यथा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति नामरूपेऽविहाय
उपनिषत्
(मुक्तौ नामरूपादिनाऽविमुक्त एव ब्रह्मणा सह तिष्ठति )
यथा नद्यः स्यन्दमानाः समुद्रायणाः
समुद्रं प्राप्यास्तं गच्छन्ति नामरूपेऽविहाय ।
तथा विद्वान् नामरूपाद् विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥ ८ ॥
भाष्यम्
‘अगम्यनामरूपत्वादमुक्तैर्मुक्तिगा नराः ।
विहीननामरूपास्तु न तु तद्रहितत्वतः ॥
अशरीरो यथा वायुः सामान्यागम्यदेहतः ।
एवं नद्यः समुद्रस्थाः सामान्यागम्यरूपतः । । ' इति च ॥
'स्वकीयमुदकं नद्यः समुद्रे नैव ते ।
वायुस्तु तत् पृथग् ज्ञात्वा मेघे कृत्वा प्रवर्षति ॥ इति च ॥
विमुक्त इत्यमुक्त इत्यर्थः । विप्रिय इतिवत् । अविहायेति च । 'अनन्तं वै नाम' इति च श्रुतिः ॥ ८ ॥
श्रीवादिराजीयाप्रकाशिका
अस्तमदर्शनम् । समुद्रजलान्त: प्रविष्टनदीजलानां परस्परमेलनेन क्षीरमिलितनीरवददर्शनमात्रसम्भवेऽपि सर्वथा नाशस्यायोगात् । ‘नामरूपे अविहाय' इति पदच्छेदः । अन्यथा समुद्रपत्नीभूतगङ्गादि- देवीनामप्यभावप्रसङ्गात् । एवं 'नामरूपाद्विमुक्त:' इत्यत्रापि 'विर्निषेधे पृथग्भावे' इति वचनाच्चामुक्त इत्येवार्थ: । अन्यथा 'यत्र ब्रह्मा पवमानः’ (ऋ. ९.११३.६) इति, ' यत्र पूर्वे साध्याः सन्ति देवा:' इत्यादि - श्रुतिविरोधः स्यात् || ८ |
पदार्थदीपिका
‘यथा नद्यः' इति वाक्ये समुद्रं प्राप्तानां नदीनां यथा नामरूप- विहीनत्वमेवं भगवन्तं प्राप्तानामपि मुक्तानां नामरूपविहीनत्वमुच्यत इत्यन्यथाप्रतीतिनिरासाय दृष्टान्तदाष्टन्तिकयोर्नामरूपविहीनत्वोक्ते-रभिप्रायं सदृष्टान्तं प्रमाणेन दर्शयति- अगम्येति ॥ अज्ञेयेत्यर्थः । तुशब्दोऽवधारणे । इत्युच्यन्त इति शेषः । मुक्तिगाः नराः अमुक्तैरगम्य- नामरूपत्वादेव विहीननामरूपा इत्युच्यन्त इत्यर्थः । अवधारण- व्यावर्त्यमाह- नहीति ॥ ' अनन्तं वै नाम' इति वक्ष्यमाणश्रुतिप्रसिद्धिं हिशब्देन दर्शयति । अत्र दृष्टान्तः- अशरीर इति ॥ 'अशरीरो वायुरभ्रम्' इति श्रुतौ यथा वायुरशरीर उच्यत इति शेषः । सामान्येति । अत्र रूपपदं नाम्नोऽप्युपलक्षकम् । भावप्रधानो निर्देशः । साधारणपुरुषाज्ञेयनाम- रूपवत्त्वाद् विहीननामरूपा इत्युच्यन्त इति सम्बन्धः । ननु समुद्रं प्राप्तानां नदीनां सर्वथा नामरूपाभाव एव किन्न स्यादित्यत आह- स्वकीय- मिति । स्वाभिमन्यमानमित्यर्थः । समुद्रे प्रविष्टाः नद्यः वायुर्मुख्यप्राणः । तत् उदकम् । मुख्यप्राणो मेघे स्थित्वा समुद्रप्रविष्टं कृष्णवेण्यादिनद्युदकमेव विविच्य गृहीत्वा मेघे कृत्वा स्थापयित्वा कृष्णवेण्यादिसमीपस्थेषु देशेषु वर्षतीत्यर्थः । तथा च वाय्वादिभिर्महात्मभिर्नदीनां नामरूपयोर्ज्ञाय- मानत्वान्न सर्वथा नामशून्यत्वं नदीनामिति भावः ।
‘तथा विद्वान्नामरूपाद् विमुक्त:' इति दाष्टन्तिकवाक्यस्थं विमुक्त- पदमनूद्य प्रकारान्तरेण व्याचष्टे - विमुक्त इतीति ॥ 'विर्निषेधे पृथग्भावे' इति वचनाद् वीत्युपसर्गो निषेधार्थः । वीत्युपसर्गस्य निषेधार्थत्वे 'कृष्णस्य विप्रियो राजा धार्तराष्ट्रः सहानुज:' इति भारतोक्तमुदाहरणमाह - विप्रिय इति ॥ अप्रिय इत्यर्थः । ननु तर्हि दृष्टान्तवाक्यासङ्गतिस्तत्र नामरूपे विहायेति नदीनां नामरूपविहीनत्वोक्तेरित्यतस्तत्राप्यविहायेत्यकारप्रश्लेषेण
पदविभागकरणान्नासङ्गतिरित्यशायेनाह- अविहायेति चेति ॥ व्याख्यानान्तरसमुच्चायकश्चशब्दः । नन्वविहायेति पदविभागकरणमनुपपन्नं तथात्वे नामरूपे अविहायेति सन्ध्यभावे एव स्यान्नतु नामरूपे विहायेति सन्धिः ‘ईदूदेद्विवचनं प्रगृह्यम्' (पा.सू. १.१.११) इति एदन्तत्वात् प्रगृह्यसञ्ज्ञायाम् ‘प्लुतप्रगृह्या अचि' (पा.सू. ६.१.१२५ ) इति प्रकृतिभावविधानादिति चेन्न । मणीवादेर्नेति मणीवादिगणोपरि प्रकृति- भावनिषेधवदस्यापि तद्गणस्थत्वादिति ज्ञातव्यम् । मुक्तानां नामरूप- योर्नाशभावस्य श्रुतिसिद्धत्वाच्च नामरूपाद्विमुक्त इत्येतदविमुक्त इत्येव व्याख्येयमिति भावेनाह- अनन्तं वै नामेति ।। नाम अनन्तम् । नाशशून्यमिति वै प्रसिद्धमित्यर्थः । ' अनन्ता विश्वेदेवाः' इति रूपा- नन्त्येऽपि श्रुतिर्द्रष्टव्या || ८ ॥
श्रीनिवासतीर्थविरचिताखण्डार्थः
एकीभावप्रकारमेव सदृष्टान्तमाह- यथेति ॥ स दृष्टान्तो यथा स्यन्दमानाः प्रस्रवमाणा नद्यः नामरूपेऽविहायापरित्यज्य समुद्रे समुद्रं प्राप्यास्तमदर्शनं गच्छन्ति साधारणपुरुषैर्न ज्ञायन्ते तथा विद्वान्नामसहिताद् रूपाद्विमुक्तः । विप्रिय इतिवत् । 'वि' शब्दो निषेधवाची । 'विर्निषेध- पृथग्भावे' इति वचनात् । अमुक्तः अपरित्यजन् सन् परात्परं दिव्यं पुरुषमुपैति तं प्राप्य चामुक्तैर्न ज्ञायत इत्यर्थः । यद्वा नामरूपे विहायेत्येव पदच्छेदः । तथा च समुद्रस्थितानां नदीनां नामरूपयोर्वाय्वादि- भिर्महद्भिर्ज्ञायमानत्वेन सामान्यपुरुषाज्ञेयनामरूपवत्त्वान्नामरूपं- विहीनत्वोक्तिरेवमेव मुक्तानां नामरूपयोरमुक्तैरज्ञायमानत्वान्नामरूपाद्विमुक्त इति तदुभयपरित्यागोक्तिरित्यर्थः ।। ८ ।।