आयोमन्याय मन्यव उपोमन्याय मन्यवे
(आयोमन्याय इति श्रुत्यर्थपर्यालोचनपूर्वकं महानाम्नीनामर्थकथनोपसंहारः)
मूलम्
२५- मूलम्-आयोमन्याय मन्यव उपोमन्याय मन्यवे । उपेहि विश्वध ।। विदा मघवन्विदोम् ॥ ११ ॥
‘अय पय गतौ' इति धातोः आयो इत्यायतिः । उपो इतिवदतिशयार्थे ओकारः । ‘ओ अतिशये' इति सूत्रम् । आयोजानातीत्यायोमन्यः, समीपस्थमपि जानातीत्युपोमन्यः । अन्येषामिन्द्रियाणां पराङ्मुखत्वान्न ह्यान्तरं जानन्तीति । अयन्त्वान्तरमप्यापरोक्ष्येण पश्यति । अयनेन गमनेन प्राप्यं दूरस्थम् आयो इति वा । 'मनु अवबोधने' इति धातोर्मन्युरिति ज्ञानी, वाह्यज्ञाय ज्ञानिने आन्तरज्ञाय ज्ञानिने इत्यभ्यासोऽतितात्पर्यार्थः । एवंविधं मद्गतं त्वामुद्दिश्यैवोपेहि विश्वध विश्वधारक । समीपतो दूरतश्च त्वां मन्यमानाय मह्यं मन्यवे ज्ञानाय मामुपेहीति वा । 'समीपे दूरतोऽभिज्ञं त्वामुद्दिश्यैव मद्गतम् । एहि विष्णो न मे शक्तिस्त्वदाह्वाने हि मामुप ।। इति ब्रह्माऽस्तुवद्विष्णुं तन्नाभ्युत्थितपद्मगः' इति पाद्मे । 'समीपे दूतश्चैव ध्यायन्तं त्वा सदा प्रभो । मामेहि ज्ञानदानायेत्याह गाधिसुतो हरिम्' इति स्कान्दे । 'ओतमस्मिन् जगयस्मादोमित्युक्तो हरिस्सदा । तमेव जगदाधारं यतयस्समुपासते' इति मान्यसंहितायाम् ॥ ११ ॥
टीका
टीका-आयोमन्याय || अयेति । अयधातोर्व्याख्यानादायतिरागमनं योग्यता वा । नन्वयतेर्घञन्तस्य भावे रूपमेतत् । तथाचाऽय इति भाव्यम्। किन्निमित्त ओकार इत्यत आह-उपो इतिवदिति ॥ अत्रापीत्यर्थः । परोक्षमिति यथा । 'मन ज्ञाने' इत्यस्माद्ये मन्य इति भवति । समीपस्थमान्तरमिति भविष्यति । समीपस्थज्ञाने कोऽतिशय इत्यत आह-अन्येषामिति ॥ पुरुषाणाम् । कर्मणि घत्रिति भावेनाय-नेनेति व्याख्यानान्तरम् । धातोर्युप्रत्यये सति । समुदायार्थं वदन् ज्ञानाभ्यासप्रयोजनमाह-बाह्येति ॥ बाह्यशब्देन दूरस्थमुच्यते । आयतिश्चोपलक्ष्यते । एवंविधमित्यनेन गत्यर्थकर्मणीयं चतुर्थीति सूचितम् । विश्वध 'आतोऽनुपसर्गे कः ' । ज्ञानाय साक्षात्काराय । आद्येऽर्थे पुराणसम्मतिमाह-समीपेति ॥ द्वितीयार्थे तामाह-समीप इति ॥ विदोमित्योङ्कारार्थमागमेनैवाह-ओतमिति ॥ ११ ॥
भावदीपः
(रा.टि.) ‘आयोमन्याय मन्यव उपोमन्याय मन्यवे । उपेहि विश्वध । विदा मघवन्विदोम्' । आयोमन्यायेति ऋक्प्रतीकग्रहणम् । अयेति भाष्यप्रतीकम् । धातोरित्यस्यार्थो धातोर्व्याख्यानादिति । आयतिर्विशाल इति भ्रमनिरासायाह-आयतिरागमनमिति । मदागमनमित्यर्थः । घञन्तस्येति ॥ ‘अत उपधायाः’ इति वृद्धौ सत्यामिति योज्यम् । अत्रापीति । आयो इत्यत्रापीत्यर्थः । परोक्षमिति यथेति । अक्षिभ्यां परमिति विग्रहे ‘अव्ययीभावे शरत्प्रभृतिभ्यः' इति समासान्तटच्प्रत्यये पराक्षमिति भाव्यम् ।तथापि तत्र परोक्षमिति ओकारो यथा तथेत्यर्थः । इत्यस्मादिति । औणादिके प्रत्यय इति योज्यम् । समीपस्थमित्यस्यार्थं वदन्नेवोत्तरवाक्यमवतारयति-समीपस्थमिति ॥ षष्ठयोः सामानाधिकरण्यभ्रान्ति निराह-पुरुषाणामिति ॥ कर्मणि घत्रितीति ॥ ' अकर्तरि च कारके संज्ञायाम्' इति सूत्रेणायतेर्घञिति भावेनेत्यर्थः । धातोरित्यनूद्य तदनन्तरं शेषमाह-धातोर्युप्रत्यय इति ॥ समुदायार्थमिति । वाक्यद्वयरूपसमुदायार्थमित्यर्थः । ज्ञानाभ्यासेति || मन्यवे मन्यव इत्यभ्यासेत्यर्थः । उपलक्ष्यत इति ॥ भावार्थे घञन्तमाश्रित्य कृतव्याख्यानमप्यत्रागमनज्ञानयोग्यताज्ञानेत्युपलक्ष्यत इत्यर्थः । 'गत्यर्थकर्मणि द्वितीयाचतुर्थ्यो चेष्टायामनध्वनि' इति गत्यर्थधातोः कर्मकारके चतुर्थीविधानादिह चोपेहीत्यस्य गत्यर्थत्वात्कर्मणि मन्यं मन्युमिति वक्तव्ये मन्याय मन्यव इत्युक्तम् । अर्थस्तु मन्यं मन्युमित्येवंविधमित्युक्तमिति भावः । तोऽनुपसर्गेक इति ।। आकारान्ताद्धातोरनुपसर्गेऽप्युपपदे कप्रत्ययो भवतीत्युक्तेरिह च विश्वपदे उपपदे 'डुधाञ् धारणपोषणयो:' इत्यतः कप्रत्यये ‘आतो लोप इटि च’ इत्याकारलोपे विश्वधेति सम्बुद्धौ रूपमिति भावः ।
मूले मन्यव इति भावार्थयुप्रत्ययान्तमित्युपेत्य ज्ञानायेत्युक्तम् । तस्य ज्ञानमात्रपरत्वे वैय्यर्थ्यप्राप्तेराह-ज्ञानाय साक्षात्कारायेति ।। त्वत्साक्षात्कारदानायेत्यर्थः । आद्येऽर्थ इति ॥ बाह्यज्ञायेत्यादिनोक्तार्थ इत्यर्थः । पुराणवाक्ये मामुपेहीति योजना । द्वितीयेऽर्थ इति ।। समीपत इत्यादिनोक्तार्थ इत्यर्थः । तामिति ।। पुराणसम्मतिमित्यर्थः । पुराणे त्वां ध्यायन्तं मामेहीत्युक्त्या मन्यमानाय मह्यमित्यस्य ध्यायन्तं मामिति गत्यर्थकर्मणि चतुर्थीति सूचितम् । पुराणे त्वां ध्यायन्तं मामुपेहीत्यन्वयः । ओमितीति ॥ विदोमित्यत्र श्लिष्टतया सम्बद्धमित्यर्थः । विदेत्यस्य प्राग्वद् वेदयेत्यर्थः । ओमित्यव्ययम्, ‘कृन्मेजन्तः’ इति स्मरणात्, सम्बुद्ध्यन्तम्, जगदाधारेत्यर्थः। ‘ओमाङोश्च' इति पररूपम् । अयमर्थ:-हे विश्वध विश्वधारक आयोमन्याय आगमनज्ञानाय योग्यताज्ञानायेति बाह्यदुरस्थवस्तुज्ञानायेति वा । उपोपन्याय समीपस्थज्ञानाय आन्तरज्ञानायेति यावत् । उभयत्र ओकारोऽतिशयार्थः । अतिशयेन बाह्यान्तरज्ञानाय मन्यवे ज्ञानिने । मन्यवे मन्यव इति द्विरुक्तिस्तात्पर्यार्था । ‘गत्यर्थकर्मणि द्वितीयाचतुर्थी चेष्टायामनध्वनि' इति चतुर्थी द्वितीयार्थे । आयोमन्यं मन्युं उपोमन्यं मन्युं बाह्याभ्यन्तरज्ञं ज्ञानिनं मां मद्गतं त्वामुद्दिश्योपेहीत्यर्थः । यद्वा हे विश्वाधार आयोमन्यमुपोमन्यं दूरस्थं त्वां ध्यायन्तं समीपस्थं त्वां ध्यायन्तं मां मन्यवे त्वत्साक्षात्कारदानायोपेहीति । इति महानाम्न्यर्थोक्तिः || ११ ॥
विवरणम्
(श्री.टि.) आयतिशब्दं प्रकृतोपयुक्ततया व्याचष्टे-आयतिरागमनं योग्यता वेति ।। त्वां प्रति यदर्थं वयमागतास्तदागमनमस्मद्योग्यतां च त्वं जानासीति त्वं मामुपेहीत्यर्थः । अयतेरिति । 'अय पय गतौ' अस्माद्भावे घत्रि तस्य लोपे अकारे उर्वरिते धातुयकारस्थाकारलोपे ञित्वात् ‘अचो ञ्णिति' इति वृद्धौ आयेति रूपमिति भावः । ननु उपो इति दृष्टान्तस्याप्याय इत्येतत्तुल्यतयाऽसम्प्रतिपत्तेरुपोवदिति कथम् उक्तमित्यत आह-अत्रापीति ।। न केवलमायो इत्यत्रातिशयार्थः ओकारः किं नाम उपो इत्यत्रापीत्यर्थः । तत्रोभयसम्प्रतिपन्नं प्रयोगं स्वयं दृष्टान्तयति-परोक्षमिति यथेति । 'धर्मादि परोक्षम्' इत्यत्र अक्षिभ्यां परं पराक्षीति भाव्येऽतिशयेनाक्षिभ्यां परत्वमपेक्ष्यौकारस्तद्वदत्रापीत्यर्थः । ननु मन्यशब्दः कथं ज्ञानवत्त्वार्थकः ? मन्युशब्दस्यैव तदर्थकत्वप्रसिद्धेरित्यत आह-मन ज्ञान इति । ये कर्तरि यन्प्रत्यये नकारलोपे नकारस्थाकारलोपे मन्येत्यकारान्तं प्रातिपदिकं निष्पद्यते । पश्चात्स्वाद्युत्पत्तौ मन्य इति भवतीत्यर्थः ।
ननु अन्येषामित्यादिना आन्तरज्ञानमतिशय इत्युच्यते । समीपस्थज्ञानमेव च प्रकृतमतोऽसङ्गतिरित्यत आह- समीपस्थमिति ।। भविष्यति समुदायार्थ कथनसमये आन्तरज्ञायेति वचनेन समीपस्थं नामाऽन्तरमिति स्पष्टं भविष्यतीत्यर्थः । कोऽतिशय इति ॥ समीपस्थज्ञानस्येतरेषामपि सत्त्वात्तेभ्यो हरेः कोऽतिशय इत्यर्थः । सामानाधिकरण्यप्रतीतिं निवारयति-पुरुषाणामिति ॥ हरेरन्ये पुरुषाः स्वेन्द्रियाणां पराङ्मुखत्वाद्वाह्यार्थेष्वेव प्रवर्तनादयोग्यं स्वान्तरं न साक्षात्पश्यन्ति । अयन्त्वान्तरं सर्वमप्यापरोक्ष्येण पश्यतीतीतरेभ्योऽस्यातिशय इत्यर्थः । कर्मणीति ॥ अयनेनेत्यादिना कर्मार्थ एव विविच्यत इति भावः । रूपनिष्पत्तिस्तु पूर्ववदेव द्रष्टव्या । युप्रत्यये सतीति ॥ 'मन ज्ञाने' अस्मात् कर्तरि युप्रत्यये नकारस्थाकारलोपे मन्युरित्युकारान्तो ज्ञानिवाचीति ज्ञेयम् ।
| नन्वत्र समुदायार्थः कथ्यते । तत्राऽयोमन्यायेत्यस्य दूरस्थज्ञायेति-व्याख्यातत्वात्तथैवानुवादः कार्यः । बाह्यज्ञायेति कथमसङ्गतमुच्यत आह-बाह्यशब्देनेति ।। नन्वायोमन्यायेत्यस्यायतिज्ञायेत्यपि व्याख्यातत्वाद्वाह्यज्ञायेतित्रदायतिज्ञायेत्यपि वक्तव्यम् । तदवचनान्यूनतेत्यत आह-आयतिश्चेति ।। उपलक्ष्यते ।। बाह्यशब्देनेति वर्तते । तथा च बाह्यज्ञायेत्यनेन लक्षणयाऽऽगमनयोग्यतारूपायतिज्ञायेत्यपि ग्राह्यमिति न न्यूनतेति भावः । मूले आयोमन्यायोपेमन्यायेत्यनयोरर्थानुवादो बाह्यज्ञायान्तरज्ञायेति । मन्यवे मन्यव इत्यनयोरर्थानुवादो ज्ञानिनो ज्ञानिन इति द्रष्टव्यम् । आयोमन्यायेत्यादिचतुर्ध्या एवंविधमिति द्वितीयया व्याख्यानं व्यत्ययेनेति भ्रान्तिं वारयितुं नियामकमाह- गत्यर्थेति || ' गत्यर्थकर्मणि द्वितीयाचतुर्थ्यं चेष्टाया- मनध्वनि' गत्यार्थानां कर्मणि अध्ववर्जिते द्वितीयाचतुर्थ्यो स्तश्चेष्टायां गम्यमानायाम् । व्रजं व्रजाय वा व्रजति कृष्णः । चेष्टायां किम् ? मनसा काशीं याति । अत्राङ्गत्वेष्टाया अभावात् । अनध्वनि किम् ? मार्गं व्रजति । एवं चात्र एहीति 'इणू गतौ' इति गत्यर्थकधातोः कर्मणि आयोमन्यादिपदे चतुर्थी जातेति, एवंविधमिति द्वितीयाप्रयोगेण सूचितमित्यर्थः । मूले त्वामुद्दिश्यैवेति । मां प्रत्येहीत्याह्वाने सामर्थ्याभावादिति भावः ।आतोऽनुपसर्ग इति ॥ विश्वशब्दोपपदात् 'दुधाञ् धारणपोषणयो:' इि धातो: 'आतोऽनुपसर्गे कः' अनुपसर्गे कर्मण्युपपदे आदन्ताद्धातोः कप्रत्ययः स्यात् गोद इति, अनेन कप्रत्यये ककारलोपे धात्वाकारलोपे प्रत्ययाकारे च मिलिते सति विश्वधेत्यकारान्तं प्रातिपदिकम् । पश्चात्स्वाद्युत्पत्तौ सम्बुद्धौ विश्वधेति भवति । यथास्थितां चतुर्थीमङ्गीकृत्य मूले प्रकारान्तरेण व्याख्यायते-समीपतो दूरतश्चेति । विद्यमानमिति शेषः । अत्र उपोआयोशब्दौ समीपतो दूरतो विद्यमानार्थकाविति ध्येयम् । मन्यमानाय ध्यायत इत्यर्थः । अत एव ध्यायन्तमिति वक्ष्यति । साक्षात्कारायेति ॥ आयोमन्यायोपेमन्यायेत्यनेनैव परोक्षज्ञानस्य लब्धत्वादिति भावः । साक्षात्कारं दातुमिति यावत् । अत एव ज्ञानदानायेति वक्ष्यति । आद्येऽर्थे एवंविधमित्यादिरूपे । समीपदूरतोऽभिज्ञं समीपस्थदूरस्थवस्त्वभिज्ञमित्यर्थः । द्वितीयार्थे समीपत इत्यादिरूपे । समीपे दूरतश्च विद्यमानं त्वां ध्यायन्तमित्यन्वयः । मूले तमेतमित्यस्य ओङ्कारवाच्यं हरिमित्यर्थः ॥ ११ ॥
कर्मप्रकाशः
(स.टि.) 'आयो मन्याय मन्यव उपोमन्याय मन्यवे उपेहि विश्वध’ इत्यृचं प्रतीकतयोपादत्ते-आयोमन्यायेति ।। अयधातोर्व्याख्यानमनुसृत्य आयतिशब्दार्थमाह-अय धातोरिति ॥ धातूनामनेकार्थत्वाभिप्रायेण अर्थान्तरमाह-योग्यता वेति । दृष्टान्तव्याजेन उपोमन्यायेत्यत्र ओकारार्थ-शिक्षणाय भाष्यकृता उपे इतिवदित्युक्तम् । ननु तत्राऽतिशयार्थत्वं सिद्धमित्यभिप्रेत्य स्वयं दृष्टान्तमाह-परोक्षमितीति ॥ अक्षिभ्यां परमिति विगृह्य अव्ययीभावे ‘अव्ययीभावे शरत्प्रभृतिभ्यः' इति समासान्ते टचि पराक्षमिति भाव्ये अतिशयद्योतनाय यथा परो इत्यकारः प्रत्युज्यते तथाऽत्रापीत्यर्थः ।
नन्वात्ममानाभावादात् ‘ममाने रवश्च' इति रवशोऽसम्भवात् मन्यतिशब्दः अनुपपन्न इत्यत आह-मन ज्ञान इत्यस्मादिति ॥ अस्मात् शप्रत्यये तस्य शित्वे सार्वधातुकसंज्ञायां ‘दिवादिभ्यः शन्' इति श्यन्विकरणे ‘अतो गुण’ इति श्यनो अकारस्य पररूपे चतुर्थ्येकवचने मन्यायेति रूपम् । धातोर्युप्रत्यये सतीति ॥ यजि मनि शुधि दसि जनिभ्यः युक्' इति धातोर्युप्रत्यये तस्य च प्रयुज्युर्मन्युरित्यादिरूपसिद्ध्यर्थम् विहितस्य पाणिनिना अनादेशप्रकृतित्वानङ्गीकारात् 'युवोरनाकी' इत्यस्य अप्रवृत्ती मन्युरिति रूपमिति भावः । ननु बाह्यशब्देन दूरस्थत्वरूपव्याख्यानं सङ्गृहीतम् । आयतिरूपं व्याख्यानद्वयं लक्षणयेति सर्वसङ्ग्रह इति भावः ।
मनुपपन्नमित्यत आह- एवंविधमित्यनेनेति । 'गत्यर्थकर्मणि द्वितीया ननु मन्यव इति चतुर्थ्या एवंविधं त्वामुद्दिश्येति द्वितीयान्तत्वेन व्याख्यान- चतुथ्यौ चेष्टायानमध्वनि' इति सूत्रं गत्यर्थानां धातूनां चेष्टाक्रियाणां परिस्पन्दक्रियाणां च कर्मणि कारके अध्वावर्जिते द्वितीयाचतुर्थ्यो भवत इति सूत्रार्थः । विदोमित्योङ्कारार्थमिति ॥ 'विदा मघवन्' इति निगदगतोङ्कारमित्यर्थः ।
गूढवाक्यार्थपञ्चिका
(छ.टि.) ‘आयोमन्याय मन्यव उपोमन्याय मन्यवे । उपेहि विश्वध' इति ऋचं प्रतीकतयोपादत्ते-आयोमन्यायेति ।। ननु श्रुतिस्थआयो इत्यस्य मूले आपतिरिति व्याख्यानं कृतं तदुपपादनार्थं कृतं धातुग्रहणमनुपपत्रम् । अयेत्यस्यैव धातुत्वात् । गतावित्यस्य अर्थनिर्देशत्वेन धातुप्रवेशाभावादित्यत आह-धातोर्व्याख्यानादिति ॥ मूले धातुरित्यनन्तरं व्याख्यानादिति शेषः कृत इति भावः । ‘उत्तर: काल आयाति:' इति अमरोक्तेः आयतिशब्दस्य उत्तरकालार्यत्वस्य प्रकृतानन्वयात् यौगिकमर्थमाह-आयतिरागमनमिति ॥ आङ्पूर्वकत्वेन गत्यर्थधातोरपि आगमनार्थत्वं ज्ञेयम् । मूले पयधातुग्रहणं धातुपाठे तु अवधातुसहपाठादित्यवगन्तव्यम् । आ सम्यक् अयतिः ज्ञानं अबाधितं ज्ञानमिति यावत् । सैव योग्यतेति भावेनार्थान्तरमाह-योग्यता वेति ।। ननु अयतेराङ्पूर्वात् केवलाद्वा भावे घञि 'आयो मन्याय' इति रूपं स्यात् कथं श्रुतौ आयो इत्योकारान्त इति भावेन शङ्कते-नन्वयतेरिति ॥रूपमेतदिति ॥ आङ्पूर्वकत्वाभावे तु 'अत उपधाया' इति उपधावृद्धिरिति भाव: । 'भावे' इति सूत्रेणेति शेषः । भावे क्रियारूपे धात्वर्थे इत्यर्थः ।
ननु उपो इतिवदित्यस्यापि अतिशयार्थकत्वासिद्धेः कथं दृष्टान्तत्वमित्यत आह-अत्रापीति ।। उपो इत्यत्रापि अतिशयार्थकत्वं साधनीयमिति तात्पर्यार्थ इति भावः । कथमित्यतो दृष्टान्तान्तरमाह-परोक्षमिति । य । अक्षिभ्यां परं दूरे अक्षिविषयो न भवतीति यावत् । दूरार्थपरशब्दस्य अक्षिशब्देनाव्ययीभावसमासे अव्ययीभावे 'शरत्प्रभृतिभ्यः' इति सूत्रस्थ ‘प्रतिपरे समुभ्योपथ्यक्ष्णोः' इत्यन्तर्गणसूत्रेण समासान्ते टच्प्रत्यये पराक्षमिति भवितव्यम् । यथा मध्ये अकारस्थले अतिशयार्थे ओकारादेशः तथा आयो इत्यत्रापीति भावः । अत्र प्रमाणमाह-मूले ओ अतिशय इति च सूत्रमिति। अकारस्थाने अतिशयार्थे ओकारादेश इत्यर्थः । एवं आयो इत्यस्यार्थमुपपाद्य मूले मन्यशब्दार्थ उच्यते आयो जानातीति आयोमन्य इति । तत्र प्रकृतिप्रत्ययविभागं दर्शयति-मन ज्ञान इति ।। कर्त्रर्थे छान्दसे शप्रत्यये तस्य शित्वेन सार्वधातुकत्वेन अस्मिन्परतः धातोर्दिवादित्वेन इयनिकृते सतीति शेषः । तथा च आयोमन्यायेत्यस्य आयो व्याप्तत्वात् दूरस्थपदार्थं प्रत्यपि अतिशयितागमनेन अतीन्द्रियधर्माधर्मादिपरमाण्वादि तत्तद्योग्यतानुसारेण मन्याय सर्वज्ञायेत्यर्थ इत्युक्तो भवति ।
ननु आयोमन्यायेत्यत्र अतिसमीपस्थयापि ग्रहणं कुतो न कृतमित्यत आह-समीपस्थमान्तरमितीति ॥ आन्तरं अन्तःकरणस्थअतिसमीपस्थमिति कृत्वा उपो इत्यनेन तस्य ग्रहणं भविष्यतीत्यर्थः । तथाच अन्तरस्य अतिशयितत्वप्रतिपादनमुचितमेवेति भावः । समीपस्थज्ञाने कोऽतिशय इति । सन्निकर्षं प्रतिबन्धाद्यभावादिति भावः । अन्येषामित्यस्य इन्द्रियाणामित्यनेनान्वयभ्रान्तिं वारयितुं विशेष्यमध्याहरति-पुरुषाणामिति । ईश्वरातिरिक्तपुरुषाणां यानि चक्षुरादीन्द्रियाणि तेषां पराङ्मुखत्वात् रूपादिबाह्य-पदार्थमात्रविषयकत्वात् हृदयस्थात्मस्वरूपात्मधर्मज्ञानाभावात् परमात्मनस्तु इन्द्रियाणां तदुभयस्य सत्वात् । उपो मन्यायेति । उपो इति शब्देन तादृशातिशयोक्तेरुचितत्वात् आन्तरज्ञानातिशयोक्तिरिति भावः । इदमेव मूले प्रपञ्चितम् अयं त्विति । परमात्मा तु चक्षुरादिभिः स्वेन्द्रियैः आन्तरमपि स्वान्तरं स्वरूपादिकं परान्तरमपि परस्वरूपधर्मादिकमपि प्रत्यक्षेण पश्यतीति । स्वान्तरपरान्तरसर्वपदार्थानां स्वबाह्यप्रत्यक्षेण दर्शनरूपविशेषः अन्यचेतनेष्वविद्यमानः उपोमन्यायेत्यनेनोक्त इति भावः । व्याख्यानान्तरमिति ॥ आयोमन्यायेत्यत्र आयशब्दस्य भावे घञाश्वाश्रयणेन एकं व्याख्यानमभिधाय 'अकर्तरि च कारके संज्ञायां' इति सूत्रेण कर्मणि घञमाश्रित्येत्यर्थः । तथा च पूर्वव्याख्याने व्याप्तपरमेश्वररूपस्य सर्वत्र आगमनेन सर्वसान्निध्यात् सर्वज्ञानमुक्तम् । अस्मिन्व्याख्याने तु जीवान्तस्थदेहान्तस्थाणुमध्यमरूपाणामपि दूरस्थानामपि घटादिसर्वपदार्थानां ज्ञानं तत्तत्पदार्थमिति गमनेनोच्यत इति भावः । ओ इत्यस्य अतिशयार्थत्वं पूर्ववदेव । तथा च आयो अतिशयितगमनेन दूरगमनेन प्राप्यं वस्तु जानातीति आयोमन्याय इत्युक्तं भवति । ‘मन्युर्मन्यतेः दीप्तिकर्मणः क्रोधकर्मणो वधकर्मणो वा' इति यास्कोक्तमध्ये दिप्तिकर्मण इत्यनेन ज्ञानस्य विवक्षितत्वेऽपि मनधातोः महाव्याकरणसूत्रेणापि ज्ञेयत्वमुक्तम्-मूले 'मनु अवबोधने' इति धातो- र्मन्युरिति ज्ञानीति ।। तत्र धातोरित्यस्य अनन्वितत्वं व्यावृत्य विवक्षितमध्याहरति-युप्रत्यये(युक्प्रत्यये) सतीति ॥ ' यजिमनिशुन्धिदसिजनिभ्यो युक्' इति उणादिसूत्रेणेति शेषः । अस्य युक्प्रत्ययस्य 'युवोरनाकौ' इति अनादेशो ‘न उणादयो बहुलं' इति बहुलोत्त्या प्रयोगानुसारित्वस्य विवक्षणात् प्रयोगाणां च युज्युर्मन्युर्जन्युरिति लोकवेदयोः सत्वात् मन्युरितीति । मूले शव्देनेत्यध्याहारः । ज्ञानीत्येतदनन्तरं उच्यते इति च ।
ननु आयोमन्यायेत्यादिपदानां व्याख्यातत्वात् पुनर्बाह्यज्ञायेत्याद्युक्तीनां वैयर्थ्यमित्यतस्तत्परिहरन् श्रुतौ मन्यवे इति द्विवारोक्तेस्तथा आयोमन्याय उपोमन्यायेत्यनेनैव सार्वज्ञस्य सिद्धत्वात् पुनर्मन्यवे इत्युक्तेस्तात्पर्यार्थत्वात् द्वितीयमन्यवे इत्युक्ते प्रतितात्पर्यार्थत्वं मूले उक्तमिति भावेन तत्सङ्गमयति-समुदायार्थं वदन्नित्यादिना ।। ननु आयोमन्यायेत्यत्र दूरस्थपदार्थज्ञानोक्तेः बाह्यज्ञायेत्यनेन तदुक्तिः कथमित्यत आह-बाह्यशब्देनेति ।। ननु तत्र आयो इत्यनेन दूरगमनलभ्यत्वोक्तेः बाह्यशब्देन तदनुक्तेः कथं तत्समुदायार्थकथनमिदमित्यत आह- आयतिश्चोपलक्ष्यत इति ॥ तथा च आगमन-प्राप्यबाह्यज्ञायेत्यर्थोऽत्र विवक्षित इति भावः ।
ननु आयोमन्यायेत्यादिपदानां सार्वज्ञार्थे तात्पर्येऽपि तत्वेन जीवेष्वसम्भावितत्वात् चतुर्थ्यन्तत्वेन उपेहीत्यनेनान्वयाभावाच्च मूले स्वान्तर्गतविष्णुविषयत्वेन द्वितीयान्तत्वेन च व्याख्यातम् । तत्र उपेहीत्येतं प्रति आयोमन्यायेत्यादीनां कर्मत्वात् 'कर्मणि द्वितीया' इति द्वितीयया भाव्यम् । चतुर्थी कथमित्यत आह-एवंविधमित्यनेनेति ।। आयोमन्यायेत्याद्युक्तगुणोपेतत्वकथनेन मद्गतविष्णुग्रहणसिद्धि: द्वितीयान्तत्वोक्त्या च कर्मणि चतुर्थी सिद्धिरिति भावः । ‘गत्यर्थकर्मणि द्वितीयाचतुर्थ्यो चेष्टायामनध्वनि' इति सूत्रेण एषु पदेषु चतुर्थी । सूत्रार्थस्तु गत्यर्थकधातोः कर्मणि कारके मार्गातिरिक्ते द्वितीयाचतुर्थ्यां स्यातां शरीरव्यापारे गम्यमान इति । उपहीत्यत्रापि लोडन्त इति धातोः प्रयोगात् तत्कर्मत्वेनात्र चतुर्थीति विवक्षयैव मूले त्वामुद्दिश्येति द्वितीयाप्रयोगः ।
मूले विश्वधेत्यस्य व्याख्यानं विश्वधारकेति । तत्र प्रकृतिप्रत्ययविभागं सूचयति-विश्वध 'आतोऽनुपसर्गे कः' इति । अनेन विश्वं दधातीति विग्रहे विश्वशब्दोपपादात् ‘डुधाञ् धारणपोषणयो:' इति धातो: 'अतोऽनुपसर्गे कः ' इति सूत्रेण कर्मण्युपपदे आकारान्तधातोः कप्रत्ययविधानात् कप्रत्यये सति ‘आतो लोप इटि च' इति धातोरकारलोपे विश्वधेति सम्बुध्यन्तं रूपमिति भावः।
आयोमन्यायेत्यादेः मूले प्रकारान्तरेण व्याख्यानं समीपतः दूरतश्रेति । तत्रायं विवेकः । आयोमन्याय उपोमन्यायेत्येतयोः मेति विशेष्यं त्वामिति कर्म च अध्याहार्य मन्यवे इति पदद्वये युप्रत्ययो भावार्थकः । तथा च त्वां दूरतः समीपतश्च विद्यमानं मन्याय मन्यमानाय ज्ञात्रे मह्यं इदं चतुर्थीद्वयं पष्ट्यर्थे । समीपतो दूरतश्चेत्यादिना ॥ समीपे दूरेऽपि सर्वत्र विद्यमानं त्वमेव मन्याय 'सुपां सुपो भवन्ति' इति वार्तिकादित्यभिप्रेत्य अर्थान्तरमुक्तम्-मूले ध्यायते मह्यं ममेति यावत् । मन्यवे ज्ञानाय मामुपेहि इति मूलार्थे सिद्धेऽपि मन्यायेत्यनेन ज्ञानस्य सिद्धत्वात् मन्यवे इत्यस्य वैय्यर्थ्यमित्यतो व्याचष्टे-ज्ञानाय साक्षात्कारायेति ॥ आद्ये अर्थे इति ॥ आयो जानातीत्याद्युक्तार्थे । अत्र स्मृत्यन्ते विद्यमानस्योपेत्यस्य एहीत्यनेनान्वयः । 'छान्दसि परेऽपि' इति सूत्रात् उपसर्गाणां धातुव्यवधानेऽपि प्रयोगात् । अत्र हिशब्दो यस्मादित्यर्थे । द्वितीयार्थे इति ॥ समीपत इत्यादिनोक्तार्थे । अत्र ध्यायान्तमिति द्वितीया षष्ट्यर्थे । तेन ध्यायतो मम ज्ञानदानायेत्यन्वय उक्तो भवति । यद्यपि विश्वामित्रादीनां अपरोक्षज्ञानमस्त्येव तथापि तत्प्रार्थनं विशेषविषयकापरोक्ष- ज्ञानविवक्षया, अपरोक्षज्ञानिनामपि ब्रह्मादीनां मुक्तिपर्यन्तमुपासनादिसाधन- विशेषेणापरोक्षज्ञाना- भिवृद्धेः 'क्रमेण वर्धमानमामुक्तेः' इति प्रमाणलक्षणादावुक्तेः । विदोमित्योङ्कारार्थमिति ॥ ' विदा मघवन्विदा ॐ' इति अन्तिमवाक्ये पूर्वभागस्य प्रथमऋग्व्याख्यानेनैव व्याख्यातत्वात् । ॐकारस्य च व्याख्यातत्वादिति भावः । आगमेनैवेति || अकार-उकार-मकाराणां ब्रह्मविष्णुशिवप्रतिपादकत्वात् ॐकारेण तेषामभेदः प्रतिपाद्यत इत्येतदागमविरुद्धत्वादुपेक्षणीयमिति भावः । ‘ओतमस्मिन्जगत्' इत्यनेन ॐकारस्यार्थे विग्रहः सूचितः । प्रवेशनार्थकावधातोः 'अवतेष्टिलोपश्च' इति उणादिसूत्रेण मन्प्रत्ययस्य टिलोपे ‘ज्वरत्वर' इति धातोरुठादेशे 'सार्वधातुक' इति गुणे ओमिति रूपसिद्धेः अव्यये प्रविश्यते जगदत्र विष्णाविति । तथा च ओमित्यस्य जगदाधार इत्यर्थः । ‘कृन्मेजन्त' इति सूत्रेण ओमित्यस्याव्ययत्वम् । तथा चैवं पूर्ववाक्येनान्वयः । हे मघवन् हे ॐ जगदाधार ज्ञानार्थं मत्समीपमागत्येति शेषः । विदा मां ज्ञापय अपरोक्षज्ञानिनं कुरु । पुनः विदेति तात्पर्यार्थः । ‘विद्ॡ लाभे' इत्युक्तेः मां त्वां प्रापयेति वा अर्थः ॥ छ ॥