प्रीयतां भगवान् मह्यं प्रेष्ठप्रेष्ठतमः सदा

भाष्यम्

(भाष्येऽन्तिममङ्गलाचरणम्)

'प्रीयतां भगवान् मह्यं प्रेष्ठप्रेष्ठतमः सदा ।

मम नित्यं नमाम्येनं परमोदारसद्गुणम् ॥'

।। इत्याथर्वणोपनिषद्भाष्यं सम्पूर्णम् ॥

पदार्थदीपिका

एवं समापितभाष्यो भगवानाचार्य एतदुपनिषदुक्तगुणविशिष्ट- भगवन्नमनमन्तेऽपि कुर्वन् तत्प्रीतिमेवाशास्ते - प्रीयतामिति ॥ यो मम प्रेष्ठादतिशयेन प्रीत्यास्पदादपि सदा प्रेष्ठतमोऽत्यतिशयेन प्रीत्यास्पदस्तमेनं परमोदारसद्गुणं भगवन्तं नित्यं सर्वदा नमामि । नित्यमित्यनेन न मम भगवद्वन्दनं प्रचयगमनादिप्रयोजनोद्देशेन किन्तु स्वभावत एवेत्याचष्टे स च भगवान् मह्यमनेन ग्रन्थकरणेन प्रीयतामित्यर्थः ।तस्यैष आत्मा विशते ब्रह्मधाम' इति वायोर्भगवत्प्रियत्वोक्त्या वाय्ववतारभूतं स्वं प्रत्यपि प्रेष्ठतमत्वमुक्तमेव ।तदेतत्सत्यम् । यत्र तत्सत्यस्य परमं निधानम्' इत्यत्र सत्यशब्देन परमोदारसद्गुणत्वं चोक्तमित्यशेषमतिमङ्गलम् ॥

योऽध्यात्मदेवान् सम्प्रेर्य कारयामास सत्कृतिम् ।

तया प्रीतोऽभीष्टदोऽस्तु भगवान् बादरायणः ।।

श्रीमदानन्दतीर्थार्यान् जयार्यादींश्च सन्मुनीन् ।

नमामि परया भक्ता स्मृत्या सर्वेष्टदानहम् ।।

यादवार्यान् गुरून्नौमि वेदेशमुनिसेवकान् ।

श्रीमध्वशास्त्रव्याख्योत्थविनिर्मलमतीनहम् ||

आथर्वणोपनिषदो भाष्यस्य विवृतिस्त्वियम् ।

श्रीनिवासेन रचिता भूयाद् व्याख्योपकारिणी ॥

श्रीनिवासतीर्थविरचिताखण्डार्थः

वेदपुरुषः शिरोव्रतमित्याद्युक्तं प्रमेयं ऋषिणाप्युक्तमित्याह- तदेतदिति ॥ तत् तदङ्गिरा ऋषिः पुरा पूर्वं तद् एतामुपनिषदम् अचीर्णव्रतः अचीर्णशिरोव्रतः स्वस्वशाखोक्तव्रतानुष्ठानशून्यो नाधीतेऽध्ययनं न करोति न कुर्यादिति यावदिति शौनकायोवाच यतोऽत एतत्प्रमेयं सत्यं यथार्थं प्रतिपत्तव्यमित्यर्थः । वेदपुरुष उपनिषदं ऋषिप्रणामेन समापयति- नमः परमऋषिभ्य इति ।। अङ्गिरस्प्रभृतिभ्य इत्यर्थः । उपनिषदर्थस्य सर्वस्याप्यवधारणायान्ते द्विरुक्तिः । यथोक्तं भगवत्पादैः-

अध्यायान्ते द्विरुक्तिः स्याद्वेदे वा वैदिकेऽपि वा ।

विचारो यत्र सज्जेत पूर्वोक्तस्यावधारणे ॥' इति ॥

॥ इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन रचिता आथर्वणोपनिषद्भाष्यविवृतिः पदार्थदीपिकानाम्म्री समाप्ता ॥