ननु स्वतन्त्रतत्वं भावोऽभावोऽन्यद्वा

स्वतन्त्रतत्वस्य भावतत्वे अन्तर्भावसमर्थनम्

टीका

ननु स्वतन्त्रतत्वं भावोऽभावोऽन्यद्वा । नाद्यद्वितीयौ । भावाभावयोः परतन्त्रप्रभेदत्वात् । न तृतीयः । व्याघातात् । मैवं, भावलक्षणाक्रान्तत्वात् । परतन्त्रं भावाभावतया द्विधैव न पुनरेकविधम् । नापि त्रिविधमित्येवम्परो विभागः । न पुनः परतन्त्रमेव भावाभावात्मकमिति ।

भावतत्वान्तर्भूततया स्वतन्त्रतत्वस्याविभागे कारणोक्तिः

यथा भावेषु स्वतन्त्रतत्वं प्रविशति तथा विभागः क्रियतामिति चेन्नैवं शङ्क्यम् । तद्धि प्रधानतया सर्वविविक्तमेव वेदितव्यम् । अन्यथा द्विविधं तत्वं भावोऽभावश्च । भावोऽपि द्विविधः नित्योऽनित्यश्च । नित्यो द्विविधः चेतनोऽचेतनश्च । चेतनोऽपि द्विविधः स्वतन्त्रोऽस्वतन्त्रश्चेति कर्तव्यम् । एवं सति न प्राधान्येन प्रतिपत्तिः स्यात् । भगवद्व्यतिरिक्तस्य सर्वस्याप्यस्वातन्त्र्यप्रतीतिर्न स्यात् । अस्मिन्पक्षे स्वतन्त्रस्य भावत्वं न विदितं स्यादिति सममेवेति चेन्न । पुरुषार्थोपयोगानुपयोगाभ्यां विशेषात् । अभावादीनां नित्यत्वाद्यनुक्तिश्च समैव । तस्माद्यथान्यासमेवास्तु ।

भाववर्णनम्

स्वातन्त्र्यास्वातन्त्र्याभ्यामेव विभागकरणे पूर्वोक्तयुक्तिमपि स्मारयति ।।  भगवद्व्यतिरिक्तस्येति ।। यद्यपि ‘यद्यपी’त्यादिना भावत्वाभावत्वाभ्यां विभागकरणं पूर्वमाशङ्कितम् । तथापि स्वतन्त्रायत्ततया परतन्त्रस्य ज्ञानं निःश्रेयसोपयोगीति वक्तुं पूर्वमाशङ्कितम् । इदानीन्तु स्वतन्त्रस्य प्राधान्येन सकलविविक्ततया ज्ञानं निःश्रेयसोपयोगीति निवेदयितुमिति भेद इति द्रष्टव्यम् ।

तत्वसङ्ख्यानटीकाभावदीपः

अस्वतन्त्रं भावाभावभेदाद्द्विविधमित्यङ्गीकारे स्वतन्त्रं भावो न स्यादित्याशयेनाशङ्कते ।। नन्विति ।। अन्यद्वा भावाभावाभ्यामन्यद्वेत्यर्थः । परतन्त्रप्रभेदत्वात् परतन्त्रविशेषत्वादित्यर्थः ।। व्याधातादिति ।। भावो नेत्युक्ते अभाव इति प्राप्तम् । पुनरभावो नेत्युक्ते व्याघातः । तथाऽभावो नेत्युक्ते भाव इति प्राप्तम् । पुनर्भावो नेत्युक्ते व्याघात इत्यर्थः ।। भावलक्षणेति ।। ‘‘अस्ति ब्रह्म’’ ‘‘नारायणो वा इदमग्र आसीत्’’ ‘‘ब्रह्म वा इदमग्र आसीत्’’ इत्यादिरूपेण प्रथमप्रतीतौ विधितया प्रतीयमानत्वरूपभावलक्षणोपेतत्वाद्भावत्वमेवेत्यर्थः । तर्हि भावाभावौ द्विधेतरदित्युक्तिविरोध इति । अत आह ।। परतन्त्रमिति ।। इत्येवम्पर इति ।। इत्येवं एतादृशो न्यूनाधिकसङ्ख्याव्यवच्छेदः परः उद्देश्यः यस्य स तथा तत्प्रयोजक इति यावत् ।। विभाग इति ।। भावाभावौ द्विधेतरत् इत्यनेन उक्तविभाग इत्यर्थः । इतिशब्दानन्तरं एवम्पर इत्यस्यानुषङ्गः । इत्येवं एतादृशोऽयं इतरव्यवच्छेदः तत्परो न भवतीत्यर्थः । शङ्कते ।। यथेति ।। तद्धीति ।। स्वतन्त्रतत्वमित्यर्थः ।। अन्यथेति ।। स्वतन्त्रतत्वस्य भावत्वार्थकविभागकरणे तु इति कर्तव्यमित्यन्वयः । अस्त्वेवं तथापि का हानिः ? इति । अत आह ।। एवमितीति ।। भावत्ववन्नित्यत्वचेतनत्वयोरपि लाभायोक्तं नित्योऽनित्य इत्यादिविभागद्वयम् ।। सर्वस्यापीति ।। उक्तविभागे भगवदन्यचेतनमात्रस्यैवास्वातन्त्र्यप्रतीतेरिति भावः । शङ्कते ।। अस्मिन्पक्ष इति ।। मूलकृदुक्तविभागपक्ष इत्यर्थः ।।

पुरुषार्थेति ।। मूलकृदुक्तटीकाकृदुक्तविभागद्वयपक्षेऽपि कस्यचिदर्थस्याज्ञानसाम्येऽपि मूलकृदुक्तविभागपक्षः पुरुषार्थोपयोगी अवश्यज्ञातव्यः । प्राधान्यसर्वविभक्तत्वयोः स्वतन्त्रतत्वे ज्ञानोदयात् । टीकाकृत्प्रदर्शितविभागपक्षे तयोरज्ञानात् भावत्वज्ञानस्य च पुरुषार्थानुपयोगेन तदज्ञानेऽपि दोषाभावात् । मूलकृदुक्तविभागपक्षे तु पुरुषार्थोपयोगित्वविशेषभावादित्यर्थः । अथापि अनुपपत्तिरस्तीत्याशङ्क्याह ।। अभावादीनामिति ।। अत्यन्ताभावध्वंसयोर्नित्यत्वं, प्रागभावस्यानित्यत्वं, त्रयाणामचेतनत्वं, पारतन्त्र्यं, अचेतनेऽपि केषाञ्चिदनित्यत्वं, पारतन्त्र्यमित्यादिकमपि टीकाकृत्प्रदर्शितविभागे । मूलकृदुक्तविभागे विष्णोर्भावत्वमेव नोक्तं इति कस्यचिदनुक्तिरुभयत्र समैव । प्रत्युतात्र बहूनामनुक्तिः । तत्र भावत्वस्यानुक्तिरेवेत्यर्थः ।। तस्मादिति ।। अनुक्त्योस्साम्यान्मूलोक्तविभागे विशेषसत्त्वाच्च मूलोक्तविभाग एवास्त्वित्यर्थः ।

तत्वसङ्ख्यानटीकाटिप्पणी

व्याघातादिति ।। भावभिन्नस्याभावतया पुनरभावभिन्नत्वाभिधाने, तथाऽभावभिन्नस्य भावतया पुनर्भावभिन्नत्वाभिधाने व्याघात इत्यर्थः । तथाप्यस्य वैयर्थ्यादयमेव विभागो न्याय्य इति उक्तमननुसन्दधानः ननु तत्त्वस्य भावाभावतयैवासौ विभागः कुतो न क्रियत इत्याशयेनाशङ्कते– यथा भावेष्विति ।। पूर्वोक्तमेव वैयर्थ्यं स्मारयति– एवं सति न प्राधान्येनेत्यादिना ।। अभावादीनामिति ।। अभावस्य नित्यत्वानुक्तिः नित्यस्य भावप्रभेदत्वात् । आदिपदद्वयेनानित्यस्य घटादेरचेतनत्वानुक्तिः अचेनस्य नित्यप्रभेदत्वादिति द्रष्टव्यम् ।

तत्वसङ्ख्यानविवरणम्

व्याघातादिति । भावभिन्नस्याभावतया पुनरभावभिन्नत्वाभिधाने व्याघातः । तथाऽभावभिन्नस्य भावतया पुनर्भावभिन्नत्वाभिधाने व्याघातादित्यर्थः ।। भावलक्षणेति । प्रथमप्रतीतावस्तीत्युपलभ्यते यः स भाव इति भावलक्षणाक्रान्तत्वात्स्वतन्त्रतत्वं भाव एवेत्यर्थः । ‘‘सर्वं वाक्यं सावधारणमि’’ति न्यायेन भावाभावौ द्विधेतरदिति वाक्यं सावधारणं तच्चावधारणं द्विधेत्यनेन सम्बध्यते न तु परतन्त्रार्थकेतरदित्यादिना । तथा च स्वतन्त्रतत्वस्य भावत्वाङ्गीकारे न कोऽपि दोष इत्याशयेनाह ।। परतन्त्रमिति ।। न पुनः परतन्त्रमेवेति । येन भावस्य परतन्त्रप्रभेदत्वेन स्वतन्त्रतत्वस्य विष्णोर्भावत्वं न स्यादिति भावः । यद्यपि तत्वस्य भावाभावतया द्वैविध्यं शक्यते वक्तुम् । तथाप्यस्य वैयर्थ्यादयमेव विभागो न्याय्य इत्युक्तमननुसन्दधानः तत्वस्य भावाभावतयैव विभागः कुतो न क्रियत इत्याशयेन शङ्कते ।। यथा भावेष्विति ।। तद्धीति । स्वतन्त्रतत्वमित्यर्थः ।

सर्वविविक्तमेवेति । सर्ववैलक्षण्येनैव न तु सर्वसाधारण्येनेत्यर्थः । तदर्थं स्वतन्त्रास्वतन्त्रभेदेनैव तत्वविभागः कार्यः । भावाभावभेदेन तत्वविभागो न कार्यः इत्याशयः ।। अन्यथेति । सर्वविविक्ततया वेदनमनङ्गीकृत्य स्वतन्त्रतत्वस्य यथा भावेषु प्रवेशः तथा विभागकरण इत्यर्थः । पूर्वोक्तमेव वैयर्थ्यं स्मारयति ।। एवं सतीति । दूषणान्तरमाह ।। भगवदिति ।। सर्वस्येति । भावाभावनित्यानित्यरूपचेतनवर्गस्येत्यर्थः ।। अस्वातन्त्र्येति । अस्वतन्त्रस्य चेतनप्रभेदरूपत्वादि(ति भावः)त्यर्थः ।। अस्मिन्पक्ष इति । तत्वं द्विविधं स्वतन्त्रं परतन्त्रं च, परतन्त्रं द्विविधं भावोऽभावश्चेति विभागकरणे स्वतन्त्रतत्वस्य भावत्वमविदितं स्यात् भावस्य परतन्त्रभेदरूपत्वादित्यर्थः ।। सममेवेति । तथा चैवं साम्ये भावाभावादिनैव तत्वविभागः क्रियतामविशेषादिति भावः । अविशेषोऽसिद्ध इत्याह ।। पुरुषार्थेति ।

स्वतन्त्रास्वतन्त्रभेदेन तत्वद्वैविध्यज्ञानस्य मोक्षोपयोगिताया ‘‘य एतत्परतन्त्रं तु’’ इत्यादिना प्रमितत्वादन्यस्य तदभावादिति भावः । नन्वथापि न भवदुक्तरीत्या तत्वविभागो युक्तः । तथाहि । तत्वं द्विविधम् । स्वतन्त्रमस्वतन्त्रं चेति । अस्वतन्त्रं द्विविधं भावोऽभावश्च । भावोऽपि द्विविधः चेतनोऽचेतनश्च । अचेतनस्त्रिविधः । नित्योऽनित्यो नित्यानित्यश्चेति विभागकरणे प्रध्वंसात्यन्ताभावरूपाभावस्य नित्यत्वं नोक्तं स्यात् । नित्यस्य भावप्रभेदरूपाचेतनप्रभेदरूपत्वादित्यर्थः । तथा चेतनस्य नित्यत्वं नोक्तं स्यात् । नित्यस्याचेतनप्रभेदरूपत्वात् । तथा स्वतन्त्रतत्वस्य भावत्वं नोक्तं स्यात् । भावस्यास्वतन्त्रप्रभेदरूपत्वादित्याशङ्क्य त्वदीयविभागकरणे एतत्समानमित्याह ।। अभावादीनामिति । प्रथमादिपदेन चेतनस्वतन्त्रतत्वयोर्ग्रहणम् । द्वितीयादिपदेन भावत्वग्रहणम् । तथा च ध्वंसात्यन्ताभावरूपाभावयोश्चेतनानां च नित्यत्वानुक्तिः स्वतन्त्रतत्वस्य भावत्वानुक्तिश्चेत्यर्थः । इदमुपलक्षणम् । प्रागभावस्य अनित्यत्वानुक्तिः अनित्यस्य भावप्रभेदरूपाचेतनप्रभेदरूपत्वादिति द्रष्टव्यम् ।

समैवेति । तत्वं द्विविधं भावोऽभावश्च । भावोऽपि द्विविधः । नित्योऽनित्यश्च । नित्योऽपि द्विविधः । चेतनोऽचेतनश्च । चेतनोऽपि द्विविधः । स्वतन्त्रमस्वतन्त्रं चेति विभागकरणे अचेतनस्यास्वातन्त्र्यं नोक्तं स्यात् । अस्वतन्त्रस्य चेतनप्रभेदरूपत्वात् । तथा नित्यप्रध्वंसात्यन्ताभावयोर्नित्यत्वं प्रागभावस्यानित्यत्वं नोक्तं स्यात् । नित्यानित्ययोर्भावप्रभेदरूपत्वादित्यर्थः ।। यथान्यासमिति । ‘‘स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्वमिष्यत’’ इति उक्तप्रकारेणैव द्वैविध्यमस्त्वित्यर्थः ।

तत्वसङ्ख्यानटिप्पणम्

‘‘भावाभावौ द्विधेतरदि’’ति विभागोऽनुपपन्नः । स्वतन्त्रतत्वस्यैतदुभयाननुप्रवेशादिति शङ्कते ।। नन्विति ।। नाद्यद्वितीयौ युज्येते इति शेषः । तत्र हेतुमाह ।। भावाभावयोरिति ।। परतन्त्रभेदत्वात् परतन्त्रप्रभेदरूपत्वादित्यर्थः ।। व्याघातादिति ।। वस्तुषु भावाभावान्यतरत्वस्यैव सत्त्वात्तदुभयभिन्नस्य तस्याङ्गीकारे व्याहतिः स्यादित्यर्थः । ननु भावाभावान्यत्वस्य शशविषाणादौ सत्त्वात्कथं व्याहतिरिति चेन्मैवम् । तदुभयभिन्नस्य वस्तुनोऽभावादित्यनेनोक्तोत्तरत्वात् । अभ्युपेत्येदमुदितम् । वस्तुतस्तु भावाभावप्रतियोगिकान्योन्याभावो नासत्यङ्गीकारार्हः । तथात्वे सिद्धान्ते तस्य धर्मिस्वरूपत्वेनासत्त्वप्राप्तेः । न च तथात्वे भावाभावयोरसतश्च भेदाभावेन भावाभावयोरसतश्चासत्त्वाद्यापत्तिरिति वाच्यम् । असति तदुभयप्रतियोगिकभेदाभावेऽपि तयोरसत्प्रतियोगिकभेदसद्भावेनोक्तापत्तेरभावात् । अत एव न्यायामृते विप्रतिपत्तिग्रन्थे विद्यमानम् ब्रह्मान्यदित्येतदेवमेव व्याचख्युरभियुक्ताः । विकल्पितपक्षेषु प्रथममङ्गीकृत्य शङ्कां परिहरति ।। मैवमिति ।। भावस्य यल्लक्षणमुक्तं तेन विशिष्टत्वादित्यर्थः । भावत्वादिति वक्तव्ये यद्भावलक्षणाक्रान्तत्वादिति वचनं तत् न पुनर्लक्षणासम्भावनाशङ्कानिरासाय प्रयासः कर्तव्य इति लाघवार्थमिति ज्ञातव्यम् । तर्हि भावाभावौ द्विधेतरदित्युक्तिरयुक्तेत्यत आह ।। परतन्त्रमिति ।। विभाग एवंपरः । एवमेतत्परमुद्देश्यं यस्य स तथोक्तः । तथा चान्यनिषेधकत्वाभावादस्य मूलस्य विष्णोर्भावत्वमुपपद्यत इति भावः ।

ननु स्वतन्त्रमस्वतन्त्रं चेत्युक्त्वा उक्त्वा च भावाभावावित्यादि स्वतन्त्रतत्वं भाव इत्यङ्गीकरणात् वरं यथा भावे निविशेत स्वतन्त्रतत्वं तथा विभजनमित्याशङ्कते ।। यथेति ।। तथेत्यनुपदमेव स्पष्टीभविष्यति । भावेषु बहुवचनमाद्यर्थे । भावनित्यचेतनादिषु । भाव इत्येकवचनान्तपाठोऽपि क्वचिद्दृश्यते भावकोटाविति तदाऽर्थः । अत्र भावपदञ्च नित्यचेतनाद्युपलक्षकम् । अत एव भावो द्विविधः । नित्योऽनित्यश्च । नित्योऽपि द्विविधः । चेतनोऽचेतनश्चेत्यनुपदमेव वक्ष्यति । परिहरति ।। नैवं शङ्क्यमिति ।। तत् स्वतन्त्रतत्वम् । हिर्हेतौ । प्रधानतया मुख्यतया । सर्वविविक्तं रमादिसर्वजगद्विविक्तम् । वेदितव्यमिति तव्यप्रत्ययेन इष्टसाधनज्ञानञ्चेदमेव नान्यदिति वैधोऽयमर्थ इति द्योतयति । तथा विभागः क्रियतामित्युक्तं विशदयति ।। अन्यथेत्यादिना ।। अन्यथा अस्मद्रीत्या विभागाकरणे । अन्यथेति कर्तव्यमित्यन्वयः । एवं सति उक्तरीत्या विभागे सति । प्रतिपत्तिः ज्ञानम् । स्वतन्त्रतत्वस्येति योज्यम् ।। अस्वातन्त्र्यप्रतीतिर्न स्यादिति ।। न चेष्टापत्तिः । तज्ज्ञानस्य मोक्षसाधनत्वेन ‘य एत’दित्यादिनोक्तेरिति भावः । अस्मिन्पक्षे सैद्धान्तिकविभागपक्षे । इति इतिहेतोः । सममेव यथा भावत्वादिना विभागे विष्णोः प्राधान्याज्ञानं दूषणं तथा स्वतन्त्रत्वादिना विभागेऽपि तस्य भावत्वाद्यज्ञानरूपं दूषणं सममेवेत्यर्थः । कुतो नेत्यत आह ।। पुरुषार्थेति ।। स्वतन्त्रास्वतन्त्रतत्वयोः प्राधान्याप्राधान्यज्ञानस्यातिशयेन मोक्षहेतुत्वादितरस्यातथात्वादित्यर्थः ।

भावत्वादिना विभागे दूषणान्तरमाह ।। अभावादीनामिति ।। यथाऽस्मन्मते स्वतन्त्रतत्वादीनां भावत्वचेतनत्वनित्यत्वाद्यलाभस्तथा त्वत्पक्षेऽपि ध्वंसात्यन्ताभावयोर्नित्यत्वं प्रागभावस्य अनित्यत्वं त्रयाणामचेतनत्वास्वतन्त्रत्वे प्रधानादीनामचेतनत्वास्वतन्त्रत्वे घटादीनामनित्यत्वमित्याद्यलाभः । सति चैवं साम्ये पूर्वोपदर्शितमोक्षोपयोगिनः स्वतन्त्रास्वतन्त्रतत्वयोः प्राधान्याप्राधान्यरूपेण ज्ञानस्यालाभोऽतिरिच्यत इति भावः । निगमयति ।। तस्मादिति ।। यथान्यासं आचार्यरचितविभागविन्यासमनतिक्रम्य । यथाऽसादृश्य इत्यव्ययीभावः । नाव्ययीभावादतोम्त्वपञ्चम्या इत्यम् ।

भावचन्द्रिका

ननु च तत्त्वस्यैव च ‘तत्त्वं द्विविधम् । भावोऽभावश्च’ इति भावाभावतया विभागः युक्तः । स्वतन्त्रतया अभिमतस्य विष्णोः तथात्वे एव भावत्वादिसिद्धिसम्भवात् । न तु परतन्त्रस्य तथा विभागः । तथा सति विष्णोः भावत्वाद्यसिद्धिप्रसङ्गात् । ‘भावाभावौ द्विधेतरत्’ इति न्यूनाधिकसङ्ख्याव्यवच्छेदकविभागस्य ‘परतन्त्रमेव भावाभावतया द्विविधम्’ इत्येवंपरत्वावश्यंभावेन, ‘पार्थ एव धनुर्धरः’ इत्यादौ विशेष्यसङ्गत एवकारेण पार्थान्यस्य धनुर्धरत्वरूपविशेषणयोगव्यवच्छेददर्शनात् विशेष्यसङ्गतेन ‘परतन्त्रमेव’ इत्येवकारेण परतन्त्रान्यस्मिन् भावत्वादिविशेषणयोगव्यवच्छेदप्रतिपादनेन, भावत्वस्य परतन्त्रत्वव्याप्यत्वलाभात् । स्वतन्त्रतत्त्वस्य च भावत्वे व्याप्यवति व्यापकावश्यंभावनियमेन भावत्वव्यापकस्य परतन्त्रत्वस्य प्रसङ्गात् । न च स्वतन्त्रस्य तत् सम्भवति इति व्यापकनिवृत्त्या तद्व्याप्यभावत्वनिवृत्तिः एव स्वतन्त्रस्य स्यात् । अतः स्वतन्त्रतत्त्वस्य भावत्वादिविज्ञानं यथा सिद्ध्यति तथा विभागे कर्तव्ये कथं भावाभावभेदेन पारतन्त्र्यविभागनिरूपणम् ? इति भावेन गूढाभिसन्धिः शङ्कते नन्विति ।

व्याघातादिति । स्वतन्त्रतत्त्वस्य भावान्यत्वे अभावत्वमेव प्राप्तम् । पुनरभावान्यत्वोक्तौ व्याघातः । एवमभावान्यत्वेऽपि भावत्वस्यैव प्राप्ते पुनः तदन्यत्वोक्तौ व्याघातः इत्यर्थः ।। परतन्त्रतत्त्वस्य भावतया विभागोक्तावपि स्वतन्त्रतत्त्वस्य भावत्वादिविज्ञानसम्भवात् न उक्तविभागः अनुपपन्नः इत्याशयेन गूढाभिसन्धिरेव सिद्धान्ती समाधत्ते मैवमिति । भावलक्षणाऽऽक्रान्तत्वादिति । भावः इति शेषः । स्वतन्त्रतत्त्वमिह अनुवर्तते ।। अन्यथा भावलक्षणस्य तत्र अतिव्याप्तिः स्यादिति भावः । नन्वेवं व्याप्यवति व्याप्यकावश्यंभावनियमात् स्वतन्त्रतत्त्वस्य भावत्वे तद्व्यापकभूतपरतन्त्रत्वमपि तत्र स्यात् । तत्कथं भावत्वाङ्गीकारः इत्यतः न्यूनाधिकसङ्ख्याव्यवच्छेदकस्य विभागस्य सावधारणत्वेऽपि ‘परतन्त्रमेव द्विविधम्’ इत्येवंपरत्वाभावात्, ‘‘परतन्त्रं भावाभावतया द्विविधमेव इत्येवंपरत्वस्यैव आश्रयणात् ‘‘शङ्खः पाण्डुर एव’’ इत्यादौ विशेषणसङ्गत एवकारस्य विशेष्ये विशेषणायोगव्यवच्छेदकत्वदर्शनात्, परतन्त्रे भावत्वाद्ययोगव्यवच्छेदमात्रसिद्धौ अपि भावत्वादौ तद्व्याप्यत्वालाभात् अव्यापकव्यावृत्त्या च अव्याप्यव्यावृत्तौ अतिप्रसङ्गात्, न परतन्त्रतत्त्वव्यावृत्त्या स्वतन्त्रतत्त्वस्य भावत्वव्यावृत्तिप्रसङ्गः । येन उक्तविभागस्य अकर्तव्यता स्यादित्याशयेन आह परतन्त्रमिति ।

पूर्ववादी स्वाभिप्रायमुद्घाटयति यथेति । भावेषु इतिबहुवचनम् आद्यर्थे । भावादिषु इत्यर्थः । आदिपदेन च नित्यचेतनयोः परिस्पर्शः ।। क्वचित् भावे इत्येव पाठः । तत्र भावपदं नित्यादेः उपलक्षणम् । अत एव सिद्धान्ते अन्यथा इत्यादिना तदेव विभावयिष्यति इति ध्येयम् ।

तत्त्वं द्विविधम् भावोऽभावश्च, भावोऽपि द्विविधः नित्योऽनित्यश्च, नित्योऽपि द्विविधः चेतनोऽचेतनश्चेति, चेतनोऽपि द्विविधः स्वतन्त्रः परतन्त्रश्च इत्येव विभागः कर्तव्यः । तथा सति हि स्वतन्त्रतत्त्वस्य भावत्वादिकं सम्यगुक्तं भवति । द्विविधं तत्त्वं स्वतन्त्रं परतन्त्रञ्च, परतन्त्रञ्च भावाभावतया द्विविधम् इति विभागे तु, स्वतन्त्रतत्त्वस्य भावत्वप्राप्तिशङ्कायामुक्तरीत्या विभागमात्रस्य अभिप्रायान्तरकल्पनायां तु यत्नगौरवमेव । न च प्रयोजनविशेषाभावे तदाश्रयणमुपपत्तिमत् इति भावः ।। सति प्रयोजनविशेषे यत्नगौरवाश्रयणं न दोषाय इत्याशयेन आह नैवमित्यादिना ।

तत्त्वं द्विविधम् स्वतन्त्रमस्वतन्त्रञ्च इति विभज्य अस्वतन्त्रकोटौ भगवदितरस्य अन्तर्भावे भगवतः प्राधान्येन प्रतीतिः भवति । पराभिप्रेत विभागे तु नैवमित्यतः अयमेव विभागः कर्तुं युक्तः इत्याशयः । पराभिप्रेतविभागे भगवतः स्वातन्त्र्यप्रतीतिरपि भिन्नक्रमः इति ।

ननु यथा तत्त्वस्य भावत्वाभावत्वादिना विभागकरणे भगवतः स्वातन्त्र्यं तद्व्यतिरिक्तस्य च अस्वातन्त्र्यं न सिद्ध्यति इति तथा विभागस्य अकर्तव्यता त्वया उच्यते । तथा तत्त्वस्य स्वातन्त्र्यपारतन्त्र्याभ्यां विभागे स्वतन्त्रतत्त्वस्य भावत्वाद्यप्रतीतिप्रसक्तेः तथा विभागस्य अकर्तव्यत्वं मयाऽपि अभिधातुं शक्यत एव इति पक्षद्वयमपि सममेव इति शङ्कते अस्मिन्निति ।

न च अस्वतन्त्रं भावाभावतया द्विधैव इत्यादिना विभागस्य अभिप्रायान्तरकथनेन भगवतो भावत्वस्य व्युत्पादितत्वात् न साम्यम् इति वाच्यम् । परेणापि चेतनः स्वतन्त्रोऽस्वतन्त्रश्चेति द्विविध एव इत्येवंपरत्वस्य व्युत्पादयितुं शक्यत्वात् । अन्यस्य अस्वातन्त्र्याद्यनिरासेन भगवद्व्यतिरिक्तस्य सर्वस्य अस्वातन्त्र्यप्रतीतिसौलभ्यस्य वक्तुं शक्यत्वेन तौल्यापरिहारात् । भगवदायत्तत्वेन प्रपञ्चज्ञानस्य पुरुषार्थसाधनत्वेन आवश्यकत्वात्, तस्य सिद्धान्त्यभिप्रेतविभागपक्ष एव सम्भवात्, तथैव विभागः कर्तव्यः न तु भावत्वादिना । भगवतो भावत्वादिज्ञानस्यापुरुषार्थसाधनत्वेन तज्ज्ञानस्य अनावश्यकत्वात् । ततश्च विभागद्वयेऽपि यत्किञ्चिदसिद्धेः तौल्येऽपि आवश्यकासिद्धिः भावत्वादिविभागे, स्वातन्त्र्यादिविभागे तु न आवश्यकासिद्धिः इति विशेषात् न पक्षद्वयतौल्यमित्याह पुरुषार्थेति ।

अभावादीनामिति । यथा अस्मत्पक्षे अभावस्य नित्यत्वाद्यनुक्तिः, अभावादीनामिति आदिपदसूचितस्वतन्त्रतत्त्वस्य नित्यत्वाद्यनुक्तिः, नित्यस्य चेतनत्वानुक्तिः भवति तथा तत्पक्षे अभावस्य नित्यत्वाद्यनुक्तिः, अनित्यस्य अचेतनत्वानुक्तिः भवति समैव इत्यर्थः ।। चशब्देन न केवलं साम्यम् अपि तु भगवतः प्राधान्याप्रतीतिः, भगवद्व्यतिरिक्तस्य पारतन्त्र्याप्रतीतिश्च इति पूर्वोक्तं समुच्चिनोति । तस्मादिति । यस्मात् परकीयविभागे परोक्तानुपपत्तिसाम्यम्, अस्मदुक्तानुपपत्त्याधिक्यं च; तस्मादित्यर्थः ।

(वेंे.टि.) पुरुषार्थोंपयोगेति ।। भगवद्यतिरिक्तस्य सर्वस्य स्वतन्त्रप्रमेयायत्ततया ज्ञानं यथा निःश्रेयसहेतुत्वेनोपयोगि, न तथा खतन्त्रतत्त्वस्य भावत्वादिज्ञानमित्यर्थः ।

काशी टिप्पणी

स्यादेतत्, भावाभावत्वाभ्यामस्वतन्त्रविभागो न युक्तः । शब्दतः सावधारणप्रतीतेरौत्सर्गिकतया भावाभावौ द्विधेतरदित्यतः परतन्त्रमेव भावाभावात्मकमित्यर्थलाभेन स्वतन्त्रस्य भावत्वानुपपत्तेरिति भावेन शङ्कते ।। नन्विति ।। अन्यद्वा अभिमतमिति शेषः । परतन्त्रप्रभेदत्वात् परतन्त्रविशेषत्वात् । भावत्वाभावत्वयोः परतन्त्रत्वव्याप्यत्वादिति यावत् । अन्यथोक्तावधारणानुपपत्तेरिति भावः । व्याघातादिति ।। भावभिन्नत्वाभावभिन्नत्वयोरभावभावमात्रवृत्तित्वेन तदुभयसामानाधिकरण्यस्य व्याहतत्वादित्यर्थः । न च शशशृृङ्गादौ तदुभयसामानाधिकरण्यसम्भवः । आश्रयस्यैवासत्त्वेन तदनुपपत्तेः । अत्र स्वतन्त्रस्य नित्यानित्यत्वादिविकल्पनिरासोऽपि द्रष्टव्यः । अत्र यद्यपि स्वतन्त्रस्य भावत्वादित्येव वक्तव्यं तथाप्युक्तभावलक्षणवत्वेनैव भावत्वसिद्धेर्न विकल्पावकाश इति सूचनाय भावलक्षणाक्रान्तत्वादित्युक्तम् । नन्वेवमुक्तविभागानुपपत्तिरित्यत आह ।। परतन्त्रमिति ।। अयं भावः । ‘शङ्खः पाण्डुरः’ इत्यादविव विशेषणांश एवावधारणप्रतीतिर्बाधकाभावात् । न तु गौः सास्नाशृृङ्गवती इत्यादाविव विशेष्यांशोऽपि । स्वतन्त्रस्य भावत्वग्राहकप्रमाणबाधात् । न च विशेषणावधारणस्यायोगव्यवच्छेदरूपतया भावत्वादेश्चाभावादावयोगात्कथं तत्प्रतीतिरिति वाच्यम् । प्रत्येकमयोगेऽपि द्वित्वोपलक्षितस्यायोगव्यवच्छिन्नत्वादिति । एवं नित्यत्वादिविभागस्यापि विशेषणांश एव सावधारणत्वात् स्वतन्त्रस्य नित्यत्वादिसिद्धिरपि द्रष्टव्या ।

नन्वेवं तत्वं द्विविधं भावोऽभावश्च । भावोऽपि द्विविधः नित्योऽनित्यश्च । नित्यो द्विविधः चेतनोऽचेतनश्चेत्येव विभागो युक्तः । स्वतन्त्रस्य साक्षादेव भावत्वादिलाभात् । न च तस्य स्वातन्त्र्यालाभः स्वतन्त्रास्वतन्त्रभेदेन चेतनविभागेनापि तल्लाभात् । अत एव पूर्वोक्तविभागवैयर्थ्यं स्वातन्त्र्यास्वातन्त्र्याभ्यामविभाग एव तद्दोषदानादित्याशयेन शङ्कते ।। यथेति ।। भावेषु भावप्रभेदेषु भावत्वावान्तरविभाजकं स्वतन्त्रत्वं यथा भवतीति यावत् । उक्तरीत्या विभागे परापरतत्वयोरविशेषेण भावत्वादिप्रतीतिः स्यात् । सा च विफलेत्याशयेन समाधत्ते ।। नैवमिति ।। तत् स्वतन्त्रतत्वम् । प्राधानतया अनन्याधीनतया । सर्वविविक्तं सर्वतो विलक्षणधर्मवत् । प्रतिपत्तव्यमिति श्रुतिसिद्धमित्यर्थः । ततः किमित्यत आह ।। अन्यथेति ।। स्वतन्त्रत्वस्य भावत्वावान्तरविभाजकत्वे । इति विभजनं कर्तव्यमिति सम्बन्धः । प्राधान्येन प्रतीतिः अनन्याधीनभावत्वादिमत्वेन भगवत्प्रतीतिः । दोषान्तरं चाह ।। भगवद्व्यक्ततिरिक्तस्येति ।। अभावादेरस्वातन्त्र्यालाभादिति भावः । अपिशब्दः प्रतीतिरपीति योज्यः । अत्रैव प्रतिबन्दीमाशङ्कते ।। अस्मिन् पक्ष इति ।। सिद्धान्तपक्ष इत्यर्थः । सममेव इति दूषणमिति शेषः । यद्यपि सिद्धान्ते स्वतन्त्रस्य भावत्वनित्यत्वचेतनत्वानां बहूनामलाभः । पूर्वपक्षे त्वचेतनेष्वस्वातन्त्र्यमात्रालाभ इति वैषम्यम् । न चैकत्र बहुधर्मालाभस्य बहुष्वेकधर्मालाभस्य च साम्यमेवेति वाच्यम् । तथा सत्यनन्ताचेतनानामस्वातन्त्र्यालभस्यैव गरीयस्त्वापत्त्या पूर्वपक्षानुत्थितेः । तथापि सिद्धान्ते स्वतन्त्रत्वरूपैकविभाजकोपाध्यवच्छेदेन भावत्वादिधर्मत्रयालाभः । पूर्वपक्षे तु अभावत्वानित्यत्वाचेतनत्वरूपविभाजकोपाधित्रयावच्छेदेनास्वातन्त्र्यरूपैकधर्मालाभ इत्येवं साम्यस्य विवक्षितत्वान्न दोषः । न च पूर्वपक्षे अनित्यस्याचेतनत्वालभोऽधिक इति वाच्यम् । सिद्धान्ते चेतनस्य नित्यत्वालाभेन साम्यात् । न च पूर्वपक्षे धर्म्यानन्त्याद्वैषम्यम् । सिद्धान्ते धर्मिप्राधान्येन समीकरणादिति विभावनीयम् ।।

पुरुषार्थेति ।। भगवदितरस्य सर्वस्याप्यस्वातन्त्र्यज्ञानं मोक्षोपयोगि । न तु भगवतः सर्वसाधारणभावत्वादिज्ञानमित्यर्थः । नन्वेवमभावस्य नित्यत्वाद्यलाभो दोषः नित्यानित्यवस्तुविवेकस्यावश्यकत्वादिति । अत आह ।। अभावादीनामिति ।। अभावस्य नित्यत्वाचेतनत्वाद्यनुक्तिर्मतद्वयेऽपि समैव । आदिपदाच्चेतनस्य नित्यत्वानुक्तिश्चाचेतनस्यानित्यत्वानुक्त्या समेत्यर्थः । तथा च प्रमाणान्तरादेव तदवगमः । उक्तविभागस्यान्ययोगव्यवच्छेदकत्वाभावादिति भावः । उपसंहरति ।। तस्यादिति ।। अत्यन्तोपयोगित्वाद्यथोक्तविभाग एव युक्त इत्यर्थः ।