पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्

चतुर्थः खण्डः

तपसा ज्ञानेन चीयते सम्बद्ध्यत इत्यत्र ब्रह्मणो ज्ञानस्य च भेदः प्रतीयते ।अक्षरात्सम्भवतीह विश्वम्' इत्यनेनोक्तसृष्टिक्रियया तदाक्षिप्तबलादिना च लोक इव भेदः प्रतीयते । तां भेदप्रतीतिं निवारयन् भगवदभेदं ज्ञानादेराह - पुरुष एवेत्यादिना ॥

पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् ।

एतद् यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरति ह सोम्य ॥ १ ॥

कर्म सृष्टिक्रिया । तपो ज्ञानम् । उपलक्षणमेतत् द्युतिबलादेर्धर्म- जातस्य । तथा च कर्मतप:प्रभृतीदं विश्वं सर्वं धर्मजातं परामृतं परामृताख्यो ब्रह्मशब्दितः : पुरुष एव भगवानेव, न तु धर्मधर्मिणोर्भेदो भगवति मन्तव्य इति । तदाह सूत्रम् - 'प्रतिषेधाच्च' (ब्र.सू. ३-२-३१) इति । 'एक-

मेवाद्वितीयम्' (छां. ६.२.१), 'नेह नानाऽस्ति किञ्चन' (कठ. ४.११) इति भेदस्य निषेधादित्यर्थः । एतज्ज्ञानिनः फलमाह - एतद् यो वेदेति ।। एतत् स्रष्टृत्वादिगुणैस्सविशेषाभिन्नतया विशिष्टं, सर्वप्राणिहृदयगुहायां निहितं, ब्रह्म योऽधिकारी वेद सोऽविद्याग्रन्थिं प्रकृतिबन्धं विकिरति, कृ विक्षेपे, विक्षिपति निरस्यति, मुक्तो भवतीत्यर्थः । सोम्य सोमपानार्हति शौनकसम्बोधनम् । हेति हर्षे ॥ १

पुनर्भगवतो महिमान्तरमुपदिष्टवानङ्गिराः शौनकं प्रतीत्याह वेदपुरुषः- आविरित्यादिना ॥

आविः सन्निहितं गुहाचरं नाम महत् पदम् ।

अत्रैतत् सर्वमर्पितमेजत् प्राणनिमिषच यत् ।

एतज्जानथ सदसद्वरेण्यं परं विज्ञानाद् यद्वरिष्ठं प्रजानाम् ।

यदर्चिमद् यदणुभ्योऽणु च यस्मिंल्लोका निहिता लोकिनश्च ।

तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्गनः ।

तदेतत् सत्यं तदमृतं तद् वेद्धव्यं सोम्य विद्धि ॥ २ ॥

आविर्नित्याभिव्यक्तस्वरूपम् । व्याप्तत्वात् सर्वसन्निहितम् । गुहाचरं हृदयगुहायां चरतीति गुहाचरम् । पद्यते प्राप्यत इति पदम् । मदुत्तमं प्राप्यं नाम प्रसिद्धम्, उक्तगुणवत्त्वे प्रसिद्धमित्यर्थः । अत्र आविरादिगुणयुक्ते भगवति एतत्सर्वम् अर्पितमाश्रितम् । तत्सर्वं किमित्यत आह- एज- दिति ॥ एजृ कम्पने, सामान्यचेष्टोपेतम्, प्राणविशेषचेष्टायुक्तम्, निमिषत् चक्षुषी निमील्य स्थितम् जाग्रत्स्वप्नसुषुप्त्याद्यवस्थोपेतं यदेतज्जगज्जानथ जानासि तत्तत्सर्वमत्रार्पितमित्यर्थः । पुनः किं रूपं ब्रह्मेत्यत आह- सदसदिति ।। तदक्षरं सदसद्भयां मूर्तीमूर्ताभ्यां कार्यकारणाभ्यां वा वरेण्यं श्रेष्ठं, वृञ एण्यप्रत्ययः । विज्ञानाच्चतुर्मुखात् परमुत्तमम्, ‘विज्ञान-शक्ति रहमासमनन्तशक्तेः' इत्यादेः । प्रजानां वरिष्ठं श्रेष्ठम् । यदर्चि- मदर्चिष्मत्, यच्चाणुभ्योऽणु च, यस्मिन् लोका लोकिनो लोकस्था जना लोकाभिमानिनो वा निहिताः तदेतदुक्तगुणविशिष्टमक्षरं ब्रह्मेत्यर्थः । महिमान्तरमाह - स प्राण इति ॥ प्राण इति विधेयापेक्षया स इति पुल्लिङ्गनिर्देशः । प्रकर्षेण अनितिचेष्टते, जगत्प्रेरयतीति प्राण: । तदक्षरं वक्ति समस्तवेदानित्येव वाक्, न तु प्रसिद्धवागाद्यभेदादित्येवकारार्थ उशब्दः । तदक्षरं मनुते सर्वमिति मनः । तदेतदक्षरं सत्यं अपराधीन- स्वरूपम् | ‘षद्ऌ विशरणे' इति धातोः सतः शरीरतो विशरणशीलान् जीवान् यमयति नियमयतीति वा सत्यं तदमृतं देहतोऽपि नाशरहितम्, हे सोम्य ॥ २ ॥

धनुर्गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं सन्दधीत ।

आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥३॥

औपनिषदम् उपनिषत्सम्बन्धि प्रणवाख्यं धनुर्गृहीत्वा वेद्धव्यं बेधनीयं तद्द्ब्रह्म विद्धि जानीहि । यथा वेध्यं लक्ष्यं वस्तु धानुष्का धनुर्गृहीत्वा शरेण विध्यन्ति तथा त्वमपि उपनिषदर्थभूतप्रणवार्थपर्यालोचनया मनसा ब्रह्म सावधानं जानीहीत्यर्थः । वेद्धव्यं विद्धीत्युक्तमेव व्यनक्ति - महास्त्र - मित्यादिना ॥ उपासानिशितं उपासया तीक्ष्णीकृतं शरं शरवत्स्थितं मनः त्वं सन्दधीत सन्धत्स्व व्यत्ययात् । संयोजयेति यावत् । सन्धानमेव व्यक्तमाह- आयम्येति ॥ तच्चेतः समस्तवस्तुभ्यो नियम्य, निवर्त्येति यावत्, तद्भावगतेन तदेकसम्बद्धेन चेतसा लक्ष्यं लक्ष्यभूतं तदेवाक्षरं हे सोम्य विद्धीत्यर्थः ॥ ३ ॥

प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।

अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ॥ ४ ॥

किं धनुरादीत्यतो विविच्य दर्शयति । प्रणवो धनुः । आत्मा चेतः शरः । तदक्षराख्यं, ब्रह्मेत्यर्थः, वेद्धव्यं बोद्धव्यमित्यर्थः । शरवदिति । शरो यथा वेद्धव्यमनुप्रविशति तथा ज्ञान्यपि तन्मयः तत्प्रविष्टो भवेदित्यर्थः

॥ ४ ॥

यथाऽक्षरं प्राधान्येन ज्ञेयं तथाऽन्यदप्यस्ति किं तादृशमित्यत: तन्महिमोक्तिपूर्वकं नेत्याह- यस्मिन्धौरित्यादिना ॥

यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः ।

तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथाऽमृतस्यैष सेतुः ॥५॥

यस्मिन् द्यौरोता पृथिवी चोता अन्तरिक्षं चोतं सर्वैः प्राणैश्चक्षुरा- दीन्द्रियैः सह मनश्च यस्मिन्नोतं, वेञ् तन्तु सन्ताने, पटे तन्तव इव संश्लिष्टतया यमाश्रित्य वर्तते द्यौरादिकं तं सर्वाधारमेवैकं आत्मानं जानथ जानीत, व्यत्ययात् । शौनकोपलक्षितान् प्रत्युच्यत इति बहुवचनम् । जानथ अत्मानमिति पृथनिर्देशस्सर्ववैलक्षण्यज्ञापनार्थः । तदाह सूत्रे 'द्युभ्वाद्यायतनं स्वशब्दात् ' ( ब्र. सू. १ - ३ - १ ) इति । एतेनाऽऽधेयज्ञानं विना तदाधारत्वेन ज्ञानायोगात् 'अवस्थितेरिति काशकृत्स्नः' (ब्र.सू. १- ४-२३) इति सूत्रोक्तदिशाऽऽधेयकर्मदेवतादिजगज्ज्ञानं सर्वाधारत्व- प्रकारकब्रह्मज्ञानोपयोगि सत् परविद्या भवतीति सूचितं भवति । अत एव प्राक्कर्मदेवतादिजगदुक्तिः अत्रैतत्सर्वमर्पितमिति चोक्तम् । अन्याः अन्यविषयाः वाचः विमुञ्चथ परित्यजत, प्राधान्येनेति भावः । तदाह सूत्रे 'हेयत्वावचनाच्च' (ब्र. सू. १ १ ८) इति । कुतस्तस्यैव ज्ञान- मापाद्यमित्यत आह- अमृतस्यैष सेतुरिति । एष आत्माऽमृतस्य मुक्तवर्गस्य संतुराश्रयः ।। ५ ॥

अरा इव रथनाभौ संहता यत्र नाड्यः ।

स एषोऽन्तश्चरते बहुधा जायमानः ॥ ६ ॥

यत्र देहस्थे हरौ रथनाभौ रथचक्रे अरा इव नाड्यः संहताः सम्बद्धाः स एष आत्मा बहुधा विश्वादिरूपेण जायमानः प्रादुर्भवन् अन्तः शरीरान्तश्चरते सञ्चरति || ||

जानथेत्युक्त 'ज्ञानोपायमाह - ओमित्येवेति ॥

ओमित्येव ध्यायत आत्मानं स्वस्ति वः पराय तमसः परस्तात् ॥७॥

आत्मानम् ओम् अशेषगुणपूर्णं, मुख्यवृत्त्या ऋगादिशास्त्रवेद्यमित्येव ध्यायत | किमर्थम् ? तमसः परस्तात् पराय, ज्ञानोपलक्षणं, जडप्रकृति- परश्रीतत्वात्परभूतपरमात्मज्ञानाय । एवं ध्याने सति तज्ज्ञानं भवति । तेन च परात् परज्ञानेन वो युष्माकं स्वस्ति मङ्गलं भवतीत्यर्थः ॥ ७ ॥ आत्मानं विशिनष्टि- यस्सर्वज्ञः सर्वविदिति ॥

यः सर्वज्ञः सर्वविद् यस्यैष महिमा भुवि ।

दिव्ये ब्रह्मपुरे ह्येष व्योम्यात्मा प्रतिष्ठितः ॥ ८ ॥

एष सार्वज्ञ्यादिरूपो यस्य महिमा भुवि भूम्यादौ प्रकटितः तमात्मान- मित्यर्थः । कुत्रत्य आत्मा ध्येय इत्यत आह- दिव्य इति । ब्रह्मपुरे देहे दिवि भवे दिव्ये, व्योम्नो सम्बन्धित्वाद्दिव्य इत्युक्तिः, व्योम्नि देहस्थाकाशे एष आत्मा प्रतिष्ठितः ॥ ८ ॥

मनोमयः प्राणशरीरनेता प्रतिष्ठितोsने हृदयं सन्निधाय ।

तद् विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद् विभाति ॥ ९ ॥

शरीराकाशेऽपि हृदयरूपस्थलविशेषमाह - मनोमय इति ॥ ज्ञानप्रचुर : पूर्णज्ञान इत्यर्थः । प्राणशरीरनेता प्राणानां पञ्चवायूनां सर्वेन्द्रियाणां च शरीरस्य च नेता प्रेरकः । एतेन देहे तस्य स्थितौ कृत्यं दर्शितम् । प्राणादि- नेतृत्वं चाज्ञस्य न युक्तमित्यतो मनोमय इत्युक्तिः । अन्ने अन्नविकारे देहे, कार्यकारणयोरभेदोपचारात्, हृदयं सन्निधाय अधिष्ठाय प्रतिष्ठितः स्थितः । तस्य दर्शनायोग्यत्वे ध्यानं व्यर्थमित्यत आह- तद्विज्ञानेनेति ॥ यदानन्दरूपममृतं विभाति । 'अतोऽनन्तेन तथा हि लिङ्गं' (ब्र.सू.३- २- २७) इति सूत्रोक्त दिशाऽव्यक्तैकस्वभावमप्यचिन्त्याद्भुतशक्त्या विशेषेण भाति आविर्भवति । तद्रूपं धीराः पटुतरश्रवणमनननिदिध्यासन- वासनावासितान्त:करणजन्येन विज्ञानेन परिपश्यन्ति विषयीकुर्वन्ती - त्यर्थः । तथा च सूत्रम्- 'प्रकाशश्च कर्मण्यभ्यासात्' (ब्र.सू.३-२- २६) इति ।। ९ ।।

तद्दृष्टेः फलमाह- भिद्यत इति ॥

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।

क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ १० ॥

परा अपि ब्रह्मादयोऽवरा यस्मात्स परावरः तस्मिन् परावरे सर्वोत्तमे तस्मिन्नानन्दरूपे हरौ दृष्टे सति हृदयग्रन्थिः अविद्यातन्मूलरागद्वेष- दुःखादिरूपो बन्धो भिद्यते अपयाति । अज्ञानमूलाः सन्देहविपर्ययाश्च अपगच्छन्ति । अस्याऽपरोक्षज्ञानिनः कर्माणि सञ्चितागामीन्यप्रारब्धानि कर्माणि क्षीयन्ते । सञ्चितानां क्षयो नाशः । आगामिनामश्लेषः । तथा च सूत्रम्- 'तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ तद्व्यपदेशात्' (ब्र. सू. ४- १-१३) इति ॥ १० ॥

एवं देहे भगवदुपासनास्थलमुक्त्वा ब्रह्मण्डमध्यस्थसूर्यरूपं चोपास्ति- स्थलमाह- हिरण्मय इति ॥

हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् ।

तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥ ११ ॥

हिरण्मये सुवर्णात्मके परे उत्तमे कोशे ब्रह्माण्डे विरजं विरजस्कं रजोगुणोपलक्षितसत्त्वादिगुणहीनं निष्कलं षोडशकलारहितं अत एव शुभ्रं शुद्धं ज्योतिषां तेजोरूपाणां ज्योतिः प्रकाशकत्वप्रदम्, सर्वज्योति - रपेक्षयाऽतिशयितमहाप्रकाशरूपमिति वाऽर्थः । पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलमित्यादिवत्, अदित्यस्थं ब्रह्म आत्मविदो विदुः जानन्ति । अतस्तत्राऽऽत्मानं ध्यायीतेति भावः ।। ११ ।।

कथं सर्वज्योतिरपेक्षयाऽतिशयितमहाप्रकाशरूपत्वं हरेरित्यत आह- न तत्रेति ॥

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।

तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ १२ ॥

तत्र ज्योतिषां ज्योतिरूपे हरौ । विषयसप्तमी । चन्द्रतारकमिति द्वन्द्वैकवद्भावः । तत्र भगवद्विषये सूर्यचन्द्रादिकं न भाति । तदपेक्षयाऽल्प- प्रकाशरूपत्वात् 'सूर्यादेः 'महाप्रकाशं भगवन्तं दीप: सौरालोकमिव न भासयन्ति सूर्यादयस्तमिति भावः । तथा च गीतान तद्भासयते सूर्यः' (गी.१५-६) इत्यादि । न केवलं सूर्यादेस्तदप्रकाशकत्वम् । किन्तु यत्प्रकाशमानत्वं स्वस्यास्ति तदपि ज्योतिरूपभगवदधीनमित्याह - तमे- वेति ।। भान्तं प्रकाशमानं तं भगवन्तम् अनु अनुसृत्य, अनुर्लक्षणे, सर्वं तदधीनं तत्पूर्वमन्त्रे प्रकृतं सूर्यचन्द्रादि भाति प्रकाशते । विश्वप्रकाशकत्वमपि सूर्यादेः तत्तेजोऽधिष्ठानत्वेनैवेत्याह- तस्येति ॥ तस्य भासा भगवद्भासा सर्वं जगद्भाति प्रकाशते । सूर्यादिप्रकाशद्वारेति भावः । तथा च गीता - 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।

यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ||' इति ॥ (भ.गी. १५.१२)

मामकं मदधीनं मदीयञ्चेत्यर्थः ॥ १२ ॥

हृदयं सन्निधाय प्रतिष्ठित इति, हृदये, ज्योतिषां ज्योतिरिति सूर्ये च ध्यानार्थं स्थित्युक्त्या प्राप्तपरिच्छिन्नत्वशङ्कां निराह - ब्रह्मैवेदमिति ॥

ब्रह्मैवेदममृतं पुरस्ताद् ब्रह्म पश्चाद् ब्रह्म दक्षिणतश्चोत्तरेण ।

अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ॥ १३ ॥

|| इति चतुर्थः खण्डः ||

इदममृतं ब्रह्मैव । पुरस्तात् पुरोदेशे प्रसृतं व्याप्तम् । ब्रह्म पश्चात् पश्चिमदेशे ब्रह्म । दक्षिणतश्चोत्तरेण दक्षिणदेशे उत्तरदेशे च प्रसृतमधश्चोर्ध्वं चाधी देशोत्तरदेशयोः प्रसृतमिदं ब्रह्मैव । विश्वं पूर्णम् इदं ब्रह्मैव । वरिष्ठं सर्वोत्तमम् । एवं सर्वदेशेषु व्याप्तस्यापि हरे : हृदयाद्यल्पदेशेष्ववस्थानंनिचाय्यत्वादेवं व्यामवच्च' (ब्र. सू. १-२- ७) इति सूत्रोक्तदिशा युक्तमिति ध्येयम् ॥ १३ ॥

॥ इति चतुर्थः खण्डः ||