द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते
॥ अथ पञ्चमः खण्डः ॥
उपनिषत्
(जीवेशाभेदप्रतिषेधः)
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥ १ ॥
भाष्यम्
स्वादुवत् सर्वदाऽत्ति । न स्वाद्वेव । ' तस्येदाहुः पिप्पलं स्वाद्वग्रे तन्नोऽन्नशद्यः पितरं न वेद' इत्यज्ञानां स्वादुनिषेधात् । जीवायमेव नाश्नाति भगवान् । न तु नाश्नात्येव । ' तस्येदाहुः पिप्पलं स्वादु' इत्युक्तत्वात् ।
'स्वातन्त्र्येणैव भोक्तृत्वाद्दुःखाभोगाच्च सर्वदा ।
अभोक्ता चैव भोक्ता च भगवान् विष्णुरव्ययः' ॥ इति तत्त्वसारे ॥
श्रीवादिराजीयाप्रकाशिका
एवं श्रुतिः सर्वस्रष्टृत्वेन सर्वनियामकत्वेन ज्ञानानन्दरूपत्वेनाऽना- द्यनन्तकालेष्वपि मरणरहितत्वेन सर्वव्याप्तत्वादिना स्पष्टं ‘परावरम्’ 'वरिष्ठम्' इत्यादिशब्दैश्च विष्णोः सर्वोत्तमत्वमनीदृशसकलजीव- जडात्मकात् प्रपञ्चादत्यन्तभेदं चाऽभिधायाऽधुना परपक्षप्रतिक्षेपस्याssव- श्यकत्वात् कुसमयप्राप्तं जीवेश्वरैक्यं सयुक्तिकं दूषयितुमाह- द्वा सुपर्णेति ॥ द्वाद्वौ सुपर्णा सुपर्णौ पक्षिणौ सयुजावेकस्मिन् देहे सह उपजीव्योपजीवकतया संयुक्तौ सखायौ ब्रह्माद्युत्तमजीवापेक्षया परस्परमनोनुकूलौ, समानं वृक्षमाधारत्वेनोभयोः समानं देहाख्याश्वत्थवृक्षं परिषस्वजाते परित आलिङ्ग्य तिष्ठतः । तयोः पक्षिणोर्मध्येऽन्यः परमात्मनोऽत्यन्तभिन्नः । सोऽयं न अयं स नेत्याकारेणान्योन्या- भावाख्यभेदो ह्यन्यशब्दार्थः । तथा च कथं नात्यन्तभेदासिद्धिः । पिप्पलं देहाख्याश्वत्थवृक्षफलस्थानीयं प्रचुरदुःखमिश्रमीषत्सुखाख्यफलम्, अत एवास्वाद्वपि स्वादु विषसम्पृक्तान्नमिव रागोद्रेकात् स्वाद्वित्यभिमन्यमानः अत्ति । तथा हि- अन्नरसाऽस्वादनात् यदीषत्सुखं तत् काष्ठाऽनयन- तण्डुलयाचनतण्डुलावहननकूपस्थजलोद्धरण भाण्डयाचन पाचनादि- नाऽऽदौ बहुदुःखभरितं, मध्ये च धर्मजिह्वादनौदनचर्वणादिना, अन्ते आलस्य, अजीर्ति पाददाहमरणादिना दुःखभरिततया सर्वेषामप्यनु-भवसिद्धम् । किं बहुना अतिबलवतां देवानामपि सुधारसास्वादनाय मन्दरगिरेरुद्धरणानयनाधःपातन बाहूदरमुखनासिकाच्छेदादिनाऽऽदौ, मध्ये फणोत्पन्नेन विषवायुना कालकूटोष्मणा बहुभारभरितगिर्यावर्तनेन, अन्तेऽसुरै सह युद्धादिना बहुक्लेशभरितमिति भागवतादिपुराणेष्वेव प्रपञ्चितम् । किं चेयं श्रुतिः स्वयमेव 'अनीशया शोचति मुह्यमानः' इति वक्ष्यति । तस्मान्यायकोविदैरेवमेव श्रुतेरर्थो वक्तव्यः । भगवांस्तु तत्रापि लीलया वामेन करेण गिरिमुद्दधार । रुग्णान् देवान् स्वदृष्ट्या जीवयामास । मग्नं च पर्वतं लीलयैबोन्निन्ये । असुरांश्च लीलयैव जिगाय । सुरानेव सुधारसमपा- ययत् । स्वयं तु न पपौ । अतो जीव एवास्वादु च स्वादुत्वेनात्ति । अन्यो जीवादन्यो भगवांस्तु ईदृशं सुखमनश्नन्नभितश्चाकशीति अतिशयेन प्रका- शते । दुःखासम्भिन्नं स्वादुसुखमुक्तविधयाऽसम्भवात् नाश्नति (जीवः)। 'तस्येदाहु: पिप्पलं स्वाद्वो तन्नोन्नशद्यः पितरं न वेद' इति औत्तरश्रुतिवाक्ये स्वादु केवलसुखमिदमित्थमग्रे तस्य परमात्मन एवाऽऽहुः । तत्सुखं यः पितरं परमात्मानं न वेद जीवः स नोऽनशत् नाशदिति स्पष्टं प्रतीय- मानार्थपर्यालोचनायां च अस्वाद्वेव स्वादुत्वेनाऽत्तीति सिद्धम् । भगवांस्तु जीववद्दुःखोदर्कसुखानशनवानेवानश्नन्नित्युच्यते । उत्तरवाक्यार्थपर्या- लोचनया च केवलं स्वादु सुखं स्वतन्त्रत्वाल्लीलया प्रथममश्नातीति सिद्धम् । एवं चान्यपदद्वयेन भेदस्यैव भासादत्तृत्वानत्तृत्वद्वित्वसंयोग- सङ्ख्याख्योपपत्तेश्च जीवेश्वरयोरत्यन्तभेदे श्रुतेर्महातात्पर्यं चावगम्यते । न ह्येकस्य द्वित्वं, नाप्येकस्य संयोगो, न वाऽप्येकस्यैव सङ्ख्या क्वापि दृष्टेति भावः । अतो बलवतीयं श्रौतयुक्तिः स्वर्णमणीनां मालेति ज्ञेयम् ॥ १ ॥
पदार्थदीपिका
‘तयोरन्य:' इति वाक्यं परेणेत्थं व्याख्यातम् । तथाहि । तयोर्जीवेशयोर्मध्येऽन्यो जीवः संसारे स्वाद्वेव पिप्पलं यत् देहाख्याश्वत्थ-वृक्षफलरूपं देहजनितं पुण्यकर्मफलं तदेवात्ति न त्वस्वादुफलं दुःखम् । अन्य ईशोऽनश्नन् स्वाद्वस्वादु किमपि फलम् अभुञ्जन्नेवाभिचाकशीति प्रकाशत इति । तदेतदपव्याख्यानमिति भावेन स्वयं व्याचष्टे - स्वादु- वदिति ।। अस्वाद्वेवेति शेषः । स्वादोरदनवत् । तथा चास्वाद्वेव स्वादुत्वेनात्तीत्यर्थः । यथोक्तं भागवततात्पर्ये-
‘स्वादोरदनवद्ध्यत्ति जीवोऽस्वाद्वपि यत्सदा ।
अनारतं पारवश्यात् स्वाद्वत्तीति ततः श्रुतिः ।।' इति ॥
'अस्वादु स्वादुवद्ध्यत्ति जीवो नैवं जनार्दनः ।।' (भा. ता. ११.११.७)
इति च ॥
ननु जीवः स्वाद्वेवात्तीति कुतो न व्याख्येयं बाधकाभावादिति चेन्न । वाक्यशेषविरोधादित्याह- तस्येदाहुरिति ॥ ' यस्मिन् वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधिविश्वे' इति पूर्वार्धः । तथा चायं श्रुत्यर्थः- यस्मिन् देहाख्ये वृक्षे स्थित्वा मध्वदः अमध्वेव मधुत्वेनात्तारो विश्वे सुपर्णा जीवाः यस्मिन्ननन्ति सुपर्णे मुक्तौ निविशन्ते अधिसुवते च यमुद्दियैव सोमखण्डनादिकं कुर्वन्ति यश्चाग्रे सर्वतः श्रेष्ठस्तस्य इत् तस्यैव स्वादु पिप्पलं कर्मफलं भोग्यमाहुः । यः पितरं जगत्स्रष्टारं परमात्मानं न वेद अत एव नशत् नरकाद्यनर्थरूपं नाशं प्राप्नुवानो जीवस्तस्य तत् स्वादु पिप्पलं न उत नैवेत्यर्थः । अत्र कर्मफलभोगो नाम कर्मानुसारेण प्राप्त - विषयभोग एव विवक्षितः। 'श्रोत्रं चक्षुः स्पर्शनं चेत्याद्युक्तवान्ते विषयानुप- सेवते' इत्युक्तत्वात् । उक्तं च गीताभाष्ये- 'सुखरूपस्य भोक्तृत्वात् ' इति । व्याख्यातं च टीकाकारै:- 'सुखकारणस्येत्यर्थः' इति । अज्ञानां जीवानां स्वादुनिषेधात् । स्वाद्वदननिषेधादित्यर्थः ।
अनश्नन्नित्यादिकं सर्वथा भोक्तृत्वपरिमितिप्रतीतिनिरासाय व्याचष्टे –जीवाद्यमिति । जीवेन अद्यम् अदनीयं दुःखं तदेव नाश्नाति भगवानित्यर्थः। जीवाद्यमिति पाठेऽपि यत् अघं पापं तज्जन्यं दुःखमिति यावत् । तदेव नानातीति व्याख्येयमित्यनशनश्रुतेरिति शेषः । इदमुपलक्षणम् । पारतन्त्र्येणाभोक्तृत्वमप्यनश्नन् श्रुत्यर्थ इति द्रष्टव्यम् । दुःखं तदेव नाश्नाति भगवानित्यर्थः । ननु नाश्नत्येव भगवानित्यर्थः किन्न स्यादित्यत आह- तस्येदिति ॥ तथा च वाक्यशेषे भगवतः स्वाद्वनशनोक्त्याऽनश्नन्नित्यस्य सर्वथा नाश्नातीति व्याख्याने तद्विरोधः स्यादित्यर्थः । इतोऽप्यनश्नन्निति वाक्यमुक्तप्रकारद्वयेन व्याख्येयं नतु सर्वथाऽनशनपरत्वेनेति भावेन तत्र प्रमाणं पठति- स्वातन्त्र्येणैवेति ॥ पारतन्त्र्येण भोक्तृत्वाभावादित्यर्थः । अभोक्ता चेत्यत्रत्यश्चशब्दो भोक्तृत्वादित्यनेन सम्बद्ध्यते । उभावपि निमित्तयोः परस्परसमुच्चयार्थौ । तृतीयोऽप्यर्थे । नात्तीत्यत्रापि संश्रुत इत्येकादशतात्पर्यसमाख्यानात् । तथा च भोक्तापि भगवान् स्वातन्त्र्येणैव भोक्तृत्वात् पारतन्त्र्येण भोक्तृत्वाभावादिति यावत् । सर्वदा दुःखाभोगाच्चाभोक्तेत्युच्यत इति योजना । एवशब्देन सर्वथाऽनशनस्य निरासः । अत्र यथायोगं सम्बन्धमङ्गीकृत्य स्वातन्त्र्येण भोक्तृत्वं भोक्तृत्वे निमित्तकथनपरं दुःखाभोक्तृत्वं चाभोक्तृत्व इति व्याख्याने तु स्ववशेनादनस्यानत्तृत्वे निमित्ततयोक्तत्वात् । तत्रापि स्ववशेनादनादित्यस्य पारतन्त्र्येणादनाभावादित्येवार्थो वक्तव्यः ।
श्रीनिवासतीर्थविरचिताखण्डार्थः
' स एषोऽन्तश्चरते बहुधा जायमानः' इत्युक्तं विष्णोर्बहुधा जननं किं जीवात्मकत्वेनेति शङ्कां निराकर्तुं विरुद्धधर्मकथनपूर्वकं तयोर्भेदमाह- द्वा सुपर्णेत्यादिना ।। सुष्ठु परमानन्दरूपत्वात् सुपर्णा सुपर्णो संयुक्तौ अत एव सखाया सखायौ 'द्वा' द्वौ जीवेशौ समानमेकं वृक्षं देहाख्यं परिषस्वजाते आलिलिङ्गतुः । तयोः सुपर्णयोर्मध्येऽन्यो जीवः पिप्पलं देहाख्याश्वत्थफलरूपं देहजनितकर्मफलं स्वाद्वत्ति । अस्वाद्वेव स्वादुत्वेनाति । अन्य ईश्वरस्तदनश्नन्नेवाभिचाकशीति अभितः प्रकाशते न तु स्वस्थित्यै तदपेक्षत इत्यर्थः ॥ १ ॥