यथा सुदीप्तात् पावकाद् विष्फुलिङ्गा सहस्रशः प्रभवन्ते सरूपाः

तृतीयः खण्डः

ऋगादिशास्त्रस्य परविद्यात्वापादको मुख्योऽर्थः कः ? यदर्थतया ऋगादिशास्त्रं ब्रह्मविद्यात्वेन प्रोवाचेत्यत ऋगादिशास्त्रमुख्यार्थो विश्वस्रष्टृत्वादिगुणविशिष्टो हरिरिति भावेनाऽऽह तदेतदिति ॥

तदेतत् सत्यम् ।

यथा सुदीप्तात् पावकाद् विष्फुलिङ्गा सहस्रशः प्रभवन्ते सरूपाः ।

तथाऽक्षराद् विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति ॥ १ ॥

वक्ष्यमाणं प्रमेयं सत्यं न मिथ्येत्यर्थः । विष्फुलिङ्गाः अग्निकणा: प्रभवन्ते प्रभवन्ति । सरूपाः प्रकाशेन सदृशा: विवि

धा : देवदानवमानवादिभेदेन नानाविधाः भावा: पदार्थाः । सोम्य सोमपानार्हति शौनकस्य सम्बो- धनम् । तत्रैव चाक्षरे अपियन्ति प्रलये तदुदरे लीयन्ते ।अक्षरात् सम्भवतीह विश्वम्' इति प्रागुक्तस्य प्रपञ्चनादपौनरुक्त्यम् ॥ १ ॥

अक्षरस्य सृष्ट्युपयुक्तगुणान् वदन् जगत इव न तस्य जन्मादीत्याह - दिव्य इति ॥

दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः ।

अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात् परतः परः ॥ २ ॥

दिव्योऽत्यद्भुतः । अमूर्तो नियतपरिच्छिन्नपरिमाणरहितः । किन्तु बाह्योऽभ्यन्तरश्च ।अप्राणो ह्यमना' इति षोडशकलाराहित्यमुच्यते । शुभ्रः शुद्धः । अक्षराज्जडप्रकृतेः परतः श्रीतत्त्वात् पर उत्तमः || ||

एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च ।

खं वायुर्जोतिरापः पृथिवी विश्वस्य धारिणी ॥ ३ ॥

एतस्मात् पराक्षरात् प्राणो मुख्यवायुः । विश्वस्य धारिणी पृथिवीत्य- न्वयः । अत्र जडतदभिमानिनामुभयेषां ग्रहणम् ।। ३ ।।

'एतस्माज्जायते प्राण:' इत्यादिना सामान्यत उक्तम् । तत्किम्? कस्मादङ्गाज्जातमित्यत आह- अग्निर्मूर्धेति ॥

अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग् विवृताश्च वेदाः ।

वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ ४॥

अस्य प्रकृताक्षरस्य भगवतो मूर्धा अनि:, अत्तृत्वनिमित्तेनाग्निनामाऽ–ग्निजनकश्च । अग्याख्यमूर्धजत्वादग्नेरग्निनाम । कार्यकारणयोः 'गोभिः, श्रीणीत मत्सरम्' इत्यादाविवाभेदोपचारेणायं निर्देश: । एवमुत्तरत्रापि । चक्षुषी चन्द्रसूर्यौ । आह्लादकत्वादिहेतुना चन्द्रसूर्यनामके चन्द्रसूर्यजनके च । श्रोत्रे दिशः । दिशन्त्यभीष्टमिति दिङ्नामके, दिशां जनके च । वाक् भगवतो वाक् विवृतवेदनामिका विवृतशब्दितविस्तीर्णवेदजनिका, विवृता अभिव्यक्ता वा । भगवत: प्राणो वायुः वायुनामा वायुजनकः । विश्वमिति काचिद्देवता । हृदयं विश्वनामकं विश्वजनकं च । पद्भ्यां पृथिवीत्यन्ते श्रवणात्पूर्वत्रापि जन्यजनकभावेन अग्निर्मूर्धेत्यादिनिर्देश इति ज्ञायते । हि शब्दःपद्भयां भूमिः' इत्यादिश्रुत्यन्तरप्रसिद्धिद्योतकः । न केवलं सृष्टिसंहारकर्ता नियमनकर्ता चेत्याह- एष सर्वभूतान्तरात्मा । अन्तः स्थित्वा आदानादिकर्तृत्वादन्तरात्मा || ||

एवमङ्गेभ्य उत्पत्तिमुक्त्वा खियामुत्पत्तिमाह- पुमानित्यादिना ॥

तस्मादग्निः समिधो यश्च सूर्यः सोमात् पर्जन्यौषधयः पृथिव्याम्।

पुमान् रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात् सम्प्रसूताः ॥५॥

तस्मादग्निस्समिधश्च पृथिव्यां जायन्त इति शेषः । यश्च सूर्य : तस्मात्सूर्यात्सोमाच्च पर्जन्य: वृष्टिः, पर्जन्यात् पृथिव्यामोषधयश्च जायन्त इत्यर्थः । पूर्णत्वेन हेतुना पुमात्रामा वासुदेवो योषितायां योषिति, हलन्ताद्वेति टाप्, रमायां रेतः सिञ्चति । प्रलये स्वोदरे निवेशितं जगद्रेतो- वद्रमायां निदधातीत्यर्थः । ततो बह्वीः बह्वयः ; प्रजा पुरुषात् पूर्ण- गुणाद्वासुदेवात् सम्प्रसूताः ॥ ५ ॥

तस्मादृचः साम यजूंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च ।

संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ॥ ६ ॥

न केवलं प्रजाः, अन्यदपीत्याह तस्मादिति ॥ पुरुषादित्यर्थः । ऋच इत्यादौ सम्प्रसूतपदानुषङ्गो यथायोगं ध्येयः । तत्र प्रसवोऽभिव्यक्तिः। यज्ञा अग्निहोत्रादयः । सर्वे क्रतवः सोमयागाः पशुसम्बद्धा: । अत्र ऋगादि- शब्दैस्तदभिमानिनश्च ग्राह्याः । यजमानः यज्ञक्रतूनामनुष्ठाता सम्प्रसूत इत्यर्थः । लोका इत्युक्तं, ते के लोका इत्यत आह- 'सोमश्चन्द्रो यत्र पवते चरति, सूर्यो यत्र पवते ते लोका इत्यर्थः || ||

तस्माच्च देवा बहुधा सम्प्रसूताः साध्या मनुष्याः पशवो वयांसि ।

प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ॥ ७॥

तस्मात्पुरुषात् योषिद्वारा देवा बहुधा सम्प्रसूताः । तथा साध्या- दयोsपि सम्प्रसूताः : । वयांसि पक्षिणः । तपश्च कृच्छ्रचान्द्रायणादि । श्रद्धा आस्तिक्यबुद्धिः । सत्यं यथार्थवचनम् । सम्प्रसूतपदस्य यथायोगमनुषङ्गस्सर्वत्र ज्ञेयः ॥ ७ ॥

सप्त प्राणाः प्रभवन्ति तस्मात् सप्तर्चिषः समिधः सप्त होमाः । इमे लोका येषु चरन्ति प्राणा गुहाशयां निहिताः सप्त सप्त ॥ ८ ॥ सप्त प्राणा: घ्राणरसनचक्षुः श्रोत्रत्वङ्गनोबुद्धिरूपाणि सप्तेन्द्रियाणि प्रभवन्ति तस्मात् पुरुषाद् योषिद्वारेति भावः । तेन 'एतस्माज्जायते प्राणो मनः' इत्यादिना पूर्वत्रेन्द्रियाणां सृष्ट्युक्तावपीह योषिद्वारकसृष्ट्युक्तेर्न पुनरुक्तिरिति ज्ञेयम् । सप्तार्चिषस्सप्तेन्द्रियवृत्तयः । समिध: गन्धादिविषयाः । होमा इन्द्रियाणां विषयैः सम्बन्धास्सप्तेत्यर्थः । इमे लोका: सप्त, ते के लोका इत्यत आह- येषु स्थित्वा प्राणास्सप्त चरन्ति, विषयैस्सह सम्बद्धा भवन्तीत्यर्थः । इन्द्रियगोलका इति यावत् । किमर्थं सृष्टाः प्राणा इत्यत

आह - गुहाशयां गुहाशयायाम्, गुहा हृदयमाशयः स्थानं यस्यास्तस्यां बुद्धौ, निमित्तसप्तमी । प्राणिनां ज्ञानोत्पत्त्यर्थं प्रतिशरीरं सप्त सप्त प्राणा निहिताः सन्तो येषु चरन्ति ते लोका इत्यन्वयः । तथा च सूत्रम्-सप्तगतेर्विशेषितत्वाच्च’ (ब्र.सू.२-४-६) इति ।। ८ ।।

अतः समुद्रा गिरयश्च सर्वेऽस्मात्स्यन्दन्ते सिन्धवः सर्वरूपाः।

अतश्च सर्वा ओषधयो रसाश्च येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥९॥

।। इति तृतीयः खण्डः ||

अतोऽस्मात्पुरुषात् प्रभवन्तीत्यनुषङ्गः । सर्वरूपाः सर्वदिमुखाः । सिन्धवो नद्यः, अस्मात्पुरुषात्स्यन्दन्ते प्रवहन्ति, रसाश्च प्रभवन्तीति योज्यम् । येन पुरुषेण योषिद्वारा सृष्टैर्भूतैस्सहान्तरात्मा अन्तर्यामिरूपी तिष्ठते तिष्ठति स पुमानेतत्सर्वं ससर्जेत्यर्थः || ||

|| इति तृतीयः खण्डः ||