न च व्यावर्त्यविशेषेणापर्यायत्वं क्वचित्

(सत्यादिपदानां ब्रह्मस्वरूपमात्रार्थत्वं पर्यायत्वसमर्थनम् )

मूलम्

११-मूलम्-न च व्यावर्त्यविशेषेणापर्यायत्वं क्वचित् । व्यावर्त्यविशेषस्तद्व्यावृत्ते ब्रह्मणि विशेमापादयति चेद्विशिष्टवाक्यार्थता । न चेन्न ब्रह्मज्ञानार्थिनो पदान्तरं वाच्यम् । असङ्गतत्वात् । मिथ्याविशेषस्य चा सिद्धिरुक्ता । अतोऽन्योन्याश्रयताऽनवस्थितिश्चक्रकं वा । भेदाभेदविलक्षणमप्युक्तरीत्यैवापाकृतम् ॥

टीका

टीका- ननु सत्यज्ञानादिवाक्यं तावन्न विशिष्टार्थम् । तत्र सत्यादि पदानां ब्रह्मस्वरूपमात्रार्थत्वेऽपि न पर्यायत्वम् । वाच्यार्थभेदसद्भावात् । ब्रह्मणि तु लक्षणया तात्पर्यात् । न चैकेनैव पदेन ब्रह्मणो लक्षितत्वात्पदान्तरवैयर्थ्यम् । प्रतिपाद्यभेदाभावेऽपि सत्यादिपदव्यावर्त्यानामारोपितासत्यत्वादीनां भेदात् । एवं 'सर्वं ब्रह्म' इत्यादावपि किं न स्यादित्यत आह-न चेति ॥ क्वचित् सत्यज्ञानादिवाक्येऽपि । सत्यादिपदानां लाक्षणिकत्वेनापर्यायत्वं व्यावर्त्यानां विशेषेण भेदेनावैयर्थ्यमिति न च वाच्यम् । दूरेऽन्यत्र तन्न्यायातिदेश इति योज्यम् । कुतो नेति चेत् । इदमुच्यताम् । सत्यादिपदान्यसत्यादिव्यावृत्तिफलानि भवन्ति किं ब्रह्मपदावगते ब्रह्मण्यतिशयं व्यावृत्तिवैशिष्ट्यरूपं प्रतिपादयन्ति ? उत नेति । आद्ये दोमाह-व्यावर्त्येति ॥ व्यावर्त्यविशेषोऽसत्यादिः सत्यादिपदैर्व्यावर्त्यमानः । तद्व्यावृत्ते स्वव्यावृत्ते ब्रह्मणि । विशेषं ब्रह्मपदागतादतिशयमापादयति प्रतिपादयतीति चेत् । तद्व्यावृत्त इत्यनेन तद्व्यावृत्तिवैशिष्ट्यरूपमिति सूचितम् । तर्हि विशिष्टस्य वाक्यार्थता । सत्यत्वादिवैशिष्ट्याप्रतिपादनेऽप्यसत्यादिव्यावृत्तिप्रतिपादनात् । द्वितीयं दूषयति-न चेदिति ॥ ब्रह्मपदादन्यत् पद पदान्तरम् । ब्रह्मज्ञानमर्थयमानं प्रति हि तत्र किञ्चिद्विधेयं किञ्चिद्वा निषेध्यम् । स्वरूपमात्रस्य सिद्धत्वात् । सत्यादि-पदैस्तावदापाततो धर्मधर्मिसङ्गतिः प्रतीयते । तस्यामेकरसताप्रतिपादक-वाक्यैरपनीतायां पदानां वैयर्थ्यशङ्काप्राप्तौ व्यावृत्तिविशिष्टब्रह्मस्वरूपावगतिरुपद्यते ।  । ततः पुनर्व्यावृत्तिलक्षणस्यापि विशेषस्य मिथ्यात्वं प्रतिपाद्यते । अतः शुद्धमेव ब्रह्म सिध्यतीति न कोऽपि दोष इत्यत आह-मिध्येति ॥ ततः को दोष उक्तः स्यादित्यत आह- अत इति ॥ ब्रह्मविशेषाणां मिथ्यात्वसिद्धयेऽनुमानमुक्तम् । अनुमानसिद्धयर्थं मिथ्याविशेषाभ्युपगमादन्योन्याश्रयता । मिध्याविशेषाणां भेदाभ्युपगमेऽनवस्थितिः । अनुमानादनिर्वाच्यसिद्धिः । ततो मिथ्याविशेषसिद्धिः । ततोऽनुमानसिद्धिरिति चक्रकम् । चतुर्थपक्षमपाकरोति-भेदेति उक्तरीत्या वैलक्षण्यशब्दार्थानिरुक्त्या ||

भावदीपः

(रा.टि.) अनिर्वाच्यब्रह्मणोरभेदेऽपि तच्छब्दयोः पर्यायत्वं नेत दृष्टान्तोपपादनपूर्वकं शङ्कते-ननु सत्येत्यादिना ॥ न विशिष्टार्थमिति || सत्यत्वज्ञानत्वादिधर्मविशिष्टार्थप्रतिपादकं न किन्तु ब्रह्मस्वरूपमात्रार्थकम् । व्यावृत्तिप्रयोजकत्वात्सत्यादिशब्दानामिति भावः । काङ्क्षितपूर्त्या वाक्यं योजयति-क्वचिदित्यादिना ॥ लाक्षणिकत्वेन लक्षणाया ब्रह्मस्वरूपमात्रार्थकत्वेन निमित्तेन यत्पर्यायत्वमुच्यते तन्नास्तीत्यर्थः । अन्यत्रेति ।। सर्वं ब्रह्मानिर्वाच्यं ब्रह्मेत्यादौ अभेदेऽपि तच्छब्दयोरपर्यायत्वमुक्तदिशेत्यतिदेशो दूरे, सत्यादिवाक्येऽपर्यायत्वासिद्धेरिति भावः । इति योज्यमिति । तदर्थमेव न च व्यावर्त्यमेवेति वाक्यस्य प्रवृत्तेः । अन्यथाऽसङ्गतेरिति भावः । भवन्तीति न तिङन्तम् । विशेषमित्यनुवादः । ब्रह्मपदेत्यादि व्याख्या । अतिशयं व्यावर्त्यरूपमतिशयमापादयतीति सूचितमित्यर्थः । ब्रह्मज्ञानमिति ।। कीदृशं ब्रह्मेति ब्रह्मज्ञानमर्थयमानं प्रति । तत्र ब्रह्मणि । अन्यत् स्वरूपमात्रम् ।आग्रकोविदारशब्दौ वृक्षविशेषवाचिनी । एकरसतेति । 'एकथैवानुद्रष्टव्यम्' इत्यादिवाक्यैरित्यर्थः । मिथ्यात्वं प्रतिपाद्यत इति । एकधैवेत्यादिवाक्यैः प्रागुक्तानुमानेन चेत्यर्थः । अनुमानमुक्तमिति ॥ प्रागुक्तगुणपूर्त्यभिधायक-श्रुत्यादेः ब्रह्मगतमिथ्याभूतविशेषपरत्वाय ब्रह्मगतकर्तृत्वसत्यत्वज्ञानत्वादि-विशेषाणां मिथ्यात्वासिद्धये ब्रह्मणो जगत्कर्तृत्वादिकमनिर्वचनीयं दृश्यत्वादित्याद्यनुमानमुक्तम् । मिथ्याशब्दस्यासत्त्वार्थकत्वेऽपसिद्धान्ताद्यापत्याऽनिर्वाच्यार्थकत्व एव विशेषाणां मिथ्यात्वसिद्धिरिति भावः । अनुमान-सिद्ध्यर्थमिति ।। विशेषाणां मिथ्यात्वाभ्युपगम एवानिर्वाच्यत्वानुमानस्य प्रवृत्तेः । अन्यथा कर्तृत्वादिविशेषोऽनिर्वाच्य इत्यनुमानोक्तेरसङ्गत्यापत्तेरिति भावः । ननु येषां विशेषाणां मिथ्यात्वसिद्धये एतदनिर्वाच्यत्वं साधितं ततोऽन्येषां मिथ्यात्वस्यासत्यत्वरूपत्वेऽपसिद्धान्तापत्या तेषामनुमानान्तरेणानिर्वाच्यत्वं साधनीयम् । तत्सिद्ध्यर्थं विशेषान्तराणां मिथ्यात्वाभ्युपगम इत्येवमनवस्थेत्यर्थः । ततोऽनुमानसिद्धिरिति ॥ तत्सिद्धावनिर्वाच्यसिद्धिरिति चक्रकं ज्ञेयम् । इत्यन्योन्याश्रयाद्युक्तिः ||

विवरणम्

(श्री.टि.) प्रसक्त्यर्थमित्युक्तामेव प्रसक्तिं दर्शयति-नन्विति ॥ अन्यथाऽखण्डार्थहानेरिति भावः । तर्हि ब्रह्मस्वरूपैकार्यप्रतिपादकत्वेन सत्यादिपदानां पर्यायत्वं स्यादित्यत आह-तत्रेति ।। कुत इत्यत आह-वाच्यार्थेति ।। सत्ताजात्यादिपदानान्तु यद्वाचकत्वं न तत्रैक्यम् । यत्र चैक्यं न तद्वाचकत्वमिति भावः । सत्यादिपदानां ब्रह्मस्वरूपाप्रतिपादकत्वे 'सत्यम् ज्ञानम्' इत्यादेर्ब्रह्मविद्यात्वभङ्ग इत्यत आह-ब्रह्मणि त्विति ॥ प्रतिपाद्येति ।। लक्षणया प्रतिपाद्येत्यर्थः । एतमेव न्यायं दान्तिकेऽतिदिशति-सर्वं ब्रह्मेत्यादावपीति । शुक्तिरजतादिकं सर्वं ब्रह्मेत्यादावित्यर्थः । अत्रापि वाच्यार्थभेदसद्भावान्न पर्यायत्वेनोक्तव्यवहारानुपपत्तिरिति भावः ।व्यावर्त्यविशेषेण' इति मूले यथास्थितार्थप्रतीतिं वारयति-सत्यादीति ॥ लाक्षणिकत्वेनेति ॥ लक्षणयैकार्थप्रतिपादकत्वेऽपि वाच्यार्थभेदसद्भावादिति भावः । तथा च व्यावर्त्यविशेषेत्यनन्तरमवैयर्थ्यमिति शेषः । अपर्यायत्वमित्यतः पूर्वं सत्यादिपदानां लाक्षणिकत्वेनेति शेषो द्रष्टव्यः । अन्यत्र सर्वं ब्रह्मेत्यादौ । भवन्ति सन्तीति शेषः । स्वव्यावृत्त इति ।। स्वैरसत्यत्वादिभिर्व्यावृत्त इत्यर्थः । अतिशयापादनस्य सखण्डार्थताप्रयोजकत्वादाह-प्रतिपादयतीति ॥ ननु सोऽतिशयोऽसत्यादिव्यावृत्तिरूप एवेति कुतः । अन्यस्यापि सम्भवादित्यतो मूले तज्ज्ञापकमाह-तव्यावृत्त इत्यनेनेति । असत्यादिव्यावृत्ते ब्रह्मणि विशेषस्तद्व्यावृत्तिरूपोऽसत्यादिव्यावृत्तिरूप एवाऽयास्यति । तथा दण्डवतो विशेषो दण्ड एवायाति तद्वदिति द्रष्टव्यम् । तद्व्यावृत्तिरूपं प्रतिपादयतीति सूचितमित्यन्वयः । ननु सत्यत्वादिविशिष्टाप्रतिपादनात्कथं विशिष्टवाक्यार्थतेत्यत आह-सत्यत्वादीति  व्यावृत्तीति ॥ व्यावृत्तिवैशिष्टयेत्यर्थः ।

ननु तं प्रति स्वरूपमात्रमेवोच्यतामित्यत आह-स्वरूपमात्रस्येति ।। ततोऽन्यदिति ।। सत्यत्वादिविधानादसत्यत्वादिनिषेधादन्यदित्यर्थः । प्रकृतं च वाक्यं विशिष्टार्थताभीत्या तादृशमिति भावः । कोविदारो निम्बः । धर्म-धर्मिसङ्गतिः धर्मधर्मिभावसम्बन्धः । तस्यां प्रतीतौ । एकरसता निर्धर्मकता । वाक्यैःएकमेवइत्यादिभिः । ततः पुनरित्यतः पूर्वं तस्यां चैकरसताप्रतिपादकवाक्यैरपनीतायामिति शेषः । अनुमानमुक्तमिति ॥ ब्रह्मनिष्ठं जगत्कर्तृत्वादिकमनिर्वचनीयं दृश्यत्वादित्यनुमानमुक्तम् । तस्यानुमानस्य जगत्कर्तृत्वादेरनिर्वचनीयतासाधकत्वद्वारा ब्रह्म मिथ्याविशेषवदिति प्रतिज्ञातब्रह्मविशेषमिध्यात्वसिद्ध्यर्थत्वादिति भावः । अनुमानसिद्ध्यर्थमिति || अत्रैवं परम्परा | ब्रह्मणोऽसत्यत्वादिव्यावृत्तिलक्षणमिध्याविशेषवत्त्वात् सत्यादिपदानां ब्रह्मणि तद्बोधकत्वेनावैयर्थ्यान्न पर्यायत्वं तद्वत् सर्वं ब्रह्म इत्यादावप्यसर्वत्वव्यावृत्तेरेवार्थत्वोपपत्तेः पर्यायत्वाभावेन शुक्तिरजतादिकं सर्वं ब्रह्मण्यारोपितमित्यादिव्यवहारोपपत्त्या सदस्य सबैलक्षण्यशब्दार्थत्वोपपत्तेः, शुक्तिरजताद्यनिर्वचनीयं बाध्यत्वाद् व्यतिरेकेण ब्रह्मवदित्यनुमानेन सदद्वैलक्षण्यरूपानिर्वचनीयत्वसाधने दोषाभावेन शुक्तिरजतादेरनिर्वचनीयस्य सिद्धया दृष्टान्तसद्भावाज्जगत्कर्तृत्वाद्यनिर्वचनीयतासाथकदृश्यत्वानुमानं युक्तमित्येवं प्रणाड्याऽनुमानसिद्ध्यर्थमसत्यत्वादिव्यावृत्तिरूपमिथ्याविशेषाभ्युपगमाद्ब्रह्मणो मिथ्याविशेषसिद्धायुक्तप्रणाड्याऽनुमानसिद्धिः । तत्सिद्धायुक्तरीत्या ब्रह्मणो मिथ्याविशेषसिद्धिरित्यन्योन्याश्रय इत्यर्थः ।

ननु ब्रह्मणि येषां जगत्कर्तृत्वादिरूपाणां विशेषाणां सिद्धयेऽनुमानं दृश्यत्वरूपमुक्तम् । तेषामेव मिथ्यात्वविशेषाणामनुमानसिद्ध्यर्थमप्यभ्युपगमे भवेदन्योन्याश्रयत्वम् । न चैवम् । अनुमानसिद्ध्यर्थमभ्युपगतानामसत्यत्वादि व्यावृत्तिरूपाणामनुमानसाध्यजगत्कर्तृत्वादिरूपमिथ्याविशेषेभ्यो भिन्नानामेव स्वीकाराद्, एवं चानुमानसाध्यानामनुमानसिद्ध्यर्थं चाभ्युपगतानां मिथ्याविशेषाणां भेद एवेति नान्योन्याश्रय इति यद्यभ्युपगम्यत इत्यर्थः । अनवस्थितिरिति ॥ अनुमानसिद्ध्यर्थमभ्युपगतानामसत्यत्वादि व्यावृत्तिरूपधर्माणामपि सदसद्वैलक्षण्यरूपानिर्वाच्यत्वरूपं मिथ्यात्वं पुनरनुमानान्तरेण साधनीयम् । तस्यानुमानान्तरस्य दृष्टान्ताभावेनायुक्तत्वे चोदिते शुक्तिरजतादेः सपक्षत्वसिद्ध्यर्थं तत्रानुमानेनानिर्वाच्यत्वं साधनीयम् । तत्र सद्भेदरूपसद्वैलक्षण्याङ्गीकारे पर्यायव्यवहारानुपपत्तौ चोदितायाम् 'विज्ञानमानन्दम्' इत्यादाविवात्रापि स्यादित्याशङ्कायां विज्ञानादिपदानां लाक्षणिकत्वेनापर्यायत्वं व्यावर्त्यभेदेनावैयर्थ्यं च न सम्भवति दूरेऽन्यत्र न्यायातिदेश इत्यस्माभिरभिहिते स्यादेवावैयर्थ्यं व्यावृत्तिलक्षणस्यापि विशेषस्य मिध्यात्वाङ्गीकृत्यानवस्थितिरुपपादनीयेत्यर्थः । अनुमानाद् बाध्यत्वानुमानात् । अनिर्वचनीयतासिद्धिः शुक्तिरजतादेः । ततः शुक्तिरजतादिरूपदृष्टान्तात् । मिथ्याविशेषसिद्धिः असत्यत्वादिव्यावृत्तिरूपमिध्याविशेषसिद्धिः । अनुमानसिद्धिरिति । उक्तरीत्या पदानां वैयर्थ्याभावेन तद्वदपर्यायव्यवहारोपपत्तेः शुक्तिरजतादेः सदसद्विलक्षणत्वरूपानिर्वचनीयतासाधने दोषाभावाद्बाध्यत्वानुमानसिद्धिरित्यर्थः ॥

कर्मप्रकाशः

(स.टि) ब्रह्मणो लक्षितत्वादिति ॥ एकेन पदेन लक्षणया ब्रह्मस्वरूपेऽवगते लक्षणया ब्रह्मस्वरूपमात्रपराणां ज्ञानादिपदानां वैय्यर्थ्यमित्यर्थः । प्रतिपाद्येति || लक्षणया प्रतिपाद्यभेदाभावो न प्रयोजनविघातक इति भावः ।

कुत इति ।। सत्यादिपदानां ब्रह्मणि लाक्षणिकत्वं कुतो नास्ति । कुतश्च असत्यत्वादिव्यावृत्तिरूपफलेन सार्थक्यम् नास्तीत्यर्थः । आद्ये दोमाहेति ॥ आद्यमनूद्य दोषमाहेत्यर्थः । मूले व्यावर्त्येति ॥ व्यावर्त्यः असत्यत्वादिर्विशेषः सत्यादिपदफलानां व्यावृत्तीनां विशेषकः व्यावृत्यन्तरभेदक इति यावत् । यस्य सत्यादिशब्दः तद्व्यावृत्ते असत्यत्वादिशून्ये ब्रह्मणि विशेषम् असत्यत्वादि-व्यावृत्तिरूपं प्रतिपादयति चेत् विशिष्टवाक्यार्थता स्यात् । अखण्डार्थताहानिः स्यादित्यर्थः ।

एतेनावतारिकामूलयोर्विसंवादः । अवतारिकायां सत्यादिपदानि प्रतिपादयन्तीत्युक्तत्वात् मूले च व्यावर्त्यविशेषाणां प्रतिपादकत्वस्योक्तत्वादिति निरस्तम् । व्यावर्त्यविशेष इत्यनेन व्यावर्त्यः यत् फलस्य विशेषकः सः व्यावर्त्यविशेषक इति विग्रहाश्रयणेन सत्यादिपदानामेवोक्तत्वात् । व्यावर्त्य-विशेष इति बहुव्रीह्यन्तर्गतस्य व्यावर्त्यशब्दस्यार्थमाह टीकायां व्यावर्त्यविशेष इति ।। अत्र व्यावर्त्य इत्येवव्याख्येयं पदम् विशेष इति तु व्यापकपदार्थ स्वरूपकथनम् असत्यादिति व्याख्यानम् । असत्यत्वादि कुतो व्यावर्त्यशब्दार्थ इत्यत उक्तम्- सत्यादिपदैरिति । यत् इति शेषः । यतः सत्यादिपदैर्ब्रह्मणः सकाशात् व्यावर्त्यमानो भवति अतोऽत्र व्यावर्त्यशब्दार्थ इत्यर्थः । तद्व्यावृत्त इति पदमनूद्य व्याचष्टे-तद्व्यावृत्त इति । स्वेन असत्यात्वादिव्यावृत्ततया ।। बोध्यमाने ब्रह्मणीत्यर्थः । एतेनावतारिकाटीकाव्याख्यानटीकयोर्विरोधः । अवतारिकायां सत्यादिपदानां वैशिष्ट्यप्रतिपादकत्वस्य विकल्पकोटित्वाभिधानात् । व्याख्यानटीकायां च असत्यत्वादिव्यावृत्तिविशेषस्य वैशिष्ट्यामधायकत्वस्य प्रथमकोटित्वेनानुवादादिति निरस्तम् । इहापि व्यावर्त्यपदार्थत्वेनैव असत्यत्वादेरभिधानेन वैशिष्ट्यप्रतिपादकत्वेनानभिधानात् I द्वितीयं दूषयतीति । द्वितीयमनूद्य दूषयतीत्यर्थः । अन्यदुच्यमानमिति || निरालम्बतयोच्यमानमसद्व्यावृत्त्यादिकमित्यर्थः ।

ननु सत्यादिपदानां सत्यत्वादिधर्मवैशिष्ट्याप्रतिपादकत्वेऽप्यसत्यत्वादि-व्यावृत्तिवैशिष्ट्याप्रतिपादकत्वेऽपि न सत्यज्ञानादिवाक्यस्य अखण्डार्यत्वहानिः। सत्यादिपदप्रतिपाद्ये वैशिष्ट्ये श्रुतेरतात्पर्यात् । अन्यथा गङ्गायां घोष इत्यस्यापि प्रवाहस्य घोषाधिकरणत्वं स्यात् । गङ्गाघोषपदाभ्यां तस्य प्रतीतेरिति भावेन शङ्कते-स्यादेतदिति । एकरसतेति । 'एकमेवाद्वितीयंइत्यादिवाक्यैरित्यर्थः । मिथ्यात्वं प्रतिपाद्यत इति || व्यावृत्तिलक्षणविशेषस्य मिथ्यात्वमेकमेवाद्वितीयमित्यादिवाक्यैः प्रतिपाद्यते । अतः कारणात् अनेन वाक्येन शुद्धमेव ब्रह्म सिद्ध्यतीति न कोऽपि दोष इत्यर्थः । सत्यज्ञानादिवाक्यैः प्रथमं सत्यत्वादिधर्माणां ब्रह्मणश्च धर्मधर्मिभावः प्रतीयते । एकरसताप्रतिपादकवाक्यैः सत्यत्वादिधर्माणां ब्रह्मधर्मत्वे बाधिते असत्यत्वादि व्यावृत्तिविशिष्टं ब्रह्मस्वरूपं तैरेव वाक्यैर्विज्ञायते । एकरसताप्रतिपादकवाक्यबलात् व्यावृत्तिरूपधर्माणामपि मिथ्यात्वे अवगते पुनस्तैरेव वाक्यैः ब्रह्मस्वरूपमात्रविषयिणी तृतीया प्रतिपत्तिरुत्पद्यते इत्येवं सत्यज्ञानादि-वाक्यानामखण्डार्थता ।

नापि ब्रह्मस्वरूपं पृष्टवन्तं प्रति भावरूपस्याभावरूपस्य वा लक्षणस्य वक्तव्यत्वात्  एतदनुक्त्वा निरालम्बनतया व्यावृत्तिविशेषाभिधानप्रयुक्ताऽसङ्गतिः । प्रथमं भावरूपं लक्षणमुक्त्वाऽनन्तरमभावरूपं लक्षणमुक्त्वा तस्यापि बाधे सत्यादिपदानि अखण्डार्थपराणीत्यङ्गीक्रियत इति भावः । ततः को दोषः इति ।। प्रथमं मिथ्याविशेस्यासिद्धिवचनेन सत्यज्ञानादिवाक्यानामखंडार्थत्वे को दोष: उक्तः स्यादित्यत आहेत्यर्थः ।

गूढवाक्यार्थपञ्चिका

( छ. टि. ) ननु शुक्तिरजतं सद्विलक्षणं इत्यत्र विलक्षणशब्दस्य भेदार्थत्वे शुक्तिरजतसच्छन्दयोर्पययत्वेन सह प्रयोगो न स्यात् इति यदुक्तं तदयुक्तम् । 'सर्वं खल्विदं ब्रह्म' इति वाक्ये अभेदेऽपि सह प्रयोगदर्शनात् । ननु तत्रापि इदं दूषणं अस्त्वेवेति चेत् । न । भावानवबोधादिति भावेन सदृष्टान्तं 'सर्व खल्विदं' इति वाक्पाभिप्रायमाह-ननु सत्यज्ञानादिवाक्यमिति । अत्रास्याखण्डार्थनिष्टत्वादिति शेषः । वाच्यार्थेति ॥ वाच्यार्थ ऐक्ये हि पर्यायत्वं विभुव्याप्तमित्यादिशब्देषु दृष्टम् । अत्र सत्यत्वादीनां वाच्यानां भेदान्नपर्यायत्वमिति भावः । ननु कथं ब्रह्मपरत्वमित्यत आह-लक्षणयेति ॥ आरोपितासत्यत्वादीनामिति । बौद्धादिदुर्मतेः ब्रह्मणि आरोपितानामसत्यत्वाज्ञानत्वानन्तवत्वादीनां भेदात् । तद्व्यावर्तकत्वे न सत्यज्ञानानन्तादि-शब्दानां सार्थक्यादिति भावः । एवं 'सर्वं खल्विदं ब्रह्म' इत्यादावपीति ॥ आरोपितासर्वत्वव्यावृर्त्यर्थत्वेन सर्वशब्दस्य सार्थक्यम् । आदिशब्दात् शुक्तिरजतं सद्विलक्षणमित्यादि ग्राह्यम् । अत्रापि आरोपितासत्यत्वव्यावृत्यर्थत्वे न सदभेदः सद्विलक्षणशब्देनोच्यते इति सार्थक्यात् न पर्यायत्वादीति भावः । लाक्षणिकत्वेनेति ॥ लक्षणयैकार्थप्रतिपादकत्वेऽपि वाच्यार्थभेदसद्भावादित्यर्थः । व्यावर्त्यानामिति || असत्यत्वादीनां अवैय्यर्थ्यं सत्यादिपदानामिति शेषः । अन्यत्र सर्वं ब्रह्मेत्यादौ । इति योज्यमिति ।। यथाश्रुतेर्व्यावर्त्यभेदापर्यांयत्वयोः हेतुहेतुमद्भावानुपपत्तेरपर्यायत्वस्य प्रधानसाध्यस्य हेतुं वाच्यार्थभेदमध्याहृत्य ब्रह्मप्रतिपादकत्वसिद्धये सत्यादिपदानां लाक्षणिकत्वं चाध्याहृत्य प्रथमं तद्योजयित्वा लाक्षणिकत्वोक्त्या प्राप्तवैय्यर्थ्यशङ्कायाः परिहाराय व्यावर्त्यभेदस्य हेतोः साध्यमवैय्यर्थ्यं अध्याहृत्यानन्तरं योज्यमित्यर्थः । कुतो नेति चेदिति ।। सत्यादिपदानां वाच्यार्थभेदेन अपर्यायाणां लक्षणया ब्रह्मप्रतिपादकत्वात् । स्वरूपमात्रपराणामपि व्यावृत्यर्थविशेषाणां विद्यमानत्वेन वैय्यर्थ्यं नेत्येतत्कुत इत्यर्थः । असत्यादिव्यावृत्तिफलानि भवन्तीति ॥ भूधातोः शत्रन्तस्य नपुंसकस्य प्रथमबहुवचनस्य भवन्तीतिरूपमिदम् । न तु तिङतस्येति बोध्यम् । तथा च सत्यादिपदानि असत्यादि-व्यावृत्तिसाधकानीत्यर्थः । व्यावृत्यर्थविशेष इत्यादिवाक्यस्य स्पष्टार्थाप्रतीते: व्याचष्टे ब्रह्मपदावगते इति । ब्रह्मपदेन ज्ञातार्थापेक्षयेत्यर्थः । विशेषमित्यस्यार्थः- अतिशयमिति । तस्यापि तात्पर्यार्थ :- व्यावृत्तिवैशिष्ट्यरूपमिति ।। असत्यत्वाज्ञानत्वाद्यभावसहितमिति यावत् । असत्यादिरिति ।। असत्यत्वादिरित्यर्थः । ब्रह्मणि विशेषोपादानमात्रेण वाक्यस्य विशिष्टार्थत्वं न लभ्यत इत्यतो व्याचष्टे-आपादयति प्रतिपादयतीति ।। सत्यादिपदैः विशेषप्रतिपादनं, कारयतीत्यर्थः ।

ननु प्राग्व्यावृत्तिवैशिष्ट्यरूपमतिशयं इत्युक्तम् । तत्केन पदेन लब्धमित्यत आह-तद्व्यावृत्त इत्यनेनेति ।। मूले पदान्तरमित्यस्यार्थाप्रतीतेर्व्याचष्टे-ब्रह्मपदादिति ।। ब्रह्मपदस्य प्रकृतत्वात् पदान्तरमित्यत्र अन्तरशब्दस्यान्यवाचकस्य प्रति सापेक्षत्वेन ब्रह्मपदादित्याध्याहृतम् । तथा चसत्यं ज्ञानमनन्तं ब्रह्म' इत्यत्र ब्रह्मपदमात्रमेव सार्थकं न सत्यादिपदानि इति मूलाभिप्राय उक्तो भवति । तदुपपादयति-ब्रह्मज्ञानमिति ।। तत्र ब्रह्मणि स्वरूपमात्रस्य ब्रह्मपदेनेति शेषः । आम्रकोविदारौ वृक्षविशेषौ । तस्यामिति । धर्मधर्मिसंगतिः धर्मधर्मिभावसम्बन्धेति यावत् । एकरसताप्रतिपादकवाक्यैः एकधैवानुद्रष्टव्यमित्यादिभिः । मिथ्या (र्थ) त्वं प्रतिपाद्यते इति ।। विमतं मिथ्या दृश्यत्वात् बाध्यत्वादित्यादिनेति शेषः । अनेनानुमानेन जगन्मिथ्यात्वप्रतिपादनद्वारा जगदन्त: पतितब्रह्मविशेषाणामपि मिथ्यात्वप्रतिपादनादिति भावः । अनुमानसिद्ध्यर्थमिति ।। अनुमानाङ्गपक्षसिद्ध्यर्थमित्यर्थः । ब्रह्मसत्यत्वव्यावृत्त्यादिरूपविशेषाणां सिद्धौ तेषां विमतपदेन ग्रहणात् मिथ्यात्वसिद्धिः । सत्यभूतानां तेषां ब्रह्मण्यनङ्गीकारादिति भावः । ननु एषां असत्यत्वव्यावृत्त्यादीनां अनेनानुमानेन मिथ्यात्वं साध्यते । अस्मिन् अनुमाने न पक्षीभूताः किं तु ततोऽन्ये । येन अन्योन्याश्रयः स्यादित्यत आह-मिथ्याविशेषाणां भेदाभ्युपगम इति । एतेषामपि सत्यत्ये पक्षत्वासम्भवात् । अनेनानुमानेन मिध्यात्वे अन्योन्याश्रयात् मिथ्यात्व सिद्ध्यर्थं अनुमानान्तरं वाच्यमिति शेषः । ततः को दोष इत्यत आह- अनवस्थितिरिति ॥ ( अनुमानभेदेन ब्रह्मविशेषभेदेनेत्यर्थः) । ननु दृश्यत्वाद्यनुमानेन न साक्षाद्रह्मविशेषाणां मिध्यात्वसिद्धिः, किन्तु अनिर्वाच्यवस्तुस्वरूपानङ्गीकारिणं प्रति मिध्याशब्देन तत्स्वरूपमात्रं साध्यते । ततः ब्रह्मविशेषाणां विमतान्तः पातित्वेन मिध्यात्वसिद्धिः । ततः तेषां पक्षत्वसम्भवात् । अनुमानसिद्धिरित्यत आह-अनुमानादनिर्वाच्यसिद्धिरिति । वैलक्ष्यण्यशब्दार्थानिरुक्त्येति भेदाद्यर्थविकल्पं कृत्वा तन्निराकरणेन इति यावत् ।