आनन्दमजरं नित्यमजमक्षयमच्युतम् । अनन्तशक्तिं सर्वज्ञं नमस्ये पुरुषोत्तमम् ॥
मुण्डकोपनिषद्भाष्यम्
श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं
मुण्डकोपनिषद्भाष्यम्
(आथर्वणोपनिषद्भाष्यम्)
(आथर्वभाष्ये मङ्गलाचरणम्)
भाष्यम्
आनन्दमजरं नित्यमजमक्षयमच्युतम् ।
अनन्तशक्तिं सर्वज्ञं नमस्ये पुरुषोत्तमम् ॥
पदार्थदीपिका
आनन्दादिगुणोद्रिक्तं स्वाश्रितानन्ददायकम् ।
आनन्दमुनिपं व्यासं स्वानन्दाय भजे मुहुः || १ ||
श्रीमदानन्दतीर्थार्यचरणावाश्रयेऽनिशम् ।
रुद्रादिसर्वविबुधैः संसेव्याविष्टदौ सदा || २ ||
येन वेदान्तभाष्याणि विवृतानि महात्मना ।
तं वन्दे व्यासतीर्थाख्यं जयराजनिषेवकम् ।। ३ ।।
वेदव्यासकरोद्भूतान् वेदेशाभिधयोगिनः ।
छान्दोग्यभाष्यसट्टीकाकर्तृन् वन्दे निरन्तरम् ॥ ४ ॥
श्रीमध्वाास्त्रं समुदीर्य मेऽस्मिन् विश्वासहेतोः समदर्शयन् ये ।
प्रदानसूत्रप्रतिपाद्यभावान् वन्दे गुरूंस्तान् यदुवर्यसञ्ज्ञान् ॥ ५ ॥
अथैतत्कृपया श्रीनिवासाख्यायुतसूरिणा ।
आथर्वणोपनिषदो भाष्यं व्याक्रियते मया ॥ ६ ॥
इह विविधसांसारिकदुःखदर्शनेन विरक्तस्य शमदमादिमतो मुमुक्षोरधि- कारिणः आत्यन्तिकानिष्टनिवृत्तीष्टप्राप्तिहेतुभूतभगवत्स्वरूपज्ञापनाय प्रवृत्तापीयमाथर्वणी मन्त्रोपनिषदन्यैरन्यथाव्याख्यातत्वेन न तज्ज्ञापन-समर्थेति मन्यमानो भगवानानन्दतीर्थमुनिस्तां यथावद्व्याचिख्यासुः स्वयम् अन्तरायविधुरोऽप्यनवरतमीश्वरप्रवणकायकरणवृत्तिरपि निरन्तराय - प्रारिप्सितपरिसमाप्तेः प्रचयस्य च हेतुतयाऽविगीतशिष्टाचारपरम्परावगत- मेतदुपनिषत्प्रतिपाद्यगुणवद्भगवत्स्तुतिनतिरूपं मङ्गलं शिष्यशिक्षार्थं ग्रन्थादावुपनिबध्नाति- आनन्दमिति ॥ अहं पुरुषोत्तमं नित्यं सर्वदा नमस्ये नमामीति सम्बन्धः । नित्यं नमस्य इत्यनेन न मम पुरुषोत्तमवन्दनं प्रत्यूह- विरहादिप्रयोजनोदशेन किन्तु स्वभावादेवेति सूचयति । यद्वा नित्यं स्वरूपतः । अजमुत्पत्तिरहितम् । अत एवाजरम् । स्वरूपनित्यत्वेऽपि गुणद्वारा नाशः किन्न स्यादित्यत उक्तम् अच्युतमिति ॥ गुणतयुति- रहितमित्यर्थः । अक्षयं देहतोऽपि क्षयरहितम् । तत्र हेतुमाह- आनन्द- मिति ॥ आनन्दात्मकविग्रहवन्तमित्यर्थः । यद्वा गुणानां च्युत्यभावेऽपि ह्रासः किन्न स्यात् स्वोत्तमद्रोहादिना मौक्तमानुषानन्दादिवदित्यत उक्तम्- अक्षयमिति ॥ अर्श आद्यजन्तोऽक्षयशब्दः । तथा च क्षयो ह्रास एषामस्तीति क्षयाः गुणास्तैः रहितोऽक्षयस्तमित्यर्थः । स्तुतिपदानां च विशेष्यप्रशंसैव प्रयोजनमिति प्रसिद्धमेव । वक्ष्यते चैतत् । ‘आनन्दरूपममृतं यद्विभाति’ इत्यानन्दत्वम् । ‘विरजं ब्रह्म' इत्यत्र वर्णव्यत्यासेनाजत्वा- द्युक्तार्थाद्वा अजरत्वम् । ‘नित्यं विभुम्' इति नित्यत्वम् । ‘स बाह्याभ्यन्तरो ह्यजः’ इत्यजत्वम् । ‘यया तदक्षरमधिगम्यते' 'तदव्ययम्' इत्यत्राक्षर- शब्दाव्ययशब्दाभ्यामक्षयत्वमच्युतत्वं च ‘यथा सुदीप्तात्' इत्यादिना सृष्ट्याद्युक्ताऽनन्तशक्तित्वम् । ‘यः सर्वज्ञः' इति सर्वज्ञत्वं चेत्यत्रगन्त- व्यम् | अधिकृतैव हि देवता स्वविषयकग्रन्थप्रबोधादिकं सम्पादयतीति भावः । अनेन पुरुषोत्तमो विषयस्तत्प्राप्तिः प्रयोजनम् । योग्यस्तदिच्छु- रेवाधिकारी यथायोग्यं सम्बन्ध इति सूचनेन निर्विषयत्वादिप्रयुक्ताना- रम्भणीयताशङ्का परिहृतेति ज्ञातव्यम् ॥