हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम्

उपनिषत्

(सूर्यमण्डले विष्णुरुपास्यः)

हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् ।

तच्छुभ्रं ज्योतिषां ज्येतिस्तद्यदात्मविदो विदुः ॥ १२ ॥

भाष्यम्

'ब्रह्माण्डमध्यगो नित्यं तपत्येष रवौ स्थितः ॥ ' इति च ॥

पदार्थदीपिका

'हिरण्मये परे कोशे' इत्यनेन ब्रह्मोपास्तौ किमधिष्ठानमुक्तं स्यादित्यतस्तद्दर्शयति- ब्रह्माण्डेति । ब्रह्माण्डमध्यगे सूर्यमण्डले स्थिते रवौ स्थितः सन्नित्यं तपतीत्यन्वयः । एतादृशं ब्रह्म विदुरिति श्रुत्यर्थो द्रष्टव्यः । न तत्र सूर्यो भातीत्यादिकं सूर्यादयो ब्रह्माद्याधारत्वेन पृथक् न भान्ति ।

श्रीनिवासतीर्थविरचिताखण्डार्थः

एवं शरीरे उपासनास्थानमुक्त्वा ब्रह्माण्डमध्यस्थसूर्यमण्डलान्तर्गते सूर्याख्यस्थाने चोपास्तिप्रकारमाह- हिरण्मय इति ॥ हिरण्मये कोशे ब्रह्माण्डे तन्मध्यस्थिते हिरण्मये तद्वत्पीतरूपोपेते सूर्यमण्डले स्थिते परे वरुणाद्युत्तमे सूर्ये स्थित्वा तपनक्रियां कुर्वाणमिति शेषः । यत्तद्ब्रह्म विरजं रजआदिगुणशून्यं वर्णव्यत्यासेन विजरं जराशून्यमिति वा । निष्कलं षोडशकलात्मकदेहरहितं अत एव शुभ्रं शुद्धं ज्योतिषां सूर्यादिज्योतिषां ज्योतिष्ट्वप्रदं पूर्वे आत्मविदः सूर्यान्तर्गतभगवदुपास्तिप्रकारविदो ज्ञानिनो विदुर्यस्मात्तस्माद्भवद्भिरपि तत्र तथोपास्तिः कर्तव्येति भावः ।। १२ ।।

Load More