नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन

उपनिषत्

(यं भक्तत्वेन भगवान् वृणुते तस्यैव स लभ्यः)

नायमात्मा प्रवचनेन लभ्यो

न मेधया न बहुना श्रुतेन ।

यमेवैष वृणुते तेन लभ्य-

स्तस्यैष आत्मा विवृणुते तनुं स्वाम्  ।। ३ ।।

श्रीनिवासतीर्थविरचिताखण्डार्थः

पूर्वं ज्ञानप्रसादेनैव तं पश्यतीत्युक्तम् । तदयुक्तम् । प्रवचनादिनैव ज्ञानोत्पत्त्युपपत्तेरित्यत आह- नायमात्मेति । अयमात्मा भगवान् प्रवचनेन सावधारणमेतत् । व्याख्यानेन शास्त्राभ्यासरूपोपासनयेति यावत् । मेधया प्रज्ञया तत्पूर्वकं विचारेण मननेनेति यावत् । बहुना श्रुतेन श्रवणेन । एतत्साधनसामर्थ्येनैव लभ्यो ज्ञेयो न भवति किन्तु एष आत्मा प्रसन्नः सन् मदीयोऽयमिति यं भक्तं वृणुते तेनैव लभ्यः । तदेव विवृणोति - एष आत्मा तस्याधिकारिणः स्वां तनुं विवृणुते स्वस्वरूपं प्रकाशयति अपरोक्षो भवतीत्यर्थः ।। ३ ।।