वाचनिकमर्थं परित्यज्य नियोगार्थकल्पने ..
(एकस्यानेकार्थत्वेऽपवादनिरूपणम्)
मूलम्
४७-मूलम् - वाचनिकमर्थं परित्यज्य नियोगार्थकल्पने श्रुतहानिरश्रुतकल्पनेति सर्वदोपाधिकौ तस्य व्यर्यमापद्येते । एवं च वदतो विधिशब्दा निरर्थकाः सिद्धार्था वा सिद्धशब्दाः स्वार्थ प्रमाणभूता इत्युक्ते किमुत्तरम् । न च कारणं किञ्चिद्वाचनिकानां बहूनामप्यर्यानां त्यागे । प्रतीयमाने तु विरोधे तदन्योऽर्थः स्वीकार्यः । वाचनिक एव । सोऽपि वाचनिक एवेत्यपि तत एव सिद्ध्यति । 'मुख्यार्यानां च सर्वेषां तारतम्यं च विद्यते । तत्राऽपि परमो मुख्यो वाच्योऽशेषरवैर्हरिः । तत्र मुख्यविरोधेन तदन्यार्थस्य सङ्ग्रहः । स्वतो मुख्यविरोधे तु त्याज्योऽन्योऽर्थोऽखिलेष्वपि । इति सर्वत्र नियमः शब्दार्यज्ञानभूमिषु' इति च ।।
टीका
टीका- एवं प्रासङ्गिकमेकस्यानेकार्थत्वमुपपाद्येदानीमर्यवादानां स्वार्ये प्रामाण्याङ्गीकारे परेणोक्तं कल्पनागौरवं परिहृत्य परस्यैव दोषमाह-वाचनिकमिति ।। यद्यप्यर्थवादानां कार्यार्थत्वमस्माकं सम्मतम्, तयापि परनिरूपितरूपस्य नियोगस्य लिङ्गाद्यर्थत्वासम्मतेरश्रुतकल्पनेत्युक्तम् । यदि च श्रुतहान्यादितो न विभेति तदाऽनिष्टमाह- एवं चेति ॥ यदेकस्यानेकार्थत्वं नास्तीति मतं प्रसङ्गान्निराकृतं तत्रापीदं श्रुतहान्यादिकं समानमिति भावेनाह-न चेति ॥ वाचनिकायां त्याग इत्यनेन श्रुतहानिरुक्ता । कारणं किञ्चित्त्यागे नास्तीत्यश्रुतकल्पनापि । वाचनिकानामनेकेषामप्यर्थानां स्वीकार्यतेत्युक्तम् । तत्किमेवं सर्वत्रेत्यतोऽविरोध इत्यभिहितम् । विरोधप्रतीतौ तु किं कार्यमित्यत आह-प्रतीयमाने त्विति॥ तदन्यो विरुद्धादन्यः । ननु वाचनिकार्ये बिरुद्धे योऽविरुद्धोऽर्थोऽङ्गीक्रियते स न वाचनिक सति तात्पर्यार्थ एव । तथा च वाचनिकार्थादन्यस्तात्पर्यार्थो नास्तीति भग्नमित्यत आह-वाचनिक एवेति ॥ कुत इत्यत आह-सोऽपीति ॥ तत एव वाचनिकार्थव्यतिरिक्ते तात्पर्ये प्रमाणाभावस्योक्तत्वादेव ।
ननु विरोधे प्रतीयमाने त्वविरुद्धार्थोऽङ्गीकार्य इति न युक्तम् । 'विश्वस्मादिन्द्र उत्तरः' इत्यादौ द्वयोरपि परस्परविरुद्धत्वेन त्याज्यस्योपादेयस्य चाविवेकात् । न च मुख्याशङ्कामागमेन परिहरति-मुख्यार्थानां चेति ॥ अखिलेष्वपि वाक्येषु । मुख्यत्वाभ्यां विवेकः । योगरूढ्योरुभयत्र भावेन द्वयोरपि मुख्यत्वादित्या-शब्दार्थज्ञानभूमिषु शब्दार्थज्ञानप्रसङ्गेषु । उपायान्तरं चास्य विवेकस्य ग्रन्थान्तरादवसेयमिति ॥
भावदीपः
(रा.टि.) प्रासङ्गिकमिति ॥ अर्थवादानां स्वार्थे प्रामाण्योक्तेः 'न चैवमादिवाक्यानाम्' इत्यादिना प्रस्तुतत्वे सति 'वाचनिकानां तु बहूनाम्' इत्यादिनोक्तमेकस्यानेकार्थत्वं प्रासङ्गिकमित्यर्थः । इदानीमित्यस्य परस्यैव दोषमाहेत्यन्वयः । परिहृत्येति । 'वचनेनैव प्रतीयमानत्वात्' इत्यादिना परिहृत्येत्यर्थः । ननु 'न वा अरे पत्युः कामाय पतिः प्रियो भवति । आत्मनस्तु कामाय पतिः प्रियो भवति' इत्याद्यर्थवादस्य स्वार्थपरत्वेऽपि, 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इत्युक्त-श्रवणादिकर्तव्यतार्थत्वोपगमादेवं तत्र तत्रेति कथमश्रुतकल्पनोक्तिरित्यत आह-यद्यपीति ।। कार्येति ।। इदमवश्यं कार्यमित्येतदर्थत्वमित्यर्थः । परनिरूपितरूपस्येति ।। कृत्युद्देश्यत्वे सति कृतिसाध्यत्वादिरूपस्येत्यर्थः । असम्मतेरिति । प्रागुक्तदिशा चेष्टसाधनत्वस्यैव लिङर्थत्वादिति भावः । तदाऽनिष्टमाहेति ॥ तत्र त्वयापि श्रुतहानादिकमेवोत्तरं वाच्यम् । ततोऽबिभ्यतस्तव निरुत्तरत्वेन मूकीभाव एवेति भाव: । इत्यर्थवादानां स्वार्थानङ्गीकारे एकस्यानेकार्थत्वानङ्गीकारे च दोषोक्तिः ||
निराकृतमिति ।। ‘वाचनिकानान्तु' इत्यादिनेति भावः । अस्फुटत्वाद्व्यनक्ति-वाचनिकानां त्याग इति ।। अत्र सर्वत्र वाचनिकशब्दो मुख्यामुख्यवृत्तिलभ्यार्थपरो ध्येयः । वाचनिकेऽर्थे विरुद्ध इति || मुख्यामुख्यवृत्तिभ्येऽर्थे विरुद्धे इत्यर्थः । द्वयोरपीति । विष्णुपुरन्दररूपव्यक्तिद्रयगत-सर्वोत्तमत्वयोरित्यर्थः । अखिलेष्वपीत्यनूद्य शेषमाह वाक्येष्विति ॥ आगमे 'स्वतो मुख्य' इत्यत्र स्वस्माद्यन्मुख्यं तद्विरोध इत्यर्थः । तथा च पुरन्दरार्थस्य स्वतो मुख्येनार्थेन विरोध इति पुरन्दररूपोऽर्थस्त्याज्य इति भावः । शब्दादर्थज्ञानप्रसक्तिस्थलेष्वित्यर्थः । उपायान्तरं चास्येति ॥ ‘विश्वस्मात्’ इति बाक्ये पुरन्दरो नार्थः, किन्तु भगवानेवेति विवेकस्योपायान्तरं च विष्णूत्तमत्वबोधकप्रमाणान्तररूपमुपायान्तरञ्च तथाप्येतद्विरोधे तु तद्वाचित्वमपोद्यते' इत्यनुव्याख्यानसुधारूपग्रन्थान्तरादित्यर्थः । इत्येकस्यानेकार्थत्वापवादः ।।
कर्मप्रकाशः
(स.टि.) द्वयोरपि परस्परविरुद्धत्वेनेति ॥ विष्णूत्तमत्वेन्द्रोत्तमत्वरूपवाक्यार्थयोः परस्परविरुद्धत्वेनेत्यर्थः । ननु द्वयोर्वाक्यार्थयोः परस्परविरुद्धत्वेऽपि इन्द्रशब्दमुख्यार्थः स एव ऋगर्थः नान्य इति निर्णयः सम्भवतीत्यत आह- न चेति ।। उपायान्तरं चेति ॥ उपक्रमादिरूपोपायान्तरं भाष्यादवगन्तव्यमित्यर्थः ।
गूढवाक्यार्थपञ्चिका
(छ.टि.) कल्पनागौरवमिति ॥ अर्थवादानां नियोगार्थत्वे विद्यमाने सिद्धार्थेऽपि तात्पर्यकल्पने प्राप्तं कल्पनागौरवं एकस्यैव शब्दस्य वासुदेवादि-शब्दवत् अनेकार्थत्वसम्भवेनेति शेषः । ननु वायुर्वै क्षेपिष्ठेत्याद्यर्थवादानां वायव्यं श्वेतमालभेतेत्यादिनिष्ठलिङादिवाच्येष्टसाधनतारूपकार्यार्थत्वस्य यज्ञे प्रवृत्यर्थम् अनुव्याख्याने " तदिष्टं साधनं तथा कार्यमि’'त्यादावङ्गीकारात् । मूले कथं श्रुतहान्यादिकमुक्तमित्याशङ्कय तस्याभिप्रायमाह-यद्यपीति ॥ नियोगस्य कृतिसाध्यत्वे सति कृत्युद्देश्यत्वरूपस्येत्यर्थः । मूले विधिशब्दा इत्यनेन लिङादिसहितशब्दा उच्यन्ते । श्रुतहानिरुक्तेति ॥ वाचनिकशब्देन वचनप्रतिपाद्यत्वोक्त्या वचनप्रतिपाद्यर्थत्यागे श्रुतहानिरुक्तेति भावः । अश्रुतकल्पना तु त्यागे कारणाभावोक्त्या अर्थान्तरग्रहणेऽपि कारणाभावसिद्धया सिध्यतीति भावेनाह-कारणं किञ्चिदिति ॥
विश्वस्मादिन्द्र इति ।। अत्र इन्द्रशब्दवाच्यत्वात् विष्णोः पुरन्दरस्य विश्वस्मादुत्तमत्वं प्रतीयते । तथा च द्वयोः विष्णुपुरन्दरोत्तमत्वयोरित्यर्थः मूले तत्र मुख्यविरोधेनेत्यर्थः । विश्वस्मादित्यस्य पुरन्दरापेक्षया यावन्तो नीचाः अहंकारिकप्राणादयः तदुत्तमत्वविवक्षया 'विश्वस्मादिन्द्र उत्तर' इति वाक्ये पुरन्दरस्यापि संग्रहः । तथात्वे विष्णोः सर्वमुख्यत्वाविरोधात् । स्वतः स्वभावेन विश्वस्मादित्यनेन प्रतिपाद्य रमाब्रह्मादिसर्वजगद्ग्रहणेन मुख्यविरोधः । मुख्यार्थविष्णुसर्वोत्तमत्वेन पुरन्दरस्य परब्रह्मादिसर्वोत्तमत्वासम्भवेन अन्योऽर्थः पुरन्दरादिरूपोऽर्थः त्याज्यः, न ग्राह्य इति । अखिलेष्वित्यस्य पदेष्विति भ्रान्तिवारणायाह-वाक्येष्विति ।। तेन 'हिरण्यगर्भः समवर्तताग्रे' 'एको रुद्रो न द्वितीयाय' इत्यादिवाक्येषु विष्णुमात्रप्रतिपादनमिति भावः । उपायान्तरं चेति ।। उपक्रमादिरूपोपायान्तरं भाष्यादवगन्तव्यमित्यर्थः ।