तस्मै शौनको ह वै महाशालोऽङ्गिरसं ..

उपनिषत्

तस्मै शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ ।

कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ ३ ॥

तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति परा (चारा ) चैवापरा च ॥ ४ ॥

(अपरविद्यास्वरूपम्)

तत्रापरा । ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शीक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति

(परविद्यास्वरूपम्)

अथ परा यया तदक्षरमधिगम्यते ॥ ५ ॥

भाष्यम्

'ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचकाः । Error! Hyperlink reference not valid.

'ता एव परमा विद्या यदा विष्णोस्तु वाचकाः ॥ '

इति परमसंहितायाम् ।

श्रीवादिराजीयाप्रकाशिका

(श्रीवादिराजीया )

नमस्कृत्य हयग्रीवं समस्तसुरनायकम् ।

आथर्वणोपनिषदः पोष्यं भाष्यं विवृण्महे ॥

॥ अथर्वाय ज्येष्ठपुत्रायेति ॥अथर्वणे यां प्रवदेत' इत्युक्त्या अकारान्तं नकारान्तं च तत्पदमस्तीति सूचितम् । 'शौनको ह वै महाशाल:' इत्यत्र महती दृढा शाला यज्ञशाला यस्येति महाशालः । कदाचिद्यज्ञकर्ता अभिनवतात्कालिकवंशादिकृतशालावान् भवति । अयं न तथेत्यनेन प्रत्यब्दं यज्ञकर्तृत्वं लभ्यते । ज्योतिषमिति आपाततः प्रतीयमानकर्म - देवताप्रतिपादकस्य परब्रह्मप्रतिपादकस्य वेदस्य पाठापाठयोग्याध्ययनकर्म- सुमुहूर्तदुर्मुहूर्तादिकालज्ञापकत्वेन ज्योतिषस्यापि वेदाङ्गत्वमिति ज्ञेयम् ।

अथ परा यया तदक्षरमधिगम्यते ' इत्यत्र आपातत एव प्रतीयमानकर्म- देवताप्रतिपादकत्वमेव जानत: ऋगादिरूपा या अपरविद्या, परमप्रतिपाद्य- भगवतोऽज्ञानात्, सैवाक्षरशब्दितपरमात्मपरत्वे ज्ञाते परविद्येति ज्ञेयम् । ननूपनिषद्रूपा परविद्या, संहितारूपा त्वपरविद्येति चेत् ऋक्शाखिभिः सर्वैः पठ्यमानसंहितोपनिषद्ब्राह्मणापौरुषेयविद्यायाः ऋग्वेदपदेनैव गृहीतत्वे त्वदुक्तविभागस्यानवकाशात् । तद्धि तदा स्यात् संहिताऽपरविद्या उपनिषत् परविद्येति, यदि श्रुतिब्रूयात् । न चैतदस्ति । ऋग्वेदपदस्यैव ऋक्सम्बन्धि- सर्वसङ्ग्राहकत्वे त्वदभिलषितविभागानवकाश एव । एवं यजुर्वेदादावपि ' ज्ञेयम् । किञ्च यदि परविद्या अन्या स्यात्तर्हि ऋग्वेदो यजुर्वेद इत्यादिनाऽ- परविद्याकथनवदियमियं परविद्येति विभज्य प्रदर्शयेत् । न हि श्रुतिरकुशला येनानपेक्षिताधमापरविद्यां विभागेन निरूप्यापेक्षितोत्तमपरविद्यायां सङ्कुचितप्रवृत्तिमती स्यात् । तस्मादुक्त एव विभाग: श्रुतेरभिमतः ।

पदार्थदीपिका

अत्र 'द्वे विद्ये वेदितव्ये' इति प्रतिज्ञाय ' तत्रापरा ऋग्वेदो यजुर्वेदः' इत्यादिना ऋगादीनामपरविद्यात्वमुक्त्वा, 'अथ परा यया तदक्षरमधिगम्यते' इत्यनेन परविद्योच्यते सा च परविद्या ऋगादिव्यतिरिक्ता उपनिषदित्यपरे व्याचक्षते । तदयुक्तम् । ऋगादिग्रहणेनैव तासामपि गृहीतत्वात् । ब्राह्मणपरिव्राजकन्यायस्य चागतिकगतित्वात् । तज्जन्यं ज्ञानं परविद्येत्यपि न युक्तम् ।यया तदक्षरमधिगम्यते' इत्युक्ताक्षराधिगति- करणत्वानुपपत्तेः ।द्वे विद्ये वेदितव्ये' इति सकृदुक्तविद्याशब्द- स्यानेकार्थताकल्पनापत्तेश्च । अतोऽपरविद्यात्वेनोक्ता ऋगादय एव पर- बिद्याः । नच वाच्यमृगादीनामेवापरविद्यात्वं परविद्यात्वं च विरुद्धमिति । यदा ब्रह्ममीमांसाव्युत्पादितन्यायानुपकृता ऋगादिवेदादयो भगवदन्यापात- प्रतीतकर्मादिविषयतया योज्यन्ते तदा तेषामपरविद्यात्वम् । यदा तु त एव वेदाद्याः ब्रह्ममीमांसाव्युत्पादितन्यायोपकृताः सन्तो भगवद्विषयतया योज्यन्ते तदा तेषामेव परविद्यात्वमित्याशयेनाह - ऋगाद्या इति ॥ यथोक्तं सुधायाम्-ब्रह्ममीमांसाशास्त्रव्युत्पादितन्यायानुपकृता वेदादयो

विष्णोरवाचकास्तदुपकृतास्तु तस्य बाचका भवन्ति' इति ।।

Load More