आविः सन्निहितं गुहाचरं नाम महत् पदम्
।। अथ चतुर्थः खण्डः ।।
उपनिषत्
(विष्णुरेव विजिज्ञास्यः)
आविः सन्निहितं गुहाचरं नाम महत् पदम् ।
अत्रैतत् सर्वमर्पितमेजत् प्राणन्निमिषच्च यत् ॥ १ ॥
श्रीनिवासतीर्थविरचिताखण्डार्थः
पुनरपि शिष्यान् प्रति गुरूपदेशप्रकार एवोच्यते - आवि- रित्यादिना ।। आविः प्रकटं यथा भवति तथा वैकुण्ठादिस्थानत्रये सम्यङ्निहितं जीवगुहायां चरतीति गुहाचरं महत् बहिरपि व्याप्तम् । पद्यत इति पदं प्राप्यम् । यद्वा महत्पदं महाप्राप्यं प्रधानप्राप्यम् । अर्चिरादि- साधारण्यप्रतीतिवारणायेदं विशेषणम् । उक्तस्य सर्वस्य प्रसिद्धियोतकं नामेत्यव्ययम् । ‘यदेजत्’ चेष्टमानं 'प्राणत्' जीवनकृत् ‘निमिषत्’ अक्षि- पक्ष्मचलनवत् इत्येतत्सर्वंमंत्र हरौ समर्पितं तदाधारतया तिष्ठतीत्यर्थः ॥ १॥
उपनिषत्
एतज्जानथ सदसद्वरेण्यं
परं विज्ञानाद् यद्वरिष्ठं प्रजानाम् ।
यदर्चिमद् यदणुभ्योऽणु च
यस्मिन् लोका निहिता लोकिनश्च ॥२॥
भाष्यम्
विज्ञानाद्ब्रह्मणः परम् । ‘नाभिहृदादिह सतोऽम्भसि यस्य पुंसो ‘विज्ञानशक्तिरहमासमनन्तशक्तेः' इति हि भागवते ॥
पदार्थदीपिका
तत्र ‘परं विज्ञानात्' इत्यवबोधात्परत्वमुच्यमानमसङ्गतमित्यतो विज्ञानशब्दार्थमाह- विज्ञानादिति । ब्रह्मणश्चतुर्मुखादित्यर्थः । यद्यपि ‘विज्ञानतत्त्वं गुणसन्निरोधम्' इत्यादिवचनाद्विज्ञानशब्दवाच्यं महत्तत्त्वं प्रसिद्धं तथापि तदभिमानित्वादभिमान्यधिकरणन्यायेन विज्ञानशब्द- वाच्यत्वं मुख्यतश्चतुर्मुखस्यैवेति भावः । वरिष्ठमित्यनेनान्वयप्रतीतिवारणाय परमित्यनुवादेनान्वयो दर्शितः । ब्रह्मणो विज्ञानशब्दवाच्यत्वे हरेस्तत्परत्वे च प्रमाणमाह- नाभिहृदादिति । भागवते भगवन्तं प्रति चतुर्मुखवचनमिति शेषः । तेनाहमित्युपपन्नम् । यच्छब्दस्य 'रूपं विचित्रमिदमस्य विवृण्वतो मे मा रीरिषीष्ट निगमस्य गिरां विसर्ग : ' (भाग ३.१०.२४) इत्युत्तरार्धेनान्वयो द्रष्टव्यः । तथा चायं श्लोकार्थः । इहाम्भसि लयकालीने उदके सतो विद्यमानस्य अनन्तशक्तेर्यस्य पुंसो नाभिहृदाद्विज्ञान- शक्तिर्विज्ञानशब्दवाच्यमहत्तत्त्वप्रेरणे शक्तिर्यस्यासौ विज्ञानशक्तिरहमासम् अस्य परमपुरुषस्य रूपं प्रतिमास्थानीयमिदं विश्वं विवृण्वतो विस्तरेण कुर्वतो मे निगमस्य वेदस्यावयवभूतानां गिरां वाक्यानां पदानां च विसर्गो विशिष्टमुच्चारणं व्याख्यानं वा मा रीरिषीष्ट मा लुप्यतामिति । तथा चात्र महत्तत्त्वस्य विज्ञानशब्दवाच्यत्वोक्त्याऽभिमान्यधिकरणन्यायेन मुख्यतो ब्रह्मण एव तच्छब्दवाच्यत्वम् । तस्य च परमपुरुषनाभिहृदजातत्वोक्त्या हरेस्तत्परत्वं च सिद्धमित्यवगन्त्यम् ।।
श्रीनिवासतीर्थविरचिताखण्डार्थः
एतत्सदसद्वरेण्यं कार्यकारणाभ्यां श्रेष्ठं मूर्तामूर्तप्रपञ्चाभि- मानिदेवैर्वरणीयमिति वा जानथ । यद्विज्ञानाद्विज्ञानशब्दवाच्य- महत्तत्वाभिमानितया मुख्यविज्ञानशब्दवाच्याद् ब्रह्मणश्चतुर्मुखात् परम् उत्तमं प्रजानां वरिष्ठम् अतिशयेनोत्तमम् । यदर्चिमत् अर्चिष्मत् कान्तिमत् यदणुभ्योऽणु परमसूक्ष्मम् । लोका भूरादयः । लोकिनस्तत्रत्या जनाश्च । यस्मिन्निहितास्तदेतदक्षरनामकं ब्रह्मैव || २ ||
उपनिषत्
तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ् मनः ।
तदेतत् सत्यं तदमृतं तद् वेद्धव्यं सोम्य विद्धि ॥ ३ ॥
भाष्यम्
'प्राण: प्रणयनाद् विष्णुर्वक्तृत्वाद् वागुदीरितः ।
मनो मन्तृत्वतो विष्णुः सर्वजीवनियामकः ॥ '
इति शब्दनिर्णये ॥
पदार्थदीपिका
श्री.टी. - ‘स प्राणस्तदु वाङ्मनः' इत्यत्र विष्णोः प्राणाद्यभेदेन तच्छब्द- वाच्यत्वमुच्यत इत्यन्यथाप्रतीतिनिरासाय प्राणादिशब्दान् विष्णौ प्रमाणेनैव निर्वक्ति- प्राण इति ॥ प्रणयनात् प्रकर्षेण प्रेरणात् । प्रकर्षेण ऊर्ध्वमिति यावत् । भक्तानां नयनादिति वा । मन्तृत्वतो ज्ञातृत्वतः सर्वजीव- नियामकतया तदन्तर्गतो हरिः प्रणयनादिनिमित्तैः प्राणादिशब्दैरुच्यत इत्यर्थः ।।
श्रीनिवासतीर्थविरचिताखण्डार्थः
सः अक्षरशब्दवाच्यो विष्णुः प्रणयनात् प्राणः । ' तदु' तदेव ।
वक्तृत्वाद्वाक् मन्तृत्वान्मनः । तदेतत्सत्यं सद्भिः प्राप्यं तदेवामृतं मृतिरहितं तदेव वेद्धव्यं लक्ष्यं विद्धि । तत्कर्मकं बेधं कुर्वित्यर्थः ॥ ३ ॥
उपनिषत्
धनुर्गृहीत्वौपनिषदं महास्त्रं
शरं ह्युपासानिशितं सन्दधीत ।
आयम्य तद्भावगतेन चेतसा
लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥ ४ ॥
श्रीनिवासतीर्थविरचिताखण्डार्थः
वेधोपयुक्तं धनुश्शरादिकं दर्शयति- धनुरिति ॥ औपनिषदम् उपनिषत्प्रसिद्धम् । धनुर्गृहीत्वा तस्मिन् धनुषीति शेषः । महात्रम् अस्त्र- श्रेष्ठम् । उपासया निशितं तीक्ष्णीकृतं शरं सन्दधीत सम्यक् स्थापयेत् । अनन्तरं तद्धनुरायम्य विस्तार्य शरयुक्तां ज्यां कर्णान्तमानीयेति यावत् । तद्भावगतेन चेतसा स चासौ भावश्चेति तद्भावः । तस्मिन् लक्ष्यभूतपदार्थ एव स्थितेनान्तःकरणेन तदक्षरं पूर्वोक्तविशेषणविशिष्टमक्षरनामकब्रह्मैव लक्ष्यं तत् विद्धि तद्विषयकं वेधं कुर्वित्यर्थः ॥ ४ ॥