अनित्यं द्विविधं मतम् असंसृष्टं च संसृष्टं...
अनित्यविभागः
टीका
अनित्यं विभज्य दर्शयति ।। अनित्यमिति ।।
तत्वसङ्ख्यानम्
..... ..... अनित्यं द्विविधं मतम् ।। ८ ।।
असंसृष्टं च संसृष्टं.... ..... ...... ।।
सम्यक्सृष्टं संसृष्टम् । अतथाभूतमसंसृष्टम् ।
अनित्यविभागपरीक्षा
सम्यक्ताया इयत्ताऽभावात्त्रैविध्याद्यपि किं न स्यादित्यतो मतमित्युक्तम् । तत्(तच्च)वक्ष्यामः ।
तत्वसङ्ख्यानटीकाभावदीपः
।। वक्ष्याम इति ।। सूक्ष्मरूपेणेत्यादिनेति भावः ।
तत्वसङ्ख्यानटीकाटिप्पणी
मतमितीति ।। मननविषयीकृतम् । युक्तमिति यावत् । तच्चेति ।। द्वैविध्यमननञ्चेत्यर्थः । वक्ष्याम इति ।। नन्वेषां चतुर्विंशतितत्वानामित्यादिनाऽनुपदमेवेति भावः ।
तत्वसङ्ख्यानविवरणम्
त्रैविध्याद्यपीति । नित्यानित्यवत् सम्यगसम्यक्सृष्टं किञ्चिद्वस्त्वङ्गीकृत्येति भावः ।। मतमिति । मननविषयीकृतं युक्तियुक्तमितीति यावत् ।। तच्चेति । द्वैविध्यं मतत्वं चेत्यर्थः ।। वक्ष्याम इति । नन्वेषां चतुर्विंशतितत्वानामित्यादिनाऽनुपदमेवेति भावः ।
तत्वसङ्ख्यानटिप्पणम्
प्रतिज्ञानुसारेण प्रकृतमनुसरति ।। अनित्यमिति ।। असंसृष्टं च संसृष्टमिति निर्देशः प्राधान्यमनुसृत्येति बोध्यम् । सम्यक् सामीचीन्येन । अतथाभूतं असम्यक् सृष्टम् । इयत्ता मर्यादा । तस्या अभावात् । अन्यूनानतिरिक्तवर्तिनः एकस्य सम्यक् सृष्टत्वस्य दुर्निरूपत्वादिति भावः । किं न स्यात् किं न भवेत् । अनेन द्वैविध्यस्य प्रमाणसिद्धत्वान्न त्रैविध्याद्यङ्गीकारार्हमिति सूचयति । तत्किं प्रमाणमित्यत आह ।। तदिति ।। तत् अनित्यद्वैविध्यस्य प्रमाणप्रमितत्वम् । वक्ष्यामः । नन्वेषां चतुर्विंशतितत्वानामित्यादिनेति ज्ञेयम् ।
भावचन्द्रिका
अतथाभूतम् सम्यक्सृष्टं न इत्यर्थः । सम्यक्ताया इयत्ताऽभावादिति । अन्यूनानतिरिक्तस्य सम्यक्त्वस्य निर्वक्तुमशक्यत्वादित्यर्थः ।। मतमित्युक्तमिति । युक्त्या विचार्य सम्यक्ताया निर्वक्तुं शक्यतया द्वैविध्यमेव सिद्ध्यति इत्यर्थः । तद्वक्ष्याम इति । ‘नन्वेषाम्’ इत्यादिना आक्षेपपूर्वकम् ‘साक्षान्मूलरूपस्य नित्यस्य अभावे सत उत्पन्नत्वम्–संसृष्टत्वम्, साक्षान्मूलरूपस्य नित्यस्य सत्त्वेऽपि उत्पन्नत्वम्–असंसृष्टत्वम्’ इति वक्ष्यामः इत्यर्थः ।
काशी टिप्पणी
।। विभज्य दर्शयतीति ।। पदद्वयेन विभज्योत्तरेण निदर्शयतीत्यर्थः । असंसृष्टं निर्दिशतीत्यादेरवान्तरवाक्यावतरणत्वान्न पुनरुक्तिः । असंसृष्टपदार्थज्ञानस्य संसृष्टपदार्थज्ञानाधीनत्वादादौ संसृष्टपदार्थमाह ।। सम्यगिति ।। इयत्ता स्वतोऽधिकसम्यक्ताराहित्यम् । तदभावात् अवान्तरवैचित्र्यवत्त्वादिति यावत् ।। त्रैविध्यादीति ।। किं चित्सम्यक्तवातिसम्यक्तवरूपप्रकारद्वयविवक्षायां त्रैविध्यम् । ततोऽधिकसम्यक्तवादिविवक्षायां चातुर्विध्यादीत्यर्थः । अयं भावः । संसृष्टासंसृष्टयोरुत्पन्नत्वसाम्येऽपि नित्यानित्योपादानकत्ववैचित्र्येण द्वैविध्यवत् । नित्योपादानकानित्योपानानकनित्यानित्यत्वोपादानकत्वादिवैचित्र्येण त्रैविध्यादिकमपि सम्भवति । प्रकारान्तरसम्भवेऽप्यनवस्थाभयाद्द्वैविध्येनानुगमः कृत इति चेत्तर्ह्यैकविध्यमेवास्तां लाघवादिति ।
मतमित्यस्य युक्तयागमसम्मतमित्यर्थः । तथा चावान्तरवैचित्र्यज्ञानाय विभागस्यावश्यकत्वे द्वैविध्योक्तिरेव युक्ता लाघवात् आगमान्तरसिद्धत्वाच्च । तेनैव त्रैविध्यादेरूहसम्भवाच्चेति भावः । ननु किमिदमसम्यक्सृष्टत्वादि येन द्वैविध्यं संमतमत आह ।। तद्वक्ष्याम इति ।। लक्ष्यज्ञानोत्तरमेव लक्षणस्य सुग्रहत्वादिति भावः ।
केचित्तु सम्यक्ताया एकविधत्वाभावाद्द्वैविध्यानुपपत्तिरिति शङ्कायां द्वैविध्यं प्रमितम् । एकविधसम्यक्तवस्य सुवचत्वात् । तच्च वक्ष्याम इति परिहार इत्याहुः ।