स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्वमिष्यते

तत्वसामान्योद्देशविभागौ तत्वसामान्यलक्षणं च

टीका

तत्र तावत् तत्वं सामान्यतो विभागेनोद्दिशति- स्वतन्त्रमिति ।।

तत्वसङ्ख्यानम्

स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्वमिष्यते ।

तत्वमनारोपितम् । प्रमितिविषय इति यावत् । तेन तस्य भावस्तत्त्वं इत्यादिखण्डनानवकाशः ।

भाववर्णनम्

ननु अनारोपितं आरोपाविषयः भ्रमाविषय इति यावत् । नहि भ्रमाविषयः कश्चित्प्रसिद्धोऽस्तीत्याशङ्कानिरासायाह ।। प्रमितिविषय इतीति ।। सर्वांशे प्रमाविषय इत्यर्थः । स्वतन्त्रस्यान्याधर्मतया तत्त्वतया तत्त्वं न स्यादिति खण्डनानवकाश इत्यर्थः ।

तत्वसङ्ख्यानटीकाभावदीपः

।। तत्रेति ।। मुमुक्षुणा अङ्गाङ्गिभावेन ज्ञातव्यतया तत्वद्वये अवश्यं वाच्ये सतीति वा, शास्त्रविषयादिना विषयादिमत्त्वे सिद्धे सतीति वा, समङ्गलत्वेन प्रकरणस्यारम्भणीयत्वे सिद्धे सतीति वा, सामान्यविशेषविभागोद्देशादिषु मध्य इति वा अर्थः । विशेषविभागादिः पश्चादिति तावच्छब्दः । तत्वं द्विविधमिति सामान्यतो विभागः । स्वतन्त्रमस्वतन्त्रं चेति सामान्यत उद्देश इति विवेकः । विभागेनेति हेतौ तृतीया । ननु किं तत्वपदेन विवक्षितं ? तस्य भावस्तत्वमिति चेत् तच्छब्दार्थानिरुक्तिः । तच्छब्दपरामर्शविषयस्य प्रकृतस्य कस्यचिदभावात् । भावपदोक्तधर्मस्यैव प्राप्त्या धर्मिणोऽप्राप्तिश्चेति । अत आह ।। तत्वमनारोपितमिति ।। एवं तर्हि कूर्मरोमादेः प्रधानस्याप्रसिद्ध्या क्वाप्यारोपाभावेन तदपि तत्वमिति प्रसज्येतेति । अत उक्तं प्रमितिविषय इति यावदिति । साक्षात्प्रमितिविषय इति वा, विधिप्रमितिविषय इति वा अस्यार्थो ध्येयः । ‘कूर्मरोमादि नास्ति’ इति निषेधप्रतीतिविषयत्वेऽपि ‘कूर्मरोम अस्ति’ इति वाक्याभासजन्यविधिप्रत्ययविषयत्वेऽपि वा न दोषो भवति ।। इत्यादीति ।। इत्यादिविकल्पपूर्वकखण्डनानवकाश इत्यर्थः ।

तत्वसङ्ख्यानटीकाटिप्पणी

तत्रेति ।। बुद्धिस्थानामुद्देशविभागलक्षणपरीक्षाणां मध्य इत्यर्थः । यद्वा तत्त्वे सङ्गृह्य निरूपणीये इत्यर्थः । सङ्गृह्य तत्त्वनिरूपणस्य प्रकरणावान्तरप्रयोजनत्वेन प्रागुक्तत्वान्निरूपणस्य चोद्देशाद्यात्मकत्वेन तादृशतत्त्वस्य निरूपणे कर्तव्ये आदौ तावत्सामान्यतो विभागोद्देशावाहेत्यर्थः । ननु तत्त्वसामान्यलक्षणमनभिधाय विभागः क्रियत इति न्यूनतेत्यत आह– तत्त्वमनारोपितमिति ।। तथा च तत्त्वमित्यनुवादेनैव लक्षणं सूचितमिति भावः । एवमुत्तरत्रापि द्रष्टव्यम् । प्रमितीति ।। ननु कूर्मरोमादिकं ज्ञातं न वा । न चेन्न तत्रातिव्याप्तिः शक्यते वक्तुम् । ज्ञातं चेदारोपविषयत्वमेवेति नातिव्याप्तिः । यदि च नारोपविषयः अथ च ज्ञात तत्र तदा प्रमितमेवेत्यतिव्याप्तितादवस्थ्यमिति चेत् (न) । यस्यासद्विशेषस्य कदापि नारोपः किंत्वसत्त्वेनैव ज्ञानं तत्रारोपविषयत्वासत्त्वेन अतिव्याप्तिसम्भवात् । न च तत्र प्रमितत्वमपि प्राप्तमिति वाच्यम् । असत्त्वप्रकारकप्रमितिविषयत्वेऽपि सत्त्वप्रकारकप्रमितिविषयत्वस्य तत्राभावात् । लक्षणस्य तथा विवक्षितत्वात् । अत्र साक्षादित्यपि विशेषणीयम् । अतो न भ्रमविषयकानुव्यवसायादिविषये रजतादावतिव्याप्तिः । ननु भ्रमस्यापि धर्म्यंशे प्रमात्वेन तद्विषये प्रकारांशेऽतिव्याप्तिरिति चेत् यदंशे ज्ञानस्य प्रमात्वं तदंशविषयत्वाभावादिति दिक् । अन्ये तु नन्वनारोपितत्वमारोपाविषयत्वं न ह्यारोपाविषयः कश्चित्प्रसिद्धोऽस्तीत्यत आह– प्रमितिविषय इतीत्याहुः । तच्चिन्यम् । अस्मन्मते असत एवारोपविषयत्वेन सन्मात्रस्यानारोप्यत्वेऽप्रसिद्ध्यभावात् इति । तत्त्वशब्दस्योक्तार्थत्वेन न खण्डनदूषणावकाश इत्याह– तेनेति ।। स्वतन्त्रस्य तत्त्वपदार्थस्यान्याधर्मतया तत्पदेनैव बोधसम्भवात् भावप्रत्ययवैयर्थ्यमिति भावः ।

तत्वसङ्ख्यानविवरणम्

तत्रेति । बुद्धिस्थानां सामान्यविशेषविषयाणामुद्देशविभागलक्षणपरीक्षाणां मध्य इत्यर्थः । यद्वा तत्वे सङ्गृह्य निरूपणीय इत्यर्थः । विभागेन सङ्गृह्य तत्वनिरूपणस्य प्रकरणावान्तरप्रयोजनत्वेन प्रागुक्तत्वात् । निरूपणस्य चोद्देशात्मकत्वेन तादृशे तत्वस्य निरूपणे कर्तव्ये आदौ तावत्सामान्यतो विभागोद्देशावाहेति भावः । ननु तत्वसामान्यलक्षणमनभिधाय विभागः क्रियत इति न्यूनतेत्यत आह ।। तत्वमनारोपितमिति । तथाच तत्वमित्यनुवादेनैव लक्षणमपि सूचितमिति भावः । नन्वारोपाविषयत्वं प्रधानाभावेनानारोपिते कूर्मरोमाद्यसद्विशेषे अतिव्याप्तमित्यत आह ।। प्रमितिविषय इति । ननु कूर्मरोमादिकं ज्ञातं वा न वा । न चेत्क्वातिव्याप्तिः । ज्ञातं चेत् आरोपविषयत्वमेवेति नातिव्याप्तिः । यदि च नारोपविषयः अथ च ज्ञातं तदा प्रमितमेवेत्यतिव्याप्तितादवस्थ्यमिति चेन्न । यस्यासद्विशेषस्य कदाचिदपि नारोपः किंत्वसत्त्वेनैव ज्ञानम् । तत्रारोपाविषयत्वसत्त्वेनातिव्याप्तिसम्भवात् । न च तत्र प्रमितिविषयत्वमपि प्राप्तमिति वाच्यम् । असत्त्वप्रकारकप्रमितिविषयत्वेऽपि सत्त्वप्रकारकप्रमितिविषयत्वस्य तत्राभावात् । लक्षणस्य तथा विवक्षितत्वात् । अत्र साक्षादित्यपि विशेषणीयम् । अतो न भ्रमविषयकानुव्यवसायादिविषये रजतादावतिव्याप्तिः । ननु धर्म्यंशे प्रमात्वेन तद्विषये प्रकारत्वांशेऽतिव्याप्तिरिति चेन्न । यदंशे ज्ञानस्य प्रमिति? त्वं तदंशविषयकत्वस्यैव विवक्षितत्वात् । भ्रमप्रकारे च तदंशविषयत्वाभावादिति दिक् । तत्वशब्दस्योक्तार्थत्वेन न खण्डनदूषणावकाश इत्याह ।। तेनेति । तस्य भावस्त्वतलाविति सूत्रात्तत्वमित्यत्र तस्य भावस्तत्वमित्यर्थः । तत्वं स्वतन्त्रास्वतन्त्रभेदेन द्विविधमित्यसङ्गतम् । धर्मिभूते तत्वे घटादावव्याप्तिश्चेति दूषणानवकाशः । अनारोपितं तत्वमित्यभिप्रेतत्वेन त्वदीयदूषणस्य छलत्वादिति भावः ।

तत्वसङ्ख्यानटिप्पणम्

तत्र वक्तव्यतया बुद्धिसंनिहितेषूद्देशलक्षणविभागेषु । तावत् पूर्वम् । तत्वम् । सामान्यतः सामान्येन । विभागेनोद्दिशति नाम्ना सङ्कीर्तनं करोतीत्यर्थः । नन्वनुद्दिष्टस्य लक्षणकथनासम्भवेन, अलक्षितस्य च विभागकथनायोगेन च उद्देशानन्तरं विभागात्पूर्वं सामान्यलक्षणस्यावश्यवक्तव्यस्यानुक्तेर्न्यूनता स्यादित्यतः मूल उद्देशेनैव तत्वसामान्यलक्षणमपि सूचितमित्याशयेनाह ।। तत्वमनारोपितमिति ।। अत्र यदनारोपितं तत्तत्वमित्यर्थः । अत्र प्रतीतत्वे सतीति विशेषणं देयम् । तेनारोपाविषये कूर्मरोमशशविषाणादौ नातिव्याप्तिः ।

ननु कूर्मरोम्ण आरोपाविषयत्वं कथमिति चेत् शृणु । सर्वत्रारोपे

‘‘अधिष्ठानं च सदृशं तथ्यवस्तुद्वयं विना ।

 न भ्रान्तिर्भवति क्वापि स्वप्नमायादिकेष्वपि ।।’’

इत्युक्तरीत्याऽधिष्ठानसदृशप्रधानस्यावश्यकत्वेन रोमान्तराद्यधिष्ठानककूर्मरोमारोपे प्रधानभूतकूर्मरोम्णः कुत्राप्यभावेनारोपासम्भवेनातद्विषयत्वसम्भवात् । यदि नाम कूर्मरोमादिकमनारोपितमिति तत्वविवेकटीकाया अप्येष एवार्थो बोध्यः । यस्यासद्विशेषस्य कदापि नारोप इति टिप्पण्यन्तरभावोऽप्येवमेव बोध्यम् ।

अस्य लक्षणस्य पर्यवसितमर्थमाह ।। प्रमितिविषय इति यावदिति ।। प्रमितिविषय इत्येतावद्यावदर्थजातं वक्ति तावदर्थजातं प्रतीतत्वे सति आरोपाविषयत्वमित्यस्यार्थ इत्यर्थः । नन्वसतोऽपि प्रमितिविषयत्वात्तत्रातिव्याप्तिरिति चेन्न । द्विविधं विषयत्वम् । ज्ञानासाधारणकारणसंनिकर्षाश्रयत्वरूपं, उल्लेख्यत्वरूपं चेति । तत्राद्यं नासत्यस्तीति नातिव्याप्तिः । द्वितीये सत्वप्रकारकेति विशेषणान्न तत्रैवातिव्याप्तिः । एतेन असतोऽपि ज्ञानविषयत्वस्य भगवत्पादैस्तत्र तत्रोक्तत्वात्कथं प्रतीतत्वविशेषणेन तन्निरास इति शङ्कानिरासः । तत्वलक्षणकथनस्य फलमभिलपति ।। तेनेति ।। तेन रूढतत्वशब्दस्य पारिभाषिकलक्षणकथनेनेत्यर्थः ।। खण्डनानवकाश इति ।। खण्डनकारेण श्रीहर्षेण स्वग्रन्थे तत्वानुभूतिः प्रमेति प्रमाणलक्षणकथनावसरे तस्य भावस्तत्वमित्युच्यते । प्रकृतं च तच्छब्दार्थः । न चात्र प्रकृतं किञ्चिदस्ति । यत्तच्छब्देन परामृश्येतेत्यादि यत्खण्डनं कृतं तदनवकाश इत्यर्थः । आदिशब्देन तत्स्वतन्त्रमस्वतन्त्रं चेत्येतावतैव पूर्तेर्भावप्रत्ययवैयर्थ्यमित्यादिखण्डनग्रहः । यद्वा पराक्त्वप्रत्यक्त्वविशिष्टवस्तुवाचिनोस्तत्त्वंपदयोरभेदविधानाय प्रयोक्तव्यत्वेन प्रकृते तयोरप्रकृतत्वात्कथमेतदित्यादिखण्डनानवकाश इत्यर्थः । अथवा तस्य भावस्तत्वमित्यादि यत्खण्डनं विग्रहप्रदर्शनं तस्यानवकाशः । आदिपदेन स चासौ त्वं चेत्यादि विग्रहग्रहः । अखण्डपदत्वाभ्युपगमादिति भावः ।

भावचन्द्रिका

तत्रेति । वक्तव्यत्वेन बुद्धिस्थानां सामान्यविशेषाणां उद्देशविभागपरीक्षाणां मध्ये इत्यर्थः । भावाभावौ द्विधेतरत् इत्यादिना करिष्यमाणयोः उद्देशविभागयोः विशेषविषयकत्वात् अत्र च क्रियमाणयोः सामान्यविषयकत्वात् अपौनरुक्त्यमिति भावेनोक्तं सामान्यत इति ।

विशेषोद्देशादेः सामान्योद्देशादिपूर्वकत्वात् अयमेवादौ कर्तव्यः इति हृदयम् । न च न्यूनता । विशेषोद्देशादेरपि करिष्यमाणत्वादिति भावेन तावत् इत्युक्तम् ।। यद्यपि अत्र तत्त्वम् इत्यनुवादेनैव तत्त्वसामान्यलक्षणम्, ‘स्वतन्त्रम्’ इत्यादिना च विशेषलक्षणञ्च अर्थात् उक्तमेव, तथा इष्यते इत्यनेन प्रमाणं सूचयता परीक्षाऽपि अर्थात् कृतैव; तथापि उद्देशविभागयोरिव लक्षणपरीक्षयोः साक्षादकृतत्वात् ‘विभागेन उद्देशं करोति’ इत्युक्तम् ।। ‘विभागेन’ इति सहभावे तृतीया । ततश्च विभागं उद्देशञ्च करोति इत्यर्थः । अत एव अन्यत्र समाहारद्वन्द्वविवक्षया ‘विभागोद्देशं करोति’ इत्युक्तम् ।। अत्र च तत्त्वम् इत्यनेन सामान्योद्देशः, ‘द्विविधम्’ इत्यनेन विभागः स्वतन्त्रमस्वतन्त्रञ्च इत्यनेन च तद्द्वैविध्यं दर्शितमिति द्रष्टव्यम् ।

ननु तत्त्वसामान्यलक्षणाभिधानेन विना कथं विभागोद्देशावसरः ? अवच्छेदकैक्येन ऐक्यमापन्नं हि वस्तु विभज्य उद्देष्टव्यमित्यतः तत्त्वशब्दरूढ्या ‘तत्त्वम्’ इत्यनुवदतैव सूचितं तल्लक्षणमाह तत्त्वमनारोपितमिति ।।

ननु तत्त्वपदसूचितं अनारोपितत्वं न तत्त्वसामान्यलक्षणमङ्गीकर्तुं युक्तम् । तत्त्वविवेकटीकाविरुद्धत्वात् । तत्र प्रमाविषयत्वरूपप्रमेयत्वस्य ‘प्रमेयम्’ इत्यनुवादेन सूचितस्य लक्षणत्वाभिधानादित्यतः प्रमितिविषयोऽपि यथाश्रुते प्रमासम्बन्धात्प्राक् तत्त्वभावानुपपत्तिप्रसङ्गात् इति यावत् एवमभिप्रायकः अनारोपितत्वरूपः एव, प्रमासम्बन्धात्प्रागपि अनारोपितत्वस्य सत्त्वेन तत्त्वभावोपपत्तेः । अतः तत्रोक्तप्रमेयत्वस्यापि अनारोपितत्वरूपत्वात् न तद्विरोधः इत्याह प्रमितिविषय इति यावदिति ।

यद्वा ननु अनारोपितत्वं ‘न आरोपितम् अनारोपितम्’ इति प्रसज्जयप्रतिषेधाश्रयणेन आरोपाविषयत्वं वा विवक्षितम् ? किं वा न आरोपः अनारोपः । तं, इतम् प्राप्तम्; अनारोपितम् इति पर्युदासाश्रयणेन प्रमाविषयत्वं वा ? नाद्यः । कूर्मरोम्णः अपि आरोपितत्वाभावेन तत्त्वभावप्रसङ्गात् । प्रधानीभूतसत्यकूर्मरोमाभावेन तदारोपस्य असम्भवात्, आरोपस्य आरोप्यसदृशसत्यप्रधानसापेक्षत्वस्य सिद्धान्तस्थितत्वात् । अत एवोक्तम्–

अधिष्ठानञ्च सदृशं तथ्यवस्तुद्वयं विना । न भ्रान्तिर्भवति’ ।। इत्यादि । न च यदि कूर्मरोमादिकं न प्रतीतं तदा अतिव्याप्तेः अभावात्, यदि च प्रतीतं तर्हि असत्प्रतीतेः आरोपरूपत्वेन लक्षणाभावात्, न कोऽपि दोषः इति वाच्यम्; तथापि लक्षणस्यातिव्याप्तेः इतरभेदसाधने वास्तवव्यभिचारपर्यवसानत्वेन दोषत्वावश्यंभावात् । नापि प्रमाविषयत्वम् इति द्वितीयः पक्षः । प्रमासम्बन्धात्प्राक् तत्त्वभावानुपपत्तिप्रसङ्गात् । तदिह पक्षद्वयेऽपि लक्षणवाक्यानिर्वाहात् न अनारोपितत्वं युक्तमित्यतः अभावार्थत्वपक्षे अनारोपितत्वमात्रस्य अतिप्रसक्ततया प्रतीयमानत्वविशेषितस्यैव तस्य लक्षणत्वस्वीकारात् । प्रतीयमानत्वसामान्यस्य च अनारोपितपदनिषिद्धभ्रान्तिविषयत्वरूपविशेषपर्यवसानायोगेन प्रमाविषयत्वरूपविशेषपर्यवसानावश्यंभावात् । तस्य च कूर्मरोमादौ अभावात् न तत्पक्षदोषः । पर्युदासाश्रयेण च सुतरां तत्रानतिप्रसङ्गः इत्याह प्रमितिविषय इति यावदिति ।।

न चैवमेतत्पक्षोक्तदोषावकाशः । अत्यन्ताभावाप्रतियोगित्वरूपप्रमा विषयत्वयोग्यत्वात्मकस्यैव प्रमाविषय इति यावत् इति तत्त्वलक्षणतया अभिमतत्वात् । तस्य च प्रमासम्बन्धात्प्रागपि सत्त्वात् तत्त्वभावो युक्त एव । न चैवमपि असन्मात्रस्य तत्त्वभावापत्तिः । तस्यापि नास्तित्वप्रकारकप्रमाविषयत्वादिति वाच्यम् । अस्तित्वप्रकारकप्रमाविषयत्वस्य लक्षणत्वेन विवक्षणात् । कूर्मरोमादेर्नास्तीतिविषयस्यापि सत्त्वप्रकारकप्रमागोचरत्वाभावात् न तत्र प्रसङ्गः । न चैवमपि अभावस्य अतीतादेर्वा नास्तित्वप्रकारकप्रमागोचरत्वात् तत्र अव्याप्तिः इति वाच्यम् । नास्ति घटः इति नास्तित्वप्रकारकप्रमागोचरस्यापि अभावस्य घटाभावोऽस्ति इत्यादिसत्त्वप्रकारकप्रमागोचरत्वस्यापि सत्त्वात्, अतीतादेः अतीततादशायां नास्ति इति प्रमागोचरस्यापि वर्तमानदशायां अस्ति इति प्रमागोचरत्वस्य अकलङ्कत्वात् । न च अस्मदादीनां शुक्तिरजतादिविभ्रमस्य पारमार्थिकत्वात्, तदज्ञत्वे परमार्थाशेषार्थाज्ञत्वेन सार्वज्ञहानिप्रसक्त्या, अवश्यमीश्वरस्य तज्ज्ञत्वं वाच्यम् । तथा च भ्रमविषयईश्वरप्रमाविषयावच्छिन्नज्ञानस्य अवगाहनात् तद्विषयीभूतवैशिष्ट्यस्यापि तत्त्वरूपत्वं स्यात् इति वाच्यम् । यत् प्रमया अस्ति इत्यनेन प्रकारेण विधीयते  सत्ताऽऽविष्टतया बोध्यते, न तु नास्ति इति निषिध्यते, न वा अन्येन एवं ज्ञातम् इत्यनूक्ततेतत् प्रमेयम्; इत्यङ्गीकारात् । न च ईश्वरप्रमा शुक्तिरजतस्य स्वयम् अस्तित्वग्रहणरूपा, शुक्तिरजतमस्ति इत्यग्रहणात्; किन्तु भ्रान्तोऽयं शुक्तिमेव रजततया जानाति इति अनुवादरूपैव इति न तद्विषयत्वमात्रेण वैशिष्ट्यस्य तत्त्वभावप्रसक्तिः ।। अत एव भ्रमोऽयमासीत् इति अस्मदादिनिष्ठानुव्यवसायस्य प्रमात्वात् । तस्य च अर्थावच्छिन्नभ्रमविषयत्वात्, भ्रमविषयवैशिष्ट्यस्यापि तत्त्वभावप्रसङ्गः इति निरस्तम् । तस्य वैशिष्ट्यांशे अतथात्वात् । न च इदं रजतम् इति ज्ञानस्यापि इदमंशे अबाधितत्वेन प्रमात्वात्, तेनैव अस्तित्वाकारेणैव शुक्तिरजतस्य विषयीकरणात्, तत्र अतिव्याप्तिः स्यादिति वाच्यम्; भ्रमस्य धर्म्यंशे प्रमात्वेऽपि वैशिष्ट्यांशे प्रमात्वाभावेन, प्रमांशेन च इदम् अंशमात्रं विषयीकुर्वता भ्रमप्रकारस्य अविषयीकरणेन, अतिव्याप्त्यनवकाशात् ।। इति सङ्क्षेपः ।।

तत्त्वशब्दस्य अनारोपिते रूढ््यङ्गीकारेण खण्डनकारोक्तं दूषणमपि परिहृतमित्याह तेनेति ।। तत्त्वानुभूतिः प्रमा इत्युदयनोक्तप्रमालक्षणं खण्डयता श्रीहर्षेण किं तत्त्वमत्र विवक्षितम् ? यद्युच्यते तस्य भावः तत्त्वम् इति तन्न, प्रकृतं हि तच्छब्दार्थः, न चात्र प्रकृतं किञ्चिदस्ति यत् तत् शब्देन परामृश्येत इत्यादिना तत्त्वशब्दस्य योगार्थमाश्रित्य यत् दूषणं उक्तं तत्त्वशब्दस्य अस्माभिः उक्तरीत्या यौगिकार्थानाश्रयणात्, रूढ्यैव तत्त्वशब्दस्य अनारोपितत्वाङ्गीकारात्, नावकाशं लभते इत्याशयः ।

स्वतन्त्रतत्त्वपदार्थस्य अन्यार्थतया तत्पदेनैव बोधसम्भवात् भावप्रत्ययवैयर्थ्यादिदूषणानवकाशः इति भाव इत्यन्ये ।।

(वें.टि.) तथा च एतत्समानार्थतया तत्त्वविवेकोक्तस्य तत्त्वलक्षणस्य साक्षित्वमपि सङ्गच्छत इति भावेनाह ।। प्रमितिविषय इति यावदिति ।। एतदेवाभिप्रेत्योक्तं, तत्त्वविवेकटीकायां ‘अनारोपितं हि तत्त्वमित्यादिना साक्षादसत्वादिप्रकारकप्रमाविषये तच्च प्रमेयमिति चैकोऽर्थ’ इत्यन्तेन ।

काशी टिप्पणी

।। तत्रेति ।। तत्वे प्रतिपादनीये सतीत्यर्थः । यद्वा कर्तव्यत्वेन बुद्धिस्थानामुद्देशलक्षणविभागपरीक्षाणां मध्य इत्यर्थः । अथ वा तत्रेति निमित्तसप्तमी । तथा च विशेषतो जगदवगमार्थमित्यर्थः । समान्यतो ज्ञाते विशेषजिज्ञासोदयादिति भावः । विभागसहितोद्देशस्य चतुर्थपादेऽपि सत्त्वात्पुनरुक्तिरित्यत उक्तम् ।। सामान्यत इति ।। उत्तरत्र तु विशेषत एवोद्देशादिरिति भावः । तदपेक्षयैव तावच्छब्दः । तेन सामान्योद्देशविभागादेर्विशेषोद्देशविभागाद्यङ्गत्वात्प्राथम्यं युक्तमिति सूचितम् । अत्र तत्वमित्युद्देशः । द्विविधमिति विभागः । स्वतन्त्रमस्वतन्त्रञ्चेति द्वैविध्यप्रदर्शनम् । यद्यप्युद्देशेनैव लक्षणं, इष्यते इत्यनेन परीक्षा च लभ्यत एव तथाप्युद्देशविभागयोरिव लक्षणपरीक्षयोः साक्षादलाभादुभयोरेव ग्रहणम् ।

ननु तत्वसामान्यलक्षणमनभिधाय तद्विभजनमसङ्गतम् । लक्षणेन वस्तुनिर्धारणानन्तरमेव विभागाकाङ्क्षोदयादिति चेन्न । उद्देशेनैव लक्षणस्य लब्धत्वादित्याशयेनाह ।। तत्वमिति ।। आरोपो भ्रमः । तदविषयत्वमनारोपितत्वम् ।

अनारोपितत्वलक्षणस्यासम्भवशङ्का तन्निरासश्च

नन्वेवमसम्भवः । सर्वं मिथ्या इत्यादिभ्रमविषयत्वस्य सर्वत्रैव सत्त्वात् । न च भ्रमाप्रकारत्वमनारोपितत्वम् । ब्रह्म सर्वं इत्यादिभ्रमे तादात्म्येन सर्वस्यैव प्रकारत्वात् । न च शुक्तौ रजतस्येव ब्रह्मणि सर्वस्यासत एवारोप्यत्वान्न दोष इति वाच्यम् । ‘‘असदेव रजतं प्रत्यभात्’’ इतिवत् ‘‘असदेव सर्वं प्रत्यभात्’’ इत्यप्रतीतेः आरोप्यस्यासत्त्वनियमाभावात् । अत एव सुधायामुक्तं, ‘‘यत्रारोप्यमधिष्ठानसन्निहितं तत्र तत्तादात्म्यमात्रमसत्’’ इति । मैवम्, सत्त्वारोपाविषयत्वस्य विवक्षितत्वात् । सत्त्ववति सत्त्वारोपासम्भवान्नोक्तदोषः । न चोक्तभ्रमस्य सर्वतादात्म्ये सत्त्वारोपरूपत्वादुक्तदोषतादवस्थ्यमिति वाच्यम् । सत्त्वारोपत्वविशिष्टाविषयत्वस्य विवक्षितत्वात् । यत्र यस्यारोपस्तस्यैव तदारोपत्वविशिष्टविषयत्वात् ।

नन्वेवमपि कूर्मरोमादावतिव्याप्तिः । तत्र रोममात्रस्यारोपितत्वेऽपि विशिष्टस्यानारोपितत्वात् । न च विशिष्टस्यापि कूर्मरोमास्ति इत्यारोपविषयत्वान्नातिव्याप्तिरिति वाच्यम् । कूर्मरोम नास्ति इत्यसत्त्वेन प्रतीयमानस्यानारोपितत्वादिति चेन्न । प्रतीतौ सत्यामनारोपितत्वस्य विवक्षितत्वात् । न च प्रतीतिविषयत्वमात्रं सम्यक् । तज्जनकसन्निकर्षादिमत्त्वरूपतद्विषयत्वस्यासद्व्यावृत्तत्वादिति वाच्यम् । उल्लेख्यत्वरूपविषयत्वस्यैव विवक्षितत्वेन शुक्तिरजतादावतिव्याप्तेः । न चैवं कूर्मरोमादावतिव्याप्तिः । सत्त्वेनोल्लेख्यत्वस्य विवक्षितत्वात् । एवं च सत्त्वारोपानुल्लेख्यत्वे सति सत्त्वेनोल्लेेख्यत्वं तत्त्वलक्षणमिति निष्कर्षः । न च सत्त्वारोपानुल्लेख्यत्वे सति सत्त्वेनोल्लेख्यत्वस्य विशिष्टकूर्मरोमादावतिव्याप्तिः । विशिष्टस्य सत्त्वेन प्रतीतावनारोपितत्वासम्भवात् । अनारोपितत्वे च सत्त्वेनोल्लेख्यत्वासम्भवात् ।

नन्वेवं तत्वविवेकविरोधः । तत्र प्रमेयत्वस्यैव तत्वसामान्यलक्षणत्वावगमात् । न च लक्षणान्तरमिति वाच्यम् । तस्यैव लघुत्वेनोपादेयत्वात् अस्य तदनुसारित्वानुपपत्तेश्च । मैवम्, तल्लक्षणाधिगमार्थमेतल्लक्षणप्रणयनात् । अत एवास्य तत्रैव तात्पर्यमित्याह ।। प्रमितिविषय इति ।। यावत् पर्यवसितार्थः । प्रतीतौ सत्यामनारोपितत्वस्य प्रमितिविषयत्वव्याप्यतया तेन तल्लाभादिति भावः ।

यद्यपि कूर्मरोमादावसत्त्वप्रमितिविषयत्वमस्ति तथापि सत्त्वप्रकारकप्रमितिविषयत्वस्य विवक्षणान्नातिव्याप्तिः । न च कूर्मरोमाभावोऽस्तीत्यादिप्रमितिविषयत्वमादायातिव्याप्तिरिति शङ्क्यम् । सत्वप्रकारकत्वविशिष्टप्रमितिविषयत्वस्य विवक्षितत्वात् । तादृशस्य कूर्मरोमाद्यभाव एव सत्त्वात् । यद्यपि सत्त्वं लक्षणमित्यपि सुवचं तथापि तदुपपादकत्वादस्योक्तिः । न चैवं प्रमासम्बन्धात्पूर्वमव्याप्तिः । ईश्वरप्रमासम्बन्धस्य सर्वदैव सत्त्वात् । एवं चैतद्दोषवारणार्थं अत्यन्ताभावाप्रतियोगित्वरूपप्रमाविषयत्वयोग्यत्वविवक्षणं प्राचां तज्जनकसन्निकर्षादिमत्त्वरूपतद्विषयत्वविवक्षया तदुल्लेख्यत्वविवक्षायामुक्तरीत्या दोषानवकाशादित्यवधेयम् ।

एवं च तत्वशब्दव्याख्यानेन तत्वानुभूतिः प्रमेत्युदयनोक्तलक्षणे खण्डनकारोक्तदूषणस्य प्रकृते नावकाश इत्याह ।। तेनेति ।। तस्य भावस्तत्वम् । प्रकृतं च तच्छब्दार्थः । न चात्र प्रकृतं किञ्चिदस्ति इत्यादिरूपं यत्खण्डनं तदनवकाश इत्यर्थः । अस्माभिस्तत्वशब्दस्य यौगिकार्थत्यागेन रूढ्यर्थाङ्गीकारादिति भावः ।

तस्य भावस्तत्त्वम् । आदिना, स चासौ त्वं चेति विग्रहान्तरपरिग्रहः । तस्य यत्खण्डनं प्रथमे स्वातन्त्र्यादिकमेव तत्त्वं स्यान्न तु स्वतन्त्रम् । द्वितीये तत्त्वम्पदार्थयोरीशजीवयोरभेदापत्तिः इत्यादिकं, तदनवकाशः, रूढ्यर्थाङ्गीकारात् इत्यपि व्याचक्षते ।