यद्यपि भावाभावतया वा चेतनाचेतनत्वेन वा..

मूलोक्ततत्वविभागपरीक्षा

टीका

यद्यपि भावाभावतया वा चेतनाचेतनत्वेन वा नित्यानित्यतया वा अस्य द्वैविध्यं शक्यते वक्तुम् । तथाप्यस्य वैयर्थ्यादयमेव विभागो न्याय्यः । परतन्त्रप्रमेयं स्वतन्त्रप्रमेयायत्ततया विदितं हि निःश्रेयसाय भवति । तथा च प्रकरणान्ते वक्ष्यति । अन्यथा गङ्गावालुकपरिगणनवदिदं तत्वसङ्ख्यानमपार्थकं स्यात् । अतः स्वतन्त्रास्वतन्त्रभेदाद्द्विविधं तत्वमिति ।

तत्वसङ्ख्यानटीकाभावदीपः

एवं च तत्वपदेन द्विविधपदेन स्वतन्त्रास्वतन्त्रपदाभ्यां व्यावर्तितं पक्षचतुष्टयं इष्यते इतिपदसूचितयुक्तिभिर्निरस्येदानीमेवं विभागमाक्षिप्य समाधत्ते ।। यद्यपीत्यादिना स्वतन्त्रतत्वस्येत्यतः प्राक्तनेन ग्रन्थेन ।। अस्येति ।। तत्वस्येत्यर्थः । न्याय्यतां व्यनक्ति ।। परतन्त्रेत्यादिना । कुत एतत्? इति । अत आह ।। तथा चेति ।। उक्तप्रकारेण वक्ष्यति च सृष्टिः स्थितिश्चेत्यादिना सर्वस्येशायत्तत्वमित्यर्थः । ‘‘तादृशज्ञानं निःश्रेयसहेतुः’’ इति तत्रानुक्तावपि तदुक्तिवैयर्थ्यान्यथानुपपत्त्या तल्लभ्यत इति भावः । परतन्त्रेत्यादिस्वोक्तार्थे स्वयं युक्तिं चाह ।। अन्यथेति ।। एवं विभागाकरण इति वा, पराधीनतया जगतो ज्ञातव्यत्वाभाव इति वा, तथा ज्ञानस्य निःश्रेयसहेतुत्वाभाव इति वा अर्थः ।। अत इति ।। स्वातन्त्र्यादिभेदेन विभागस्योक्तदिशा न्याय्यत्वादित्यर्थः । इतिशब्दः स्वतन्त्रमस्वतन्त्रं चेत्यनेनोक्तविभागसमर्थनपरिसमाप्तौ वर्तते ।

तत्वसङ्ख्यानविवरणम्

प्रकारान्तरेण द्वैविध्यसम्भवाद्वेति चतुर्थविकल्पमनूद्य दूषयति ।। यद्यपीत्यादिना ।। अस्येति । भावाभावत्वादिना तत्वद्वैविध्यकथनस्येत्यर्थः ।। वैयर्थ्यादिति । भावाभावाद्युक्तरीत्या तत्वद्वैविध्यज्ञानस्य मोक्षासाधनत्वादित्यर्थः । एवं तर्हि स्वतन्त्रास्वतन्त्रभेदेन तत्वद्वैविध्यकथनमपि व्यर्थं प्रयोजनाभावादित्यत आह ।। परतन्त्रप्रमेयमिति । आयत्ततया अधीनतया । ‘अधीनो निघ्न आयत्त’ इत्यभिधानात् । सृष्टिस्थितिनियमनादाविति शेषः ।। वक्ष्यतीति । सृष्टिःस्थितिस्संहृतिश्चेत्यादिना । ‘विष्णुनाऽस्य समस्तस्य समासव्यासयोगतः’ इति प्रकरणान्ते परतन्त्रप्रमेयस्य सृष्ट्यादिविषये स्वतन्त्रभूतविष्ण्वधीनत्वस्य उक्तत्वादित्यर्थः । यद्यप्यत्र परतन्त्रप्रमेयस्य स्वतन्त्रप्रमेयभूतविष्ण्वधीनत्वमेवोक्तम् । न तु तज्ज्ञानस्य मोक्षसाधनत्वम् । तथापि–

य एतत्परतन्त्रं तु सर्वमेव हरेः सदा ।

वशमित्येव जानाति संसारान्मुच्यते हि सः ।।

इति तत्वविवेकान्ते उक्तप्रकारेण तज्ज्ञानस्य मोक्षहेतुत्वमप्यत्राभिप्रेतमिति द्रष्टव्यम् ।। अन्यथेति । तज्ज्ञानस्य निःश्रेयसासाधनत्व इत्यर्थः । तत्वसंख्यानं तत्वपरिगणनम् ।

तत्वसङ्ख्यानटिप्पणम्

प्रकारान्तरेण विभागकर्तव्यतामाशंक्यास्यैव साफल्यादयमेव विहित इत्याह ।। यद्यपीत्यादिना ।। द्वन्द्वान्ते श्रूयमाणस्तत्प्रत्यय उभयत्राप्यन्वेति । अस्य तत्वस्य । अस्य परपरिदर्शितविभागस्य । वैयर्थ्यात् मोक्षजनकज्ञानाविषयत्वादिति भावः । अयमेव स्वतन्त्रमस्वतन्त्रं चेत्यादिना कृतो विभाग एव न्याय्यः न्यायादनपेतः । धर्म पथ्यर्थन्यायादनपेत इति यत् । तमेव न्यायमुपपादयति ।। परतन्त्रेत्यादिना ।। परस्तन्त्रम् प्रधानम् यस्य तत्तथा । ‘तन्त्रम् प्रधाने सिद्धान्ते कुटुम्ब’ इति विश्वः । ‘तन्त्रं प्रधाने सिद्धान्त’ इत्यमरः । तन्त्रम् कुटुम्बकृत्ये स्यादित्यारभ्य ‘प्रधाने तन्तुवाये च’’ इति तट्टिप्पणीसङ्गृहीताभिधानञ्च । आयत्ततया अधीनतया । ‘अधीनो निघ्न आयत्त’ इत्यमरः । आयत्तत्वञ्च स्वसत्तादौ यथासम्भवं ज्ञेयम् । निःश्रेयसाय निश्चितम् श्रेयो निःश्रेयसं मोक्षः । तस्मै । अचतुरेति निपातनादच् । श्रेयो निःश्रेयसामृतमित्यमरः । तत्र ज्ञापकमाह ।। तथा चेति ।। प्रकरणान्ते तत्वविवेकेन सहैकम् प्रकरणमिदमिति

य एतत्परतन्त्रन्तु सर्वमेव हरेः सदा ।

वशमित्येव जानाति संसारान्मुच्यते हि सः ।।

इत्येतत्प्रकरणान्ते वक्ष्यतीत्यर्थः । भावाभावतयेत्यादिविभागकथने तज्ज्ञानस्य मुक्त्यनुपयुक्तत्वाद्गङ्गागतसिकतागणनावद्व्यर्थमिदन्तत्वसङ्ख्यान मापद्येतेत्याह ।। अन्यथेति ।। अन्यथा अस्मद्रीत्या विभागाकरणे । अपगतोऽर्थो यस्मात्तत्तथा । निरर्थकमित्यर्थः । उक्तमर्थमुपसंहरति ।। अत इति ।। एतदोऽन्नित्यनि वाऽशि वा तसिलि अत इति भवति । एतस्माद्धेतोरित्यर्थः । इदम्शब्दस्य वोक्तादेशे प्रत्यये तसिलि चेदम् रूपम् । इदम्शब्दपरामृश्यं दर्शयतीति सुधापरिमले ‘यद्वा इदम इशित्यतो योगविभागादिदमोऽन्यशि वेदंशब्दस्याप्यत इति रूपम्’ इत्युक्तेः । इतिशब्दः सामान्यविभागपरिसमाप्तौ ।

भावचन्द्रिका

द्वैविध्येऽपि तत्त्वस्य प्रकारान्तरेणापि द्वैविध्यसम्भवात् एव तदनङ्गीकारः इत्यन्तिमपक्षं निराकरोति यद्यपीति । मोक्षरूपफलानुपयोगित्वादिति भावः । स्वपक्षसाधकहेतुमेव उपपादयति परतन्त्रेति । ‘‘विष्णुनाऽस्य समस्तस्य’’ इत्यादिना इति शेषः । यद्यपि एतत्प्रकरणान्ते सृष्ट्यादिविषये परतन्त्रं विष्ण्वायत्तम् इत्येव उच्यते न तु तथा ज्ञानस्य निःश्रेयसहेतुत्वं तथापि एतत्प्रकरणार्थसाक्षित्वेन भगवत्प्रणीततत्त्वाविवेकगतवाक्योदाहृतिरूपतया तत्वविवेकस्य एतत्प्रकरणशेषत्वात्, तदन्ते–

य एतत्परतन्त्रन्तु सर्वमेव हरेः सदा ।

वशमित्येव जानाति संसारान्मुच्यते हि सः ।।

इत्युक्तेः इयमुक्तिः इति ध्येयम् । अपार्थं व्यर्थम् ।। अत इति । सम्भावितपक्षाणामुक्तरीत्या दुष्टत्वादित्यर्थः ।। सिद्धमिति वाक्यशेषः ।।

काशी टिप्पणी

स्यादेतत्, प्रकारान्तरेणापि तत्वविभागसम्भवात्स्वातन्त्र्यास्वातन्त्र्याभ्यामेव तद्विभागे किं नियामकमित्याशङ्क्याह ।। यद्यपीति ।। अस्य भावाभावत्वादिना विभागस्य । वैयर्थ्यात् मोक्षानुपयोगित्वात् । स्वातन्त्र्यादिना विभाग एव कथं मोक्षोपयोगीति । अत आह ।। परतन्त्रेति ।। निःश्रेयसाय मोक्षाय । विभागान्तरे च प्रपञ्चस्य पारतन्त्र्यालाभादिति भावः । एतच्च आचार्यैः सूचितमित्याह ।। तथा चेति ।। स्वतन्त्रास्वतन्त्रविवेकस्य मोक्षोपयोगित्वाभिप्रायेणैवेत्यर्थः । अन्यथा सृष्टिः स्थितिश्चेत्यादिना सर्वस्य विष्ण्वधीनत्वोक्तेर्वैयर्थ्यात्,

य एतत्परतन्त्रं तु सर्वमेव हरेः सदा ।

वशमित्येव जानाति संसारान्मुच्यते हि सः ।।

इति तत्वविवेकान्ते स्पष्टमुक्तत्वेन तदनतिभिन्नार्थकेऽप्यत्र तदभिप्रायस्यावश्यकत्वाच्चेति भावः । ननु स्वतन्त्रास्वतन्त्रविवेकवद्भावाभावादिविवेकोऽपि मोक्षोपयोगी । अन्यथा भावाभावौ द्विधेतरत् इत्यादेर्वैयर्थ्यापत्तेरिति । अत आह ।। अन्यथेति ।। स्वातन्त्र्यादिना अविभज्य भावत्वादिनैव विभागेऽपार्थकं स्यात् । स्वातन्त्र्यादिविवेकस्यैव मोक्षमुख्योपायतायास्तत्वविवेकादिसिद्धतया तदभावे तदङ्गभूतभावत्वादिविवेकस्य वैयर्थ्यादिति भावः । तथापीत्यादिनोक्तमुपसंहरति ।। अत इति ।। उक्तरीत्या तत्वद्वैविध्यस्यैव प्रामाणिकत्वात्प्रयोजनवत्वाच्च । इतीत्यनन्तरं विभागो युक्त इति शेषः ।