open/close
पञ्चमः खण्डः
षष्ठः खण्डः
टीका_टिप्पणि
अपर_ परविद्यास्वरूपम्
कृते समग्रमपि वैदिकवाङ्मयं विष्णुपरम्
ता एव परमा विद्या:
ब्रह्मस्वरूपम्
ब्रह्म जगतः नोपादानं न वा विवर्तकारणम्
ज्ञानपूर्विका विश्वसृष्टिः
द्वितीयः खण्डः
यज्ञानुष्ठानप्रकारनिरूपणम्
विहितयज्ञकर्माद्यननुष्ठाने प्रत्यवायः
होमाधिकरणनिरूपणम्
सम्यग्यज्ञादिकुर्वतां फलम्
भगवदविषयककर्मणां बन्धकत्वनिरूपणम्
विष्णुप्रीतयेऽनुष्ठितानि कर्माणि ज्ञानद्वारा मुक्तिफलकानि
विरक्तः गुरुमेव समाश्रयेत्
तृतीयः खण्डः
विष्णुकृतायाः सृष्टेः निरूपणम्
चतुर्थः खण्डः
विष्णुरेव विजिज्ञास्यः
प्रणवेन ब्रह्मविद्धि
विष्णुरेव मुक्तिप्रदः
विष्णुर्गुणपूर्ण इति ध्यायते
हृदयाकाशे विष्णुर्विराजते
अपरोक्षज्ञानमहिमा
सूर्यमण्डले विष्णुरुपास्यः
पञ्चमः खण्डः
अश्नन्नपि जीवः दुःखी ईशस्त्वनश्नन् नित्यसुखी
निर्दुःखत्वपूर्णानन्दत्वादिना साम्यम्
जीवन्मुक्तस्थितिः
हरिभक्तस्यैव तत्प्राप्तिः
प्राणप्रसादान्मुक्तिः
आत्मवेदिन: महिमा
षष्ठः खण्डः
यं भक्तत्वेन भगवान् वृणुते तस्यैव स लभ्यः
श्रवणाद्युपाया अनुष्ठेयाः
अपरोक्षानन्तरमेव न मुक्ति:
एकीभावो न स्वरूपैक्यम्
मुक्तौ नामरूपादिनाऽविमुक्त एव ब्रह्मणा सह तिष्ठति
ब्रह्मविदः फलम्
उपनिषदध्ययने अधिकारिणः के?
भाष्येऽन्तिममङ्गलाचरणम्
श्रीराघवेन्द्रतीर्थपूज्यपादविरचितः मुण्डकोपनिषत्खण्डार्थ:
द्वितीयः खण्डः
तृतीयः खण्डः
चतुर्थः खण्डः
पञ्चमः खण्डः
षष्ठः खण्डः
तुलनात्मक विश्लेषणम्
प्रश्न-उत्तर
open/close
- तदेतत् सत्यम् ।
- यथा सुदीप्तात् पावकात् विष्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः ।
- तथाऽक्षराद् विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति ॥ १ ॥
- दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः ।
- अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात् परतः परः ॥ २ ॥
- एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च ।
- खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ ३ ॥
- अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग् विवृताश्च वेदाः ।
- वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ ४ ॥
- तस्मादग्निः समिधो यश्च सूर्यः सोमात् पर्जन्यौषधयः पृथिव्याम् ।
- पुमान् रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात् सम्प्रसूताः ॥ ५ ॥
- तस्मादृचः साम यजूंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च ।
- संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ॥ ६ ॥
- तस्माच्च देवा बहुधा सम्प्रसूताः साध्या मनुष्याः पशवो वयांसि ।
- प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ॥ ७ ॥
- सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषः समिधः सप्त होमाः ।
- इमे लोका येषु चरन्ति प्राणा गुहाशयां निहिताः सप्त सप्त ॥ ८ ॥
- अतः समुद्राः गिरयश्च सर्वेऽस्मात् स्यन्दन्ते सिन्धवः सर्वरूपाः ।
- अतश्च सर्वा ओषधयो रसाश्च येनैव भूतैस्तिष्ठते ह्यन्तरात्मा ॥ ९ ॥
- पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् ।
- एतद् यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरति ह सोम्य ॥ १० ॥
तदेतत् सत्यम्
तृतीयः खण्डः
तदेतत् सत्यम् ।
यथा सुदीप्तात् पावकात् विष्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः ।
तथाऽक्षराद् विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति ॥ १ ॥
दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः ।
अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात् परतः परः ॥ २ ॥
अपरं त्वक्षरं या सा प्रकृतिर्जडरूपिका ।
अक्षरं परमं श्रीस्तु परतः परमक्षरम् ॥
वासुदेवः परानन्दः इति त्रिविधमक्षरम् ॥ इति च ॥ २ ॥
एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ ३ ॥
अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग् विवृताश्च वेदाः ।
वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ ४ ॥
विष्ण्वङ्गानां हि नामानि द्युभ्वादीनि तु सर्वशः ।
क्रीडादिशक्तिरूपत्वात् तज्जत्वादन्यवस्तुषु ॥ इति च ॥ ४ ॥
तस्मादग्निः समिधो यश्च सूर्यः सोमात् पर्जन्यौषधयः पृथिव्याम् ।
पुमान् रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात् सम्प्रसूताः ॥ ५ ॥
वासुदेवः पुमान्नामा पूर्णत्वात् स स्वयोषिति ।
रमायां गर्भमदधात् प्रजास्तस्मात् प्रजज्ञिरे ॥ इति च ॥
तस्मादृचः साम यजूंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च ।
संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ॥ ६ ॥
तस्माच्च देवा बहुधा सम्प्रसूताः साध्या मनुष्याः पशवो वयांसि ।
प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ॥ ७ ॥
सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषः समिधः सप्त होमाः ।
इमे लोका येषु चरन्ति प्राणा गुहाशयां निहिताः सप्त सप्त ॥ ८ ॥
सप्तार्चिषो वृत्तयः । होमाः सम्बन्धाः । लोकाः गोलकाः । गुहाशयां बुद्धौ । लोपः समाने इति सूत्रादेकयकारलोपः । प्रतिपुरुषं सप्त सप्त ॥ ८ ॥
अतः समुद्राः गिरयश्च सर्वेऽस्मात् स्यन्दन्ते सिन्धवः सर्वरूपाः ।
अतश्च सर्वा ओषधयो रसाश्च येनैव भूतैस्तिष्ठते ह्यन्तरात्मा ॥ ९ ॥
पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् ।
एतद् यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरति ह सोम्य ॥ १० ॥
इति तृतीयः खण्डः
भगवतः कर्म चेष्टा तपो ज्ञानं च परामृतब्रह्माख्यः पुरुषो भगवानेव ।
यैषा चेष्टा भगवतो यच्च ज्ञानं परात्मनः ।
तत्सर्वं भगवानेव ये च धर्मा बलादयः ॥ इति च ।
स्वाभाविकी ज्ञानबलक्रिया च इति श्रुतिः ।