द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते
पञ्चमः खण्डः
‘स एषोऽन्तश्चरते बहुधा जायमानः' इत्युक्तं हरेर्बहुधा जायमानत्वं जीवाभेदेनेति भ्रमनिरासाय तयोर्भेदमाह - द्वा सुपर्णेति ॥
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्यनश्नन्नन्यो अभिचाकशीति ॥ १ ॥
सयुजौ संयुक्तौ सदा वियोगरहितौ, उपकार्योपकर्तृभावेन सखायौ द्वौ सुपर्णरूपौ जीवेशौ समानं वृक्षं देहाख्यमेकमश्वत्थवृक्षं परिषस्वजाते आलिलिङ्गतुः । तयोस्सुपर्णयोर्मध्येऽन्यो जीवः पिप्पलमश्वत्थफलरूपं देहजनितं कर्मफलमस्वाद्धेव स्वादुवदत्ति | अन्य ईश्वरोऽनश्नन् जीवाद्यं कर्मफलमनश्नन्नभिचाकशीति, काश्रु दीप्तौ, यङ्लुगन्तं, प्रकाशते । स्वस्थित्यै न तदपेक्षत इति भाव: । तदुक्तमेकादशस्कन्धे । (भा. ११- ११-६) ‘एकस्तयोः खादति पिप्पलान्नमन्यो निरन्नोऽपि बलेन भूयान्' इति ॥ १ ॥
अस्य बन्धमोक्षहेतू क्रमेणाऽऽह समान इति, जुष्टमिति च ।
समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः ।
जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥ २ ॥
समाने एकस्मिन् देहाख्ये पिप्पलवृक्षे निमग्नो निरूढो ममताद्यभिमानवान् पुरुषो जीवोsनीशया न विद्यतेऽन्य ईशो यस्याः साऽनीशा स्वतन्त्रा भगवन्मतिः । तया मुह्यमानः शोचति, भगवन्तमज्ञात्वा सांसारिक- क्लेशमनुभवति । जुष्टं, जुषी प्रीतिसेवनयो:, सर्वसेव्यमीशं विष्णुं जीवादन्यम् इति, 'तदेतत्सत्यं' इत्यादिनोक्तप्रकारेणाऽखिलकर्माराध्यत्व- जगत्स्रष्टृत्वादिरूपमस्येशस्य महिमानं च यदा पश्यति पुरुषो जीवः तदा वीतशोकोऽपगतक्लेशः मुक्तो भवतीत्यर्थः ।। २ ।।
प्रतिबन्धककर्मणो भावात् कथं तत्सृष्ट्या मुक्तिः जीवस्य ईश्वरस्य दृष्टिर्वा कथमित्यतः पूर्वमन्त्रार्थमेव विशदमाह - यदा पश्य इति ॥
यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥३॥
पश्यतीति पश्यो द्रष्टा जीवो, यदा रुग्मवर्णं हेमवर्णविग्रहं 'रूपोप- न्यासाच्च' (ब्र.सू.१-२-२३) इति सूत्रात्, ब्रह्मयोनिं हिरण्यगर्भस्य कारणं, जगत्कर्तारं पश्यते पश्यति तदाऽसौ विद्वान् ज्ञानी अनिष्टं पुण्यं पापं च विहाय ‘तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ तद्वयपदेशात्' (ब्र.सू.४- १-१३) इति सूत्रोक्ते: । निरञ्जनः निर्लेपः 'अञ्जनाख्याविद्याहीनः ' इति सुधोक्तेः, परमं साम्यं निर्दुःखपूर्णानन्दत्वादिब्रह्मसाम्यमाप्नोतीत्यर्थः । 'पुंस्त्वादिवत्त्वस्य' (ब्र. सू. २ - ३ ३० ) इति सूत्रोक्तदिशा प्रागपि साम्यसत्त्वेऽप्यप्राप्तभोगप्राप्त्यभिप्रायेण परममित्युक्तिः । अभिव्यक्त्यपेक्षया
वा ॥
-
विद्वानिति प्रकृतजीवन्मुक्तस्य स्थितिप्रकारमाह- प्राणो ह्येष इति ॥
प्राणो ह्येष सर्वभूतैर्विभाति विजानन् विद्वान् भवते नातिवादी ।
आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः ॥ ४ ॥
विद्वानतिवादी न भवते न भवति । कुत: ? सर्वभूतैः सर्वेन्द्रियादिभिरेष प्राण एव प्रकृष्टचेष्टको हरिरेव विभाति स्वतन्त्रो वर्तते, अहं त्वस्वतन्त्र इति विजानन् हि यतो वर्तते अत इति योजना | अतिवादी न चेत् कथं तर्ह्यस्त इत्यत आह- आत्मक्रीड इति ॥ आत्मना भगवता क्रीडत इत्यात्मक्रीडः । आत्मदर्शनजं सुखं प्राप्त इत्यात्मरतिः । भगवदाराधनैक- क्रियावान् । ब्रह्मविदामेष वरिष्ठः श्रेष्ठः || ४ ||
भगवदपरोक्षज्ञानाय ध्यानरूपं साधनमुक्तं ध्यायत आत्मानमित्यत्र । तत्सहकारीण्याह- सत्येनेति ॥
सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् ।
अन्तःशरीरे ज्येतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः॥५ ॥
सत्येन यथार्थवचनेन, तपसा वर्णाश्रमोचितधर्मानुष्ठानपूर्वं नित्यं भगवदनुचिन्तनेन, सम्यग्ज्ञानेन गुरूपदेशजन्यतत्त्वविषयकसम्यग्ज्ञानेन, नित्यं सर्वेन्द्रियनियमनरूपब्रह्मचर्येणान्तः शरीरे शरीरान्तः ज्योतिर्मयः प्रचुरप्रकाशः, शुभ्रः शुद्धः जडाsमिश्रः एष आत्मा लभ्योऽपरोक्ष- विषयोऽपरोक्षद्वारा प्राप्य इति वाऽर्थः । क्षीणदोषा यतयः प्रयत्नशीलाः यं पश्यन्ति एष आत्मेत्यन्वयः ॥ ५ ॥
हरिभक्तस्यैव भगवत्प्राप्तिर्नतद्विमुखस्येत्याह- सत्यमेवेति ॥
सत्यमेव जयति नानृतं सत्येन पन्था विततो देवयानः ।
येनाऽऽक्रमन्त्यृषयो ह्याप्तकामा यत्र तत् सत्यस्य परमं निधानम् ॥६॥
सद्गुणत्वहेतुना सत्यमिति हरिरुच्यते । तन्निष्ठभक्त्यतिशयेन तस्मिन्नेव मग्नत्वहेतुना सत्यभक्तोऽपि सत्यपदेनात्र गृह्यते । तथा च सत्यं सत्याख्य- भगवन्निष्ठायुक्तम् अधिकारिजीवजातमेव जयति प्राप्नोति, आत्मानमिति विपरिणामेनान्वयः । नानृतं ऋताख्यहरिविरुद्धत्वहेतुना अनृतपदाभिधेय- मसुरजातं न जयत्यात्मानमित्यर्थः । कुत एवं सत्यनिष्ठ एव तमाप्नोति, नान्य इत्यतस्तत्प्राप्तिमार्गस्य तदधीनत्वादित्याह - सत्येनेति ॥ योजना तु- यत्र लोके सत्यस्य सद्गुणस्य हरे: परमं सन्निधानं प्रत्यक्षतया सन्निधानं तं वैकुण्ठलोकं येन पथा मार्गेण आप्तकामा ऋषयो ज्ञानिनः आक्रमन्ति गच्छन्ति अयं देवयानाख्यः पन्थाः सत्येन हरिणा विततो विस्तृतस्तदधीन इति यावत् ।। ६ ।।
सत्यस्य महिमानमाह- बृहच्च तदित्यादिना ॥
बृहच्च तद् दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत् सूक्ष्मतरं विभाति ।
दूरात् सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम् ॥ ७ ॥
तत्सत्याख्यं वस्तु देशकालगुणैः बृहत् बृंहितम् । विशेषणसमुच्चये च- शब्दः । दिव्यमद्भुतमत एव अचिन्त्यरूपम् । सूक्ष्मात् प्रकृत्यादेः तत्सत्यं सूक्ष्मतरं चात्यन्तमप्रतिघम्, अणोरणुतरं चेति वाऽर्थः । विभाति विशेषेण प्रकाशमानमास्ते । भा दीप्ताविति धातोः । तत्सत्याख्यं ब्रह्म दूरात् सुदूरे इहान्तिके च । सर्वगत्वादिति भावः । पश्यत्सु पश्यतां ज्ञानिनाम् इहैव शरीरे हृदयगुहायां निहितं संस्थितम् ॥ ७ ॥
एवंविधस्य भगवतो ज्ञानं चक्षुरादिदेवतोपासनाबलात् भवति किमित्यतो नेत्याह- न चक्षुषेति ॥
न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा ।
ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ।। ८ ।।
चक्षुराधिष्ठातृदेवताप्रसादेन न गृह्यते। गुहाशयां निहितं वस्त्वित्यनु- षङ्गः । वाचा वाग्देवताप्रसादेनेत्यर्थः । अन्यैरिन्द्रियान्तरदेवैः, तपासऽन- शनादिव्रतेन, कर्मणा वर्णाश्रमोचितधर्मेण वा न गृह्यते । न तत्त आह- ज्ञानेति ॥ ज्ञानरूपस्य वायोश्चतुर्मुखस्य वा प्रसादेन, 'विज्ञान- शक्तिरहमासमनन्तशक्तेः' इत्युक्तेः । 'सत्यं ज्ञानमनन्तम्' इत्यादेः ज्ञानस्वरूपस्य हरेः प्रसादेनेति वार्थः । ' अतोऽनन्तेन तथा हि लिङ्गं' ( ब्र. सू. ३-२-२७ ) इति सूत्रात् । वाय्वादिस्त्वनुज्ञाप्रद इति ध्येयम् । विशुद्धसत्त्वः रजस्तमोभ्याममिश्रितोद्रिक्तसत्त्वगुणो भवति । ततस्तु विशुद्धसत्त्वत्वादेव निष्कलं षोडशकलात्मक देहहीनं ध्यायमानो निरन्तरचिन्तां कुर्वन् भगवन्तं पश्यते पश्यति ।। ८ ।।
केनेन्द्रियेणेत्यत आह- एषोऽणुरिति ॥
एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश ।
प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन् विशुद्धे विभवत्येष आत्मा ॥ ९ ॥
एषोऽणुरूपेण सर्वप्राणिषु स्थित आत्मा चेतसा वेदितव्यो ज्ञातव्यः । एष इत्युक्तः क इत्यत आह- यस्मिन्निति ॥ प्रजानां सर्वं चित्तं प्राणैरिन्द्रियैस्सह यस्मिन् प्राणे मुख्यवायावोतमाश्रितं स प्राणो यस्मिन् विशुद्धे निष्कले हरौ पञ्चधा प्राणापानादिपञ्चरूपात्मना विवेश आश्रितस्तिष्ठति, विभवति च विभवयुक्तश्च भवति एष अत्मेति योजना
॥ ९ ॥
आत्मवेदिनो महिमानमाह - यं यमिति ॥
यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् ।
तं तं लोकं जयते तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेद् भूतिकामः ॥ १०॥
।। इति पञ्चमखण्डः ।।
विशुद्धसत्त्व आत्मवेदी यं यं लोकं मनसा संविभाति भावयति, गच्छतीति यावत्, यांश्च कामान् काम्यमानान् विषयान् कामयते इच्छति तं तं लोकं तांश्च कामान् जयते प्राप्नोति । तस्मादात्मज्ञानिनो महत्त्वाद् भूतिकामो भाग्यकामः आत्मज्ञं भगवज्ज्ञानिनम् अर्चयेत् पूजयेत् । अर्च पूजायाम् । हिशब्दः तदर्चनेन भूतिमान् भवतीति निश्चयार्थः ।। १० ।। इति पञ्चमखण्डः ।।