यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुः..
(ब्रह्मस्वरूपम्)
यत्तदद्रेश्यमग्राह्यमगोत्रमवर्ण-
मचक्षुःश्रोत्रं तदपाणिपादम् ।
नित्यं विभुं सर्वगतं सुसूक्ष्मम् तदव्ययं
यद् भूतयोनिं परिपश्यन्ति धीराः ॥ ६ ॥
श्रीनिवासतीर्थविरचिताखण्डार्थः
खण्डार्थः
श्री. प्रसिद्धाकारादेरत्रोक्ताक्षरत्वाशङ्कानिरासायाक्षरस्वरूपं निरूपयति- यत्तदद्रेश्यमित्यादिना ॥ यत्तत्पूर्वोक्तमक्षरं अद्रेश्यम् अग्राह्यं केनापि गृहीतुमशक्यम्, अगोत्रं भारद्वाजादिप्रसिद्धगोत्रशून्यम् अवर्ण प्राकृतवर्णशून्यम् अचक्षुःश्रोत्रं तदुपलक्षितप्राकृतज्ञानेन्द्रियरहितम्, अपाणिपादं तदुपलक्षितप्राकृतकर्मेन्द्रियरहितम्, अपाणिपादं पाणि- पादाद्युपलक्षितप्राकृतशरीररहितमित्यर्थः । नित्यं स्वरूपतो देहतश्चा- विनाशि । विभुं समर्थम् । सर्वगतं सर्वत्र व्याप्तम् । सुसूक्ष्मं जीवादप्यतिशयेन सूक्ष्मम् । अव्ययं गुणतो नाशशून्यम् । नन्वेवमक्षरस्यादृश्यत्वे ‘यया तदक्षरमधिगम्यते' इति दृश्यत्वोक्तिर्विरुद्धा स्यादित्यत आह-यद्भूतयोनिमिति । भूतयोनिं जगत्कारणं यदक्षरं तद्धीराः परिपश्यन्ति । अनेनाधीराणामदृश्यमित्यर्थत्वान्न विरोध इति भावः ।। ६ ।।