ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता
श्रीराघवेन्द्रतीर्थविरचित मुण्डकोपनिषत्खण्डार्थ: (आथर्वणोपनिषत्खण्डार्थः)
॥ प्रथमः खण्डः ॥
अनन्तगुणपूर्णाय दोषद्राय विष्णवे ।
नमः श्रीप्राणनाथाय 'भक्ताभीष्टप्रदायिने ।
अधिकारिणामखिलक्लेशनिवृत्तिविशिष्टपरमानन्दावाप्तये ब्रह्मविद्यां वक्तुकामो 'यो ह वा अविदितार्ष' इत्यादिश्रुतेः ऋषिदेवताच्छन्दो- ज्ञानस्याऽऽवश्यकत्वाद् ‘यया तदक्षरमधिगम्यते' इत्याद्युक्त्या देवता- ज्ञानस्याऽक्षरपरिगणनया त्रिष्टुबादिच्छन्दोज्ञानस्य च सुकरत्वादृषि- परम्परामेवाऽऽह - ब्रह्मेत्यादिना ।
ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता ।
स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ॥ १ ॥
ब्रह्मा चतुर्मुखः, देवानां शेषवीन्द्रादीनां प्रथम: देवेभ्य: प्राथमिकस्सन् विष्णोस्सकाशात् सम्बभूव जज्ञे । तस्य महिमानमाह - विश्वस्येति ॥ गोप्ता रक्षकः । कर्तृत्वाद्युक्तिस्तस्याऽऽप्तत्वद्योतनार्थी' एतदुक्तिप्राप्त - स्वातन्त्र्यभ्रमनिरासाय विष्णुतस्सम्भवोक्तिर्भाष्ये । स ब्रह्मा सर्वविद्या- प्रतिष्ठां (सर्वाविद्याः) प्रतितिष्ठन्ति यस्यां तां यज्ज्ञाने सर्वविद्या विदित- फला भवन्ति तादृशीं ब्रह्मविद्यां वेत्ति अनयेति विद्यां ब्रह्मप्रमिति - जनकशब्दराशिं ज्येष्ठपुत्राय वैवस्वतमन्वन्तरे प्रथमतो जातायाथर्वाय अथर्वनामकाय, अकारान्तत्वं छान्दसं प्राह ॥ १ ॥
अथर्वणे यां प्रवदेत ब्रह्माऽथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम् ।
स भारद्वाजाय सत्यवहाय प्राह भारद्वाजोऽङ्गिरसे परावराम् ॥ २ ॥
प्रवदेत प्रावददित्यर्थः । व्यत्ययेन लङ लिङ् | भासनोपसम्भाषे- त्यादिनाऽऽत्मनेपदम् । स्पष्टमवददित्यर्थः । तां ब्रह्मविद्याम् अथर्वा अङ्गिरे अङ्गिरनामकाय मुनये पुरा पूर्वम् उवाच' । स अङ्गिरनामको भारद्वाजाय भरद्वाजपुत्राय नाम्ना सत्यवहाय प्राह । तां ब्रह्मविद्यामित्यनुषङ्गः । (*भारद्वाजः अङ्गिरसे अङ्गिरोनामकाय तां ब्रह्मविद्यां प्राहेत्यनुषङ्गः । ) ब्रह्मविद्यां विशिनष्टि- परावरामिति । परा च साऽवरा च परावरा, तां परावराम् । एकैव विद्या विवक्षाभेदेन परा अवरा च भवति । सा च ऋगादिरूपेत्यग्रे व्यक्ता ।। २ ।।
तस्मै शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ ।
कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ ३ ॥
शौनकः शुनकपुत्रः महाशाल:, प्रत्यब्दं 'यज्ञंकृत्वात्महाशाल इत्युक्तः, ‘प्रत्यब्दं यज्ञकृत् सम्यक् महाशाल : प्रकीर्तितः' इति छान्दोग्यभाष्योक्तेः, विधिवद् विध्युक्तप्रकारेणोपसन्न : उपसत्तिं प्राप्तः अङ्गिरसं पप्रच्छ । हे भगवो भगवन्, पूज्यपादेति यावत्, मतुवसो रुस्सम्बुद्धौ छन्दसीति रुः, सर्वमिदं कर्मदेवतादिकं मया ज्ञातं वर्तते । तज्ज्ञानं कस्मिन् ज्ञाते सफलं भवति ? यज्ज्ञानार्थं सत् मोक्षाख्यफलवद्भवति तन्मे ब्रूहीति पप्रच्छेति योज्यम् । ह वा इति निपात: प्रसिद्ध्यर्थकः || ३ ||
कर्मदेवतादिज्ञानं तदनुष्ठानादिना ब्रह्मज्ञानार्थं सन्मोक्षाख्यफल- बद्भवतीति ‘तदेतत्सत्यं मन्त्रेषु' इत्यादिना विवक्षुरुपोद्धातपूर्वं ब्रह्मस्वरूपं तावद्वदामीति भावेनोत्तरमुक्तवानित्याह वेदपुरुष :- तस्मै शौनकाय सोऽङ्गिरा उवाचेति ॥
तस्मै स होवाच । द्वे विद्ये वेदितव्ये ।
इति ह स्म यद् ब्रह्मविदो वदन्ति परा चैवापरा च ॥ ४॥
हेति हर्षे । उपोद्घातमाह- ‘द्वे विद्ये' इति । पूर्वत्रेवात्रापि विद्याशब्दः करणसाधनः । विद्या वित्तिजनकं शास्त्रं द्वे द्विविधमित्यर्थः । उपाधि- द्वैविध्याभिप्रायेण द्विवचनोक्तिः । इति ब्रह्मविदो वदन्ति स्म | हेति प्रसिद्धमित्यर्थः । तथा च सूत्रम् - 'अन्यार्थं तु जैमिनि: पश्नव्याख्याना- भ्याम्' (ब्र.सू.१-४-१९ ) इति । कथमित्यत आह परा चैवापरा चेति ॥ परममुख्यार्थबोधकत्वोपाधिना परैव सती विद्या अपरा अमुख्यार्थबोधकत्वोपाधिनाऽपरा चेत्युच्यते । न वस्तुतो व्यक्ति- भेदोऽस्तीत्येवकारप्रयोगः ॥ ४ ॥
अपरविद्यैवोपाधिभेदेन परविद्येति भावेन प्रस्तावपूर्वमपरविद्यामाह- तत्रापरेति ॥
तत्रापरा । ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति ।
अथ परा । यया तदक्षरमधिगम्यते ॥५॥
उपाधिभेदेन भिन्नतया निर्दिष्टयोर्मध्य इत्यर्थः । वर्णानां स्थान- प्रयत्नादिनिरूपकं शास्त्रं शिक्षा । प्रसिद्धप्रयोगबोधिनो बौधायनाप- स्तम्बाश्वलायनादिग्रन्थाः कल्पाः ।
‘सिद्धरूपप्रयोगो यैः कर्मणामनुगम्यते ।
ते कल्पा लक्षणार्थानि सूत्राणीति प्रचक्षते ॥ '
इति तन्त्रवार्तिकोक्तेः । शब्दानुशासनपरं व्याकरणम् । शब्दनिर्वचनपरं
निरुक्तम् । गायत्र्युष्णिगादिच्छन्दसां लक्षणनिरूपकं छन्दः । कालनिर्णयपरं शास्त्रं ज्योतिषम् । एतदेव ऋगादिशास्त्रमक्षराधिगतिहेतुत्वोपाधिना परविद्येति भावेनाऽऽह- अथ परेति । अवसरप्राप्ता परविद्या निरूप्यत इत्यर्थः । यदद्रेश्यत्वादिगुणकं तदक्षरं यया विद्यया वित्तिजनकऋगादि- शास्त्रेणाधिगम्यते साऽक्षरज्ञप्तिहेतुत्वोपाधिना परविद्येत्युच्यत इत्यर्थः । तदुक्तं 'ऋगाद्या अपरा विद्या:' इत्यादि । यथैकमेव कर्म सकामत्व- निष्कामत्वोपाधिभ्यां प्रवृत्तं निवृत्तमिति चोच्यते तथेति भावः ।। ५ ।। कीदृशं तदक्षरमित्यतस्तन्महिमानमाह - यत्तदिति ॥
यत् तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुः श्रोत्रं तदपाणिपादम् ।
नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद् भूतयोनिं परिपश्यन्ति धीराः ॥ ६ ॥
यदक्षरमद्रेश्यं दृष्ट्युपलक्षितबाह्येन्द्रियाविषयः, अग्राह्यं मनसोऽ- प्यविषयः । साकल्येनेति वा, अयोग्यैरिति वा योज्यम् । यद्वा, दृश्या- दन्यददृश्यम् । ग्राह्यादन्यदग्राह्यमित्यर्थः । न विद्यते गोत्रं वर्णो वा यस्य तदगोत्रम् अवर्णम् । अचक्षुः श्रोत्रमित्यादेः प्राकृतचक्षुरादिहीनमित्यर्थः । नित्यं देहतोऽपि नाशरहितम्। विभुं समर्थम् । सर्वगतं सर्वव्यापि । सर्वगतत्वे प्रतिहतिः स्यादित्यत आह- सुसूक्ष्मम् । अत्यन्ताप्रतिघम् । 'सूक्ष्मं तु तदर्हत्वात् ' ( ब्र. सू. १-४-२ ) इत्युक्तेः । तत् त्वया पृष्टमक्षरमिति पूर्वं श्रुततत्पदस्यान्वयः । अद्रेश्यमित्युक्तिर्न सर्वथेति भावेनाक्षरस्य गुणान्तर- माह - तदव्ययमित्यादिना || यदक्षरं भूतानां प्राणिनां योनिं कारणम् धीरा ज्ञानिनः परिपश्यन्ति अव्ययं शश्वदेकप्रकारभूतं, तत् प्रागुक्त- मक्षरमित्यर्थः । तथा च सूत्रम्- 'अदृश्यत्वादिगुणको धर्मोक्तेः' (ब्र.सू.१- २-२१) इति ।। ६ ।।
यद्भूतयोनिमित्युक्तभूतकारणत्वं संहर्तृत्वस्योपलक्षणमित्युपेत्य तदुभय-
प्रकारं दृष्टान्तपूर्वकं व्यनक्ति यथेति ॥
यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति।
यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् सम्भवतीह विश्वम् ॥७॥
ऊर्णनाभिर्जन्तुविशेषस्स्वोपभुक्तवस्तूनि तन्त्वात्मना स्वोदरे परि- णतानि सृजते बहिर्निष्कासयति । गृह्णते गृह्णाति च । तन्त्वाद्याकारतया बहिर्निष्कासितं पुनरन्तस्स्वोदरे गृह्णाति । तथा विश्व लये निगीर्णं सत् अक्षराद्बहिर्देशे सम्भवतीत्यर्थः । न तु विश्वात्मना परिणममानत्वं, न वा तदात्मना विवर्तत्वं भूतयोनित्वमित्यर्थः । एतच्चोपलक्षणम् । ऊर्णनाभिना तन्तुराशिरिव संह्रियते चेत्यपि ध्येयम् । ननु नानाविधसृष्टौ वैषम्यादिदोषः किं नेत्यत उक्तम्- यथा पृथिव्यामिति । यथा पृथिवी शाल्यादि नाना- बीजान्यपेक्ष्य नानाविधङ्कुरान् जनयति, तथा जीवानां नानाविध- कर्माण्यनुसृत्य नानाविधजीवान् सृजतीत्यर्थः । तथा च सूत्रम्- 'वैषम्य- नैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति' (ब्र. सू. २-१-३५) इति । ननु अक्षरस्य विश्वसृष्ट्यादिना फलसत्त्वेऽपूर्णताप्राप्तिः । तदसत्वे प्रेक्षावतस्तत्र प्रवृत्त्ययोग इत्यत उक्तम्- यथा सत इति । यथा सतश्चेतनाधिष्ठितात् पुरुषाद्देहात् केशलोमान्यनायासेन भवन्ति तथाऽक्षरादनायासेन विश्वं सम्भवतीत्यर्थः । अत्यायाससाध्ये हि फलापेक्षा । अनायाससाध्येऽङ्गुलि- चालनादौ लोके प्रेक्षावतामपि न फलापेक्षाऽस्तीति भावः । शिरोरुहाः केशाः देहजानि लोमानीति विवेकः ॥ ७ ॥
यथा पृथिव्यामिति दृष्टान्तोक्त्या प्राप्तपरिणामशङ्कां निरस्यन्नक्षराद्विश्व- सम्भवक्रमं व्यनक्ति- तपसेति ॥
तपसा चीयते ब्रह्म ततोऽन्नमभिजायते ।
अन्नात् प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ ८ ॥
अक्षराख्यं ब्रह्म तपसा ज्ञानेन चीयते सम्बध्यते । ब्रह्म विश्वं सृजानीति व्यंचारयदिति यावत् । ज्ञानरूपविचारवतो न परिणामितेति भावः । ततो विचारानन्तरमिति, विचारितवतो ब्रह्मण इति वा । अत्रान्नादिपदैः जडं तदभिमानिदेवता च ग्राह्या । लोका जायन्त इत्यनुषङ्गः । तदनन्तरं कर्म च जायत इति शेषः । जातेषु कर्मसु निमित्तभूतेषु अमृतं स्वर्गादिफलं जायत इत्यनुषङ्गः ॥ ८ ॥
‘तपसा चीयते’.इत्युक्त्या प्राग् ज्ञानं विनेति प्राप्तशङ्कां निरस्यंस्तप:- स्वरूपोक्तिपूर्वं प्रथमतस्सृष्टं चाऽऽह - यस्सर्वज्ञ इत्यादिना ॥
यस्सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः ।
तस्मादेतद् ब्रह्म नामरूपमन्नं च जायते ॥ ९ ॥ १ ॥
|| इति प्रथमः खण्डः ।।
सर्वं जानातीति सर्वज्ञः । सर्वं वेत्तीति सर्ववित् । ज्ञानवेदनयो: सामान्यविशेषत्वेनापौनरुक्त्यम् । सर्वं विन्दत लभत इति वा सर्ववित् । 'विल लाभ' इति धातो: क्विप् । सर्वं लभत आप्तकाम इत्यर्थः । हेतुगर्भमिदं द्वयम् । सर्वज्ञत्वादाप्तकामत्वाद् यस्य तपो ज्ञानमयं ज्ञानात्मकं नाssलोचनात्मकं नापि सन्तापात्मकमिति । अज्ञो ह्यालोचयति । अनाप्तकामस्तु 'तपति । नित्यसिद्धसर्वविषयकमपि ज्ञानं सिसृक्षारूप- विशेषात्मना कालविशेषे व्यज्यत इति, 'तपसा चीयत' इति, 'सोऽकामयत' इति, ‘तदैक्षत' इति, 'स ईक्षाञ्चक्रे' 'तपस्तप्त्वा' इत्यादि- रूपेण श्रुतिषूच्यत इति भावः । तस्मात्सर्वज्ञाद् ब्रह्मणः नामरूप- शब्दितशब्दप्रपञ्चार्थप्रपञ्चाभिमानितयाऽभेदोपचारेण नामरूपमन्न- मित्युक्तम्, एतत् ब्रह्म चतुर्मुखाख्यं जायत इत्यर्थः ॥ ९ ॥
॥ इति प्रथमः खण्डः ॥