द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते

पञ्चमः खण्डः

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।

तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥ १ ॥

स्वादुवत्सर्वदाऽत्ति । न तु स्वाद्वेव । तस्येदमाहुः पिप्पलं स्वाद्वग्रे तन्नोन्नशद्यः पितरं न वेद इत्यज्ञानां स्वादुनिषेधात् । जीवाद्यमेव नाश्नाति भगवान् । न तु नाश्नात्येव । तस्येदमाहुः पिप्पलं स्वादु इत्युक्तत्वात् ।

स्वातन्त्र्येणैव भोक्तृत्वाद् दुःखाभोगाच्च सर्वदा ।

अभोक्ता चैव भोक्ता च भगवान् विष्णुरव्ययः ॥

इति तत्त्वसारे ॥ १ ॥

समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः ।

जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥ २ ॥

नास्तीशोऽस्या यतोऽन्यो हि ततोऽनीशा हरेर्मतिः ।

तया मुह्यति जीवस्तमन्यं ज्ञात्वा विमुच्यते ॥

जीवादन्यः स्वतन्त्रोऽयं यतोऽतः पुरुषोत्तमः ॥ इति ब्रह्मसारे ।

यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।

तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥ ३ ॥

पुण्यं चानिष्टं विधूय ॥ ३ ॥

प्राणो ह्येष सर्वभूतैर्विभाति विजानन् विद्वान् भवते नातिवादी ।

आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः ॥ ४ ॥

सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् ।

अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः ॥ ५ ॥

सत्यमेव जयति नानृतं सत्येन विततो देवयानः ।

येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत् सत्यस्य परमं निधानम् ॥ ६ ॥

सत्यो हि भगवान् विष्णुः सद्गुणत्वात् प्रकीर्तितः ।

आसुरास्तद्विरुद्धत्वादनृताः परिकीर्तिताः ।

तस्य विष्णोर्निधानं तु वैकुण्ठो लोक उत्तमः ॥ इति च ॥ ६ ॥

बृहच्च तद् दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत् सूक्ष्मतरं विभाति ।

दूरात् सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम् ॥ ७ ॥

सर्वगत्वात् दूरेऽन्तिके च ।

न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा ।

ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥ ८ ॥

नान्यैर्देवैर्हरिं पश्येत् ज्ञानरूपेण वायुना ।

ब्रह्मणा परमज्ञानरूपेण हरिणा तथा ॥

प्रसन्नेनैव तं पश्येदन्येऽनुज्ञाप्रदायिनः ॥ इति च ।

षोडशकलाशरीरो न भवतीति निष्कलः । यदा पश्यः पश्यते रुग्मवर्णम् आनन्दरूपममृतं यद्विभाति इत्युक्तत्वात् ॥ ५ ॥

एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश ।

प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन् विशुद्धे विभवत्येष आत्मा ॥ ९ ॥

यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् ।

तं तं लोकं जयते तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेत् भूतिकामः ॥ १० ॥

इति पञ्चमः खण्डः