open/close
पञ्चमः खण्डः
षष्ठः खण्डः
टीका_टिप्पणि
अपर_ परविद्यास्वरूपम्
कृते समग्रमपि वैदिकवाङ्मयं विष्णुपरम्
ता एव परमा विद्या:
ब्रह्मस्वरूपम्
ब्रह्म जगतः नोपादानं न वा विवर्तकारणम्
ज्ञानपूर्विका विश्वसृष्टिः
द्वितीयः खण्डः
यज्ञानुष्ठानप्रकारनिरूपणम्
विहितयज्ञकर्माद्यननुष्ठाने प्रत्यवायः
होमाधिकरणनिरूपणम्
सम्यग्यज्ञादिकुर्वतां फलम्
भगवदविषयककर्मणां बन्धकत्वनिरूपणम्
विष्णुप्रीतयेऽनुष्ठितानि कर्माणि ज्ञानद्वारा मुक्तिफलकानि
विरक्तः गुरुमेव समाश्रयेत्
तृतीयः खण्डः
विष्णुकृतायाः सृष्टेः निरूपणम्
चतुर्थः खण्डः
विष्णुरेव विजिज्ञास्यः
प्रणवेन ब्रह्मविद्धि
विष्णुरेव मुक्तिप्रदः
विष्णुर्गुणपूर्ण इति ध्यायते
हृदयाकाशे विष्णुर्विराजते
अपरोक्षज्ञानमहिमा
सूर्यमण्डले विष्णुरुपास्यः
पञ्चमः खण्डः
अश्नन्नपि जीवः दुःखी ईशस्त्वनश्नन् नित्यसुखी
निर्दुःखत्वपूर्णानन्दत्वादिना साम्यम्
जीवन्मुक्तस्थितिः
हरिभक्तस्यैव तत्प्राप्तिः
प्राणप्रसादान्मुक्तिः
आत्मवेदिन: महिमा
षष्ठः खण्डः
यं भक्तत्वेन भगवान् वृणुते तस्यैव स लभ्यः
श्रवणाद्युपाया अनुष्ठेयाः
अपरोक्षानन्तरमेव न मुक्ति:
एकीभावो न स्वरूपैक्यम्
मुक्तौ नामरूपादिनाऽविमुक्त एव ब्रह्मणा सह तिष्ठति
ब्रह्मविदः फलम्
उपनिषदध्ययने अधिकारिणः के?
भाष्येऽन्तिममङ्गलाचरणम्
श्रीराघवेन्द्रतीर्थपूज्यपादविरचितः मुण्डकोपनिषत्खण्डार्थ:
द्वितीयः खण्डः
तृतीयः खण्डः
चतुर्थः खण्डः
पञ्चमः खण्डः
षष्ठः खण्डः
तुलनात्मक विश्लेषणम्
प्रश्न-उत्तर
open/close
यं यं लोकं मनसा संविभाति ..
उपनिषत्
(आत्मवेदिन: महिमा)
यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामां-
स्तस्मादात्मज्ञं ह्यर्च्चयेद् भूतिकामः
॥ इति पञ्चमः खण्डः ॥ ॥ १० ॥
श्रीनिवासतीर्थविरचिताखण्डार्थः
'प्राणो ह्येष : ' इति प्रकृतस्यापरोक्षज्ञानिनो जीवन्मुक्तयवस्थस्य महिमानमाह- यं यमिति । विशुद्धसत्त्वो विशुद्धे भगवति सत्त्वमन्तःकरणं यस्यासौ विशुद्धसत्त्वोऽपरोक्षज्ञानी यं यं लोकं मनसा संविभाति भावयति इच्छति यांश्च कामान् काम्यान् कामयते तं तं लोकं तांश्च कामाञ्जयते प्राप्नोति । 'ज्ञानादेव स्वर्गों ज्ञानादेवापवर्ग:' इत्यादिप्रमाणप्रसिद्धमंत्र हिशब्देन दर्शयति । तस्मादपरोक्षज्ञानिनः सत्यकामत्वादिप्रभाववत्त्वा- दन्योऽपि भूतिकामः पुमानात्मज्ञं भगवदपरोक्षज्ञानिनमर्चयेदित्यर्थः । इदमपि प्रकरणप्रसिद्धमिति हिशब्दः || १० ।।
॥ इति पञ्चमखण्डमन्त्रार्थः ॥