पुराणाद्याः कालः प्रकृतिरेव च । नित्यानित्यं त्रिधा प्रोक्तं
नित्यानित्यान्यचेतनानि
टीका
नित्यानित्यं विभागेनाऽह ।। पुराणाद्या इति ।।
तत्वसङ्ख्यानम्
.......पुराणाद्याः कालः प्रकृतिरेव च ।
नित्यानित्यं त्रिधा प्रोक्तं........ ।।
पुराणाद्याः पौरुषेयग्रन्था एका विधा । कालोऽपरा । प्रकृतिरन्या ।
नित्यत्वादिप्रकारत्रैविध्योक्तिः
ननु च त्रिधेति प्रकारत्रैविध्यमुक्तम् । न चात्र कश्चित्प्रकारो दर्शितः । किं तु वस्तुनिर्देश एव कृतः । नैष दोषः । यन्न सर्वथा कूटस्थं नाप्यनित्यमेव तदुच्यते नित्यानित्यम् । तस्य तिस्रो विधास्सम्भवन्ति । उत्पत्तिमत्त्वे सति विनाशाभावः । एकदेशे उत्पत्तिविनाशावेकदेशिन स्तदभावः । स्वरूपेणोत्पत्त्याद्यभावेऽप्यवस्थागमापायवत्त्वं चेति । तदेतद्विधात्रयमुक्तवस्तुत्रयेऽस्तीति तस्यैव ग्रहणं कृतम् ।
भाववर्णनम्
विशेषविभज्यतावच्छेदकप्रदर्शनार्थमेव सामान्यविभज्यतावच्छेदकं तावद्दर्शयति ।। यन्न सर्वथेति ।। सर्वथा उभयान्तरहितभिन्नत्वे सति सर्वथोभयान्तं वा भिन्नत्वमित्यर्थः ।
तत्वसङ्ख्यानटीकाभावदीपः
अपरेत्यादौविधेत्यनुषङ्गः ।। अनित्यमेवेति ।। घटादिवदिति भावः ।। विनाशाभाव इति ।। पुराणादिपौरुषेयग्रन्थस्य पुरुषैरुत्पाद्यमानक्रमवत्त्वेऽपि तस्य क्रमस्येश्वरबुद्धौ वेदक्रमस्येवोत्तरावधिशून्यतया प्रतीयमानत्वेन विनाशाभाव इत्यर्थः । क्षणलवाद्येकदेशैरुत्पत्तिविनाशवत्त्वेऽप्येकदेशवतोंऽशिनः कालस्य प्रवाहत आद्यन्तशून्यत्वेनोत्पत्तिविनाशयोरभाव इत्यर्थः । जडोपादानप्रकृतेश्च स्वरूपत उत्पत्तिविनाशयोरभावेऽपि महदाद्यात्मकत्वावस्थाविशेषेण तौ स्त इति तदेतद्विधात्रयमुक्तवस्तुत्रयेऽस्तीत्युक्तम् ।। तस्यैवेति ।। वस्तुत्रयस्यैवेत्यर्थः ।
तत्वसङ्ख्यानटीकाटिप्पणी
नित्यानित्यसामान्यलक्षणमाह– यन्न सर्वथेति ।। केवलनित्यभिन्नत्वे सति केवलानित्यभिन्नत्वमित्यर्थः । अत्र सत्यन्तेन नित्येऽति व्याप्तिवारणम् । उत्तरभागेनानित्येऽतिव्याप्तिवारणम् । उभयत्र केवलपदादानेऽसम्भव इति सर्वं सार्थकम् ।। उक्तवस्तुत्रये इति ।। आद्यं पुराणे, उत्पत्तिमत्त्वेऽपि विनाशाभावात् । ‘पुराणादीनामप्यन्यथारचनमेवानित्यत्व’मित्युक्तेः । द्वितीयं काले । क्षणलवाद्येकदेशानामुत्पत्त्यादिमत्त्वेऽपि एकदेशिनः कालस्य तदभावात् । ‘कालप्रवाह एवैको नित्यो न तु विशेषवान्’ इत्युक्तेः । तृतीयं प्रकृतौ स्पष्टम् ।
तत्वसङ्ख्यानविवरणम्
वस्तुनिर्देश एवेति । प्रकाराश्रयभूतपुराणादिरूपवस्तुनिर्देश एव कृत इत्यर्थः । उक्तदोषपरिजिहीर्षया नित्यानित्यसामान्यलक्षणं तावदाह ।। यन्न सर्वथेत्यादिना । केवलं नित्यभिन्नत्वे सति केवलानित्यभिन्नमित्यर्थः । अत्र नित्येऽतिव्याप्तिवारणाय सत्यन्तम् । अनित्येऽतिव्याप्तिवारणायोत्तरभागः । उभयकेवलपदाभावे असम्भव इति सर्वं सार्थकम् ।। तस्येति । एतल्लक्षणाक्रान्तस्य नित्यस्येत्यर्थः ।। विधाः प्रकाराः । विधात्रयं प्रकारत्रयम् ।। उक्तवस्तुत्रयेऽस्तीति । यन्न सर्वथेत्यादिसामान्यलक्षणाक्रान्ते पुराणादिरूपे वस्तुत्रय इत्यर्थः । तत्राद्यः प्रकारः पुराणे । उत्पत्तिमत्त्वेऽपि विनाशाभावात् । पुराणानामप्यन्यथाशब्दरचनमेवा नित्यत्वमित्युक्तेः । द्वितीयः प्रकारः काले । क्षणलवाद्येकदेशानामुत्पत्तिमत्त्वेऽपि एकदेशिनः प्रवाहस्य तदभावात् । कालप्रवाह एवैको नित्यो न तु विशेषवानित्युक्तेः । तृतीयः प्रकारः प्रकृतौ स्पष्टः ।
तत्वसङ्ख्यानटिप्पणम्
नित्यं निरूप्य क्रमप्राप्तं नित्यानित्यं निरूपयतीत्याह ।। नित्यानित्यमिति ।। पुराणमाद्यं येषां ते पुराणाद्याः । आद्यपदग्राह्यस्य गणनायां पुरुषायुषपर्यवासानं स्यात् । अतः सामान्यतः समासार्थमाह ।। पुराणाद्या इति ।। तथा च पुरुषकृतसन्दर्भक्रमवन्ति वाक्यानीत्यर्थः । एवं च पदपङ्क्तिज्ञानमात्रेण प्रयुक्तस्य शुकतोकादिवाक्यस्य सङ्ग्रहो भवतीति ज्ञेयम् । एकाविधा एकः प्रकारः । एको भाग इति यावत् । अपरेत्यादौ विधेत्यन्वेति । इति त्रिधेत्यर्थः । तेनैतदन्यस्य नित्यानित्यत्वशङ्कानिरासः । ननु ‘‘पुराणाद्याः कालः प्रकृतिरेव च । नित्यानित्यं त्रिधा प्रोक्त’’मिति प्रोक्तवतो मूलकारस्य नित्यानित्यप्रकारनिरूपणानिपुणतेत्याशङ्कते ।। नन्विति ।। तर्हि किं कृतमाचार्यैरित्यत आह ।। किं त्विति ।। वस्तुनिर्देशः धर्म्युद्देशः ।
परिहरति ।। नैष दोष इति ।। प्रकारत्रयानिरूपणाख्यो दोष इत्यर्थः । तं प्रकारं दर्शयति ।। यन्न सर्वथेति ।। सर्वथा सर्वप्रकारेण । कूटस्थं निर्विकारम् । अनित्यमेव उत्पत्तिमत्त्वे सति विनाशवदेव । तन्नित्यानित्यमुच्यत इत्यर्थः । केवलनित्यत्वानधिकरणत्वे सति केवलानित्यत्वानधिकरणत्वं नित्यानित्यत्वमित्यर्थः । सत्यंतानुक्तावव्याकृताकाशादावतिव्याप्तिः । तदपाकरणार्थं विशेषणभागः । तावत्युक्ते घटादौ केवलानित्येऽतिव्याप्तिरिति तत्पराकृत्यै विशेष्यभागः । तस्य नित्यानित्यस्य । ता विधा दर्शयति ।। उत्पत्तीत्यादिना ।। इयं च विधा पुराणादेरर्थत एकप्रकारत्वाच्छब्दतो व्यत्यस्तेश्च सम्भवति । यथोक्तं ‘‘पुराणानि तदर्थानि सर्गे सर्गेऽन्यथैव त्वि’’ति तत्वनिर्णयवाक्यव्याख्यानावसरे टीकायां ‘‘पौरुषेयत्वनिमित्त एवानित्यत्वव्यपदेशो न तु विनाशनिमित्त इत्यर्थः । अत एव त्वनित्यानीति सम्बन्ध’’ इत्यादिना । नन्वेवं चेत्पुराणानां नाशो नास्तीत्यागतमिति चेत् कोऽनेत्याह । यथा वेदस्येशबुद्धिगतत्वं निमित्तीकृत्य नित्यत्वमुच्यते तथा पुराणेऽपि सुवचत्वात् । अत एव मुक्तैरपि पठ्यते । श्रूयते हि ‘‘ब्रह्मा त्वो वदति जातविद्या’’मित्यादि । जातविद्यां पुराणम् । त्वः कश्चिद्ब्रह्मा वदतीति तदर्थः ।
ननु न पुराणस्योत्पत्तिरङ्गीकारार्हा । ईश्वरस्य सर्वज्ञत्वेनैष्यत्पुराणस्यापि तद्बुद्धिगतत्वादिति चेन्न । ईश्वरेण सदा वर्तमानतयाऽनुभूयमानत्वस्या नादित्वप्रयोजकत्वेन तत्करणात्पूर्वं तेषां वर्तमानतयानुभवाभावात् । किमत्र प्रमाणमिति चेत् पुराणजनिवाक्यान्यथानुपपत्तिरेवेति ब्रूमः । ननूत्पन्नपुराणानां नाशाभावे कल्पान्तरे पुना रचनं कुत इति शङ्का तु ‘‘प्रमाणप्रश्नश्चेदुक्तादेव पुराणवाक्यादिति ब्रूमः । प्रयोजनप्रश्नस्त्वयुक्तः । ईश्वरप्रवृत्तेः सर्वत्र प्रयोजनशून्यत्वात् । परप्रयोजनानि तु सूक्ष्माण्युत्प्रेक्षितुं न प्रभवामः । भगवानाचार्योऽपीदानीं प्रयोजनाभावान्नावदी’’दिति तत्वनिर्णयटीकातो वारणीया ।
नन्वेकस्मिन्ब्रह्मकल्पे षट्त्रिंशत्सहस्रदिनानि भवन्ति । एवं च तेषु जातानां पुराणानामेकार्थत्वेऽपि पूर्वदिनपुराणेनैव तदर्थस्य ज्ञातत्वादुत्तरेषां निरधिकारिकत्वं स्यात् । अर्थी समर्थो विद्वान् हि तत्राधिक्रियते । ज्ञातेऽर्थिताभावादिति चेत् सत्यम् । तथापि सम्भवति देवानां तत्राधिकारः । पुराणस्य पूर्वपूर्वापेक्षयोत्तरोत्तरेषामर्थाधिक्यस्य विद्यमानत्वात् । न चैवं समानार्थताभावः । शते पञ्चाशन्न्यायेन पूर्वपूर्वपुराणार्थानामुत्तरोत्तरेषु सत्त्वात्तदपेक्षया तद्व्यवहारस्योपपन्नत्वात् । न चानन्तब्रह्मकल्पीयपुराणानां समानार्थत्वे तदानन्त्यं नोपपद्यते । एकैकार्थप्रतिपादकपदानां मितत्वेन जन्माद्यस्य यतः सृष्ट्याद्यस्य यतः सर्गाद्यस्य यतः जन्मप्रभृति यस्मादित्यादिपदसमूहपरिवर्तनेनापि भेदकानां मितत्वाद्ग्रंथानंत्यानुपपत्तेरिति वाच्यम् । ईशाचिंत्याद्भुतशक्तयैवोपपन्नत्वात् । विस्तरस्तु सत्तत्वरत्नमालादितोऽनुसन्धेयः । द्वितीयप्रकारं दर्शयति ।। एकदेशैरिति ।। एकदेशैः निमेषाद्यैः । उत्पत्तिविनाशौ वर्तेते । एकदेशिनः कालप्रवाहस्य । तदभावः उत्पत्तिनाशाभावः । ननु कालावयवानामुत्पत्तिविनाशवत्त्वे तदुपादानं वाच्यम् । न च स्वयमेव स्वं प्रत्युपादानं भवति । विरोधात् । न च सर्वोपादानप्रकृतेस्तदेकदेशकालोपादानत्वमक्षुण्णमेवेति वाच्यम् । विकल्पासहत्वात् । सर्वजन्योपादानं या प्रकृतिः सैव कालोपादानमुतान्या । न प्रथमः । क्षणलवादिकालावयवानां सर्वव्याप्तत्वेन विशिष्टप्रकृतेरपि काल एवोपक्षीणत्वात् पृथग्जगदुपादानाभावेन निरुपादानकसृष्टेरभावात्तदभावापत्तेः । न द्वितीयः । असंमतेरिति चेदुच्यते । युगपदेव यावद्देशव्याप्तलवादिकालोपादानत्वं जगदुपादानत्वं चेशशक्तया प्रकृतेर्घटते । यथोक्तं सुधायां वैशेषिकपरीक्षावसरे ‘‘अनित्यत्वे कारणं वाच्यमिति चेत्सत्यम् । उपादानं तु प्रकृतिरेवे’’ति । अस्माकं त्वीशशक्तयैवोपपद्यत इति ।
अन्ये तु जगदुपादानप्रकृत्यतिरिक्ता कालोपादानप्रकृतिः । सा चैकं कालांशं स्पृष्ट्वा स्वयमुपरमते । तदुत्तरकालोपादानभूता प्रकृतिरन्यैव । ततोऽप्युत्तरकालस्योपादानं तु तत्पूर्वकालांशस्योपादानभूतप्रागुपरता प्रकृतिरित्येवं सा परिवर्तत इति । न च तत्र ज्ञापकाभावः । एतत्समाननिमित्तकारणस्थले विचारपूर्वं विनिष्कृष्टस्यात्रापि तत्त्वसम्भवात् । तथा हि वैशेषिकपरीक्षासुधायां ‘‘स्यादेतत् । कालस्तावत्सर्वोत्पत्तिमन्निमित्तकारणम् । न च कालस्य कालान्तरं निमित्तमस्ति । तत्कथं तस्योत्पत्तिः । पूर्वः कालः परस्य कारणमिति चेन्न । इदानीं जात इत्यधिकरणतया कालस्य कारणतावधारणात् । कारणस्य कार्योत्पत्तिसमानकालतायाः गेहे जातो गोष्ठे जात इत्यादौ निश्चितत्वादित्यत आहे’’ति कालस्य कालगत्वेनेति मूलमवतार्य व्याख्याय च । ‘‘ननु कालस्य कालगत्वेनेत्युक्तम् । तत्र किं कालः स्वगतः किं वा कालान्तरगतः । नाद्यः । स्वस्कन्धारोहणवद्विरुद्धत्वात् । न द्वितीयः । तदभावात् । भावे वा कालान्तरसृष्टिवैयर्थ्यात् । तस्याप्युपपत्तौ कालान्तराङ्गीकारप्रसङ्गादित्यतः सप्रमाणकमुक्तं विवृणोती’’ति ईशो देशश्च कालश्चेत्यादिमूलमवतार्य तदुपरि ‘‘एतदुक्तं भवति । कालातिरिक्तकार्याणामेव कालोऽधिकरणतया कारणम् । न कालस्तु स्वयमेव स्वस्याधिकरणतया कारणम् । श्वो घटं स्रष्टाऽस्मीत्यत्रेव कालसृष्टिं वांछतः परमेश्वरस्याधिकरणतयोद्देश्यः कालः क इति प्रश्ने यः सृज्यः स एवेत्युत्तरं, अधिकरणाधिकर्तव्यता त्वेकस्यैव श्रुत्यादिसिद्धा । विशेषबलाच्चोपपद्यते । अतो न कालस्योत्पत्तौ काचिदनुपपत्तिरिती’’ति ।
न चोपादानं तु प्रकृतिरेवेति सुधाविरोधः । प्रकर्षेण क्रियतेऽनयेति व्युत्पत्त्योपादानपरत्वात्तच्छब्दस्य । न च कथं योगेन रूढ्यपहार इति शङ्क्यम् । व्याप्तकालावयवं प्रति प्रकृतेरुपादानत्वाङ्गीकारे पूर्वोपदर्शितबाधकादेवात्र रूढिपरिहारस्य न्याय्यत्वात् । किं च व्याप्तैकक्षणं प्रति सर्वस्या उपादानत्वे चोत्तरक्षणं प्रत्युपादानाभावः प्रसज्यते । न च पूर्वक्षणनाशानन्तरं तदुपादानतया प्राक्स्थितायाः प्रकृतेरुत्तरक्षणं प्रत्युपादानत्वमिति वाच्यम् । पूर्वक्षणविनाशोत्तरक्षणोत्पत्त्योर्मध्ये कालाभावप्रसङ्गात् । तदभावे चोत्तरत्वस्यापि दुर्निरूपत्वात् । न च पूर्वक्षणविनाशसमय एवोत्तरक्षणोत्पत्तिरिति वाच्यम् । विनाशानन्तरमेव प्रकृतिभावप्राप्त्या नाशसमय उपादानाभावात् । नाशसमय इति समयशब्दस्य कालपरत्वेन कालसद्भावतद्ध्वंसयोर्यौगपद्यप्राप्त्या भावाभावयोर्विरोधाभावप्रसङ्गात् । रीत्यन्तरादर्शनाच्च । तूष्णीमीशाचिन्त्यशक्तयेति वक्तुमनुचितत्वात् । अतो न त्रिगुणात्मकप्रकृतेरुपादानत्वं युक्तिसहमिति कालस्य काल एवोपादानमिति । विस्तरस्तु सत्तत्वरत्नमालाटीकातो बोध्यः ।
तृतीयप्रकारं दर्शयति ।। स्वरूपेणेति ।। स्वरूपेण मूलरूपेण । अवस्थानं उपादेयानामागमापायित्वमुत्पत्तिविनाशसहितत्वम् । ननु मूले कथं प्रकृतिरित्येकवचनं गुणत्रयात्मिकायास्तस्या अनन्तत्वादिति चेत् । उच्यते । एकैव प्रकृतिः । अजामेकामिति श्रुतेः । तदप्येकत्वं नाव्याकृताकाशस्येव । अयःपिण्डादिवत् । यथा वालुकापिण्डस्य वालुकानां संश्लेषविशेषवत्त्वेनैक एवायं वालुकापिण्ड इति समुदायवैलक्षण्येन प्रत्यक्षादिसिद्धैकत्वाधिकरण त्वेऽपि स्थूलसूक्ष्मादितयाऽवस्थितवालुकानां भेदः प्रतीयते । एवमन्तर्भेदघटितमेव । अत एव शास्त्रे क्वचित्प्रकृतय इति बहुवचनं, क्वचित्प्रकृतिरित्येकवचनं च सङ्गच्छते । एवमेकैव प्रकृतिः सर्वत्र व्याप्ता ।
महान्तं च समावृत्य प्रधानं समवस्थितम् ।
अनन्तस्य न तस्यान्तः सङ्ख्यानं वापि विद्यते ।। इत्युक्तेः ।
महदादितत्वविनाशे तत्तत्सूक्ष्माण्यव्यक्ततामापद्यन्ते । गुणत्रयांशभूतमहदाद्युपादानभूतभागविशेषास्तु गुणत्रये विशंति । गुणत्रयेऽपि यद्रजस्तृतीयतात्पर्योक्तदिशा सत्वे तमसि च मिश्रीभवति । न तदा सत्वादिनाम । प्रकृतिरेव हि सोच्यते । इयं च साम्यावस्थाप्रलयः । उक्तं च गीताभाष्ये ‘‘अव्यक्तस्याप्यन्यथाभावाख्यो विनाशोऽस्ती’’ति । प्रमेयदीपिकायां च ‘‘अन्यथाभावो वैषम्यपरित्यागेन साम्यावस्थापत्ति’’रिति ।
अथ,
प्रकृतेः क्षोभकं रूपं दैवं नारायणाभिधम् ।
यत्तेन प्रकृतेः क्षोभे प्राप्ते किंचिद्विकारिणः ।।
इति पूर्वमेकीभूतांशविशेषभूतस्य विभागे ततः किञ्चित्स्थूलत्वेनोपचयरूपविकारे सति विभक्तभागत्रयस्य सत्वं रजस्तम इति नाम । एवं प्रकृतेरेकदेशतो गुणत्रयात्मना विकृतत्वेन समग्रप्रकृतेः क्षोभविशेषसद्भावेन च ‘‘विकारोऽव्यक्तजन्म ही’’ति ‘‘प्रकृतिश्च जडत्वात्परिणामिनी’’ति गीताभाष्ये, ‘‘अव्यक्तस्य जन्मवतो विकारो जनिरुच्यत’’ इत्येकादशतात्पर्ये, ‘‘प्रधानं विकृतैरपीत्यनुव्याख्यानादौ च प्रकृतिजनिव्यवहारः । प्रकृतिविकारतया तज्जन्यत्वमपेक्ष्य ‘‘त्रयः प्रकृतिजा गुणाः । ससर्ज भगवानादौ त्रीन्गुणान्प्रकृतेः पर’’ इत्यादौ गुणत्रयस्य प्रकृतिकार्यत्वव्यपदेशः । वस्तुतो व्याप्तप्रकृतेरपि गुणत्रयसूक्ष्मभागरूपतया ‘‘त्रिगुणात्मकं प्रधानं च रजः सत्वं तमस्तथे’’ति जन्यसत्वरजस्तमसां सकाशात्पृथक् प्रधानस्यापि त्रिगुणात्मकत्वोक्तिश्चोपपद्यते । एतद्गुणवैषम्यं सृष्टिरित्युच्यते । प्रकृतेर्व्याप्तत्वं तु कार्यकारणात्मना । कार्यावस्थानप्रदेशे कार्यमेव वर्तते । न कारणप्रकृतिः । सा तु तदन्यदेश इत्येवं क्वचित्कार्यं क्वचित्कारणमित्येवं न मन्तव्यम् । किन्तु ‘‘कारणेषु स्थितं कार्यं व्याप्तं कार्येषु कारण’’मिति गीतातात्पर्योदीरितरीत्या बोध्यम् । ननु परिमितस्य महदादिकार्यस्य कथं व्याप्तप्रकृतिगतत्वमिति चेन्न । ‘अधश्चोर्ध्वं प्रसृतास्तस्य शाखा’ इत्याद्युक्तेः परिमितानामपि महदादीनां सूक्ष्मांशैः स्वकारणकार्यव्याप्तत्वसम्भवात् । व्यक्तमेतद्गीताभाष्यप्रमेयदीपिकयोरित्यलम् । ततः किं प्रकृत इत्यत आह ।। तदेतदिति ।।
ननु त्रयोऽवयवा यस्य तत्त्रयमिति विधातिरिक्तावयविनोऽभावात्कथमिति चेन्न । समुदायातिरिक्तावयवाङ्गीकृतौ तदनङ्गीकृतौ विधा च विधा च विधा चेति विधास्तासां त्रयम् । एवं चेदवयविघटकत्वेन पृथक्पृथगवयवविधोपस्थितेस्तयब्विवक्षिते चावयवे सम्भवतीति नायजोऽप्यनुपपत्तिरिति सम्भवात् । अयं प्रकारस्तु द्वित्रिसूत्रव्याख्यानावसरे तत्वसुबोधिन्यां ‘‘कथं मुनित्रयमिती’’त्याद्याशंक्य विस्तरतो निरूपित इति ततोऽनुसन्धेयः । उक्तवस्तुत्रये पुराणाद्याः कालः प्रकृतिरित्युक्तवस्तुत्रये । इति इतिहेतोः ।
भावचन्द्रिका
पुराणाद्या इति आदिशब्दसङ्ग्राह्यतावच्छेदकं धर्ममाह । पौरुषेयग्रन्था इति ।। प्रकारत्रैविध्यमिति । ‘धा’प्रत्ययस्य प्रकारवाचित्वादिति भावः ।
विभज्यतावच्छेदकविशेषोपपादनार्थं सामान्यविभज्यतावच्छेदकं दर्शयति यन्न सर्वथेति ।। यद्वा नित्यानित्यं यथा नित्यानित्याभ्यां व्यावर्तते, तथा व्याचष्टे यन्नेति । कूटस्थत्वं हि अवधिविधुरत्वम् । अवधिश्च पूर्वोत्तरभेदात् द्विविधः । द्विविधोऽपि स्वरूपतः अंशतश्च इति अनेकविधः । ततश्च स्वरूपतः स्वांशतश्च पूर्वोत्तराभ्यामवधिविशेषाभ्यां रहितं यत्, तत् नित्यतया विवक्षितम् । तत् यत् न भवति– स्वरूपेणैव अवधिद्वयोपेतं यत् तत् अनित्यत्वेन विवक्षितम् । तत् च यत् न भवति तत् नित्यानित्यमित्यर्थः । उत्पत्तिमत्त्वे सति विनाशाभाव इति । पुराणादेः एवंरूपता च तत्त्वनिर्णयटीकादौ उपपादितप्रकारेण द्रष्टव्या ।
(वें.टि.) नित्यानित्यं यथा नित्यानित्याभ्यां व्यावर्तते तथा व्याचष्टे ।। यन्न सर्वथेति ।। अत्र कूटस्थत्वमवधिविधुरत्वम्, अवधिश्च द्विविधः । पूर्वः उत्तरश्चेति । द्विविधोऽपि स्वरूपेण स्वाभिन्नांशेन चेत्यनेकविधः । तथा च स्वरूपेण स्वाभिन्नांशादेश्च पूर्वोत्तरेण चावधिना विधुरं यत् नित्यतया विवक्षितं तद्वत् यन्न भवति, स्वरूपेणावधिद्वयोपेतं यदनित्यत्वेन विवक्षितं तद्वच्च यन्न भवति; तन्नित्यानित्यमुच्यत इत्यर्थः ।
काशी टिप्पणी
।। विभागेनाहेति ।। विभागेन सह निदर्शयतीत्यर्थः ।। आद्यशब्दसङ्ग्राह्याणामानन्त्यात्समानार्थमाह ।। पौरुषेयग्रन्था इति ।। स्वतन्त्रवक्तृका इत्यर्थः । अन्यतात्पर्यानुपजीवितात्पर्यप्रयोज्या इति यावत् । तथा हि येन पुरुषेण पूर्वतात्पर्यमनुपजीव्य स्वयमेव यत्तात्पर्येण यद्वाक्यं प्रयुज्यते तदर्थकतद्वाक्यं तदीयमित्युच्यते । वेदस्य तु पूर्वतात्पर्यमनुसृत्यैव प्रयोगान्न पौरुषेयत्वमित्यवधेयम् । पुराणादीनां प्रत्येकं त्रैविध्यान्वयप्रतीतिनिरासायाह ।। एका विधेति ।। एकाऽपराऽन्येत्यादावितिशब्दोऽध्याहार्यः । मूले प्रकृतिश्चेत्यनन्तरमिति शब्दोऽध्याहार्य इति भावः ।
मूलस्य न्यूनतामाशङ्कते ।। ननु चेति ।। ननु पौरुषेयवाक्यत्वकालत्वप्रकृतित्वरूपप्रकाराणां दर्शितत्वात्कथं न्यूनतेत्यत आह ।। किं त्विति ।। वस्तुनिर्देश एवेति ।। यथा ह्यनित्यं द्विविधमित्युक्ते तत्कथमित्याकाङ्क्षायामनित्यत्वोपपादकसंसृष्टत्वासंसृष्टत्वरूपप्रकारद्वयं दर्शितं तथाऽत्र नित्यानित्यत्वोपपादकप्रकारानुक्तेर्न्यूनतेत्याशयः । विवक्षितप्रकाराणामनुक्तावप्युदाहरणविशेषग्रहणेन सूचितत्वान्न न्यूनतेत्याशयेन समाधत्ते ।। नैष दोष इति ।।
नित्यानित्यस्वरूपाज्ञाने तदुपपादकत्वस्य ज्ञातुमशक्यत्वात्तदेवादौ निर्धारयति ।। यन्नेति ।। सर्वथा कूटस्थं धर्मिस्वरूपेणापि कूटस्थं पूर्वोक्तनित्यत्वविशिष्टमिति यावत् ।। अनित्यमिति ।। केवलानित्यमित्यर्थः । स्वस्वरूपेणाद्यन्तोभयवदिति यावत् एतेन नित्यत्वानित्यत्वव्यावृत्तम् । नित्यानित्यस्वरूपमित्युक्तं भवति । न चैवं तत्तद्बुद्धिक्रमविशिष्टवर्णात्मकस्य वेदपुराणादेः प्रातिस्विकरूपेणानित्यत्वापत्तिः । इष्टत्वात् । वेदादेरुक्तसामान्यरूपेणैव नित्यत्वाभ्युपगमात् । न चैवं नित्यत्वादेः साङ्कर्यप्रसङ्गः । तस्यादोषत्वात् । न चैवं विभागानुपपत्तिः वर्णप्रकृतिमहदाद्यसङ्कीर्णोदाहरणान्तरसत्त्वेनापि तदुपपत्तेः । एतेन कालक्षणानामनित्यान्तर्भावापत्तिरित्यपि समाहितं इष्टापत्तेः । अन्यथा कार्यप्रवाहस्य नित्यतया कार्यमात्रस्याप्यनित्यत्वानुपपत्तेः । तथा च यस्य यद्रूपेण पूर्वोक्तनित्यत्वानित्यत्वे न स्तः तस्य तद्रूपेण नित्यानित्यत्वमिति निष्कर्षः । एवं च नित्यस्याप्याकाशादेर्नित्यविशिष्टरूपेण नित्यत्वमनित्यविशिष्टरूपेणानित्यत्वं नित्यानित्यविशिष्टरूपेण नित्यानित्यत्वमित्यवधेयम् ।
।। उत्पत्तिमत्त्वे सतीति ।। अत्र नित्यव्यावृत्तये सत्यन्तम् । अनित्यव्यावृत्तये च विशेष्यभागः । तथा च यद्रूपेणोत्पत्तिमत्त्वे सति विनाशाभावस्तद्रूपवत्त्वमिति निष्कर्षः । तेन पुराणादेस्तत्तद्बुद्धिक्रमविशिष्टरूपेण विनाशित्वेऽपि नासङ्ग्रहः । सामान्यतः क्रमिकबुद्धिविषयत्वविशिष्टरूपेण विनाशाभावात् । तथाविधेश्वरबुद्धेरविनाशात् । उत्पत्तिमत्त्वे तु प्रमाणं वक्ष्यते ।। एकदेश इति ।। प्रवाहिरूपेणोत्पत्त्यादिमत्त्वे सति स्वरूपेण तदभाववत्त्वमित्यर्थः । अत्रापि नित्यव्यावृत्तये सत्यन्तम् । सादिप्रवाहवारणाय विशेष्यांशः ।। स्वरूपेणेति ।। अत्र कपालाद्यनित्यवारणाय सत्यन्तम् । नित्यव्यावृत्तये विशेष्यभागः परिणामित्वार्थकः ।
नन्वेतद्घटसंयोगप्रागभावविशिष्टाकाशादेर्भावरूपाज्ञानस्य च केवलनित्यत्वाद्यभावान्नित्यानित्यत्वं तावत्सिद्धम् । न चोक्तप्रकारत्रयेऽन्तर्भावोऽस्ति । एवमतीतकालप्रवाहस्य ध्वंसप्रागभावप्रवाहयोश्च तदन्तर्भावाभावान्नित्यानित्यस्य त्रैविध्यानुपपत्तिः । नैष दोषः । उत्पत्तिविनाशपदयोरवधिमात्रोपलक्षकत्वात् । मूलोक्तोदाहरणानुसारेणैवोत्पत्तिविनाशपदोपादानात् । तथा च यत्किञ्चिदवधिमत्त्वे सति यत्किञ्चिदवधिशून्यत्वं प्रवाहिरूपेणावधिमत्त्वे सति स्वरूपेणावधिशून्यत्वं स्वरूपेणावधिशून्यत्वे सति परिणामित्वं च विभाजकतया विवक्षितम् । उक्तोदाहरणानां च यथासम्भवमेतेष्वन्तर्भावः ।
अत एव तृतीयप्रकारे उत्पत्त्यभावनिवेशेनैवोपपत्तेरादिपदवैयर्थ्यमित्यपास्तम् । उत्पत्तिविनाशयोः पृथगनुपादानेन वैयर्थ्यानवकाशात् ।