उद्यन्द्रध्नस्य विष्टपं गृहमिन्द्रश्च गन्वहि

(उद्यन्द्रध्नस्येत्यृचोsर्थकथनम् )

मूलम्

५१- मूलम्-उद्यन्द्रध्नस्य विष्टपं गृहमिन्द्रश्चन्वहि । मध्व: पीत्वा सचेवहि त्रिस्सप्त सख्युः पदे || १ ॥

व्रन्धस्य सूर्यस्य विष्टपं स्वर्गमुद्रन्वहि इन्द्रोऽहं च यत्तदिन्द्रगृहं ब्रन्धविष्टपं मध्वः पीत्वा तत्र सचेवहि सुखमनुभवाव सख्युरिन्द्रस्य त्रिस्सप्त स्थानेषु | ‘एकविंशति दिव्यानि स्थानानि दिवि चक्रिणः । वज्रिणो वापि तद्भक्तैर्भुज्यन्ते तानि याज्ञिकैः' ।। इति प्रवृत्ते ||

टीका

टीका- प्रज्ञातानुष्टुप्शंसनानन्तरं कर्तव्यमाह ब्राह्मणम्-उद्यदिति ॥ उद्यद्ब्रध्नस्य विष्टपम् इत्युत्तमया एतामृचं शस्त्रस्योत्तमां कृत्वा, तया शस्त्रं परिदधाति परिदध्यात्, आच्छादयेत् । तस्य फलमाह-स्वर्ग इति ॥ यस्माद्ब्रध्नस्य विष्टपं नाम स्वार्गे लोकस्तत्प्राप्तिवैतया प्रार्द्धते । तस्मातदेतयर्चा परिधानं यजमानं स्वर्गमेव लोकं गमयतीति ब्राह्मणस्य स्फुटार्थत्वाहचं व्याचष्टे-ब्रघ्नस्येति ॥ विष्टपं लोकं स्वर्गमिति समुदायार्थः। उद्गन्वहि उद्गच्छेव । इन्द्रश्चेति चशब्दस्य समुच्चयार्यत्वादुत्तमपुरुषप्रयोगाच्चाहं चेत्युक्तम् । यत्तद्ब्रध्नस्य विष्टषमिन्द्रगृहमिति योजना । मध्वो मधु अमृतं तत्र स्वर्गे । त्रिः त्रिगुणितेषु सप्त सप्तसु । पदे पदेषु स्थानेषु । अत्रागमसम्मतिमाह-एकविंशतीति ॥ लुप्तविभक्तिकं पदमिदम् ॥

भावदीपः

( रा. टि. ) एवं ब्राह्मणे पूर्वत्र 'प्रज्ञातानुष्टुभः शंसति' इत्युक्त्या प्राप्तं यत्प्रशंसनम्, तत्प्रशंसार्थं प्राप्तो यः तद्यर्थह चेह च' इत्याद्यर्थवादः, तदुपलक्षिताशेषार्थवादानां मुख्येऽमुख्ये वा स्वार्थे प्रामाण्यमियता ग्रन्थेन समर्थ्यार्थवादे गौणाद्यर्थ उक्तः । अथेदानीम् ' उद्यद्ब्रध्नस्य विष्टपमित्युत्तमया परिदधाति । स्वर्गो वै लोके ब्रध्नस्य विष्टपम् । स्वर्गमेव तल्लोकं यजमानं गमयति' इति ब्राह्मणशेषमवसर प्राप्तमवतार्य व्याचष्टे-प्रज्ञातेति ॥

एतामृचमिति ।।उद्यद्भध्नस्य॒ विष्टपं गृहमिन्द्रश्च गन्वह । मध्वः पीत्वा सचेवहि त्रिस्सप्त सख्युः पदे' इत्येतामृचमित्यर्थः । तल्लोकमिति तच्छन्द-श्रवणादाह-यस्मादिति ॥ तच्छब्दस्यावृत्तिमुपेत्याह-तस्मादिति, तत्परिधानमिति च ॥ समुदायार्थ इति ॥ ब्रध्नस्य विष्टपमिति समुदायस्य स्वर्गमित्यर्थोक्तिरित्यर्थः । उद्गन्वहीति ॥ गमेः 'बहुलं छन्दसि' इति शपो लुकिम्वोश्चइति मकारस्य नकार इति भावेनोद्गच्छेवेत्युक्तम् । एतेनात्मनेपदं छान्दसमित्युक्तं भवति ब्राह्मणवाक्यानुरोधेनोद्देश्यविधेययोर्व्यत्यासेन योजनामाह-यत्तदिति । भाष्यपदानामर्थमाह-मध्व इत्यादिना || इदं पदम् एकविंशतिपदम् । अयमृगर्ध:-ब्रध्नस्य सूर्यस्य विष्टपं गृहं यदिन्द्रगृहं स्वर्गः: तदिन्दोऽहं च उद्गन्वहिव्यवहिताश्चइत्युक्तेः उद्गच्छेव । मध्वः मधु अमृतं पीत्वा तत्र स्वर्गे सख्युरिन्द्रस्य त्रिस्सप्तपदे त्रिगुणितसप्तसु स्थानेषु सचेवहि सुखमनुभवावेति ।।

गूढवाक्यार्थपञ्चिका

(छ.टि.) एवं प्रासङ्गिकं परिसमाप्येदानीं प्रकृतमनुसरति-प्रज्ञातेति ॥ प्रप्रवस्त्रिष्टुभमित्यादितृचत्रयरूपप्रज्ञातानुष्टुप्च्छन्दस्कानां नवऋक्शंसनानन्तरं ब्राह्मणं उर्वरितखण्डशेषम् । कर्तव्यं षोळशीकर्तव्यशेषं ब्रवीतीत्यर्थः । उद्यद्ब्रध्नस्य विष्टपमित्युत्तमया परिदधाति स्वर्गो वै लोको ब्रध्नस्य विष्टपं स्वर्गमेव तं लोकं यजमानं गमयतीति ब्राह्मणवाक्यं मूले अव्याख्यातत्वात् स्वयं व्याचष्टे-उद्यद्ब्रध्नस्य विष्टपमित्युत्तमयेति ।। अत्र उत्तमशब्देत्यर्थः । अस्याः ऋचः प्रप्रव इत्यादिनवऋचामवसाने अविद्यमानत्वात् एतदुत्तमं घटयितुमाह-एतामृचमिति || शस्त्रस्य प्रप्रव इत्यादिशस्त्रसमुदायस्य उत्तमां अन्तिमां कृत्वा अन्ते पठित्वेति यावत् । तथा उद्यनस्येति ऋचा शस्त्रं शस्त्रसमूहं परिदधाति परिपूर्वकदधाते : लेडन्तत्वात् विधिलिङ् तं प्रतिपदमुक्तं-परिदध्यादिति । परिधानशब्दस्य आच्छादनार्थकत्वात् आच्छदयेदिति तात्पर्यार्थः उक्तः ।

'स्वर्गमेव लोकमिति फलोक्ते: उत्तरत्र विद्यमानत्वात् स्वर्गे वै लोक इत्यादिवाक्यं कथं फलोक्तिरित्यतः तद्घटयति- यस्मादिति ॥ नस्य विष्टपं नामेत्यनेन उद्यदिति ऋकस्थादद्वयानुवादेन ब्राह्मणे 'स्वर्गो के लोकः" इति व्याख्यानं कृतमिति सूच्यते । तत्प्राप्तिः स्वर्गप्राप्तिः एतया उत्तमया ऋचा प्रार्थ्यत इति । तस्मात्तदेतयर्चा परिधानं' इति च ब्राह्मणवाक्ये अध्याहारो ज्ञेयः । ऋचं व्याचष्ट इति || ' उद्यनस्य विष्टपं गृहमिन्द्रश्र गन्वहि । मध्वः पीत्वा सचेवहि त्रिस्सप्त सख्युः पदे' इत्युचमित्यर्थः । इयं ऋक् वेदद्रष्टुवचनं तथा च अहं च इन्द्रचेत्यावाम् । यत् ब्रध्नस्य विष्टपं इन्द्रस्येति शेषः । गृहं उद्गन्वहि तथा तत्र स्वर्गे मध्वः पीत्वा त्रिस्सप्त त्रिगुणितसप्तसु 'सुषां सु लुक्' इति सप्तम्याः लुक् । सख्युः पदे पदेषु सचेवहि इत्यन्वयं मनसि निधाय मूलानुसारेण ऋचं योजयति-विष्टपं लोकमिति ॥ 'त्रिष्वथो जगती लोको विष्टपं भुवनं जगत्' इत्यमरः ।

ननु तर्हि मूले स्वर्गमिति कथमुक्तमित्यत आह-समुदायार्थ इति ॥ ब्रध्नस्य विष्टपमिति । पदद्वयतात्पर्यार्थ इत्यर्थः । उद्गन्वहीति | गमवातो: लोटि बहुलं छन्दसीतिशपो लुकि इषु गमियमां छ' इति छादेशाभावे म्वोश्चेति नकारादेशे च व्यत्ययेनात्मने पदे उद्यदित्यतः व्यवहिताश्चेति वचनात् उच्छब्दान्वये उद्गन्वहीति रूपमित्यभिप्रेत्य अस्य प्रतिपदमाह-उद्गच्छेवेति ॥ प्राप्त्यर्थकमिदं पदम् ।

ननु उद्गन्वहीति द्विवचनस्य कथमन्वयः । अहं चेति कुत्रत्यस्यान्वय उक्त इत्यत आह-इन्द्रश्चेति ॥ चशब्दस्येति ॥ अहं चेत्युक्तमित्युपलक्षणम् । आवां चेत्यप्यध्याहार्यम् । द्विवचनं क्रियापदद्वयान्वयार्थमित्यपि द्रष्टव्यम् ।

ननु मूले यत्तदिन्द्रगृहं ब्रध्नविष्टपमित्युक्तम् । तदयुक्तम् । इन्द्रगृहस्य सूर्यलोकत्वासम्भवादित्यतः मूलमन्यथा योजयति । यद्धनस्य विष्टमिति ॥ तथा च यत् सूर्यलोकात्र्यं इन्द्रगृहं स्वर्गलोकः तत्र मध्वः पीत्वेत्यन्वयो ज्ञेयः । मध्व इति बहुवचनं व्यत्ययेन एकवचनार्थ इति भावेनाह-मध्विति ॥ तत्र स्वर्गे इति ॥ यत्तस्य विष्टपमिति गृहशब्दोक्तस्य तच्छन्दसापेक्षत्वादिति भावः । श्रुतौ त्रिरिति सुजन्तं पदम् । सुचः द्वित्रिचतुर्भ्यः जतिक्रियाभ्यां वृत्तिगणने विहितत्वादिति भावेनाह- त्रिः त्रिगुणितेष्विति-पदे इति । एकवचनं व्यत्ययेन बहुवचनार्थ इति भावेनाह-पदे पदेष्विति ।। श्रौतसचेवहीत्यस्य षच सेवायामित्यतः विधिलिङि आत्मनेपदे सीयुटि शपि लिङ्गि सलोपे इति सलोपे आद्गुण इति गुणे सचेवहीति रूपम् । अत्र सकर्मकत्वात् कर्मापेक्षायां सुखस्य मुख्यत्वात् तद्गृहीत्वात् तच्छेवनं नाम किमित्यतः मूले तत्तात्पर्यमाह-सुखमनुभवावेति ।। लुप्तविभक्तिकमिदं पदमिति ।। एकविंशतीति पदं सुपां सुलुगित्यनेनेति शेषः । एकविंशतीति विशेषणं ज्ञेयम् । चक्रिणः सूर्यस्य वज्रिणः इन्द्रस्य सख्युरिति शेषः । याज्ञिकैः यजमानैरित्यर्थः ।