विदा रायस्सुवीर्यं भुवो वाजानां पतिर्वशाँ अनु

(विदा राय इति श्रुत्यर्थविचारः)

मूलम्

१८- मूलम् विदा रायस्सुवीर्यं भुवो वाजानां पतिर्वशाँ अनु । मंहिष्ट ज्रिन्नृञ्जसे यश्शविष्टश्शूराणाम् ॥ ४ ॥

विदा वेदय लम्भय रायस्सुवीर्यं च वाजानां पतिः भुवः अभवः । 'प्रजा वै वाज:' इति श्रुतेः । वशान् अनु यथावशं वश इच्छायाम् इति धातोः यथावशं यथेच्छम् । शूराणां सकाशाद्बलवत्तम ॥ ४ ॥

टीका

टीका- विदा ॥विद्लृ लाभे' इत्यस्येदं छन्दसि रूपम् । भुवः ।बहुलं छन्दस्यमाङ्योगेऽपिइत्यडभावः । उकारश्छान्दसः । अनुशब्दोऽयं लक्षणे । लक्षणं चानतिक्रमे भवतीति यथावशमित्युक्तम् । तस्यैव विवरणम्वश इच्छायाम्' इति धातोः वश इच्छा यतस्तस्माद् इति शेष: । क्रियाविशेषणमेतत् । शूराणामिति निर्धारणष्ठीपक्षे जीवजातीयताप्रतीतिः स्यादित्यतः सकाशादित्यध्याहारेण व्याख्यातम् ॥ ४ ॥

भावदीपः

(रा. टि.) विदा रायस्सुवीर्यं भुवो वाजानां पतिर्वशान् अनु । मंहिष्ठ ज्रिन्नृञ्जसे यश्शविष्टश्शूराणाम्' । विदेत्यस्य लम्भयेत्यर्थलाभप्रकारमाह-विद्लृ लाभ इति || छन्दसीति । अन्तर्णीतण्यर्थस्य शब्विकरणस्य रूपं विदेतीति भाव: । 'न माङ्योगे' इति माङ्योगे अडभावमुक्त्वा, 'बहुलम्' इति सूत्रे छन्दसि माङोऽभावोऽप्यडभाव उक्त इत्यडभाव इत्यर्थः । लक्षणलक्षणेत्थभूताख्यानभागवीप्सासु प्रतिपर्यनव:' इति सूत्रे लक्षणे द्योत्येऽनुशब्दः कर्मप्रवचनीय इति तद्युक्ते वशानिति द्वितीयेति भावः । ततः किमित्यतोऽयं मन्त्रार्थः-हे मंहिष्ठ महत्तम पूज्यतम वज्रिन् यस्त्वं वाजानां प्रजानां पतिः शूराणां सकाशात्तदपेक्षयापि शविष्टो बलवत्तमश्च भुवोऽभवः, यश्च त्वं भक्तान्नृञ्जसे प्रेरयसि, स त्वं रायो दैवमानुषवित्तानि सुवीर्यं च वशान् अनु यथावशं यथेच्छं यथा भवति तथा विद लम्भय अस्मान् प्रापयेति ||||

विवरणम्

(श्री. टि.) ननु लाभार्थकविदधातोः शव्विकरणतया मुचादिगणस्थत्वात्शे मुचादीनाम्' इति नुमागमे विन्देति स्यात् विदेति कथमित्यत आह-विद्लृ लाभ इत्यस्येदं छन्दसीति ।। इत्यस्यान्तर्णीतण्यर्थस्येति भावः । इदं विदेत्येतत् । ननुलुङ्लङ्लृङ्क्ष्वडुदात्तः' इति सूत्रेण लङि अडागमेन भाव्यम् । तथा चाभाव इति स्यादित्यत आह-बहुलमिति || छन्दस्यडागमो विकल्पेन भवतीति सूत्रार्थः । अत्र चाडागमो न जात इति भावः । ननु 'न माङ्योगे' माङ्योगेऽट् न स्यादिति माङ्योग एवाडागमस्य निषेधान्मा हि भूदित्यादिप्रयोगदर्शनात्, प्रकृते च माङ्योगाभावात्स्यादेवाडागम इत्यत उक्तम्-अमाङ्योगेऽपीति ॥ माङ्योगाभावेऽपि छन्दसि विकल्पेनाडागमो भवतीत्यर्थः । नन्वथापि भव इति स्याद् भुव इत्युकारः कथमत आह-उकार इति ।। वशान् अनु यथावशमिति व्याख्यानमुपपादयति-अन्विति ॥लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः' लक्षणादौ द्योत्येप्रत्यादय उपसर्गाः कर्मप्रवचनीयसंज्ञाः स्युरित्यर्थः । अत्र लक्षणं नाम चिह्नम् । तथा चानोर्लक्षणे द्योत्ये कर्मप्रवचनीयतया 'कर्मप्रवचनीययुक्ते द्वितीया' इति द्वितीयाया विहितत्वाद् वशानिति द्वितीया युक्तेति भावः । ननु लक्षणार्थकानोरनतिक्रमार्थकयथाशब्देन कथं व्याख्यानमित्यत आह- लक्षणं चेति ॥ चिह्नस्य यथायोगं ग्राह्यत्वादत्रानतिक्रमो लक्षणया विवक्षितः । एवं चानतिक्रमरूपलक्षणस्यात्र योत्यत्वादनोः कर्मप्रवचनीयत्वमिति ध्येयम् । धातोरित्यनन्तरं पूरणीयमाह धातोर्वश इत्यादि ॥ क्रियेति ॥ तथाच यथावशं पतिर्भुव:, यथावशम् ऋन्ज्से यथावशं विदेति क्रियात्रयस्यापि विशेषणमित्यर्थः । जीवजातीयतेति | आसां गवां मध्ये कृष्णा सम्पन्नक्षीरतमेत्पत्र कृष्णाया अपि गोर्गोजातीयताप्रतीतिवदिति भावः ॥ ४ ॥

कर्मप्रकाशः

(स.टि) 'विदारायः सुवीर्यं भुवो वाजानां पतिर्वशाँ अनु । मंहिष्ठ वज्रिन्नृञ्जसे यः शविष्ठः शूराणाम्' इति ऋचं प्रतीकतयोपादत्ते-विदेति । ननु लाभार्थकविदेर्णिचि उपधागुणे शपि सार्वधातुकार्धधातुकयोरिति णिचो गुणे अमादेशे अतो हिरिति हेर्लुकि वेदयेति भाव्यमित्यत आह-विद्लृ लाभ इत्यस्येति ॥ अन्तर्णीतण्यर्थाद्विदेः शप्रत्ययेशे मुचादीनामि " तिनुमछान्दसत्वादभावे विदेति रूपम् ।

गूढवाक्यार्थपञ्चिका

(छ.टि.)विदा रायः सुवीर्यं' इति चतुर्थऋचं प्रतीकेनादत्ते-विदेति ॥ ननु लाभार्थकविदेः तुदादिगणस्थत्वात् शब्विकरणत्वेन 'शेमुचादीनां ' इति नुमागमे लोटि सिपस्थानिकहे: 'अतो हे:' इति लोपे विन्देति भाव्यं कथं विदेत्पत आह-छन्दसि रूपमिति || ' अनित्यागमशासनं' इति वचनात् ऋचि नुमभावः ।द्यचोतस्तिङ्' इति संहितायां दैर्घ्यं चेति भावः । मूले भक्तानिति शेषं रायः धनानि सुवीर्यं अतिपराक्रमं चविद्लृ लाभे' इत्यस्य अन्तर्णीतण्यर्थत्वाश्रयणं लाभाय प्रापयेत्यन्वयं च स्पष्टत्वादनुक्त्वा भुवः अभव इति मूलस्थव्याख्यानं उपपादयति-भुव इति । तथाच भूधातो: लङि पि सार्वधातुकेति गुणे अवादेशे सिपोरुत्वविसर्गादिति भावः ।

ननुलुङ्लङ्लृङ्क्ष्वङुदात्त:' इति अडागमेन भाव्यम् । न चन माङ्योगे' इति निषेधः । माङ्सम्बन्धस्य बाधितत्वादित्यत आह-बहुलं छान्दसीति ।। ननु तथात्वे भव इति स्यादित्यत आह-उकारश्छान्दस इति ॥ व्यत्ययेनेति शेषः । मूले 'प्रजा वै वाज' इति श्रुतेरित्यस्य ऐतरेयोपनिदि एप उ एव 'विभ्रद्वाजः प्रजा वै वाज' इत्यत्रोक्ताया इति शेषो ज्ञेयः । ऋचिवशाँअनु' इति संहितायामनुनासिकप्रयोगात् पदपाठकाले 'वशान् अनु' इति पदच्छेदः । तत्र वशानिति नकारस्य 'अतोऽटि नित्यं' इति रुत्वे अनुनासिके चभोभगोइति यत्वेलोपः शाकल्यस्य' इति यलोप इति अभिप्रेत्य वशान्निति द्वितीया कथमित्याशङ्कायां अनुशब्दसम्बन्धात् द्वितीयामुपपादयितुमाह-अनुशब्दोऽयं लक्षणे इति ।। तथा च लक्षणेत्थंभूताख्यानेति अनुशब्दस्य लक्षणार्थे कर्मप्रवचनीयत्वात् तद्योगे 'वशान्' इति द्वितीयाकर्मप्रवचनीययुक्ते द्वितीयेत्युक्तेरिति भावः । तथात्वे मूले यथा वशमिति कथं व्याख्यातमित्यत आह-लक्षणं चानतिक्रम इति ।। लक्ष्यातिरिक्तस्थले अविद्यमानत्वात् यथा-शब्दस्य च योग्यतावीप्सापदार्थानतिक्रमसादृश्यार्थकत्वेन अनतिक्रमार्थकत्वात् ।

ननु तथात्वे यथावशमित्यस्य क्रियया कथमन्वय इत्यत आह-तस्यैव विवरणमिति ।। तथा च पूर्वोक्तं यथावशमित्यनूद्य ' वश इच्छायां' इति धातोः यथेष्ठमिति मूले स्वपदव्याख्यानात् न पौनरुक्त्यमिति भावः । यद्यपि पाणिनीय व्याकरणे 'वश कान्तौ' इति धातुं पठित्वा कान्तिरिच्छेति व्याख्यायते । तथापि आचार्यै: महाव्याकरणानुसारेण 'वश इच्छायां' इति धातुः पठित इति बोध्यम् । अस्माद्भावे अकारप्रत्यये वशशब्दः इच्छार्थक इति भावेन मूलेवश इच्छायां ' इति धातोरित्येतदनन्तरं यथेच्छमित्यतः अपेक्षितमध्याहरति-वश इच्छा यतस्तस्मादिति । तस्मादित्यस्य यथेच्छमित्यनेनान्वये यथा वशशब्दार्थः यथेच्छमित्युक्तं भवति । वशअन्वित्यस्य केनान्वय इत्यत आह-क्रियाविशेषणमेतदिति ॥ ' विदा भुवः' इति क्रिययोः विशेषणमित्यर्थः । तथा च स्वेच्छानुसारेण धनादिकं देहि प्रजानां पालक भव असीति संपूर्णवाक्यार्थः । ननु शूराणामिति पदं निर्धारणषष्ट्यन्तमङ्गीकृत्य कुतो न व्याख्यातं सकाशादित्युक्ते अध्याहारदोषप्रसङ्गादित्यतः निर्धारणष्टीपक्षे बलवद्दोमाह-निर्धारणष्टीपक्षे इति ॥ 'यतश्च निर्धारणं' इति सूत्रेणेति शेषः । सूत्रार्थस्तु जातिगुणक्रियासंज्ञाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणं यतः सत्समुदायवाचकाच्छब्दात् षष्टीसप्तम्यौ स्यातामिति । उदाहरणानि तु नृणां नूषु वा विप्रः ज्ञानी श्रेष्ठः गच्छतां गच्छत्सु वा धावन् शीघ्रः, ऋषीणां ऋषिषु वा वसिष्ठः शांत इति । जीवजातीयताप्रतीतिः शूराणां जीवत्वात् तत्समुदायान्तर्गतस्य विष्णोरपि जीवत्वप्रकारयुक्तताप्रतीतिः स्यात् 'प्रकारवचने जातीयर् इत्युक्तेः । यद्यपि पदार्थतावच्छेदके साजात्यमात्रं निर्धारणोपयोगि, तदर्थतावच्छेदकशौर्येण साजात्यं च परमेश्वरेऽप्यस्तीति जीवजातीयताप्रतीति-र्नास्तीत्यपि वक्तुं शक्यते तथापिपरमतस्सेतून्मानसम्बन्धभेदव्यपदेशेभ्यःइत्यादिना परमेश्वरगुणानां अन्यगुणसाजात्यनिषेधात् ईश्वरशौर्यस्य जीवशौयंसादृश्याभावात् नाश्रितमिति ज्ञेयम् । ऋचि 'य: शविष्ठ' इति यच्छन्दस्य सत्वंऋञ्जस इति पूर्वेणान्वयः । स्पष्टत्वान्नोक्तः ॥ छ ॥