य बालकार्थकत्वे पूर्वशरीरत्यागार्थकपदाभावात् तत्सिद्धि स्यादित्यत आह-न वाधिष्ठानवचनेनेति ।। नूतनरथाधिष्ठानकथनेनेत्यर्थः पूर्वस्थितनशब्दस्य उपमार्थत्वं वैकल्पिकमाश्रयणीयमिति अरुच्या मूले अर्भकः सूक्ष्मदेहोऽपीत्युक्तं तदभिप्रायमाह-प्रतिषेधार्थो वेति ।। अयमाशयः । 'पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः' इति अमरोक्तेः शिशुवाचकार्भकशब्दः लक्षणया अल्पदेहवत्पर इति भावेन मूले श्रुतिर्योजितेति । नेत्यस्य निषेधार्थकत्वपक्षे कुमारकशब्दस्यार्थमाह-न कस्याप्यपत्यमिति ॥ यथा बुद्धावतारस्य सूक्ष्मदेहत्वेऽपि जिनाद्यपत्यत्वाभाव इति भावः । सपक्षदिति ॥ ऋचि सः पक्षदिति पदद्वयं वेदपाठकैः पठ्यते । तत्र स इत्यस्य इन्द्र इत्यर्थः प्रसिद्ध इति कृत्वा पक्षादित्यस्यैव मूले परिपक्केति धात्वर्थमुक्त्वा योग्यतया ज्ञानादिगुणेनान्वयं कृत्वा अकरोदिति लकारार्थ उक्तः । परिपक्कज्ञानादिगुणमिति बहुव्रीहिः चतुर्मुखब्रह्मविशेषणमेतत् । तद्द्द्वेधोपपादयति-पचतेरिति ।।डुपचष् पाके' इत्यतः लङि तिपि शपि इतश्चेतीकारलोपे शपः छान्दसे सुडागमेबहुलं छन्दसि' 'अमाङ्योगेऽपि' इति अडभावेचो:कु:’ इति कुत्वे आदेशप्रत्यययोरिति सुटः पत्वे पक्षदिति रूपम् । प्रकारान्तरं तु सिब्बहुलं लेटीति बहुलग्रहणादित्यनेनोच्यते तत्र वेति शेषः । इकारलोपकुत्वादिकन्तु पूर्ववत् । मूले महिषमित्यस्य महान्तं ब्रह्माणमिति व्याख्यानं कृतं तत् प्रकृतिप्रत्ययविभागेन दर्शयति-मह पूजायामित्यत इति ।। प्रत्यय इत्यनन्तरं टकारस्य इत्संज्ञायां अस्य औणादिकप्रत्ययस्य बहुलग्रहणात् कर्मणि जातत्वात् महिषमित्यस्य पूज्यत्वार्थकस्य मुख्यतः चतुर्मुख एव तदुपपत्तेः ब्रह्माणमिति विशेष्यनिर्देशः कृत इति शेष: । मृगमित्यस्य मृगयन्तमिति यद्व्याख्यानं कृतं तत् स्पष्टयति-मृग अन्वेषण इति ॥ अन्वेषणं वेदादिना विचारः ।इगुपधज्ञाप्रीकिरः कः' इति सूत्रेण अस्य इगुपधत्वात् कर्तरि कप्रत्यय इति भावेनाह- इगुपधेति ॥ इगुपधत्वं क्षणं निमित्तं यस्येत्यर्थः । मृगयन्तमित्यस्य कमिति विशेष्याकाङ्क्षायां मूले स्वात्मानमित्युक्तम् । परमात्मानमित्यर्थः । एवं स्वस्मै इत्यस्यापि परमात्मने इत्यर्थो बोध्यः । विभुक्रतुमित्यस्यार्थः पूर्णज्ञानमिति । विपूर्वकभूधातोः 'विप्रसंभ्यो ड्व- संज्ञायां' इति डुप्रत्यये निष्पन्नविभुशब्दः देशकालव्याप्तिप्रतिपादकत्वेन पूर्णत्वार्थकः । क्रतुशब्दः ज्ञानार्थकः वैदिकनिघण्टौ चित्तं क्रतुरिति प्रज्ञानामसु पाठात् ।

ननु पित्रे मात्रे इति चतुर्थ्योः विभुक्रतुमित्यनेनान्वयात् । 'सुपां सुपो भवन्ति' इति वार्तिकेन विषयसप्तम्यां चतुर्थ्यावेतो आदेशौ इति भावेन आचार्यैः पितृमातृविषये इति उक्तम् । तर्हि 'विष्णु ब्रह्माणं पक्षात् ' इति ब्रह्मणः विष्णुना करणीयविशेषाभावात् किं करणीयमुच्यते । विभुक्रतुमिति ज्ञानपूर्तेः पूर्वमेवोक्तेरित्याशङ्कां प्रदर्श्य तन्निवारणार्थत्वेन पितृमातृविषय इत्यादिमूलं योजयति- पित्रेमात्रे इति चतुर्थ्याविति । मूल इत्यर्थ इत्यनेन सपक्षदित्यस्य पुनः पूरयामासेत्यर्थो बोध्य इत्युक्तं भवति । ननु ब्रह्मणः सरस्वत्याः शतगुणज्ञानस्य स्वरूपत्वात् तदपेक्षया अधिकस्य ज्ञानादेरभावात् कथं पुनः पूरणमित्यत आह- पूरणं चेति ॥ योग्यस्यैव स्वरूपस्यैव मोक्षात्पूर्वमजातस्य सर्वस्य मोक्षदानेन अभिव्यक्तीकरणरूपं पुनः पूरण युज्यत इत्यर्थः । प्रमाणवाक्ये मोक्षदानेनेत्यस्य स्वरूपभूतसर्वस्य ज्ञानानन्दादेः विशेषतया अभिव्यक्तीकरणेनेत्यर्थः ।

ऋगर्थस्तु-इन्द्र अर्भको न शिशुरिव स्थितः सूक्ष्मदेहः सन्निति यावत् । कुमारकः कुत्सितं जरादिग्रस्तं पूर्वजीवदेहं तस्य मारकः तं परित्यज्येति यावत् । यद्वा न कुमारक: कुमारको न शिशुरिव अर्भकः सूक्ष्मदेहः । यद्वा अर्भकः सूक्ष्मदेहोऽपि न कुमारकः न कस्याप्यपत्यं नवं नूतनं जीवशरीरं जीवेन सह अधितिष्ठन् अध्यतिष्टत् प्राविशत् । किंच स इन्द्रः मृगं मृगयन्तं विष्णुं अन्वेषमाणं पित्रे पितरि विष्णौ मात्रे लक्ष्म्यां विष्णुलक्ष्मीविषये त्रिभुक्रतुं पूर्णज्ञानयुक्तमपि महिषं पूज्यं चतुर्मुखं पक्षत् परिपक्कमकरोत् । स्वरूपज्ञानानन्दाविर्भावलक्षणमोक्षदानेन पुनः पूर्णमकरोदिति । छ ।

Load More