वेदान्तविज्ञानसुनिश्चितार्थाः सन्यासयोगाद् यतयः शुद्धसत्वाः
उपनिषत्
(अपरोक्षानन्तरमेव न मुक्ति:)
वेदान्तविज्ञानसुनिश्चितार्थाः
सन्यासयोगाद् यतयः शुद्धसत्वाः ।
ते ब्रह्मलोकेषु परान्तकाले
परामृतात् परिमुच्यन्ति सर्वे ॥ ६ ॥
भाष्यम्
ब्रह्मलोकेषु स्थित्वा परान्तकाले परिमुच्यन्ति ॥
श्रीवादिराजीयाप्रकाशिका
‘वेदान्तविज्ञानसुनिश्चितार्था:' इत्यत्र वेदान्तविज्ञानेन वेदान्तश्रवण-जनितज्ञानेन सुनिश्चितार्थाः सम्यक् निश्चिततत्त्वार्थाः यतयः, 'यती प्रयत्ने' इति धातोस्तदनन्तरं मनने ध्याने च कृतप्रयत्नाः, तेन चापरोक्षज्ञाने सति शुद्धसत्त्वाः शुद्धान्त:करणा एते ब्रह्मलोकेषु प्रतीकालम्बना- श्वेच्चतुर्मुखलोके, अप्रतीकालम्बनाश्चेत् परब्रह्मलोकेषु स्वयोग्यतानुसारेण स्थित्वा परान्तकाले परामृतान्नित्यमुक्तान्नारायणात् सर्वे परिमुच्यन्ति । ल्यब्लोपनिमित्तेयं पञ्चमी । परमपुरुषं प्राप्य सर्वे परिमुच्यन्ति । परितः परमाच्छादिकमायायाः, स्वाच्छादिकमायाया: स्वस्वरूपावरकलिङ्गदेहाच्च मुक्ता भवन्ति । न तु यतीनामेव मोक्ष इति नियमः । प्रियव्रत- ध्रुव- जनकादिराजर्षीणां वनस्थानामपि मोक्षश्रवणात् । अस्य वाक्यस्योक्तविधया सावकाशत्वाच्च ॥ ६ ॥
पदार्थदीपिका
ते ब्रह्मलोके त्वित्यत्र परब्रह्मलोके परामृताल्लिङ्गारीरान्मुच्यन्त इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे - ब्रह्मलोक इति ॥ चतुर्मुखलोके सत्याख्ये परब्रह्मलोके वैकुण्ठे च स्थिता भवन्तीति शेषः । परं ब्रह्मायुः । परिमुच्यन्ति। परामृतशब्दवाच्यलिङ्गारीरादित्यर्थः ।। ६ ।।
श्रीनिवासतीर्थविरचिताखण्डार्थः
ननु मोक्षः किमपरोक्षज्ञानानन्तरमेव भवति नेत्याह- वेदान्तेति ॥ बेदान्ता उपनिषदस्तच्छ्रवणजनितं यद्विज्ञानं तेन सुनिश्चितार्थाः सम्यग्विषयीकृतभगवद्रूपार्थाः । सन्न्यासयोगात् काम्यकर्मपरित्याग- रूपादुपायाच्छुद्धसत्त्वाः शुद्धान्तःकरणा यतय एवं श्रवणादि- प्रयत्नवन्तोऽधिकारिणोऽपरोक्षज्ञानानन्तरं भोगेन क्षीणप्रारब्धकर्माणः प्रतीकालम्बनाश्चेद् ब्रह्मलोके चतुर्मुखलोके सत्याख्ये स्थिता भवन्ति । अप्रतीकालम्बनाश्चेत् परब्रह्मलोके स्थिता भवन्ति । पश्चात्ते सर्वे परान्तकाले परं ब्रह्मायुस्तस्यां तत्काले महाप्रलये ब्रह्मणा सह विरजानानेन परामृताल्लिङ्गदेहरूपात् प्रकृतेः परिमुच्यन्ति मुच्यन्ते मुक्ता भवन्तीत्यर्थः ॥ ६ ॥