ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता
(आथर्वणोपनिषाद आगतिक्रम:)
उपनिषत्
ॐ ।। ब्रह्मा देवानां प्रथमः सम्बभूव
विश्वस्य कर्ता भुवनस्य गोप्ता ।
ब्रह्मविद्यां सर्वविद्याप्रतिष्ठा-
मथर्वाय ज्येष्ठपुत्राय प्राह
भाष्यम्
'मनोर्वैवस्वतस्याऽदावथर्वा ब्रह्मणोऽजनि । 'मित्रश्च वरुणश्वाथो प्रहेतिर्हेतिरेव च ॥
'ब्रह्मणः प्रथमे कल्पे शिवः प्रथमजः सुतः ।
'सनकाद्यास्तु वाराहे ब्रह्मा विष्णोः सुतोऽग्रजः ||'
॥ १ ॥ इति ब्रह्माण्डे ॥
पदार्थदीपिका
तत्र ‘अथर्वाय ज्येष्ठपुत्राय प्राह' इत्यत्रार्थेऽथर्वणस्य चतुर्मुख- ज्येष्ठपुत्रत्वमुच्यते तदयुक्तम् । पुराणादौ क्वचिच्छिवस्य ज्येष्ठपुत्रत्वोक्तेः । क्वचिच्च सनकादीनामतो विरोध इत्याशङ्कय व्यवस्थोक्त्या तं विरोधं परिहरति - मनोरिति || अन्तर इति शेषः । वैवस्वतस्य मनोरन्तरे । आदौ ब्रह्मणश्चतुर्मुखस्य सकाशादथर्वाऽजनि । तथा चाथर्वा वैवस्वत- मन्वन्तरे ज्येष्ठपुत्र इत्यर्थः । अस्यर्षेरथर्वेति अथर्व इति च नामद्वय- मस्तीत्युभयथापि व्यवहारो युक्त इति द्रष्टव्यम् । ननु वैवस्वतमन्वन्तरेऽपि क्वचिन्मित्रावरुणयोः क्वचित्प्रहेतिहेतिसञ्ज्ञकराक्षसयोर्ज्येष्ठपुत्रत्वमुच्यतेऽतो विरोध इत्यत आह- मित्रश्चेति ॥ अथो अथर्वणः उत्पत्त्यनन्तरं मित्रादय- श्चत्वारो जाताः । अतो वैवस्वतमन्वन्तरेऽथर्वानन्तरमेते ज्येष्ठपुत्रा इति भावः । शिवस्य प्रथमपुत्रत्वोक्तिविरोधं परिहरति- ब्रह्मण इति ॥ प्रथमे कल्पे । वराहकल्पापेक्षया प्रथमे पूर्वपरार्धस्यान्तिमे कल्पे पद्मकल्प इत्यर्थः । सनकादीनां प्रथमपुत्रत्वोक्तिविरोधमपि परिहरति- सनकाद्या- स्त्विति ॥वाराहे कल्पे इत्यनुवर्तते । द्वितीयपरार्धस्य प्रथमे कल्पे स्वायम्भुव- मन्वन्तर इति शेषः । ननु चतुर्मुखकर्तृकसृष्टौ नीचानामप्यग्रजत्वमस्ति तथा विष्णुकर्तृकसृष्टावपि चतुर्मुखापेक्षयान्यस्याप्यग्रजत्वे 'ब्रह्मा देवानां प्रथमं सम्बभूव' इत्ययुक्तं स्यादित्याशङ्कायामाह - ब्रह्मेति ॥ तुशब्द- स्यात्रापि सम्बन्धः । स चात्रावधारणार्थः । ब्रह्माण्डाद्बहिः ब्रह्माण्डान्तः पद्मकल्पे च ब्रह्मैव विष्णोरग्रजः सुत इत्यर्थः ।।
श्रीनिवासतीर्थविरचिताखण्डार्थः
'यो ह वा अविदितार्षच्छन्दोदैवतब्राह्मणेन मन्त्रेण यजति याजयति अधीतेऽध्यापयति वा स्थाणुं वच्छेति गर्ने वा पद्यते प्रवामीयते पापीयान् भवति तस्मादेतानि मन्त्रे विद्यात्' इति श्रुतौ ऋष्यादीनज्ञात्वा विद्याभ्यासिनोऽनर्थोक्तेस्तज्ज्ञानं तावदावश्यकम् । तत्र ब्राह्मणपदोप- लक्षितार्थज्ञानं व्याख्यानादेव भविष्यत्यक्षरगणनया छन्दोऽवगतेः 'यया तदक्षरम्' इत्यादिना देवतावगतेश्च तदुभयं विहाय ऋषीनाह वेदपुरुषः- ब्रह्मा देवानामित्यादिना ॥ इयमाख्यायिका श्रोतॄणां श्रद्धातिशयजन- नार्था । स्मर्यते हि श्रद्धादीनां तत्त्वज्ञानहेतुत्वं ' श्रद्धावान् लभते ज्ञानम्' (भ.गी. ४.३९ ) इति । ततश्च ब्रह्मा देवानामित्यादेरियमक्षरयोजना । ब्रह्मा आदिसृष्टौ देवानामपेक्षया पूर्वं विष्णोः सकाशात् सम्बभूव । अत एब देवानां मध्ये प्रथमः सम्बभूव । उत्तमो जातः । यत्स्वजातौ प्रथमं हरेर्निःसरति तत्तत्रोत्तमं यथा वर्णेषु ॐकार इति न्यायादित्यर्थः । प्रथमत्व- मेवोपपादयति- विश्वस्य कर्तेत्यादिना ॥ भुवनस्य गोप्ता रक्षकः । यद्वा विश्वस्य समस्तस्य भुवनस्याधिकारिजनस्य ज्ञानोपदेशकर्ता । अत एव गोप्ता संसारभयाद्रक्षकः । किमधिकारिवर्गस्य सर्वस्यापि साक्षात्स्वयमेव ज्ञानोपदेशकर्ता । नेत्याह- स इत्यादिना । स ब्रह्मा सर्वाविद्या यस्यां प्रतितिष्ठन्ति सा सर्वविद्याप्रतिष्ठा ताम् । यस्यां विद्यायां लब्धायामन्याः सर्वा विद्या विदितप्राया भवन्ति सफला भवन्तीति यावत् । एतादृश ब्रह्मविद्यां स्वस्य यो ज्येष्ठः पुत्रो वैवस्वतमन्वन्तरे तस्मै अथर्वणाय ऋषये प्रकर्षेणाह उपदिदेश । तस्यर्षेरथर्वणेत्यथर्वेति च नामद्वयमस्ति । अतोऽथर्वण इत्युक्तम् । अथर्वशब्दस्येयं चतुर्थी || १ |