यथोर्णनाभिः सृजते गृह्णते ..

उपनिषत्

(ब्रह्म जगतः नोपादानं न वा विवर्तकारणम्)

यथोर्णनाभिः सृजते गृह्णते च

यथा पृथिव्यामोषधयः सम्भवन्ति ।

यथा सतः पुरुषात् केशलोमानि

तथाऽक्षरात् सम्भवतीह विश्वम् ॥७॥

श्रीनिवासतीर्थविरचिताखण्डार्थः

श्री.-यद्भूतयोनिम्इत्यक्षरस्य भूतस्रष्टृत्वमुक्तम्, तथा च संहर्तृत्वं तदन्यस्यैवेति प्राप्नोति । लोके पितुरन्यस्यैव मारकत्वदर्शनादित्याशङ्कच विष्णौ लोकपितृवैलक्षण्याद्युक्तं तस्य संहर्तृत्वमिति भावेन स्रष्टृत्वं संहर्तृत्वं च सदृष्टान्तमुपपादयति- यथेति ॥ स दृष्टान्तो, यथा ऊर्णनाभिः स्वभुक्त- मन्नादिकं तन्त्वाद्याकारेण सृजते पुनर्गृह्णते । संहरति चेति द्रष्टव्यम् । स्रष्टृत्वं पुनः सदृष्टान्तमुपपादयति- यथा पृथिव्यामिति ॥ कुलालवन्नाक्षरस्य क्लेशेन स्रष्टृत्वमिति सदृष्टान्तमाह - यथा सत इति ॥ पुरुषाद्देहात् केशलोमानि अनायासेन भवन्तीत्यर्थः । मृतदेहाल्लोमाद्यनुत्पत्तेः सत इत्युक्तम् | चेतनाधिष्ठितादित्यर्थः ॥ ७ ॥