तक्को जगत्कर्ता । 'तक निर्माणे' इति धातोः
(नारायणतद्वपुषोरभेदस्य मन्त्रार्थत्ववर्णनम्)
मूलम्
३७- मूलम्-तक्को जगत्कर्ता । 'तक निर्माणे' इति धातोः । 'न वर्तवे प्रसवः सर्गतक्तः' इति प्रयोगाच्च । नेता चाशेषस्य । तदेव वपुस्सः । यत्तञ्जगत्कर्तृ नेतृरूपम् । 'देहदेहिविभागश्च न क्वचित्परमेश्वरे । गुणतद्वद्विभागो वा नेह नानेति हि श्रुतिः ' ॥ इति पाद्मे । 'तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति' । ' सदेहस्सुखगन्धश्च ज्ञानभारसत्पराक्रमः । ज्ञानज्ञानस्सुखसुखस्स विष्णुः परमोऽक्षरः ' ॥ इति श्रुते । 'विशुद्धविज्ञानमरीचिमालया विचित्ररत्नप्रकरप्रकाशया । प्रकाशिताशेषजगत्स्वरूपया प्रभुः सदाह्रादतनुर्विभूषितः ' ॥ इति पुरुषोत्तम संहितायाम् । उपमा उपमायाम् उपमाविषये, अमुच्यत त्यक्तोऽभवत् निरुपम इत्यर्थः । 'अल्पाक्षरेण शक्येऽपि वक्तुं क्षरं यदि । उक्तस्याधिक्यमेवात्र निषेधेऽशेषतो भवेत् ' ॥ इति शब्दनिर्णये ॥ २ ॥
टीका
टीका- हे नद्यः ! सर्गकर्ताऽत एव प्रसवोऽयं विप्रो विश्वामित्रः किंयुः किमिच्छुः नवर्तवे वृत्तिप्रतिरोधाय जोहवीतीति विश्वामित्रेणाहुतानां नदीनां परस्परं वचनम् । तकतेः परस्य क्तस्य विकल्पेन वः 'पचो वः ' इत्यत्रोपसङ्ख्येयः । तेन तक: तक्त इत्युभयथा भवति । वपुषोsप्रस्तुतत्वात्कथं तदिति परामर्श इत्यत आह-यत्तदिति ॥ कर्तुर्नेतुश्च प्रकृतत्वात्तत्स्वरूपं वपुरपि प्रकृतमिति भावः । स इत्यध्याहारः । यो व्यातीं रफाणयत् यश्च तको नेता निरुपमश्च स तद्वपुरेवेत्यन्वयः सूचितः । अत्रैव पुराणसम्मतिमाह-देहेति ।। विभागो भेदः । नन्वीश्वर-चिदानन्दायात्मकः, वपुस्त्वनेवंभूतं तत्कथं तयोरभेद इत्यतो वपुषोऽप्यानन्दाद्यात्मकत्वे श्रुतिस्मृती पठति-तदिति ॥ आह्लादतनुरानन्दवपुः । उपमेति सप्तम्याः 'सुपां सुलुक्' इत्यादिनाऽऽकारादेशः । सप्तमी च विषय इत्याह-उपमेति ।। उपमाशब्दश्चात्र भावे । एवं तर्हि निरुपम इत्येवं वाच्यम् । किमक्षरगौरवेणेत्यत आह-अल्पेति ॥ अल्पाक्षरेण बह्वक्षरमिति बहुब्रीही । समुदायौ च समासार्थौ । यदि प्रयुङ्क्तेऽत्र तर्ह्याधिक्यमेव विवक्षितं ज्ञातव्यम् । न तु वैय्यर्थ्यम् । निषेधस्य पृथग्वचनात् पूर्वं वक्तुं शक्ये विधाविति शेषः । निषेधे चाल्पाक्षरेण वक्तुं शक्येऽपि बह्वक्षरं यदि प्रयुङ्क्ते तदाऽशेषतो निषेधो विवक्षितो ज्ञातव्य इत्यर्थः ॥ १ ॥
भावदीपः
(रा.टि.) सङ्गतत्वाय 'एना वयं पयसा पिन्वमाना अनु योनिं देवकृतं चरन्तीः । न वर्तवे प्रसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति' इत्यस्यामृचि हे नय इति ॥ प्रसवो जनकः । किंयुः किमिच्छुरिति || 'सुप आत्मनः 'किंयुर्विप्रो नद्यो जोहवीति' इति सूक्तभागार्थकथनपूर्वं मूलोपात्तभागार्थमाह-क्यच्' इति क्यचि मान्तादव्ययात्क्यच्प्रतिषेधो वक्तव्यः' इति लौकिकविषयम्. 'क्याच्छन्दसि' इति उप्रत्ययः । 'वृतु वर्तने' इत्यतस्तुमर्थं तवेङ्-प्रत्ययः 'पुगन्त' इति गुणः । तस्य नञ्सम्बन्धे लब्धार्थमाह-वृत्तिप्रति-रोधायेति ॥ जोहवीति पुनः पुनराह्वयति । 'हेञ् स्पर्धायां शब्दे च' इत्यतो पङ्लुगन्ताट् । पचो व इत्यत्रेति । यथा 'डुपचष् पाके' इत्यस्मात् परस्य उप्रत्ययस्य चकारे विहितः पक्व इति रूपसिद्धये, तथा 'तको नेता' इति 'सर्गततः' इतिरूपद्वयसिद्धये 'तकतेर्वा' इति वक्तव्यमित्यर्थः । स इति मन्त्रेऽदर्शनाद्भाष्ये स इत्युक्तिः कथमित्यत आह-अध्याहार इति ॥ अस्त्वेवं प्रकृतत्वं योजना तु कथमित्यत आह-य इति ॥ अन्त्यपादार्थः निरुपम इति ॥ स इत्यनुवादः तद्वपुरेवेति विधिरित्यर्थः । इदित्यस्यार्थः एवेति ॥ अत्रैवेति ॥ तद्वपुरेव स इत्यत्रेत्यर्थः । श्रुतौ आनन्दरूपम् इति, ‘सद्देहः सुखगन्धश्च' इत्यादिना च वपुष आनन्दरूपत्वं व्यक्तं स्मृतावस्फुटत्वाद्दर्शयति-आह्लादतनुरिति ।। इत्यादिनेति ।। 'सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजाल:' इति सूत्रेणेत्यर्थः । भाव इति ।। उपमीयत अनयेति करणव्युत्पत्त्या दृष्टान्तार्थत्वे वाक्यार्थानुपपत्तेरिति भावः । यदीत्यनुवादेन क्रियापदमाह-प्रयुङ्क्त इति । अल्पाक्षरेण समुदायेन वक्तुं शक्येऽपि बह्नक्षरं समुदायं यदि प्रयुङ्क्त इत्यर्थः । अत्रेत्यनुवादः तर्हीति व्याख्या । यदीत्युक्तेरिति भावः । निषेधस्येति । पूर्वं पूर्वार्धे विधिरूपेऽर्थे वक्तुं शक्येऽपीति विधिपदाध्याहारेण योजना कार्या । कुत एवम् ? 'निषेधेऽशेषतः ' इति पृथग्वचनादित्यर्थः । अन्त्यपादार्थमाह-निषेधे चेति । न केवलं विधाविति चार्थः । अयमृगर्थ:- यः सुयुक्तान् भगवद्ध्यानादिरूपसुष्टुयोगरतान् व्यतीन् विशेषेणाधिकान् इन्द्रियाभिमानिदेवान् दाशुषे यजमानाय व्यत्ययेन यजमानस्य, उप समीपे अफाणयत् विस्तारयामास भक्तसम्बन्धिनां नदीन्द्रियाणां तत्वज्ञानादी शक्तिप्रेरणया देवान् प्रवर्तयतीति यावत् । अस्तु तक्वो जगत्कर्ता नेता चाशेषस्य यश्चोपमा उपमायां विषयेऽमुच्यत निरुपमः स भगवान् तदित् तदेव जगत्कर्तृनेतृरूपं वपुरेव । तादृशदेहः आत्मा चैक एवेत्यर्थ इति || २ ||
कर्मप्रकाशः
(स.टि.) ‘न वर्तवे प्रसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति' इत्यर्धर्चं व्याचष्टे-हेऽनघ इति ।। ननु पचो व इति सूत्रे कर्मोपसङ्ख्यानेन निष्ठातकारस्य वकारादेशोऽङ्गीक्रियते न वा । आद्ये 'न वर्तव' इत्यस्यां श्रुतौ तक्त इति प्रयोगोऽनुपपन्नः स्यात् । द्वितीये तक्को नेता तद्विदपुरिति श्रुतौ तत इति प्रयोगो न स्यादित्यत आह-तक्तेः परस्येति ।। पचो व इति सूत्रे तकतेर्वेति वक्तव्यमिति वाक्यशेषकल्पनेन विकल्पेन वकारादेशो वक्तव्य इति भावः । मूले ‘ज्ञानज्ञानः सुखसुख’ इति द्विरुक्तेन ज्ञानशब्देनातिशयितं ज्ञानमुच्यते । ततो मत्वर्थे अच् । एवं च ज्ञानज्ञान इति पुल्लिङ्गपदम् । एवं द्विरुक्तं सुखपदमतिशयितसुखवाचि । ततोऽपि मत्वर्थेऽजिति बोध्यम् ।
ननु उपमाविषये अमुच्यतेति व्याख्यानमयुक्तम् । उपमाशब्दस्य सदृशवाचित्वेन सदृशविषये अमुच्यत इति अर्थलाभात् सदृशस्य मोचनकर्तृत्वेन मोचनविषयत्वाभावादनन्वय इत्यत आह- उपमाशब्दस्येति || उपमाशब्दोऽत्र सदृशवाची । सादृश्यस्य च मोचनविषयत्वात् । उपमाविषये अमुच्यतेति व्याख्यानं युक्तमिति भावः । एवं तर्हीति । दृष्टान्तशून्यत्वस्य प्रतिपादनीयत्वे इत्यर्थः । अक्षरस्यावचकत्वादाह-अल्पाक्षरेणेति ॥ समुदायौ चेति ॥ अल्पाक्षरसमुदायः अल्पाक्षरेणेति समासार्थः । बह्वक्षरसमुदायः बह्वक्षर इति समासार्थं इत्यर्थः । अल्पाक्षरेण शक्येऽपीत्यतः परं निमित्तकथनपूर्वकं शेषमाह-निषेधस्येति ॥ पूर्वेऽल्पाक्षरेण वक्तुं शक्यते इति पूर्वभागे विधाविति शेषः कर्तव्यः । ननु विधाविति शेषो न कर्तव्यः । निषेधसंग्रहाय अर्थ इत्येव शेषः पूरणीय इत्यत उक्तम् । निषेधस्य पृथग्वचनादिति । निषेधे शेषतो भवेदिति निषेधविचारस्य पृथक्करणात् अस्मिन् भागे विधावित्येव शेषः कार्य इति भावः ॥
गूढवाक्यार्थपञ्चिका
(छ.टि.) मूले तक्क इत्यस्य व्याख्यानं जगत्कर्त्तेति कृतम् । तत्र योग्यतया जगदिति कर्माध्याहृत्य धातुं पठित्वा तकधातोः कर्तेत्युक्तकरणरूपधात्वये संवादार्थं नवतिं इति श्रुतिः पठिता । तां व्याचष्टे हे नय इति ॥ नदीनां संबोधनमेतत् । सर्गतक्त इत्यस्य व्याख्यानं सर्गकर्तेति || जगत्कर्तेत्यर्थः । अत एवं जगत्कर्तृत्वादेव । प्रसवः प्रसवशब्दवाच्यः विप्रः ब्राह्मणः । अत्र विशेष्याकाङ्क्षायां विश्वामित्र इत्यध्याहारः । किंयुरित्यस्यार्थो किमिच्छुरिति ॥ किंशब्दात् 'सुप आत्मनः क्यच्' इति क्यजन्तात् 'क्याछन्दसि' इति उप्रत्ययः । वृतु इत्यस्मात्तुमर्थे सेसेनिति तवेन्प्रत्ययः तस्य नञा सहितस्य तात्पर्यमाह-वृत्तिप्रतिरोधायेति ।। अस्माकं प्रवृत्तिप्रतिबन्धकार्थमित्यर्थः । जोहवीति ॥ अस्मान् आह्वयतीत्यर्थः । ह्वयतेर्यङलुङन्तात् 'ह्नः संप्रसारणं अभ्यस्तस्य च' इति संप्रसारणे कृते द्वित्वानन्तरं 'गुणो यङ्लुको:' इति अभ्यासस्य गुणे लटिति यः यङो वह्नेरिडागमे गुणवादेशयोः जोहवतीति रूपम् ।
ननु हे नद्य इति नदीः प्रति विश्वामित्रप्रवृत्यनुवादेन केषां संबोधनपूर्वकं वचनमिति न ज्ञायतेत्यत आह-विश्वामित्रेणेति ।। अस्यां श्रुतौ सर्गतक्त इति तकधातोः निर्माणे प्रयोगादिति मूलार्थ: । ननु तको नेतेति श्रुतौ तकधातोः परः वकारः श्रूयते । अत्र सर्गतक्त इति द्वितीयश्रुतिः तकारवती कथं मूले सम्मतित्वेनोच्यते इत्यत आह- तकतेः परस्येति । पचो व इत्यत्रेति ।। अस्मिन्सूत्रे व इति योगविभागादिष्टसिद्धिरित्युक्तेः तकते: क्तस्य विकल्पेन वकारादेश इति भावः । मूले नेतृशब्दस्य नियामकत्वार्थस्य सम्बन्धिसापेक्षत्वात् संकोचे कारणाभावात् । अशेषस्येत्यध्याहृतम् ।
ननु श्रीततच्छब्दस्य तदेव वपुरिति वपुषोऽन्वये विद्यमाने मूले यत्त जगत्कर्तृ नेतृरूपमिति तक्वो नेतेत्यनयोः प्रकृत्यर्थभूतविष्णुपरत्वं किमर्थमहीक्रियते इत्यत आह-वपुषोऽप्रस्तुतत्वादिति । ननु तर्हि मूले स इति व्यर्थमित्यत आह-स इत्यध्याहार इति ।। ऋचि य इत्युक्तस्य अन्वयघटनार्थं स इत्यध्याहार इति भावः । ननु तदिद्वपुरित्यत्र इच्छाशब्दस्य एवार्थत्वात् तदेव वपुरिति परमेश्वरतद्देहयोः अभेदोक्तेः तत्र देहदेहिविभागश्चेति कथं प्रमाणम् । अत्र देहदेहिनोः गुणगुणिनोः परमेश्वरे विभागाख्यगुणनिषेधादित्यत आह-विभागो भेद इति ।। विभागशब्दस्य अनेकार्थत्वात् अत्र भेदवाचकत्वं गृह्यते । प्रमाणान्तरबलादिति भावः । योजना तु परमेश्वरदेहदेहिभेदः गुणगुणिभेदो वा क्वचित् मूलरूपे अवतारादौ वा नास्ति । यतः ‘नेह नानास्ति' इति श्रुतिः भेदाभावे ह्यस्ति प्रमाणमिति ।
ननु तर्हि इतरप्रमाणानि व्यर्थानीत्याशङ्कायां तन्निवर्तनीयां शङ्कां दर्शयति-नन्वीश्वर इति ।। अनेवंभूतं शरीरत्वेन जडत्वाच्चिदानन्दाद्यात्मकं नेत्यर्थः । मूलोक्तश्रुत्यर्थस्तु-यच्छरीरं आनन्दरूपं आनन्दरूपत्वादमृतं नित्यं विभाति प्रकारयते तच्छरीरं धीराः ज्ञानिनः विज्ञानेनापरोक्षज्ञानेन परिपश्यन्ति जानन्तीति । सद्देह इत्यस्यार्थस्तु स विष्णुः परमेश्वरः ब्रह्माद्यपेक्षया उत्तमः नाशरहितः, तेषां देहनाशत्वात् विष्णोस्तदभावादिति भावेन विष्णुदेहस्वरूपमाह- सदेह इति । यस्य सदेहः सुखगन्धात्मकः ज्ञानाभाः ज्ञान- प्रकाशात्मकः सत्पराक्रमः तदात्मकः ज्ञाने सुखे च विशेषमाह-ज्ञानज्ञानः सुखसुख इति ॥ अर्शाद्यजन्तावेतौ तेन पुलिङ्गाद्विरुक्तिबलात् अत्युत्तमज्ञान-सुखाद्यात्मकदेहवत्वात् स्वरूपेणाक्षरेभ्यो ब्रह्मादिभ्यः विष्णुः परमोऽक्षर इति ।
स्मृतियोजना तु स प्रभुः विष्णुः चित्ररत्नप्रकरप्रकाशया विचित्राणि रत्नानि कौस्तुभवैडूर्यादीनि तेषां प्रकरः समूहः तं प्रकाशयतीति प्रकाशया प्रकाशिताशेषजगत्स्वरूपया प्रकाशितं अशेषजगत्स्वरूपं यथा सर्वविषयिण्यति यावत् । विशुद्धविज्ञानमरीचिमालया विज्ञानानि च मरीचयः प्रकाशाम विज्ञानमरीचयः विशुद्धानां विज्ञानमरीचीनां माला समूहः तया विभूषितः । आह्लादतनुः आनन्दवपुरिति । आनन्दाद्यात्मकशरीरवानित्यर्थः । 'हादी सुखे च' इति धातोः आङ्पूर्वात् भावे घञि आल्हाद इति रूपम् ।
ननु श्रौतोपमेति प्रथमविभत्तयन्तपदस्य मूले उपमायामिति सप्तम्यन्तं प्रतिपदं कथं दत्तमित्यत आह-सुपां सुलुगितीति ॥ इति सूत्रेण सुपां स्थाने सुः लुक् । पूर्वसवर्णः । आत् । दर्शयो । डा । ड्यायाच् । आ । आलू इत्येतेषामादेशानां विधानादिति भावः । ननु तर्हि सप्तम्यर्थस्याधिकरणत्वस्या. सङ्गतिरित्यत आह-सप्तमी च विषय इति । ननु तर्हि उपमाशब्दस्य ‘जीवयाजं यजते सोपमादिवः' इत्यादाविव सदृशवाचकस्य ग्रहणे अमुच्यते कर्मणि लडन्तप्रयोगेण त्यक्तोऽभवदित्यर्थकेण पुनरनन्वय इत्यत आह- उपमाशब्दश्चात्र भावे इति ।। उपपूर्वं मामाने इत्यस्मात् भावे क्विपि निष्पन्नोपमाशब्दस्य उपमानपर्यायस्य सादृश्यार्थकत्वात् यत्किञ्चित्प्रतियोगिक-सादृश्यविषये अमुच्यत केनापि सादृश्यं नास्ति किन्तु निरूपम इत्यर्थलाभात् नान्वयानुपपत्तिरिति भावः । कर्मधारयस्य बाधितत्वादाह-बहुव्रीहीति ॥ विशेष्याप्रतीतेराह-समुदायौ चेति ॥ समासार्थौ अन्यपदार्थावित्यर्थः । मूले पूर्वार्धेऽल्पाक्षरेण वर्णसमुदायेन वक्तुं शक्ये प्रमेये यदि बह्वक्षरं वर्णसमूहं प्रयुंक्ते । तर्हि अत्र वाक्ये उक्तप्रमेयस्याधिक्यमेव ज्ञातव्यमिति सामान्योक्त्या विधौ निषेधे च आधिक्यस्य प्राप्तावाह-निषेधस्य पृथग्वचनादिति ॥ निषेधवाक्यस्य पृथक्करणात् इदमाधिक्यं विधिवाक्ये एव ज्ञेयमिति भावः ।
निषेधस्याभावरूपत्वेन तत्राल्पाधिकत्वसंभवात् निषेध इत्यादिकं पूर्वोक्ता–वृत्या योजयति निषेधे चेति । तदा वह्नक्षराधिक्यं निषेधकाले अशेषतः निषेध्यतावच्छेदकावच्छिन्नस्य सर्वस्य निषेधकं भवेदित्यर्थः । यथा 'य आत्माऽपहत पाप्मा विजर' इति वाक्ये निर्दोष इत्यल्पाक्षरेण पापजरादि-शून्यत्वस्य वक्तुं शक्यत्वेऽपि जरादिलेशानां गन्धस्यापि निषेधार्थं विजरो विमृत्युरित्यादिवह्नक्षरं वाक्यं प्रयुज्यते । एवं सर्वथा सदृशवस्तुनिषेधार्थं उपमायो अमुच्यतेति वाक्यमिति भावः ।
मन्त्रार्थस्तु- यो विष्णुः सुयुक्तान् विष्णुध्यानरतान् व्यतीन् विशेषेणातिशायितान् पूज्यान् वा देवान् मनइन्द्रियाद्यभिमानिनः व्यतीन् सुयुक्तानित्यत्र दीर्घादटि समानपादे इत्यत्र सूत्रेण नस्य रुत्वे ' अत्रानुनासिक' इति अनुनासिकः । उत्तरत्र ‘भो भगो’ इति सूत्रेण यत्वं ‘लोपः शाकल्यस्य' इति यकारस्य लोपश्च विशेषः । पूर्वत्र तु अकारपूर्वत्वाभावात् न दाशुषे यजमानस्य उप समीपे अफाणयत् विस्तारयामास । भक्तानां मन-आदीन्द्रियाणां भगवत्तत्वज्ञानादौ शक्तिप्रेरणाय देवान् प्रवर्तयतीति यावत् । यस्तक्को जगत्कर्ता नेता जगतो नियामकश्च । यश्च उपमा सादृश्यविषये अमुच्यतेत्युक्तोऽभूत् । अन्यस्य विष्णुसादृश्यं ज्ञानिनो न गृह्णन्ति निरुपम इति यावत् । सः विष्णुः तत् जगत्कर्तृत्वं नेतृत्वनिरुपमत्वादिकं वपुरित् शरीरमेव शरीरेणात्यन्ताभिन्नमिति यावदिति ।। छ ।