गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु

उपनिषत्

(एकीभावो न स्वरूपैक्यम्)

गताः कलाः पञ्चदश प्रतिष्ठा

देवाश्च सर्वे प्रतिदेवतासु ।

कर्माणि विज्ञानमयश्च आत्मा

परेsव्यये सर्व एकीभवन्ति ॥७॥

भाष्यम्

'अविरोधश्च सादृश्यमेकदेशस्थितिस्तथा ।

एकीभावस्त्रिधा प्रोक्तो नैकीभावः स्वरूपयोः ।

कुतोऽभूतस्य भवनं स्वरूपस्यैक्यमेव हि ।।

अतो नदीनां जीवानां विरुद्धानां नृणामपि ।

अब्धिना हरिणा चैव तथैव च नरान्तरैः ॥

एकीभावस्तु संश्लेषो विरोधस्य च वर्जनम् ।

स्वरूपैक्यं कुतस्तेषां नित्यभिन्नस्वरूपिणाम् ||

हरेरपि स्वरूपाणामेकीभावो यदोच्यते ।

संश्लेष एव सिद्धत्वात् स्वरूपैक्यस्य नो भवः' इति च ॥

श्रीवादिराजीयाप्रकाशिका

गताः मुक्ताः पञ्चदश कला: प्राणश्रद्धारुद्रेन्द्रसोमवरुणाग्निविनायक- कोणवायुपावकाख्याग्निकुमारपर्जन्य-स्वाहाबुधोषाशन्याख्याः कलाः कलाभिमानिनो ब्रह्मादिदेवा: प्रतिदेवतासु देवता: प्रति विद्यमानाः तासु प्रजासु प्रतिष्ठिताः बिम्बरूपेण प्रति प्रति स्थिताः । सर्वे देवाः पञ्चदश- कलाव्यतिरिक्ता देवाः शतगणस्थदेवाः पुष्करव्यतिरिक्ततदितरदेवाश्च कर्माणि कर्माभिमानिपुष्कराख्यदेवः, बहुवचनमभिमन्यमानकर्मबाहुल्यविवक्षया, विज्ञानमयः अपरोक्षाज्ञानी आत्मा उक्तदेवताजीवव्यतिरिक्तो जीवः, जातावेकवचनं, ऋष्यादिमनुष्योत्तमपर्यन्तापरोक्षज्ञानिजीवा इत्यर्थः । एकीभवन्ति अविरोधाख्यैकीभावं प्राप्नुवन्ति । प्रागपि विद्यमानत्वेन पराभिमतैक्यस्य 'अभूततद्भावे कृभ्वस्तियोगे च्चि:' इति सूत्रोक्ताभूत- तद्भावार्थकच्चिप्रत्ययार्थत्वायोगात् । प्रागविद्यमानस्यैवैक्यस्य प्राप्तिस्तु भिन्नयोर्घटपटयो:: कदाऽप्यैक्यादर्शनेनासम्भावित एव । मत्स्यादि भगवदवताराणां मूलरूपेण कचिदेकीभावकथनेऽपि मूलरूपाख्यविशेषेण संश्लेष एवैकीभावः, न त्वैक्यम् । तस्य प्रागपि विद्यमानत्वेन वि- प्रत्ययार्थत्वायोगात् । गता नष्टा भविष्यन्तीति परकीयार्थे भविष्यन्तीति पदाभावो दोषः । यथास्थितपदप्रयोग एवार्थसम्भवे अध्याहारोऽपि दोष एव । किञ्च च देवाश्च सर्वे प्रतिदेवतासु गता इत्युक्तदेवतानामपि नाशप्रसङ्गात् कर्माणीत्युक्तकर्मणामनष्टानामेवैकीभावकथनंविरोधाच्च ।। ७ ॥

पदार्थदीपिका

'परेऽव्यये सर्व एकीभवन्ति' इति वाक्यम् अन्यथाप्रतीति- निरासाय व्याचष्टे - अविरोध इति ॥ मत्यैक्यमित्यर्थः । एकविषयमति- मत्वमिति यावत् । प्राग् विरुद्धमतयो ब्राह्मणाः राजकुल एकीभवन्ति इतिवत् प्राग्भवद्विरुद्धमतयोऽधुना तेनैक्यमत्यं प्राप्नुवन्तीत्यर्थः । अत्र विषयैक्यान्मैत्यैक्यम् । मत्यैक्यान्मतिमतामैक्यं व्यपदिश्यत इति द्रष्ट- व्यम् । अत्र सर्वपदस्य लक्षणेति ज्ञातव्यम् । सादृश्यं संश्लेषः । यथा उदक उदकान्तरस्य संश्लेषाभिप्राणैकीभावव्यवहार एवं परमात्मनि 'सर्व एकीभवन्ति' इति तत्संश्लिष्टा भवन्ति तं प्रविशन्तीति यावदित्यर्थः

एकदेशस्थितिः स्थानैक्यम् । अन्हीतस्ततः स्थिता गावः सायं गोष्ठे एकी- भवन्तीतिवत् प्राग् ईश्वरव्यक्तिस्थानापेक्षयाऽन्यत्रेतस्ततः स्थिता तत्र मिलिता भवन्तीत्यर्थः । अतीतार्थे बाधकमाह - नैकीभाव इति ॥ ननु स्वरूपयोरैकीभाव एवार्थः कुतो न स्यादित्यतोऽभूततद्भावार्थस्य वि- प्रत्ययस्यानुपपत्तिरित्यभिप्रेत्य तल्लब्धां युक्तिं दर्शयति- कुत इति ॥ अभूतस्य प्राग् एकत्वेन अविद्यमानस्य भवनम् एकत्वेन भवनं कुत: ? न कुतोऽपीत्यर्थः । अनेन, ‘जीवः परमात्मना मुक्तावैक्यं न प्राप्स्यते प्राक्ततोऽ- त्यन्तभिन्नत्वात् । यद् यतः प्रागत्यन्तभिन्नं तत्तेनैक्यं न प्राप्स्यते, यथा घटः पटेन' इत्यनुमानमुक्तं भवतीति ज्ञातव्यम् । यथोक्तमनुव्याख्याने- 'कथञ्च यः पूर्वमसौ न पश्चात् भवेत्स एवेत्यपि युक्तिमेति । यतो न दृष्टं यदभून्न पूर्वं पश्चात्तदासेति कुतश्च किञ्चित्' इति । ननु प्राङ्गूलरूपिणो भगवतोऽत्यन्तभिन्नेन दृष्टानां रामकृष्णादिरूपाणां पश्चात्तेनैक्यदर्शनात् व्यभिचार इत्याह- स्वरूपस्येति ॥ रामकृष्णादिरूपस्य मूलरूपिणा भगवदैक्यमेव सर्वदा सर्वप्रमाणैः प्रसिद्धं न भेद इत्यर्थः । तथा च तत्र हेतोरभावात् न व्यभिचार इति भावः । ननु तर्ह्येकीभाववाक्यानां कोऽर्थ इत्यतोऽविरोधश्चेत्यादिनोक्तमेवार्थं दृष्टान्तकथनपूर्वकं विवृणोति - अत इति ॥ प्राग्भिन्नस्य पश्चादैक्यायोगादित्यर्थः । 'विरोधस्य च वर्जनम्' इत्यत्रत्येन चशब्देन स्थानैक्यसङ्ग्रहः । एवशब्दस्य संश्लेषो विरोधस्य च वर्जनमित्येताभ्यां सम्बन्धः । यथेत्यध्याहार्यम् । तथा चैवं योजना- यथा नदीनामब्धिना समुद्रेणैकीभावो नाम स्थानैक्यं संश्लेष एव यथा वा परस्परविरुद्धानां नृणामपि नरान्तरैश्चैकीभावो नाम विरोधस्य च वर्जनमेव न स्वरूपैक्यमिति । तथा च विप्रत्ययो मुख्यार्थ एवेति भावः । ननु सर्वत्रापि स्वरूपैक्यमेवार्थः किं न स्यादित्याशङ्कय 'कुतोऽभूतस्य भवनम्' इत्युक्तं विवृणोति स्वरूपस्यैक्यमिति ॥ तेषां नद्यादीनां भिन्नस्वरूपिणाम् इति कर्मधारयादिनिः । यदुक्तं 'स्वरूपस्यैक्यमेव हि' इति भगवद्रूपाणामपि प्राक् स्वरूपैक्यमेवास्तीति तदयुक्तम् । तथात्वे भगवद्रूपाणामन्ते भगवत की भावप्रतिपादकानाम् एतन्नानावताराणां निधानं बीजमव्यम्' (भा. १ ) इत्याद्युक्तीनां वैयर्थ्यप्रसङ्गात् । निधानमत्रैकीभवन्तीति तात्पर्ये व्याख्यातत्वादत्राप्येकीभावो नाम संश्लेष एव न स्वरूपैक्यमित्याह- हरेरपीति ॥ स्वरूपाणां रामकृष्णाद्यवताराणामेकीभावो यदा यत्रोच्यते तत्रेति शेषः । संश्लेष एवेति । अत्र संश्लेषो नाम न स्वरूपाणामैक्यम् । कुतो न स्वरूपैक्यं तत्रैकीभावशब्दार्थ इत्याह- सिद्धत्वादिति ॥ स्वरूपैक्यस्येत्येतत् तत्पूर्वोत्तराभ्यां सम्बद्ध्यते । स्वरूपैक्यस्य विश्लेष- दशायामपि सिद्धत्वेन विप्रत्ययानुपपत्त्या स्वरूपैक्यस्यात्यन्ताभेदस्य भावो भवनमेकीभावशब्दार्थो नैव भवतीत्यर्थः ।

Load More