दुःखसंस्था मुक्तियोग्या अयोग्या इति च द्विधा
दुःखसंस्थचेतनविभागस्तल्लक्षणं च
टीका
दुःखसंस्थानां प्रभेदमाह ।। दुःखसंस्था इति ।।
तत्वसङ्ख्यानम्
दुःखसंस्था मुक्तियोग्या अयोग्या इति च द्विधा ।। ४ ।।
अयोग्या मुक्तेः । अयोग्या इत्यतःपरं चशब्दो ज्ञातव्यः । अत्रापि तदेवोद्देशक्रमे निमित्तम् । ननु च प्राधान्याद्विमुक्तभेदः प्रथमं वक्तव्यः । सत्यं, योग्यायोग्यभेदस्य दुःखसंस्थेष्वेव भावात्तदभिधानानन्तरं मुक्तियोग्यभेदकथनस्य सौकर्यात्क्रमोल्लङ्घनम् ।
तत्वसङ्ख्यानटीकाभावदीपः
अत्रापि तदेवेति ।। प्राधान्यमेवेत्यर्थः ।। दुःखसंस्थेष्वेवेति ।। न तु मुक्तेष्विति भावः । योग्यतायाः स्वभावत्वेन मुक्तेष्वपि मुक्तियोग्यतायाः सत्वान्मुक्तियोग्यभेदकथनस्येत्युक्तावविरोधः । यद्वा एवं विमुक्तियोग्या इत्येतदभिप्रायमिदम् ।
तत्वसङ्ख्यानटीकाटिप्पणी
ननु पूर्वं दुःखसंस्थानां द्वैविध्यस्यानुक्तत्वेनेति च द्विधेति द्वैविध्यसमुच्चयः कथमित्यत आह– अयोग्या इति ।। सत्यमिति ।। अयं भावः । यदि मुक्तभेदं देवर्ष्यादिभेदेनादावभिधाय पश्चाद्दुःखसंस्थानां योग्यायोग्यविभागान्तरं मुक्तानां भेदमुक्त्वा मुक्तियोग्यानामपि देवर्ष्यादिभेदेन पञ्चविधत्वमुच्येत तदोक्तिगौरवम् । यदि तु दुःखसंस्थानां योग्यायोग्यविभागानन्तरं मुक्तानां भेदमुक्त्वा मुक्तियोग्यानामपि देवर्ष्यादिभेदेन पञ्चविधत्वमुच्येत तदोक्तिगौरवम् । यदि तु दुःखसंस्थानां योग्यायोग्यविभागानन्तरं मुक्तानां पञ्चविधत्वमुक्ता मुक्तियोग्येष्वेवं विमुक्तियोग्याश्चेति तदतिदिशेत् तदोक्तिलाघवमिति । ननु कथमेवमतिदेष्टुं शक्यम् । विमुक्तानां पञ्चविधत्वकथनानन्तरं मुक्तानामपि दुःखसंस्थवद्योग्यायोग्यप्रभेदवत्त्वे तत्कथनस्यैवोचिततया तदनन्तरमेवातिदेशावकाशात्तत्कथनानन्तरं चातिदेशे गौरवमेवेत्यत उक्तं– योग्यायोग्यभेदस्येति ।। तथा चात्र योग्यायोग्यभेदस्याभावेन विमुक्तविभागकथनानन्तरमेवातिदेशो युक्त इत्युक्तिलाघवमुपपन्नमिति भावः ।
तत्वसङ्ख्यानविवरणम्
ननु पूर्वं दुःखसंस्थानां द्वैविध्यस्यानुक्तत्वेन इति च द्विधेति द्वैविध्यसमुच्चयः कथमित्यत आह ।। अयोग्या इत्यतःपरमिति । अयोग्याश्चेतीत्यर्थः । तदेव प्राधान्यमेव । मुक्तियोग्यतदयोग्ययोर्मध्ये मुक्तियोग्यानां प्राधान्यात्त एवादौ निर्दिष्टा इत्यर्थः ।। ननु चेति । ‘‘स्पृष्टदुःखा विमुक्ताश्च दुःखसंस्थाश्चे’’ति प्राधान्यक्रमेण विमुक्तानां प्रथममुद्दिष्टत्वात्तदनुसारेण विमुक्तानां प्रभेद एवादौ वक्तव्यः । तमनुक्त्वा दुःखसंस्था मुक्तियोग्या इति अनन्तरोद्दिष्टदुःखसंस्थानां आदौ विभागकथने किं निमित्तमित्यर्थः । तदभिधानानन्तरमिति दुःखसंस्थानां योग्यायोग्यभेदकथनानन्तरमित्यर्थः । अयं भावः । यदि देवर्ष्यादिभेदेन पञ्चधा विमुक्तिभेदमादावभिधाय पश्चादुःखसंस्थानां योग्यायोग्यप्रभेदमुक्त्वा मुक्तियोग्यानां पुनर्देवर्ष्यादिभेदेन पञ्चविधत्वमुच्येत । तदोक्तिगौरवम् । यदि तु दुःखसंस्थानां योग्यायोग्यविभागकथनानन्तरं विमुक्तानां पञ्चविधत्वमुक्त्वा एवं विमुक्तियोग्याश्चेति मुक्तियोग्येषु तदतिदिश्यते तदोक्तिलाघवमिति । ननु कथमेवं अतिदेष्टुं शक्यम् । विमुक्तानां पञ्चविधत्वकथनानन्तरं विमुक्तानामपि दुःखसंस्थवत् योग्यायोग्यप्रभेदवत्त्वे मुक्ताः द्विविधाः । योग्या अयोग्याश्चेति तत्कथनस्यैवोचितत्वेन मुक्तानां पञ्चविधत्वकथनानन्तरं एवं विमुक्तियोग्याश्चेत्यतिदेशानवकाशात् । तथा च मुक्तानां पञ्चविधत्वकथनानन्तरं मुक्तानां योग्यायोग्यविभागमुक्त्वाऽनन्तरमेवं विमुक्तियोग्याश्चेत्यतिदेशात् गौरवमेवेत्यत उक्तम् ।। योग्यायोग्यभेदस्य दुःखसंस्थेष्वेव भावादिति । तथा च मुक्तेषु दुःखसंस्थवत् योग्यायोग्यभेदस्य भावेन विमुक्तानां देवर्ष्यादिभेदेन विभागकथनानन्तरमेवं विमुक्तियोग्याश्चेत्यतिदेशो युक्त एवेत्युक्तिलाघवमुपपन्नमिति भावः ।
तत्वसङ्ख्यानटिप्पणम्
अयोग्याः पूर्वप्रकृतत्वान्मुक्तेरिति शेषः । दुःखसंस्था इति मूले ‘‘अयोग्या इति च द्विधे’’तीतिशब्दानन्तरं चशब्दः श्रूयते । तत्रैव तस्यान्वये पूर्वं दुःखसंस्थविभागः कथितस्तत्रैव पुनरयमेको विभाग इति प्रतीतिः स्यात् । न च तद्विभागः कथित इति तस्य विहितस्थलेऽन्वयं दर्शयन्व्याचष्टे ।। अतः परञ्चशब्द इति ।। ज्ञातव्यः अयोग्याश्चेत्यनेन योग्यान्वयो ज्ञेय इत्यर्थः । मुक्तियोग्या अयोग्या इत्येवं निर्देशे पूर्वोक्तं निमित्तं स्मारयति ।। अत्रापीति ।। तदेव प्राधान्यमेव । यदि प्रधानत्वं प्राथम्ये निमित्तं तर्हि विमुक्तभेद आदावावेदनीयः । स कुतो नावेदितोऽत्रेति शङ्कते ।। नन्विति ।। अर्धाङ्गीकारेण परिहरति ।। सत्यमिति ।। तथापीत्यध्याहारः । योग्यायोग्यभेदस्य मुक्तियोग्यतदयोग्यविभागस्य । दुःखसंस्थप्रभेदत्वेन तदभिधानानन्तरं दुःखसंस्थविभागाभिधानानन्तरं मुक्तियोग्यविभागकथनं सुशकमिति सौकर्यार्थं प्राधान्यक्रमोल्लङ्घनम् । अन्यथा चैवमित्यतिदेशायोगो गौरवं च स्यादिति भावः ।
भावचन्द्रिका
दुःखसंस्थाः इति मूले अयोग्या इति च द्विधा इत्यत्र इतिशब्दानन्तरं चशब्दः श्रूयते । तेन न केवलं पूर्वोक्तरीत्या दुःखसंस्थाः द्विविधाः, ‘मुक्तियोग्याः अयोग्या’ इति च द्विधा’ इति द्वैविध्यसमुच्चयः क्रियते इति भाति । न च तद्युज्यते । पूर्वं दुःखसंस्थानां द्वैविध्यस्य अनुक्तत्वेन द्वैविध्यसमुच्चयानुपपत्तेः इत्यत आह अयोग्या इति । तथा च ‘मुक्तियोग्याः अयोग्याश्च इति दुःखसंस्थाः द्विविधाः’ इत्यर्थलाभात् न उक्तदोषः इति भावः ।। अत्रापीति । अयोग्यापेक्षया मुक्तियोग्यानामादौ निर्देशेऽपि प्राधान्यमेव अभिमतमित्यर्थः । यद्यपि अत्र अभावस्य भावनिरूप्यत्वमपि मुक्तियोग्यानामादौ निर्देशे निमित्तमित्यपि वक्तुं शक्यते इति प्राधान्यमेव इति अवधारणमयुक्तमित्याभाति तथाऽपि न अत्र एवशब्देन अन्यनिमित्तं निषिध्यते, किन्तु ‘किं मतान्तरगवेषणया? प्राधान्यमेव सम्भवति’ इत्येवं बोध्यते इत्यदोषः ।। सत्यमिति । यदि मुक्तभेदं देवर्ष्यादि भेदेन आदौ अभिधाय पश्चात् दुःखसंस्थानां योग्यायोग्यविभागमुक्त्वा मुक्तियोग्यानामपि देवर्ष्यादिभेदेन पञ्चविधत्वमुच्येत, तदा उक्तिगौरवम् । यदि तु दुःखसंस्थानां योग्यायोग्यविभागानन्तरं विमुक्तानां पञ्चविधत्वमुक्त्वा मुक्तियोग्येषु एवं विमुक्तियोग्याश्च’ इति तत् अतिदिश्येत, तदा उक्तिलाघवमिति ।
ननु नैवमतिदेष्टुं शक्यम् । विमुक्तानां पञ्चविधत्वकथनानन्तरं तेषामपि दुःखसंस्थवत् योग्यायोग्यप्रभेदवत्त्वेन तत्कथनस्यैव उचितत्वेन, तदनन्तरमेव अतिदेशावकाशात् । तत्कथनानन्तरं च अतिदेशे गौरवमेव इत्यतः, स्यादेवं यदि दुःखसंस्थवत् मुक्तानामपि योग्यायोग्यभेदवत्त्वं स्यात् । न च एवम् । अतः मुक्तभेदकथनानन्तरमेव अतिदेशापत्तेः लाघवमेव इत्याह योग्येति । यद्वा मुक्तियोग्यानां दुःखसंस्थप्रभेदतया दुःखसंस्थविभागकथनेन मुक्तियोग्यानां ज्ञाने सति ‘देवर्षिः’ इत्यादिना मुक्तामुक्तदेवर्ष्यादिभेदस्य ‘एवं विमुक्तियोग्याश्च’ इति मुक्तियोग्येषु अतिदेशेन कथनं सुकरं भवति । प्राधान्यमनुसृत्य विमुक्तभेदस्य प्रथममुक्तौ तु, दुःखसंस्थविभागस्थमुक्तियोग्याज्ञानेन ‘एवं विमुक्तियोग्याश्च’ इत्यतिदेशायोगेन योग्यप्रभेदकथनं सुकरं न स्यात् । प्राधान्यात् विमुक्तभेदकथनानन्तरं दुःखसंस्थान् विभज्य तत्प्रभेदानां मुक्तियोग्यानां ‘देवर्षिपितृपनरा इति योग्यास्तु पञ्चधा’ इति विभागोपदेशः दुष्करः स्यात् । अतः निर्देशसौकर्यात् तत्क्रमोल्लङ्घनमित्यर्थः । यद्यपि प्राधान्येन विमुक्तभेदकथनानन्तरं दुःखसंस्थान् विभज्य तत्प्रभेदविमुक्तियोग्यानां ‘योग्याः विमुक्तवत् भिन्नाः’ इति अतिदेशः शक्यते कर्तुम्, तथाऽपि ‘एवं विमुक्तियोग्याश्च’ इत्यनेनैव विभागविशेषातिदेशः सिध्द्यति’’ इत्यभिप्रायकः अयं ग्रन्थः । अत एव वक्ष्यति ‘देवर्ष्यादिभेदेनेत्यस्यानुकर्षणार्थश्चकारः’ इति ।
काशी टिप्पणी
अत्र क्वचिदयोग्यत्वस्य मुक्तियोग्येष्वपि सम्भवात्क्वचिदप्ययोग्यत्वस्य तमोयोग्येष्वप्यसम्भवादाह ।। अयोग्या मुक्तेरिति ।। अत्र मुक्तियोग्यत्वं मुक्तिप्रयोजकदृढभक्त्यादिरूपत्वं, अतद्रूपत्वं तद्विरोधिद्वेषादिरूपत्वं वा मुक्त्ययोग्यत्वमिति ध्येयम् । अत्र चशब्दस्य द्वैविध्यान्तरसमुच्चायकत्वायोगादाह ।। अयोग्या इत्यतः परं इति ।। अत्रापीति ।। दुःखसंस्थविभागेऽपि मुक्तियोग्यानां प्रथमोद्देशे प्राधान्यमेव मुख्यं नियामकमित्यर्थः । तेन निरूप्यनिरूपकभावरूपनियामकान्तरसत्वेऽपि नैवकारविरोधः । निरुक्तद्वितीयकल्पे तदभावाच्चेति ध्येयम् ।
।। प्राधान्यादिति ।। यद्यप्युद्देशक्रमादित्यापि सुवचं तथापि प्राधान्यक्रमस्योद्देशक्रमबाधकत्वेन मुख्यत्वात्स एवोक्तः । समाधत्ते ।। सत्यमिति ।। विमुक्तानां प्राधान्यमित्येतत्सत्यम् । तथापि विमुक्तभेदकथनाव्यवहितोत्तरं मुक्तियोग्यभेदकथनस्यातिदेशलघवात् क्रमोल्लङ्घनम् । अन्यथा विमुक्तविभागानन्तरं योग्यायोग्यभेदेन दुःखसंस्थान्विभज्य योग्येषु व्यवहितविमुक्तभेदस्य एवमित्याद्यतिदेशायोगाद्विशिष्य देवर्ष्यादिभेदेन पञ्चविधत्वस्य कथनीयतया ग्रन्थगौरवं स्यादिति भावः । ननु योग्यायोग्यभेदादिना मुक्तानेव विभज्य दुःखसंस्थेष्वेव तदतिदेशलाघवसम्भवात्कुतः क्रमोल्लङ्घनमित्याशङ्कापरिहारायोक्तम् ।। योग्यायोग्येत्यादि ।।
(गु.टि.) दुःखसंस्था इति मूलम् ।। दुःखे संस्था वर्तमाना इति भाति । तदनुपपन्नम् । जीवानामेव दुःखाधिकरणत्वेन दुःखस्य जीवाधि- करणत्वाभावादित्यतस्तद्व्याचष्टे ।। दुःखसंस्था इति ।। सम्यक् तिष्टत इति संस्थं वर्तमानमिति यावत् । संस्थं दुःखं येषान्ते वाहिताग्न्यादिष्विति विशेषणपदत्वात्तेन दुःखसंस्था इति मूलस्य वर्तमानदुःखा इति व्याख्यानेन नोक्तानुपपत्तिरित्यभिप्रायः । न च सुषुप्त्यवस्थापन्नेऽव्याप्तिः । तत्रापि शरीरेन्द्रियादिरूपदुःखस्य वर्तमानत्वादित्याहुः । वर्तमानदुःखपदेन दुःखप्रागभाव एव विवक्षित इत्यदोष इत्यप्याहुः ।