तदेतत्सत्यम् मन्त्रेषु कर्माणि कवयो यान्यपश्यन्..

भाष्यम्

(ता एव परमा विद्या:)

अत्रापितदेतत्सत्यम् मन्त्रेषु कर्माणि कवयो यान्यपश्यन्' इत्यादिना कर्मविषयामपरविद्यामुक्त्वा, 'येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्वतो ब्रह्मविद्याम्' इत्याद्यारभ्याऽथर्वणानेव मन्त्रान् परविद्यात्वे- नाऽह || चतुर्वेदसंस्कारवतामेव च परविद्यायामधिकार उक्तः -- 'तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवयैस्तु चीर्णम्' इति । शिरोव्रतमित्युप- लक्षणत्वेन-

'स्ववेदव्रतयुक्तस्य सर्ववेदगतास्वपि ।

अधिकारोऽस्ति विद्यासु नावेदव्रतिनः कचित् ॥' इति व्यासस्मृतौ ॥

पदार्थदीपिका

किञ्चैतदुपनिषद्गतपूर्वोत्तरवाक्यपर्यालोचनया ऋगादीनामेव परविद्यात्वमपरविद्यात्वं चावगम्यत इत्याह- अत्रापीति । 'कर्मविषयाम्आपाततः कर्मप्रतिपादिकाम् आथर्वणमन्त्ररूपामिति शेषः । आहेति ॥ ब्रह्मविद्यामित्युक्तत्वादिति भावः । आथर्वणानेव मन्त्रानिति वचनेनेय- माथर्वणी मन्त्रत्वे सत्युपनिषदित्युक्तं भवति । आथर्वणशाखिनां संहितात्वान्मन्त्रत्वं गोप्यार्थप्रतिपादकत्वादुपनिषत्त्वं चेत्युक्तं भवति । ऋगा एव विवक्षाभेदेन परविद्याः नोपनिषद इत्याशयेनाह - चतुर्वेदेति ॥ चतुर्वेदसम्बन्धिसंस्कारवतामेवेत्यर्थः । स्वस्वशाखाध्ययनार्थं कृतसंस्कारवतामेवेति यावत् । तथा च स्वस्वशाखाध्ययनार्थं कृतसंस्कारवतामेव स्वस्वशाखोपनिषद्विद्यायामधिकारस्योक्तत्वात्

संहितोपनिषदोः परापरविद्यात्वेन भेदाङ्गीकारेऽधिकार्यैक्यं न स्यादिति भावः । स्वस्वसंहिताध्ययने यः संस्कारः स एवोपनिषदादिसर्ववेदाध्ययन- संस्कार इत्यत्रैतदुपनिषद्गतमेव वाक्यं प्रमाणत्वेन पठति तेषामेवेति ॥ 'शिरोव्रतम्' चौलोपनयनादि ।

नन्वत्र वाक्येशिरोव्रतं विधिवद्यैस्तु चीर्णम्' तेषामेवैतामाथर्वण ब्रह्मविद्यां वदेतेत्येवं यैराथर्वणशाखाध्ययनार्थं शिरोव्रतं चीर्णं तेषाम् आथर्वणोपनिषदध्ययन एवाधिकारोऽस्तीत्येवं प्राप्तं न त्वाथर्वणशाखा- संहिताध्ययनार्थं कृतशिरोव्रतानां समस्तवेदाध्ययनाधिकारोऽस्तीत्या- शङ्कयाह- शिरोव्रतमितीति ॥ यैराथर्वणशाखासंहिताध्ययनार्थं शिरोव्रतं चीर्णं तेषां शाखोपनिषदाद्यधिकारोऽस्तीत्येतत्समस्तवेदाध्ययनाधिकारोऽ- स्तीत्यस्योपलक्षणत्वेनोक्तमित्यर्थः । उपलक्षणत्वेनोक्तमित्यत्र ज्ञापकमाह- स्ववेदेति ।। स्वस्वशाखाध्ययनार्थं विहितचौलोपनयनादिव्रतयुक्तस्येत्यर्थः । सर्ववेदगतासु विद्यास्विति सम्बन्धः । अवेदब्रतिनः स्वस्वशाखा- संहिताध्ययनार्थं विहितचौलोपनयनादिव्रतशून्यस्य । कचिदपि नाधि- कारोऽस्तीत्यर्थः । अत एव संहितोपनिषदोरेकाधिकारिकत्वोक्त्या तयोरेव परविद्यात्वमन्यथाधिकार्यैक्यं न स्यादिति प्रसिद्धमिति भावः ।। ३-५ ॥

श्रीनिवासतीर्थविरचिताखण्डार्थः

शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ । कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ ३ ॥

तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति परा (चापरा) चैवापरा च ॥ ४ ॥

तत्रापरा । ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शीक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति ।

अथ परा यया तदक्षरमधिगम्यते ॥ ५ ॥

शुनकस्यापत्यं शौनको नामतो महाशालः 'प्रत्यब्दं यज्ञ- कृत्सम्यङ्महाशाल इतीरितः' (छां.भा.) इति वचनात् प्रत्यब्दयज्ञकृद् विधिवद् विध्युक्तप्रकारेणोपसन्नः समित्पाणित्वादिरूपगुरूपसत्तियुक्तः सन् पप्रच्छ । ह वा इति वृत्तार्थस्मरणार्थौ निपातौ । किं प्रमेयं पप्रच्छेत्यत आह- कस्मिन्निति । हे भगव: ' मतुवसोरु: सम्बुद्धौ छन्दसि' । हे भगवन् पूज्य, सर्वमिदं कर्मादिकं कस्मिन् शास्त्रे विज्ञाते विज्ञातं भवति । तथा च कर्मादिज्ञानकरणं किमिति करणप्रश्नः । तथा सर्वमिदं कर्मादिकं विज्ञातमपि कस्मिन् विषये ज्ञाते सफलं भवतीति विषयप्रश्नः । कर्मादे- रस्वतन्त्रत्वेन तज्ज्ञानमात्रस्यैव पुरुषार्थत्वादिति प्रश्नाशय इति तत्त्व- नुसारेण द्वेधा व्याख्येयम् । तत्र सर्वं कर्मादिकमपरविद्यया विज्ञातं भवति विज्ञातं च कर्मादिकं परविद्याविषयपरमात्मज्ञानेनैव सफलं भवति ।कर्मणा ज्ञानमातनोति' इति कर्मणां ज्ञानेनैव सफलत्व- श्रुतेः ॥ ३ ॥

अतो द्वे विद्ये अङ्गाङ्गिभाववत्तया वेदितव्ये इत्याशयवानाह - तस्मा इति ॥ यद्यस्माद्ये द्वे विद्येऽवश्यं वेदितव्ये इति ब्रह्मविदो वदन्ति तस्मात्ते द्वे विद्येऽवश्यं वेदितव्ये एवेति तस्मै शौनकाय सोऽङ्गिरा उवाचेत्यर्थः । ते द्वे विद्ये इत्यत आह- परा चैवेति ॥ ४ ॥

का परा विद्येत्यतस्तां दर्शयति - तत्रापरेति । परापरविद्ययोर्मध्ये परा विद्यादौ निरूप्यत इति शेषः । अत्र ब्रह्ममीमांसाशास्त्रव्युत्पादित- न्यायानुपकृता ऋगादयो यदा भगवदितरकर्मादिविषयतया योज्यन्ते तदा तेषामपरविद्यात्वम् । यदा तु तदुपकृतास्सन्तो विष्णुविषयतया योज्यन्ते तदा तेषामेव ऋगादीनां परविद्यात्वमित्यवगन्तव्यम् । अयं वर्णोऽस्मिन् स्थाने एतेन प्रयत्नेनोच्चार्य इति निरूपकं शास्त्रं शिक्षा । कल्पः कल्प- सूत्रम् । शब्दसाधुत्वासाधुत्वव्युत्पादनपरं शास्त्रं व्याकरणम् । शब्द- निर्वचनकरं शास्त्रं निरुक्तम् । गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगत्यति- जगतीनां तत्प्रभेदानां च छन्दसां लक्षणनिरूपकं शास्त्रं छन्दः । काल- निर्णयकरं शात्रं ज्यौतिषम् । परविद्या केत्यतस्तां निरूपयति-अथेति ॥ अपरविद्यानिरूपणानन्तरं परविद्या निरूप्यत इति शेषः । यया विद्यया तत्प्रसिद्धमक्षरमधिकत्वेन गम्यतेऽवगम्यते सा परविद्येत्यर्थः ॥ ५ ॥