विष्णुनाऽस्य समस्तस्य समासव्यासयोगतः

अस्वतन्त्रजगतः सृष्ट्यादिविषये विष्ण्वायत्तत्वकथनम्

टीका

यदीदं विष्णुव्यतिरिक्तं भावाभावादिभेदभिन्नं जगदस्वतन्त्रं तर्हि कस्मिन्नायत्तं कस्मिंश्च विषये ? इत्याकाङ्क्षायामाह ।। सृष्टि इति ।।

तत्वसङ्ख्यानम्

सृष्टिः स्थितिः संहृतिश्च नियमोऽज्ञानबोधने ।। ११ ।।

बन्धो मोक्षः सुखं दुःखमावृतिर्ज्योतिरेव च ।

विष्णुनाऽस्य समस्तस्य समासव्यासयोगतः ।। १२ ।।

नियमो व्यापारेषु प्रेरणम् । बन्धः प्रकृतेः । मोक्षो बन्धात् । आवृतिः ज्योतिषी बाह्यतमप्रकाशौ । एवकारो विष्णुनेत्यनेन सम्बद्ध्यते । अस्य समस्तस्यास्वतन्त्रस्य भवन्तीति शेषः ।

नन्वेतत्पूर्वविरुद्धम् । समस्तस्य सृष्टिसंहारोक्तौ नित्यत्वोक्तिविरोधः । अचेतनस्य बोधविरोध इत्यादि । तत्रोक्तं समासेति । समासः सङ्क्षेपः व्यासो विस्तारः तावेव योगौ उपायावुक्तार्थघटनायां ततः । इदमुक्तं भवति । उक्तधर्मेषु यत्र तत्वेऽल्पीयांसः सम्भवन्ति तत्र तावन्तो विष्ण्वधीना ज्ञातव्याः । यत्र तु बहवस्तत्र तावन्तः । सर्वथा स्वरूपस्वभावावस्य तदधीनाविति । तत्र स्थितिनियमौ सर्वस्य । सृष्टिसंहृती नित्यानित्यस्यानित्यस्य च । अज्ञानं भावरूपं दुःखस्पृष्टस्य । ज्ञानाभावस्तु सर्वस्य । बोधनं चेतनस्य । सुखं प्राप्ततमसो विना । दुःखं दुःखास्पृष्टं विनेत्यादि द्रष्टव्यम् । पदार्थानां सृष्ट्याद्यन्यतोऽपि प्रतीयते अत एवेत्युक्तम् । सकलसत्तादेस्तदधीनत्वात्तत्तद्वस्तु निमित्तमात्रमेव । स्वातन्त्र्येण विष्णुरेवास्येश्वर इति ।

तत्वसङ्ख्यानटीकाभावदीपः

।। आयत्तमिति ।। अधीनतयाऽऽस्त इत्यर्थः ।। विषय इति ।। आयत्तमित्यनुषङ्गः । सृष्ट्यादेः प्रसिद्धत्वादन्येषामर्थमाह ।। नियम इति ।। अत्र सृष्टिपदेन स्रष्टृनिष्ठव्यापारवाचिना जगन्निष्ठजन्मग्राह्यम् । स्थितिरन्नादिदानेन रक्षणम् । संहृतिर्ध्वंसः । पूर्वविरुद्धतां व्यनक्ति ।। समस्तस्येति ।। इत्यादीति ।। अचेतनस्य बन्धमोक्षसुखदुःखाज्ञानविरोध इत्यादिपदार्थः । मोक्षो बद्धस्य ।। इत्यादि द्रष्टव्यमिति ।। आवृतिज्योतिषी सर्वस्येत्यादिपदार्थः ।। अन्यतोऽपीति ।। ब्रह्मादितोऽपीत्यर्थः ।। तत्तद्वस्त्विति ।। ब्रह्मादिवस्त्वित्यर्थः । यद्वा देशकालादिवस्त्वित्यर्थः । इत्यन्तेन तात्पर्योक्तिः ।

तत्वसङ्ख्यानटीकाटिप्पणी

भवतीति ।। घटत इत्यर्थः । तथा च समासव्यासलक्षणोपायाद्विष्णुनैवास्य सर्वं घटत इत्युक्तं भवति ।

तत्वसङ्ख्यानविवरणम्

क(स्मिन्नाय)स्यायत्तमिति । कस्याधीनमित्यर्थः । ‘‘अधीनो निघ्न आयत्त’’ इत्यभिधानात् । विषये आयत्तमिति वर्तते ।। आहेति । सृष्ट्यादौ विषये विष्ण्वायत्तमाहेत्यर्थः । प्रकृतेरिति पञ्चमी । बाह्यतमः अन्धकाराख्यम् । बाह्यप्रकाशः आलोकाख्यः । तथा चावृत्तिशब्देन बाह्यतमो ग्राह्यम् । ज्योतिश्शब्देन बाह्यप्रकाशो ग्राह्य इत्यर्थः ।। भवन्तीति । तथा चास्य समस्तस्यास्वतन्त्रप्रपञ्चस्य सृष्ट्याद्याः धर्मा द्वादशज्योतिरन्ता विष्णुनैव भवन्तीत्यर्थः ।। नित्यत्वोक्तिविरोध इति । पञ्चाशद्वर्णाव्याकृताकाशयोरपि समस्तान्तर्गतत्वे तयोरपि सृष्टिसंहारापत्त्या नित्या वेदा इति नित्यत्वोक्तिविरोधः स्यादित्यर्थः । पदार्थान्वदन्नेव विग्रहं दर्शयति ।। समास इति ।।

उक्तार्थघटनायामिति । समस्तप्रपञ्चविषयकसृष्ट्यादिरूपोक्तार्थस्य घटनायामित्यर्थः ।। तत इति । तस्मात् समासव्यासयोगत इत्यर्थः । समासव्यासयोगत इत्युक्तया कथं शङ्कापरिहार इत्यत आह ।। इदमुक्तं भवतीति । केचित् तत इदमुक्तं भवतीत्येकमेव वाक्यम् । तथा च समासव्यासलक्षणादुपायात् इदं समस्तस्योक्तं सृष्ट्यादिकं भवति । घटते । उपपन्नमित्यर्थ इत्याहुः । समासव्यासप्रकारमेव दर्शयति ।। उक्तधर्मेष्विति ।। अज्ञानं भावरूपमिति । भावरूपाविद्येत्यर्थः ।

नन्वत्राज्ञानं ज्ञानाभावरूपमेव किं न स्यादिति चेत् । उच्यते । अनादिमायया सुप्त इत्यादिश्रुत्या अनाद्यविद्याबद्धत्वाज्जीवा जानन्ति नो हरिमित्यादिस्मृत्या चाविद्यायाः ज्ञानावरकत्वमुच्यते । आवरकत्वं चाभावस्य न युक्तमित्यावरकत्वान्यथानुपपत्त्या तस्य भावरूपत्वसिद्धिरिति ज्ञातव्यम् ।

अत्र प्रसङ्गात्किञ्चित्तत्वरहस्यमुच्यते । इयं च भावरूपाऽविद्या सत्वादिगुणात्मिका प्रकृतिरेव । तस्याश्चाविद्यात्वं स्वरूपज्ञानावरकत्वेन विद्याविरोधित्वात् । यथोक्तं सुधायाम् । अतः कामकर्मातिरिक्तं मायाऽविद्या प्रकृतिरित्यादिशब्दाभिधेयं अनाद्येव किमपि द्रव्यं स्वरूपचैतन्यावरकमङ्गीकार्यमित्युक्त्वा अतः परमेश्वर एव सत्वादिगुणमय्या विद्याविरोधित्वेना विद्यया स्वाधीनया प्रकृत्याऽचिन्त्याद्भुतया स्वशक्तया च स्वप्रकाशमपि जीवस्वरूपचैतन्यमाच्छादयतीति युक्तमिति । इयं च भावरूपाविद्या लिङ्गशरीरमेवेति बहवस्तात्विकाः ।

तेषां स्पष्टः सुधाविरोधः । यथोक्तं सुधायां फलाध्याये कर्मक्षयपादे भगवदपरोक्षज्ञानभोगाभ्यां निवृत्तसमस्तकर्मणो भिन्नलिङ्गशरीराः विध्वस्तप्रकृतय इति । अत्र सत्वादिगुणात्मकप्रकृतिबन्धध्वंसात्पार्थक्येन लिङ्गशरीरभङ्गस्योक्तत्वात् ।

एवं च जीवस्वरूपस्य षडावरणानि । तथाहि । सत्वादिगुणात्मिका भावरूपाविद्या । बध्नन्ति नित्यदा मुक्तं मायिनं प्रकृतिं गुणा इति भागवतोक्तेः । तथा कामः । ‘‘आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तेये’’ति गीतावचनात् । तथा कामनिबद्धोऽयमुच्चावचतया भ्रमन्निति भागवतोक्तेश्च । प्रारब्धकर्म ।

अनादिकर्मणा बद्धो जीवः संसारमण्डले ।

वासुदेवेच्छया नित्यं भ्रमतीति हि तद्वचः ।।

इत्यनुव्याख्यानोक्तेः । ‘‘सदा बद्धा इमे जीवा अविद्याकामकर्मभिरि’’ति वचनाच्च । स्वगुणाच्छादिक परमाच्छादिकरूपे द्वे दुष्टे प्रकृती

अथान्ये प्रकृती दुष्टे नृषु प्रातिस्विकं स्थिते ।

स्वगुणाच्छादिका त्वेका परमाच्छादिकाऽपरा ।।

इति प्रमाणोक्तेः । तथा लिङ्गशरीरम् ।

एवं पञ्चविधं लिङ्गं त्रिवृत्षोडशविस्तरम् ।

एष चेतनया युक्तो जीव इत्यभिधीयते ।

अनेन पुरुषो देहानुपादत्ते विमुंचतीत्यादि भागवतोक्तेः । स्पष्टं चैतत्सर्वमुक्तं प्रथमस्कन्धतात्पर्ये पञ्चदशाध्याये ।

प्रकृतिं स्वात्मसंश्लिष्टां गुणान् सत्वादिकानपि ।

कर्माणि सूक्ष्मदेहं च जायमाना हरेर्दृशिः ।

दहेदथापि सन्दग्धेन्धनवत्तत्पुनः पुनः ।

यावदारब्धकर्म स्यादाविर्वापि तिरोव्रजेदिति ।

व्याख्यातमेतदस्मदाचार्यैः । अत्र प्रकृतिशब्देन स्वगुणाच्छादिकादिरूपा दुष्टजडप्रकृतिरेव विवक्षिता । सत्वादिकान् गुणानपीत्युक्तया सत्वादिगुणरूपा जडप्रकृतिरपि भावरूपाविद्याख्या जीवस्वरूपाच्छादिकाऽस्तीति सूचयति । कर्माणि प्रारब्धानि । सूक्ष्मदेहं लिङ्गशरीरमिति । अत्राऽपिशब्देन वा चशब्देन वा कामोऽपि ग्राह्यः ।

इदमावरणषट्कमपरोक्षज्ञानभोगाभ्यां विनाश्यम् । कर्मातिरिक्तमावरणपञ्चकमपरोक्षज्ञानविनाश्यम् । प्रारब्धं कर्म च भोगविनाश्यम् । ज्ञानेन तूपमर्द इति ज्ञातव्यम् । ईश्वरेच्छापि पूर्वोक्त षट्कातिरिक्तं सप्तममावरणम् । परमेश्वरोऽचिन्त्याद्भुतया स्वशक्तया जीवस्वरूपचैतन्यमाच्छादयतीति सुधोक्तेः ।

तथा चापरोक्षज्ञानानन्तरमावरणषट्कानां दाहेऽपि दग्धपटायमानतयाऽविर्भावतिरोभावाभ्यामनुवृत्तानामेषां विरजास्नानेन निश्शेषनाशः । अनन्तरं प्रलये भगवदुदरे स्थित्वा बहुतरानन्दभोक्तॄणामेषां सृष्ट्यनन्तरं श्वेतद्वीपाविर्भावे सति तत्रत्यश्रीनारायणसन्दर्शनानन्तरमपरोक्षज्ञानोत्तरानुष्ठितं निवृत्तं कर्म निमित्तीकृत्य प्रसन्नो भगवान् स्वेच्छावरकमपसारयति । ततश्च यावत्स्वरूपानन्दाविर्भावो भवति । अत्र च बहुनात्र किमुक्तेनेति वाक्यं मानम् । स्वेच्छावरकान्न मुक्तः स्यादिति व्याख्यानात् । उक्तं च सुधायाम् । ‘‘आनन्ददश्च मुक्ताना’’मित्यत्र ।

ननु आनन्दः स्वरूपमेव स चाविद्यावृतोऽविद्यानिवृत्तौ स्वतस्सिद्ध एव । ततः कथं मोक्षदानात्पृथगानन्ददानम् । उच्यते । परमेश्वरशक्तिरेव जीवस्वरूपानन्दावरणं मुख्यम् ।। अविद्या तु निमित्तमात्रम् । ततोऽविद्यायां निवृत्तायामपि नाशेषानन्दाभिव्यक्तिर्यावदीश्वर एव स्वीयां बन्धशक्तिं न ततो व्यावर्तयतीति । उक्तं च गीताभाष्यटीकायाम् । ‘‘नाविद्यैव जीवस्वरूपावरणम् । किं त्वीश्वरेच्छापी’’त्यादि । अत्राज्ञानशब्देन ज्ञानाभावोऽपि विवक्षित इत्याह ।। ज्ञानाभावस्त्विति ।। सर्वस्येति । परतन्त्रस्येत्यर्थः । रमाया अपि यावद्गुणगणविषयकज्ञानाभावसद्भावादिति भावः । एवकारस्य विष्णुनेत्यनेन सम्बन्धः पूर्वमुक्तः । तदभिप्रायमाह ।। पदार्थानामिति । अन्यतो ब्रह्मादेः कुलालादेश्च सकाशादित्यर्थः ।। प्रतीयत इति । आगमेन प्रत्यक्षेण चेत्यर्थः । तथाच विष्णुनैवेत्युक्तमयुक्तमिति भावः । विष्णुनैवेत्युक्तया कथं तत्परिहार इत्यत आह ।। सकलेति । तत्तद्वस्तु ब्रह्मादि ।। निमित्तमेवेत्यादि ।

निमित्तमात्रमीशस्य विश्वसर्गनिरोधयोः ।

हिरण्यगर्भः शर्वश्च कालाख्या रूपिणस्तव ।

तत्र तत्र स्थितो विष्णुः तत्तच्छक्तीः प्रबोधयन् ।

एक एव महाशक्तिः कुरुते सर्वमञ्जसा ।

ब्रह्मणिस्थोऽसृजद्विष्णुः स्थित्वा रुद्रे त्वभक्षयत् ।

पृथक्स्थितो जगत्पाति तद्ब्रह्माद्याह्वयोहरि’’

रित्यादिप्रमाणबलादन्येषां निमित्तमात्रत्वम् ।। स्वातन्त्र्येणान्यानपेक्षतया विष्णुरेवास्य समस्तस्य प्रपञ्चस्य सृष्ट्यादिविषये ईश्वरः समर्थ इत्यवगन्तव्य इत्यर्थः ।

तत्वसङ्ख्यानटिप्पणम्

एवं स्वतन्त्रास्वतन्त्रतत्वयोर्निरूपितत्वादुत्तरग्रन्थो व्यर्थ इत्यत आह ।। यदीति ।। कस्मिन्नायत्तं किमधीनम् । अधीनो निघ्न आयत्त इत्यमरः । कस्मिंश्च विषये आयत्तमिति वर्तते । सृष्टिः सर्जनम् । स्थितिः स्थापनम् । संहृतिः संहरणम् । प्रयोजकव्यापारवाचिनः शब्दास्तत्सम्बन्धाज्जगति प्रयोज्ये लक्षणया प्रवर्तंत इति चन्द्रिकोक्तेः । सृष्टिः स्थितिः संहृतिश्च नियमो ज्ञानेत्यादि श्रीमद्भाष्योदाहृताष्टकबोधकस्कान्दवचनेन च स्कन्नस्त्रिकादिकर्तृकतावाद इति ज्ञेयम् । नियमस्य विषयसापेक्षत्वादाह ।। नियम इति ।। नियमोऽयं त्रयाणां चेति विश्वः । बन्धः प्रकृतेः । पञ्चमीयं मोक्षावधिमभिधत्ते ।। बन्धादिति ।। प्राकृतात् । आव्रियते जनोऽनयेत्यावृतिः बाह्यं तमोऽन्धकाराख्यम् । बाह्यं ज्योतिरालोकादिः । एवकारः ज्योतिरेव चेत्यत्रत्यः । अस्येत्यस्य अस्वतन्त्रस्येति विशेष्योक्तिः । अन्वयपूरणार्थमाह ।। भवन्तीति शेष इति ।। आहत्यैते भवन्तीत्यन्वयः ।

ननु न समस्तस्याप्यत्रोक्तद्वादशधर्मवत्त्वं सम्भवतीति शङ्कते ।। नन्विति ।। नित्यत्वोक्तिविरोधः नित्या वेदा इत्यत्र नित्यत्वस्य योक्तिस्तद्विरोध इत्यर्थः । बोधविरोधः एतत्कारिकोक्तबोधविरोध इत्यर्थः । आदिना रमाया बन्धादिविरोधो ग्राह्यः । तत्र तच्छङ्काविषये । समासव्यासशब्दार्थावाह ।। समास इत्यादिना ।। समासस्तु सङ्क्षेपे च समर्थने । व्यासो मुनौ स्याद्विस्तार इति विश्वः ।। योगावुपायाविति ।। योग उपायः । दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयःप्रसिद्धय इति भागवतप्रयोगप्रदर्शनपूर्वं गीताभाष्ये तथा व्याख्यातत्वादिति भावः । तदुपपादयति ।। इदमुक्तं भवतीति ।। उक्तधर्मेषु सृष्टिस्थितीत्याद्युक्तद्वादशधर्मेषु । यत्र ये सम्भावितास्तत्र तावन्तो भगवदधीनाः । सर्वथा सर्वप्रकारेण । स्वरूपस्वभावौ अस्य विश्वस्य । तदधीनौ भगवदधीनौ । द्रव्यं कर्म च कालश्च स्वभावो जीव एव चेत्यादेः । क्व क्व कस्य कस्य समावेशः । सार्वत्रिकश्च क इत्यतो दर्शयति ।। तत्र स्थिति नियमाविति ।। सर्वस्य अस्वतन्त्रसामान्यस्य । सृष्टिसंहृती नित्यानित्यस्य पुराणादेरनित्यस्यासंसृष्टस्य संसृष्टस्य च ।।

अज्ञानं भावरूपमिति ।। ज्ञानाभावरूपमेवाज्ञानमित्यज्ञाः । तदपाकर्तुं भावरूपमिति ।। दुःखस्पृष्टस्य चतुर्मुखव्यतिरिक्तस्य । दग्धपटायमानत्वेन चतुर्मुखस्यापि भावरूपाज्ञानं कैश्चिदङ्गीकृतमिति सब्रह्मकस्य सर्वस्येति । अत्रार्थे मानानि तु सत्तत्वरत्नमालायामृजुप्रकरणे सङ्गृहीतानि तथा तट्टीकायां विभावनीयानि । भावरूपाविद्येत्यर्थः । न चेयमप्रामाणिकीति नाङ्गीकार्येति वाच्यम् । जीवा जानन्ति नो हरिमिति स्मृत्या चाविद्या विद्यामावृणोतीत्युच्यते । न च ज्ञानाभावस्य तदावरकत्वं युज्यते । अतः स्मार्तावरकत्वान्यथानुपपत्त्या भावरूपभावः सेत्स्यति । सत्वादिगुणमयी ।

अजे द्वे प्रकृती दुष्टे नृषु प्रातिस्विकं स्थिते ।

स्वगुणाच्छादिका त्वेका परमाच्छादिका परा ।।

इत्यादिप्रमाणप्रमितप्रकृतिरेव स्वरूपज्ञानावरकत्वेन विद्याविरोधित्वादविद्येति गीयते । उक्तं च सुधायां ‘‘अतः कामकर्मातिरिक्तं मायाऽविद्या प्रकृतिरित्यादिशब्दाभिधेयमनाद्येव किमपि द्रव्यं स्वरूपचैतन्यावरकमङ्गीकार्य’’मिति । तथा ‘‘अतः परमेश्वर एव सत्वादिगुणमय्या विद्याविरोधित्वेनाविद्यया स्वाधीनया प्रकृत्याऽचिन्त्याद्भुतया स्वशक्तया च स्वप्रकाशमपि जीवचैतन्यमाच्छादयतीति युक्त’’मिति ।

केचिदिमामविद्यां लिङ्गशरीरमाहुः । तैश्चोत्क्रान्तिपादीय ‘‘यदि भगवदपरोक्षज्ञानभोगाभ्यां निवृत्तसमस्तकर्माणः स्वोत्तमप्रवेशेन ब्रह्मनाड्योत्क्रमणेन वा परित्यक्तदेहाः स्वोचितेनार्चिरादिना वा पथा वैकुण्ठलोकवासिनं भगवन्तं हिरण्यगर्भेण सह प्राप्ता भिन्नलिङ्गशरीरा विध्वस्तप्रकृतयोऽत्यन्तनिवृत्तानिष्टाः सम्यगाविर्भूतानन्दादिगुणा भगवत्समीप एव तमुपासीनाः स्वरूपेण वा लीलागृहीतविग्रहैर्वा सङ्कल्पमात्रसाध्यान् दिव्यभोगांस्तारतम्येन भुञ्जाना न कदाचित्पुनरावर्तंत इत्येतन्मोक्षस्वरूप’’मिति सुधयाऽविरोधः सम्पादनीयः ।

प्रसङ्गादावरणान्युच्यन्ते । सत्वादिरूपिणी भावरूपाविद्यैकम् । यथोक्तं भागवते ‘‘बध्नंति नित्यदा मुक्तं मायिनं प्रकृतेर्गुणाः’’ इति । कामो द्वितीयम् । आवृत्तकामरूपेणेति गीतागीतेः । तथा कामनिबद्धोऽयमिति भागवते च । तृतीयं प्रारब्धं कर्म ।

अनादिकर्मणा बद्धो जीवः संसारमण्डले ।

वासुदेवेच्छया नित्यं भ्रमतीति हि तद्वचः ।

इत्यनुव्याख्योक्तेः । प्रकृतिद्वयं च चतुर्थपञ्चमावरणम् । अथान्ये प्रकृती इत्यादेः । लिङ्गशरीरं षष्ठमावरणम् । एवं पञ्चविधं लिङ्गं त्रिवृत्षोडशविस्तृतमित्यादेः । हरीच्छा च सप्तममावरणम् । यथोक्तं सुधायां ‘‘परमेश्वरोऽचिन्त्ययाऽद्भुतया स्वशक्तया जीवस्वरूपचैतन्यमाच्छादयती’’ति । तथा ‘‘आनन्ददश्च मुक्ताना’’मित्यत्र ‘‘नन्वानन्दश्च स्वरूपमेव । स चाविद्यावृतोऽविद्यानिवृत्तौ स्वतःसिद्ध एव । अतः कथं मोक्षदानात्पृथगानन्ददानम् । उच्यते । परमेश्वरशक्तिरेव स्वरूपावरणमुख्या । अविद्या तु निमित्तमात्रम् । ततोऽविद्यायां निवर्तमानायां सत्यामपि नाशे वाऽनन्दाभिव्यक्तिर्यावदीश्वरः स्वकीयां बन्धकशक्तिं न ततो व्यावर्तयती’’ति । नाविद्यैव जीवस्वरूपावरणं किं त्वीश्वरेच्छापीति प्रमेयदीपिकोक्तेः ।

तन्त्रन्यायेनाज्ञानपदं ज्ञानाभावपरं चेत्याह ।। ज्ञानाभाव इति ।। नवनवसुविशेष, न रमापि पदाङ्गुलीलसन्नखधूराजदनन्तसद्गुणान् । श्रियोऽपि च । ज्ञानस्फूर्तिः सदेत्यादे रमाया अपि ज्ञानाभावसम्भवात्सर्वस्येत्युपपन्नम् । बोधनं परोक्षमपरोक्षं च । दुःखास्पृष्टं रमातत्वम् ।

ननु विनाशब्दयोगे कथं ‘‘प्राप्ततमसः दुःखास्पृष्ट’’मित्युभयत्र द्वितीया । पृथग्विनानानाभिस्तृतीयान्यतरस्यामित्यत्र तृतीयया सह पञ्चम्या एव विकल्पनादिति चेन्न । एनपा द्वितीयेति पूर्वसूत्राद्द्वितीयेत्यनुवर्तते । तथा च पृथग्विनानानाभिस्तृतीया । तदभावे पञ्चमी । तदभावे द्वितीयेति विकल्पकरणादिष्टसिद्धेः । यथोक्तं सिद्धान्तकौमुद्यां पृथगित्यादि सूत्रमुदाहृत्य ‘‘एभिर्योगे तृतीया स्यात्पञ्चमीद्वितीये च । अन्यतरस्याङ्ग्रहणं समुच्चयार्थम् । पञ्चमीद्वितीये अनुवर्तेते’’ इत्यादि । विवृतं च तत्वसुबोधिन्याम् । तथा हि ‘‘ननु तृतीयाभावपक्षे एनपा द्वितीयेति प्रकृता द्वितीयैव स्यात् । यदि तु द्वितीया विकल्पेन भवेत्तदा पञ्चम्यपि स्यात् । सा तु नित्यैव । तस्माद्विभक्तित्रयसमावेशो दुरुपपाद इत्यत आह ।। अन्यतरस्यां ग्रहणं समुच्चयार्थमिति । निपातानामनेकार्थत्वादिति भावः ।।

पञ्चमीति ।। तत्र मण्डूकप्लुत्या पञ्चमी । द्वितीया तु संनिहितैव । इह पृथगर्थैरिति सूत्रयितव्ये पर्यायत्रयोपादानं तत्पर्यायान्तरनिवृत्त्यर्थम् । तेन हिरुग्देवदत्तस्येत्यत्र नेत्याहु’’रिति ।

ननु तर्ह्युपासनापादीय ‘‘ज्ञानसूर्यमृते’’ इति मूलव्याख्यापरविनावातमित्यादिप्रयोगदर्शनाद्विनायोग इव ऋतेयोगेऽपि द्वितीया भवत्येवेति सुधायां प्रयोगोऽपरिहारः । तथैव तद्व्याख्यास्वनेकासु व्याख्यानम् । तथा हि वाक्यार्थचन्द्रिका । नन्वन्यारादितरर्ते दिक्छब्दां चूत्तरपदाजाहियुक्त इति ऋतेशब्दयोगे पञ्चमीविधानादृते देवदत्तादिति प्रभृतिवज्ज्ञानसूर्यादृत इति पञ्चम्या भवितव्यम् । ज्ञानसूर्यमृत इति द्वितीया तु कथमित्यतो

विना वातं विना वर्षं विद्युत्प्रपतनं विना ।

विना हस्तिकृतं दोषं केनेमौ पतितौ द्रुमौ ।।

इति विनाशब्दयोगे द्वितीयाविधिस्तावत्परस्यापि संमतः । अत एवोक्तं वृत्तौ पृथग्विनानानाभिरिति योगविभागः कार्यो द्वितीयार्थ इति । उक्तं च हरदत्तेनापि ‘‘अत्रासत्यपि मुनित्रयवचने प्रयोगबाहुल्यादेवं व्याख्यात’’मिति । तथा ‘‘ऋतेशब्दयोगेऽपि द्वितीयाविधिरवश्यमभ्युपगन्तव्यः । तन्निमित्तस्य ऋतेऽपि त्वां न भविष्यन्ति सर्व इति ऋतेयोगे द्वितीयाप्रयोगस्य सद्भावादित्याशयेनाह । विना वातमित्यादीति ।

आचार्या अपि ‘‘ननु सूर्यमिति कथं द्वितीया । विना वातमित्यादिप्रयोगात् । पृथग्विनानानाभिरिति योगविभागः कर्तव्यो द्वितीयार्थ इति काशिकायामुक्तत्वेनविनायोगे तावद्द्वितीया विधिरवगम्यते । एवं तात्पर्ये ऋतेशब्दयोगेऽपि द्वितीया वक्तव्या । ऋतेऽपि त्वां न भविष्यन्ति सर्व इत्याद्यभियुक्तप्रयोगे ऋतेयोगेऽपि द्वितीयाया दृष्टत्वेन न्यायसाम्यादिति भाव’’ इति विभावितवन्तः ।

परिमलेऽपि ‘‘ज्ञानसूर्यं इति कथम् । द्वितीयस्य तृतीयपादे अन्यारादितरर्ते दिक्छब्दां चूत्तरपदाजाहियुक्त इति सूत्रे ऋतेशब्दयोगे पञ्चमीविधानेन ज्ञानसूर्यादृत इति भाव्यम् । एवं बादरायणादपीतीत्यत आह ।। विना वातमित्यादीति । वृत्त्यादौ अन्यारादिति सूत्रादुपरितने पृथग्विनानानाभिरिति योगविभागः कर्तव्यः । पृथगादिशब्दयोगे द्वितीया च विभक्तिर्भवतीत्येतदुक्त्वा विना वातमित्याद्युदाहृत्य, तथा च तत्र प्रयोगानुरोधेन योगविभागेन द्वितीयाया निर्वाह इव महाकविप्रयोगादृतेशब्दयोगेऽपि द्वितीया ध्येया । ऋतेशब्दस्यापि पृथग्विनांतरेण वर्तत इति विनाशब्दपर्यायत्वादिति भाव’’ इति ।

शब्देन्दुशेखरे लघौ, गुरौ च ‘‘समुच्चयार्थमिति । स्पष्टं चैतद्भाष्ये । एतेन अन्यतरस्य आं इत्यङ्गीकारार्थकं पदद्वयमेतदित्यपास्त’’मिति । ‘‘समुच्चयार्थमिति । निपातानामनेकार्थत्वादिति भावः । स्पष्टं चेदं भाष्ये । एतेन अन्यतरस्य आं अङ्गीकारार्थकं पदद्वयमेतत् । यद्वा सप्तम्येकवचनमित्यपास्तम् । पञ्चमीद्वितीये इति । तत्र मण्डूकप्लुत्या पञ्चमी । द्वितीया तु संनिहितैव । न चानन्तरा द्वितीयैव समुच्चीयेतेति वाच्यम् । पृथग्विनानानाभिः । तृतीयेति योगद्वयेनैव सिद्धेऽन्यतरस्यांग्रहणस्य वैयर्थ्यापत्तेः । एतेन पञ्चम्या एव समुच्चयः स्यादित्यपास्तम् । षष्ठ्यतसर्थेत्यस्य, एनपेत्यस्य च स्थलान्तरे कर्तुं शक्यत्वेन योगविभागेनैव सिद्धेः । विभक्तिद्वयोच्चारणेनैव सिद्धेऽन्यतरस्यामिति वैयर्थ्यस्य स्पष्टत्वाच्च ।

यद्यपि द्वितीयासमुच्चयो भाष्यादौ नोक्तः तथापि विना वातं विना वर्षं केनेमौ ...... पतितौ द्रुमावित्यादिप्रयोगबाहुल्यादेवं व्याख्यातमित्याहुः । न चान्यतरस्यांग्रहणस्य समुच्चयार्थत्वे मानाभावः । विकल्पार्थत्वपक्षेऽपि षष्ठीसाधने तस्य चरितार्थत्वादिति वाच्यम् । अन्यतरस्यांग्रहणसामर्थ्यात्पञ्चमी भविष्यतीति भाष्यादिप्रामाण्येन समुच्चयार्थत्वाङ्गीकारा’’दिति समुच्चययोगविभागोभयपक्षस्यापि सङ्ग्रहाद्वृत्त्यादौ योगविभाग इत्युक्तत्वात्सर्वत्राप्यन्ततो गत्वा प्रयोगादित्युक्तेष्टीकाकृद्भिः प्रयोग एवोपात्त इति न विरोधः । समुच्चयपक्षे सत्यप्यभ्युच्चयपक्षोऽयमिति न कश्चिद्विरोधः ।

न च टिप्पण्यां पर्यायत्वकथनं पूर्वोक्ततत्वसुबोधिनीविसंवादीति वाच्यम् । शब्देन्दुशेखरे ‘‘दृशिग्रहणादृतेशब्दयोगे द्वितीये’’त्युक्त्वा ‘‘पुरुषाराधनमृत इत्यादिसिद्धि’’रित्युक्तेः प्रयोगे सति दृशिग्रहणाद्द्वितीया भवतीत्यभिप्रायात् । योगे सति–

उभसर्वतसोः कार्याधिगुपर्यादिषु त्रिषु ।

द्वितीयाऽऽम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते ।।

इत्युपर्यादिशब्दैर्योगे द्वितीयेति सम्भवान्न हि रुग्देवदत्तस्येत्यत्रातिप्रसक्तिरिति न टिप्पणीनां तद्विरोध इत्यलम् ।

पूर्वमेवकारस्य विष्णुशब्देनान्वयः कृतः । तत्प्रयोजनमिदानीमुद्बोधयति । पदार्थानामिति ।। अन्यतः ब्रह्मादितः । प्रतीयते आपाततः । तदुपपादयति ।। सकलेति ।। जडाजडप्रपञ्चसत्तादेः । तदधीनत्वात् विष्ण्वधीनत्वात् । तद्वस्तु ब्रह्मादिरूपम् । निमित्तमात्रं न तु स्वतन्त्रम् । तर्हि ब्रह्मादीनां स्रष्टृत्वप्रतिपादकागमानां का गतिरिति चेन्न ।

ब्रह्मणिस्थोऽसृजद्विष्णुः स्थित्वा रुद्रे त्वभक्षयत् ।

पृथक्स्थित्वा जगत्पाति तद्ब्रह्माद्याह्वयो हरिः ।

ब्रह्मणि ब्रह्मरूपोऽसौ शिवरूपी शिवे स्थितः ।

स ब्रह्मणा विसृजति स रुद्रेण विलापयति ।

निमित्तमात्रमीशस्य विश्वसर्गनिरोधयोः ।

हिरण्यगर्भः शर्वश्च कालाख्या रूपिणस्तव ।।

इत्यादिप्रमाणादिति भावः ।

भावचन्द्रिका

निगडबन्धव्यवच्छेदाय आह प्रकृतेरिति ।। निगडादिमोक्षव्यावृत्त्यर्थमाह मोक्ष इति ।। ‘‘आवृतिज्योतिषी’ इत्यस्य ‘अज्ञानबोधने’ इत्यनेन पौनरुक्तिं परिहरति आवृतिज्योतिषीति । ‘ज्योतिरेव च’ इत्यत्र एवशब्दः व्यर्थः, विरुद्धार्थश्च । तेन हि तन्मात्रस्य भगवदधीनत्वं प्राप्यते, तच्च पूर्वविरुद्धमित्यतः ‘भिन्नक्रमत्वात् न दोषद्वयम् अपि’ इत्याह एवकार इति ।। ‘समस्तस्य’ इत्यनेन ‘स्वतन्त्रस्य सृष्ट्यादि विष्णुना क्रियते इति उच्यते’’ इति भ्रान्तिनिरासाय आह अस्वतन्त्रस्येति ।।

अव्ययीभावादेः समासशब्दार्थस्य प्रकृते ग्रहणे असङ्गतेः विवक्षितमर्थमाह सङ्क्षेपेति ।। ‘समासव्यासयोगतः’ इति षष्ठीसमासपक्षे विवक्षितार्थासिद्धेः आह तावेवेति । साध्यानुक्तेः आह उक्तार्थेति । ‘न एतावताऽपि उक्तदोषपरिहारः’ इत्यत आह इदमुक्तं भवतीति । अज्ञानमिति । ब्रह्मादीनां प्रकृतिबद्धत्वादिति भावः । दुःखास्पृष्टस्यापि तद्वत्त्वे प्रकृतिबद्धत्वेन नित्यमुक्तत्वश्रुतिविरोधः इति भावः । भावरूपम् इति विशेषणप्रयोजनमाह ज्ञानाभावस्त्विति । ज्ञानात्यन्ताभाव इत्यर्थः । रमायाः प्रकृतिबन्धाभावेऽपि ईश्चरेऽयोग्यगुणविषयकज्ञानाभाववत्त्वादिति भावः । द्वितीयक्षणे ज्ञायमानविशेषस्यापि पूर्वक्षणे ज्ञानसद्भावेन, तत्प्रागभावासम्भवात्; ‘नवनवसुविशेष’ इत्यादेश्च व्यक्त्यभिप्रायेण वा अत्यपूर्वत्वाभिप्रायेण वा उपपत्तेः न तद्विरोधः ।।

मूलग्रन्थान् समालोच्य गुरुशिक्षितमार्गतः ।

तत्वसङ्ख्यानटीकायाश्चन्द्रिकेयं विनिर्मिता ।।

इति श्रीमत्सकलविद्वच्चक्रचूडामणीनां विद्याधीशपूज्यपादानां शिष्येण केशवभट्टारकेण विरचिता तत्वसङ्ख्यानभावचन्द्रिका समाप्ता ।।

टीका

पद्मापद्मासनानन्तप्रभृतीदं यदिच्छया ।

सत्तादि लभते देवः प्रीयतां श्रीपतिः स मे ।।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिततत्वसङ्ख्यानविवरणं श्रीजयतीर्थभिक्षुविरचितं सम्पूर्णम् ।।

तत्वसङ्ख्यानटीकाभावदीपः

अस्य समस्तस्येति मूलस्थेदंशब्दार्थं विवृण्वन् जगदुपादानतया सर्वस्य जन्मादिकर्तृत्वभ्रमं वारयंस्तत्प्रीतिं प्रार्थयते ।। पद्मेति ।। पद्मासनो ब्रह्मा । यदिच्छयेत्यनेनोपादानत्वनिरासः अनायाससाध्यत्वं च सूच्यते । इच्छामात्रं प्रभोस्सृष्टिरित्युक्तेः । तेन फलाभावेऽपि सृष्ट्यादिर्युक्तः । आयाससाध्यकर्मण एव फलापेक्षणादित्युक्तं भवति । मूलोक्तसृष्टिशब्दार्थस्सत्तेति । तेन सापि सर्वविषयेति सूचितम् । देव्या अपि प्रीतिप्रार्थनालाभायोक्तम् ।। श्रीपतिरिति ।।

तत्वाभिमानिनो देवा ब्रह्मरुद्रपुरस्सराः ।

यत्परीवारतामाप्तास्तं वन्दे कमलापतिम् ।।

इति श्रीमत्तत्वसङ्ख्यानटीकाभावदीपः श्रीसुधीन्द्रतीर्थश्रीपादशिष्य श्रीराघवेन्द्रतीर्थयतिविरचितः सम्पूर्णः ।।

तत्वसङ्ख्यानटीकाटिप्पणी

समापितग्रन्थोऽन्तेऽपि मङ्गलमाचरति– पद्मापद्मासनेति ।। सत्तादीत्यत्रादिपदेन प्रमितिप्रवृत्त्योर्ग्रहणम् । यादृशस्य भगवतः प्रतिपादनमत्र तादृशस्यैव प्रीतिराशासनीयेति सूचनायैवमुक्तमित्यशेषमतिमङ्गलम् ।।

वासवीवियति व्यक्तं वासुदेवावभासकम् ।

व्यासाभिधमहं वन्दे तत्तामोहतमोऽपहम् ।।

।। इति श्रीयदुपतिविरचिता तत्त्वसङ्ख्यानटिप्पणी समाप्ता ।।

तत्वसङ्ख्यानविवरणम्

समापितग्रन्थो भगवांष्टीकाकारोऽन्तेऽपि मङ्गलमाचरति ।। पद्मेति । लक्ष्मीः पद्मालया पद्मेत्यभिधानात् । पद्मा महालक्ष्मीः । पद्मासनो ब्रह्मा । अनन्तः शेषः । एतदाद्यं इदं विश्वं यदिच्छया सत्तादिकं लभते । सत्तादीत्यादिपदेन प्रमितिप्रवृत्त्योर्ग्रहणम् । यादृशस्य भगवतः प्रतिपादनमस्मिन् प्रकरणे कृतं तादृशस्यैव प्रीतिराशासनीयेत्याशयेनैवमुक्तम् । स देवः श्रीपतिः श्रीहरिः । कमला श्रीहरिप्रियेत्यभिधानात् । श्रीर्महालक्ष्मीस्तत्पतिर्भगवान् विष्णुर्मे प्रीयतामित्यर्थ इत्यशेषमतिमङ्गलम् ।।

यादवाचार्यहृत्पद्मगतश्रीमध्वहृद्गतः ।

प्रीयतामनया ग्रन्थकृत्या श्रीबादरायणः ।। १ ।।

लौकिकालौकिकफलं दातारं भजतां सदा ।

गुर्वनुग्रहरूपं तं मन्दारमहमाश्रये ।। २ ।।

इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेनविरचितं तत्वसङ्ख्यानविवरणं सम्पूर्णम् ।।

तत्वसङ्ख्यानटिप्पणम्

एवं समापितग्रन्थो भगवांष्टीकाकार एतत्प्रकरणप्रतिपादितगुणवत्त्वेन भगवन्तं स्तुवन् एतत्प्रकरणविवरणफलत्वेन स्वस्यैकान्तभक्तत्वमविदुषो जनाञ्जननी तनयमिव बोधयंस्तत्प्रीतिमाशास्ते पद्मेति ।। पद्मा लक्ष्मीः । पद्मासनो ब्रह्मा । लक्ष्मीः पद्मालया पद्मा, विरिञ्चः कमलासन इत्युभयतश्चामरः । अनन्तः शेषः । शेषोऽनन्त इत्यमरः । त एव प्रभृतयो यस्य तत्तथा । इदं विश्वम् । सत्ता असतः कार्यरूपेण भवनस्यैव जनित्वाज्जनिः सत्ताशब्देन गृह्यते । तथा च सा आदिर्यस्य सृष्ट्याद्यष्टकस्य तत्तथा । लभते प्राप्नोति । स देवः क्रीडादिगुणकः श्रीपतिः मे प्रीयतां प्रसीदतु । श्री हरिप्रिया । श्रीपतिः पुरुषोत्तम इति सोपयुक्तामरामरः । ननु पद्माप्रभृतीत्येवोक्तौ सर्वलाभे किमर्थं पद्मासनानन्तग्रहणम् । यदि दुःखस्पृष्टतदस्पृष्टभेदाख्यावान्तरविशेषसूचनाय तद्ग्रहः तर्हि पद्मापद्मासनप्रभृतीत्येव मुखतो वाच्यं स्यात् । न वाच्यं चानन्तेति । अथ तत्तद्व्यक्तिग्रहोऽपेक्षित इत्युपादानम् । हन्त तर्हि पुरुषायुषादपर्यवसानं स्यात् । तस्मात्कथमेतदिति चेन्न । केचिदनन्तविष्वक्सेनादीन्नित्यादुःखानाचक्षते । तन्मतमतन्द्रितः पराकर्तुमनन्तमानन्तेति समाधिसम्भवात् । तर्हि पूर्वानुपूर्व्यां ‘‘गरुडानन्तविष्वक्सेनादी’’निति गरुडस्यैव प्रथमं ग्रहणादत्र यदि तन्मततो भेद आवश्यकस्तर्हि गरुड एवादौ निर्देश्य इति चेन्न । कश्चिदविपश्चिदपश्चिमो बलमलपद्दशावतार्यां हलं कलयत इति । तन्निराकर्तुमपारमतिर्जग्राह तदात्मकमनन्तं यतोऽत इति । न चाष्टपद्यां हलमित्यादिनोक्तः कृष्ण एव । न च तस्य हलधरत्वं कथमिति वाच्यम् । सहस्रनामि्न ‘‘वनमाली हलायुध’’ इत्युक्तहलधररूपाभिन्नत्वेन तस्योपपन्नत्वादिति वाच्यम् । दशाकृतिकृते कृष्णाय तुभ्यं नम इति कृष्णस्य पृथग्ग्रहणविरोधापत्तेः ।

अथवा पद्मापद्मासनादयो भवन्तु तदधीना अमुक्ताः । मुक्तस्तु ‘‘निरञ्जन’’ इत्यादिश्रुतेर्न तदधीन इत्यतः प्रायोज्यनन्तेति । ततश्च पद्मापद्मासनौ अनन्तौ अबद्धौ मुक्ताविति यावत् । अनन्तौ पद्मापद्मासनौ । कडाराः कर्मधारय इति विशेषणस्य परनिपातः । तौ प्रभृती यस्य तत्तथा । रमाया नित्यमुक्ताया ब्रह्मादीनामपि मुक्तानां तदधीनत्वे ‘‘उतामृतत्वस्येशानः, सर्वं तत्प्रज्ञानेत्रं द्वावेतौ नित्यमुक्तौ । अव्यक्तात्पुरुषः परः । श्रीर्यत्र रूपिण्युरुगायपादयोः चरणरज उपास्ते यस्य भूतिर्वयं काः ।’’ इत्याद्यागमा द्रष्टव्याः । अति बन्धन इति धातोरनन्तेति रूपम् । श्रीपतिः श्रीर्मङ्गलदेवतेत्यशेषमतिमङ्गलम् ।।

न शाब्दी नाम्नायी न हि मम च मैमांस्यपि मतिः

न वा तार्की कार्ष्णी किमपि च लपन्वा चपलधीः ।

यदात्तर्ते श्रेयोऽभिधविधिकलत्रोरुकरुणो

गुरूणां कारुण्यादभवमिति मान्योऽधिधरणि ।। १ ।।

यथा स्थाली स्वस्थं सरसमरसं वेत्ति न सदा

भ्रमन्ती सौदीदर्व्यपि न फललाभास्तदपरे ।

तदीयो दाहादिः स्खलनकलितो मन्तुरपि मेऽ

प्यनेनाप्तं नैनः फलमलघु यायादृतवरः ।। २ ।।

साहंतोऽहं नातनवं न च भूविबुधा बुधः ।

तन्न मन्तुः किंतु वित्तचित्तशुद्ध्या इति स्थितिम् ।। ३ ।।

व्यासरामनृसिंहार्ववदना गुरुहृद्गताः ।

संस्थानकुलदेवेष्टदेवाः प्रीणंत्विदङ्कृतेः ।। ४ ।।

यादवार्याराधकश्रीमुद्गलार्यहृदब्जगः ।

श्रीनिवासो दाशरथिर्धिनोत्वेतत्सपर्यया ।। ५ ।।

क्व टीकाकारसद्वाणी वाणीड्वाचानुसारिणी ।

क्व जाल्मो वाग्दरिद्रोऽहमिति मे साहसं महत् ।। ६ ।।

इयं मान्याऽवन्यां सजयजयवाचं यमवचोऽ

नुसारा निःसारा भणतिरपि मे यद्विदभिधैः ।

यथा लाक्षा रूक्षा मणिगणसमासत्तिसहिता

महीयोभिर्मूर्ध्ना ध्रियत इति सत्संगमहिमा ।। ७ ।।

इति श्रीमत्सत्यवरचरणौपसदसत्यधर्मयतिकृतं

तत्वसङ्ख्यानटिप्पणं समाप्तम् ।।

काशीटिप्पणी

दुरन्तदुर्मतध्वान्तध्वंसकृन्मध्वभास्करः ।

बत्थिेत्यादिवेदोक्तगुणः प्रीतोऽस्तु मे सदा ।।

इति श्रीमदुपाध्यायकृता भगवतः सदा ।

तत्वसङ्ख्यानतात्पर्यचन्द्रिका सुप्रसत्तये ।।

इति महामहोपाध्यायकाशीतिम्मण्णाचार्यविरचिता तत्वसङ्ख्यानटीकाविवरणटिप्पणी समाप्ता