तपसा चीयते ब्रह्म ततोऽन्नमभिजायते

उपनिषत्

(ज्ञानपूर्विका विश्वसृष्टिः)

तपसा चीयते ब्रह्म ततोऽन्नमभिजायते ।

अन्नात् प्राणो मनः सत्यं लोका: कर्म्मसु चामृतम् ॥ ८ ॥

श्रीनिवासतीर्थविरचिताखण्डार्थः

खण्डार्थः

श्री. नन्वत्रोर्णनाभ्युपभुक्तान्नस्यैव तन्त्वाकारेण परिणामेनोर्ण- नाभेश्वेतनस्य तदभावात्तद्दृष्टान्तोक्त्याक्षरस्य निमित्तत्वप्रतीतेस्तद्दृष्टान्तोपा- दानमेव युक्तं न तु पृथिव्यादिदृष्टान्तोपादानं तेनोपादानत्वस्यैव प्रतीते - रित्याशङ्कां ज्ञानपूर्वकं स्रष्टृत्वोपपादनेन निराकरोति- तपसेति ॥ अक्षर- शब्दोक्तं ब्रह्म आदौ तपसा चीयते सम्बद्ध्यते । तत्तप्यतेति यावत् । ततस्तपोयुक्ताद् ब्रह्मणः सकाशादन्नमभिजायते । अत्रान्नादिशब्दैर्देवाः - जडानि च गृह्यन्ते । कर्मस्वित्यनुवादात् कर्म च जातमिति वक्तव्यम् । कर्मसु निमित्तभूतेषु सृष्टेषु सत्सु तत्फलभूतममृतं स्वर्गो मन्वन्तरकालपर्यन्तं मरणशून्यत्वेन तस्यामृताब्दवाच्यत्वात्तदादिकं जातमित्यर्थः ।। ८ ।।

Load More