एतेषु यश्वरते भ्राजमानेषु यथाकालं चाऽहुतयो ह्याददायन्
- उपनिषत्
- (सम्यग्यज्ञादिकुर्वतां फलम् )
- एतेषु यश्वरते भ्राजमानेषु
- यथाकालं चाऽहुतयो ह्याददायन् ।
- तं नयन्त्येताः सूर्यस्य रश्मयो
- यत्र देवानां पतिरेकोऽधिवासः ॥५॥
- श्रीनिवासतीर्थविरचिताखण्डार्थः
एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति
'सहयज्ञाः प्रजाः सृष्ट्वा' इत्युक्त्वा..
अग्निष्टोमादिभिर्यज्ञैः सर्वदेवस्थितं हरिम्
एतेषु यश्वरते भ्राजमानेषु यथाकालं चाऽहुतयो ह्याददायन्
उपनिषत्
(सम्यग्यज्ञादिकुर्वतां फलम् )
एतेषु यश्वरते भ्राजमानेषु
यथाकालं चाऽहुतयो ह्याददायन् ।
तं नयन्त्येताः सूर्यस्य रश्मयो
यत्र देवानां पतिरेकोऽधिवासः ॥५॥
श्रीनिवासतीर्थविरचिताखण्डार्थः
यो यजमानः भ्राजमानेषु 'भ्राजू दीप्तौ' लिङ्गव्यत्ययेन दीप्यमानासु एतेषु एतासु सप्तजिह्वासु चरते । चरणमेव विवृणोति । यथाकालं तत्तत्कालानुसारेण आहुतयः आहुतीः देवतोद्देशेन आददायन् आददन् वर्तते । ता एता गृहीताहुतयः सूर्यस्य रश्मयः सूर्यरश्मिषु स्थिता देवाः यत्र लोके देवानां पतिरेकः प्रधानः अधिवासोऽधिकाश्रयो मुख्याश्रय इति यावत् । वर्तते तत्र लोके तं लोकमिति यावत् । नयन्ति ॥ ५ ॥