तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ् मनः

उपनिषत्
तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ् मनः ।

तदेतत् सत्यं तदमृतं तद् वेद्धव्यं सोम्य विद्धि ॥ ३ ॥

भाष्यम्
'प्राण: प्रणयनाद् विष्णुर्वक्तृत्वाद् वागुदीरितः ।

मनो मन्तृत्वतो विष्णुः सर्वजीवनियामकः ॥ '
इति शब्दनिर्णये ॥

पदार्थदीपिका

श्री.टी. -स प्राणस्तदु वाङ्मनः' इत्यत्र विष्णोः प्राणाद्यभेदेन तच्छब्द- वाच्यत्वमुच्यत इत्यन्यथाप्रतीतिनिरासाय प्राणादिशब्दान् विष्णौ प्रमाणेनैव निर्वक्ति- प्राण इति ॥ प्रणयनात् प्रकर्षेण प्रेरणात् । प्रकर्षेण ऊर्ध्वमिति यावत् । भक्तानां नयनादिति वा । मन्तृत्वतो ज्ञातृत्वतः सर्वजीव- नियामकतया तदन्तर्गतो हरिः प्रणयनादिनिमित्तैः प्राणादिशब्दैरुच्यत इत्यर्थः ।।

श्रीनिवासतीर्थविरचिताखण्डार्थः

सः अक्षरशब्दवाच्यो विष्णुः प्रणयनात् प्राणः । ' तदु' तदेव ।

वक्तृत्वाद्वाक् मन्तृत्वान्मनः । तदेतत्सत्यं सद्भिः प्राप्यं तदेवामृतं मृतिरहितं तदेव वेद्धव्यं लक्ष्यं विद्धि । तत्कर्मकं बेधं कुर्वित्यर्थः ॥ ३ ॥

Load More