भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः

उपनिषत्

(अपरोक्षज्ञानमहिमा)

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।

क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ ११ ॥

भाष्यम्

'परा अप्यवरा यस्मात् स हि विष्णुः परावरः ।

पदार्थदीपिका

' भिद्यते' इति मन्त्रे 'तस्मिन् दृष्टे परावरे' इत्येतद्ब्रह्मादि- देवात्मकत्वेन परेऽस्मदाद्यात्मकतयाऽवरे तस्मिन् हरौ दृष्टे सति अस्य कर्माणि क्षीयन्ते इत्यन्यथाप्रतीतिनिरासाय प्रमाणेनैव व्याचष्टे - परा अपीति ॥ सर्वजीवोत्तमा ब्रह्माद्या देवा अपीत्यर्थः ॥

श्रीनिवासतीर्थविरचिताखण्डार्थः

तदपरोक्षज्ञानजन्यं फलमाह - भिद्यत इत्यादिना ॥ परा उत्तमा ब्रह्माद्या अवरा यस्मादसौ परावरस्तस्मिन् भगवति दृष्टे सति । अस्यापरोक्ष- ज्ञानिनः कर्माणि अप्रारब्धानि क्षीयन्ते भस्मीभवन्ति । पश्चाद्धृदय- ग्रन्थिरविद्या लिङ्गशरीरमिति यावत् । भिद्यते विदीर्णं भवति नयतीति यावत् । तत्प्रयुक्ताः सर्वे संशयाश्छिद्यन्त इत्यर्थः ।। ११ ।।