भावाभावौ द्विधेतरत्

अस्वतन्त्रतत्वविभागः

टीका

द्विविधमित्युक्त्या परतन्त्रतत्वमवान्तरभेदवदिति सूचितम् । तत्कथम् ? इति । तत्राह– भावाभावेति ।।

तत्वसङ्ख्यानम्

.......भावाभावौ द्विधेतरत् ।

इतरत्स्वतन्त्रात् अस्वतन्त्रतत्वं द्विधा । कथं ? भावोऽभावश्चेति । अभावप्रतीतिर्भावप्रतीत्यधीना नियमेनेति प्राधान्यात्प्रथमं भावस्योद्देशः । प्रथमप्रतीतावस्तीत्युपलभ्यते यः स भावः । यश्च प्रथमोपलब्धौ नास्तीति प्रतीयते सोऽभावः । कुत एतत् ? स्वरूपेण हि भावाभावौ विधिनिषेधात्मानौ । रूपान्तरेण तु निषेधविधिरूपौ । तत्रापातजायां संविदि स्वरूपमेव भासते । द्वितीयादिप्रतीतौ रूपान्तरम् । कार्यगम्यत्वात्सामग्रीभेदस्य । तथा च प्रतीतिः अस्त्यत्र घटः, स न शुक्लः इति । एवं नास्त्यत्र घटः, अस्ति घटाभावः इति ।

भाववर्णनम्

प्रथमेत्यादि ।। सत्तावद्विशेष्यकप्राथमिकप्रतीतिविषयत्वं भावत्वम् । सत्ताभाववद्विशेष्यकप्राथमिकप्रतीतिविषयत्वं अभावत्वमित्यर्थः । न च सत्तादौ सत्तायाः अभावेन भावाभावविभाजकोपाध्योरव्यराप्तिरिति वाच्यम् । सत्तादावपि एकार्थसामानाधिकरण्येन सत्तायाः विद्यमानत्वात्, अभावेषु सत्ताभावेऽपि अभेदेन संबन्धेन सत्ताभावसत्वात् ।

तत्वसङ्ख्यानटीकाभावदीपः

उत्तरवाक्यमवतारयति ।। इत्युक्त्येति ।। विधार्थे विहितधाप्रत्ययान्तपदोक्त्येत्यर्थः । तत्कथमिति प्रश्नः । तत्र एवं प्रश्न सति परिहारमाहेत्यर्थः । इतिपदाध्याहारेणाह ।। भावोऽभावश्चेतीति ।। भावस्य प्रथमोद्देशे निमित्तमाह ।। अभावप्रतीतिरिति ।। नियमेनेति ।। प्रतियोगिज्ञानं विना अभावप्रतीतेः कदाप्यनुदयादिति भावः ।

.... .... ... .........प्रथमप्रतिपत्तिषु ।

निषेधविधिरूपत्वं भावाभावत्वमत्र हि ।।

इति युक्तिपादीयानुव्याख्यानानुरोधेनाह ।। प्रथमप्रतीताविति ।। विषयिविषययोराधाराधेयभावो गौण इत्यभिप्रेत्य सप्तमीप्रयोगः ।। कुत एतदिति ।। एतत् भावाभावव्यवस्थाकल्पनम् । कुतः कुतो मानादित्यर्थः । घटादेर्भावस्यापि पटादिर्नेति निषेधधीविषयत्वादिति भावः । भावाभावधीरेव प्रमाणम् । तथा प्रतीतौ च तत्तत्स्वरूपमेव नियामकमिति भावेनाह ।। स्वरूपेणेति ।। विधीति ।। अपरप्रतिक्षेपपरप्रतिक्षेपरूपावित्यर्थः ।

नन्वस्तु नाम भावाभावयोः स्वरूपेण विधिनिषेधरूपता च । तथापि किं प्रकृते ? इति । अत आह ।। तत्रेति ।। नन्वापातजायां संविदि स्वरूपमेवावभासते । रूपान्तरं तु द्वितीयादिप्रतीतौ भासत इति कुतः ? रूपद्वयप्रतीतिसामग्रीभेदे मानाभावादिति । अत आह ।। कार्यगम्यत्वादिति ।। प्रतीतिरूपकार्यभेद एव तत्सामग्रीभेदे मानमिति भावः । पूर्वापरभावापन्नोक्तरूपद्विविधप्रतीतिरूपकार्यगम्यत्वाद्भावाभावप्रतीतिद्वयसामग्री भावस्यादौ विधिरूपप्रतीतिं जनयित्वा पश्चान्निषेधरूपप्रतीतिं जनयति । अभावप्रतीतिसामग्री तु भावप्रतीतिवैपरीत्येन अभावप्रतीतिं जनयतीत्येवं भावाभावप्रतीतिसामग्य्रोर्भेदस्येति वा, भावस्यादौ विधिप्रतीतिसामग्री पश्चान्निषेधप्रतीतिसामग्रीत्यादिरूपेण सामग्रीभेदस्येति वा अर्थः । कार्यमेवा सिद्धमिति । अत आह ।। तथा चेति ।। उक्तरूपेणास्ति च प्रतीतिरित्यर्थः ।

तत्वसङ्ख्यानटीकाटिप्पणी

द्विविधमित्युक्त्येति ।। द्विविधमिति प्रकारवाचिधान्प्रत्ययेन स्वतन्त्रपरतन्त्रत्वयोः प्रकारत्वस्योक्तत्वात् स्वतन्त्रपरतन्त्रयोरवान्तरभेदोऽस्तीति सूचितम् । प्रकारत्वस्य सामान्यरूपतया स्वाश्रयव्यक्तिभेदं विनाऽनुपपत्तेः । यद्वा परीक्षकैस्तत्रैव हि प्रकारपुरस्कारेण विभागः कथ्यते, यत्र प्रकारिणां बहुत्वेन विभागः कर्तुं न शक्यते । यथा तद्दिविधं केवलं चतुर्विधं चेत्यादौ । एवं च प्रकृते प्रकारेण द्वैविध्यकथने प्रकारिबहुत्वं प्राप्तमेवेति तेन तत्सूच्यत इति द्रष्टव्यम् । सूचितमिति ।। सूचनाभावे श्रोतुरवान्तरभेदवत्ताज्ञानाभावेन तत्कथमित्याकाङ्क्षानुदयात्तं प्रत्यवान्तरभेदकथनमसङ्गतं स्यादिति भावः । एवमुत्तरत्रापि ज्ञातव्यम् । प्रथमेतिविशेषणादुभयत्र परस्परातिव्याप्तिपरिहारं प्रश्नपूर्वकमुपपादयितुमाह– कुत एतदित्यादिना ।। नन्वेवं सामग्रीवैचित्र्यकल्पने किं मानमित्यत आह– कार्येति ।। कार्यवैचित्र्यमेवाह– तथा चेति ।। स न शुक्ल इति ।। इदं ज्ञानं न प्राथमिकं प्रतियोगिज्ञानादिविलम्बादिति भावः ।। अस्ति घटाभाव इति ।। घटाभाववद्भूतलमित्यर्थः । अथवाऽभावविशेषणकं सत्ताविशेष्यकं ज्ञानमेतत् । इदमपि न प्रथमथा(पि)वि विशेषणस्याभावस्य पूर्वमज्ञानादिति भावः । नास्त्यत्र घट इति ज्ञाने तु घटाभावस्य विशेष्यत्वात्तज्ज्ञानस्य चाकारणत्वान्न विलम्ब इति बोध्यम् ।।

तत्वसङ्ख्यानविवरणम्

द्विविधमित्युक्त्येति । द्विविधमित्यनेन स्वतन्त्रास्वतन्त्र तत्वयोर्विभाजकोपाधित्वरूपप्रकारत्वस्योक्तत्वात् स्वतन्त्रपरतन्त्रयोरवान्तरभेदोऽस्तीति सूचितम् । प्रकारत्वस्य स्वाश्रयव्यक्तिभेदं विनानुपपत्तेः । यद्वा परीक्षकैस्तत्रैव हि प्रकारपुरस्कारेण विभागः कथ्यते यत्र प्रकारिणां बहुत्वेन विभागः कर्तुं न शक्यते । यथा द्विविधं केवलं चतुर्विधमित्यादौ । एवं च प्रकृते प्रकारपुरस्कारेण द्वैविध्यकथने प्रकारिबहुत्वं प्राप्तमेवेति तेन सूचितमिति द्रष्टव्यम् ।। सूचितमिति । सूचनाभावे श्रोतुरवान्तरभेदवत्ताज्ञानाभावेन तत्कथमित्याकाङ्क्षाया अनुदयात्तं प्रत्यवान्तरभेदकथनमसङ्गतं स्यादिति भावः । एवमुत्तरत्रापि ज्ञातव्यम् । भावस्य प्रथममुद्देशे प्राधान्यं निमित्तम् । प्राधान्येऽपि किं निमित्तमित्याशङ्कायामाह ।। अभावप्रतीतिरिति । प्रतियोगिज्ञानाधीनत्वादभावज्ञानस्येति भावः । यथाहुः । सद्भ्यामधिकरणप्रतियोगिभ्यामभावो निरूप्यत इति ।

भावाभावयोर्लक्षणं स्वयं दर्शयति ।। प्रथमप्रतीतावित्यादिना । भावलक्षणे अभावेऽतिव्याप्तिपरिहाराय प्रथमप्रतीताविति विशेषणम् । अभावलक्षणे भावेऽतिव्याप्तिपरिहाराय प्रथमोपलब्धावित्युक्तम् । एवं प्रथमेति विशेषणादुभयत्र परस्परातिव्याप्तिपरिहारं प्रश्नपूर्वकमुपपादयितुमाह ।। कुत एतदित्यादिना । लक्षणद्वयेऽपि प्रथमेति विशेषणं कस्माद्दत्तमित्यर्थः । उत्तरमाह ।। स्वरूपेण हीत्यादिना । रूपान्तरेण धर्मान्तरेण ।। निषेधेति । भावोऽपि निषेधरूपः अभावोऽपि विधिरूप इत्यर्थः ।। आपातजायामिति । निर्विकल्पकरूपायामित्यर्थः । प्राथमिकज्ञान इति यावत् ।

ननु सामग्रीवैचित्र्यकल्पने किं मानमित्यत आह ।। कार्येति ।। कार्यवैचित्र्यमेव दर्शयति ।। तथाच प्रतीतिरिति ।। स न शुक्ल इति । इदं ज्ञानं न प्राथमिकं प्रतियोगिज्ञानादिविलम्बादिति भावः ।। अस्ति घटाभाव इति । घटाभाववद्भूतलमित्यर्थः । अभावविशेषणकं सत्ताविशेष्यकं ज्ञानमेतत् । इदमपि ज्ञानं न प्रथमभावि । विशेषणस्याभावस्य पूर्वमज्ञानादिति भावः । नास्त्यत्र घट इति ज्ञाने तु घटाभावस्य विशेष्यत्वात्तज्ज्ञानस्याकारणत्वान्न विलम्ब इति ध्येयम् ।।

तत्वसङ्ख्यानटिप्पणम्

सूचितमिति ।। उक्तप्रणाड्येति भावः । कथं किंप्रकारोपेतमित्यर्थः । अनतिप्रसक्तये इतरदित्यस्यावधिमभिधत्ते ।। स्वतन्त्रादिति ।। अनन्वयशङ्कां निराकर्तुमितिशब्दाध्याहारेण मूलं योजयति ।। अस्वतन्त्रेत्यादिना ।। नन्वजाद्यन्ततयाऽभावभावाविति वक्तंु शक्यमिति चेन्न । ततोऽपि पराल्पाजादिशास्त्रेण भावाभावावित्येव निर्देशस्यौचित्यात् । ननु ‘समुद्राभ्राद्धः लक्षणहेत्वोः क्रियायाः’ इत्यादौ व्यभिचारात्तदनित्यतायास्तान्त्रिकैस्तत्र तत्रोक्तेः पुनः प्रत्यावर्तत आशङ्केति चेत्तर्हि ‘अभ्यर्हितमि’ति वार्तिकेन भावस्याभावज्ञानजनकज्ञानविषयत्वलक्षणप्राधान्यापरपर्यायशब्दवाच्याभ्यर्हितत्वेन पूर्वप्रयोगार्हतेत्याह ।। अभावेत्यादिना ।।

न च ‘श्वयुवमघोनामतद्धित’ इति निर्देशादिदमप्यनित्यमिति पुनरनवधानं मानसस्य मा च भूत् । सैव शङ्का पिशाचीमन्थरं प्रवर्त्स्यत इति वाच्यम् । यथाऽल्पाच्तरशास्त्रस्य बहुषु स्थलेषु व्यभिचारस्तथा नाभ्यर्हितशास्त्रं व्यभिचचार । व्यभिचचार च क्वचिदेवेति सापवादमेदिनीमपहायाविहाय तदितरत्सामान्यशास्त्रं मान्यं स्वार्थसाधन इति तद्भावबोधनसम्भवात् । तथा च लोकालोकयोः ‘‘सर्वानानय नैकं मैत्रम्, न हिंस्यात्सर्वा भूतानि अग्नीषोमीयं पशुमालभेते’’त्यादौ यथैकस्य मैत्रस्यापवादादानयनाभावेऽपि तदितरसर्वानयनम्, यथा वाऽग्नीषोमीयपशोः शास्त्रविशेषाद्धिंसाकर्मत्वेऽपि तदितरहिंसाऽकरणमर्थः सामान्यसमयस्येति दृष्टं तथाऽत्रेति नानुपपत्तिः । यथोक्तमनुव्याख्याने

उत्सर्गतोऽपि यत्प्राप्तमपवादविवर्जितम् ।

व्यभिचार्यपवादेन मानमेव भविष्यति ।। इति ।

इदमप्यनित्यमिति शब्देन्दुशेखरवैखर्यपि प्रकरणानित्यत्वविज्ञप्त्यै प्रवृत्ता । न तु क्वचिदपि नैतच्छास्त्रं प्रवर्तत इति भावमावेदयितुमिति न तद्विरोधः । अन्यथा वासुदेवार्जुनाभ्यामित्यादिसूत्रकृदाज्ञावज्ञानप्रसङ्गात् । अतोऽभ्यर्हितत्वं मनसि कृत्वा यत् प्राधान्यादित्यभ्यधात् तत्साध्विति दिक् ।

अभावत्वेनाभावप्रतीतिरत्र विवक्षिता । तेन प्रमेयत्वेनाभावप्रतीतेः प्रतियोगिभावप्रतीत्यनधीनत्वेऽपि न दोषः । सा च प्रतीतिः साक्षात्काररूपा । तेनाभावपदाज्जायमानेऽभावबोधे तदपेक्षाभावेऽपि न नियमस्योक्तस्यातिक्रमः । भावस्याप्यभावविलक्षणत्वेन प्रतीतिरभावरूपप्रतियोगिसापेक्षेत्यभावस्यापि प्राधान्यात्स एवादौ किं नोद्दिश्यत इत्यत आह ।। नियमेनेति ।। तथा च यथाऽभावप्रतीतेर्नियमेन भावप्रतीत्यधीनत्वं तथा भावप्रतीतेर्नियमेनाभावप्रतीत्यधीनत्वाभावान्न तस्यादावुद्देश इति भावः । ननु प्रागभावध्वंसप्रतीतेः प्रतियोगिप्रतीत्यधीनत्वेऽप्यत्यन्ताभावप्रतीतेः कथं प्रतियोगिप्रतीत्यधीनत्वम् । तत्प्रतियोगिनोऽत्यन्तासत्त्वादिति चेन्न । तत्रापि अप्रसक्तस्य प्रतिषेधायोगेन प्रसक्तिरूपाया भ्रान्तेश्च त्वया ये अधिष्ठानप्रधाने उच्येते तद्रूपभावप्रतीत्यधीनत्वादिति ब्रूमः ।

भावाभावयोः क्रमेण प्रतीतिघटिते लक्षणे आह ।। प्रथमप्रतीतावित्यादिना ।। मूल उद्देशेनैव लक्षणस्य सूचितत्वान्न तदनुक्तिर्दोष इति भावः । अभावे भावे च द्वितीयप्रतीतावस्ति नास्तीति विषयत्वस्य सत्त्वात्परस्परमतिव्याप्तिवारणाय प्रथमेति विशेषणम् । न च शुक्तिरूप्यस्यापि प्रथममस्तीत्युपलभ्यमानत्वेन तत्रातिव्याप्तिः । न च तत्रास्तत्वमेव न प्रतीयत इति वाच्यम् । तथात्वे प्रवृत्त्यभावापत्तेरिति । प्रतीतेः प्रमात्वविवक्षणाद्वा उपलभ्यत इत्युक्तविषयत्वस्य ज्ञानासाधारणकारणसन्निकर्षाश्रयत्वरूपस्य विवक्षणाद्वा नोक्तदोष इत्यत्र तात्पर्यात् ।

ननु किं प्रतीतौ प्रथमं योऽस्तीत्युपलभ्यत इति प्रथमत्वं कालविशेषणम् ? किं वा प्रथमा या प्रतीतिरिति प्रतीतिविशेषणम् ? । नाद्यः । बुद्धेर्विरम्य व्यापाराभावात् । द्वितीयेऽपि किमिह जन्मनि स्वविषयिका या प्रतीतिः सा विवक्षिता किं वैकसामग्रीजन्यासु प्रथमा या प्रतीतिः सा वा । अथ वा यदा यदा स्वयं जायते तदा तदा स्वविषयकं ज्ञानद्वयमस्ति । आपातजं विमर्शजमिति । तत्रापातजा या संवित्सा वा । नाद्यः । गिरिवर्तिनो गजाभावस्य ज्ञानात्पूर्वमेव जातायां यत्प्रमेयं तदस्तीति सामान्याकारेण प्रमेयमात्रविषयायां वन्यगजाभावस्य प्रथमप्रतीतेस्तत्र भावाभावलक्षणयोरतिव्याप्त्यव्याप्त्यापत्तेः । न द्वितीयः । एकसामग्य्रा अनेकज्ञानजनकत्वायोगात् । सामग्रीभेदाभावे कार्यभेदस्याकस्मिकत्वप्रसङ्गात् । तृतीयेऽप्यस्तिनास्तिप्रतीती के इमे । किमस्ति नास्तीति व्यवहारोत्पादिके किं वाऽस्तिनास्तिपदार्थविषयिके यद्वाऽस्तित्वनास्तित्वप्रकारिके । नाद्यः । अव्याप्तेः । ज्ञानस्य व्यवहारजनकत्वनियमाभावेनास्तीत्यदिप्रतीतिविषयत्वाभावात् । उत्पन्नस्यापि ज्ञानस्य व्यवजिहीर्षाभावे व्यवहारजनकत्वाभावसम्भवात् । न द्वितीयः । भावाभावलक्षणयोरतिव्याप्त्यसम्भवयोरापातात् । भावाभावयोरपि नास्त्यस्तिपदार्थत्वात् । अन्यथा पश्चादपि कथं तयोस्ते स्याताम् । तृतीयेऽपि के इमे अस्तित्वनास्तित्वे । किं भावत्वाभावत्वे किं वा सत्त्वनिषेधत्वे । आक्त आत्माश्रयः । द्वितीये सत्वं स्वरूपसत्त्वमेव वक्तव्यम् । अनुगतसत्तायाः सिद्धान्तेऽनङ्गीकारात् । ततश्च स्वरूपसत्त्वनिषेधत्वयोरभावे भावे च विद्यमानत्वात्तत्स्वरूपप्रतीतौ प्रतीयमानत्वात्परस्परमतिव्याप्तिः स्यात् । स्वरूपप्रतीतावप्रतीयमानत्वेऽव्याप्तिः स्यात् । न च उभयत्र सत्त्वनिषेधत्वे विद्येते, प्रतीयेते च । परन्तु भावे स्वरूपसत्त्वमेव प्रथमतः प्रतीयते । निषेधत्वं तु पश्चात् । एवमभावेऽपि निषेधत्वमेव प्रथमतः प्रतीयते न सत्त्वमिति वाच्यम् । अत्र नियामकाभावादित्याशयेन शङ्कते ।। कुत एतदिति ।। परिहरति ।। स्वरूपेण हीति ।। धर्मितयेत्यर्थः । रूपान्तरेण अभावधर्मतयेत्यर्थः । कथमनेनोक्तशङ्कापरिहार इति चेत् इत्थम् । प्रथमत्वं प्रतीतौ विशेषणम् । तत्र यदा यदा स्वयं ज्ञायते तदा तदा स्वविषयकं ज्ञानद्वयमस्ति आपातजं विमर्शजञ्चेति । आपातजप्रतीतिरेवेहोक्तप्रथमत्वविशेषितप्रतीतिशब्दवाच्या । न च के इमे इति तत्पक्षविकल्पदोषः । अस्तीत्याकारिका प्रतीतिरस्तीति प्रतीतिरिति वदामः । न चात्रास्तीत्याकारकत्वं भावत्वघटितम् । येनात्माश्रयः स्यात् । किंत्वखण्डस्यैव ज्ञानधर्मस्य तस्योररीकरणात् । न चात्र प्रमाणाभावः । भ्रमप्रमासाधारण्येनास्ति रजतमिति ज्ञानानन्तरं ममात्र रजतमस्तीति ज्ञानं जातमित्यबाधितानुभवस्य तत्र मानत्वात् । उक्तं च तत्वोद्योतटीकायां ‘‘रजतज्ञानस्य शुक्तिविषयकत्वं संविद्विरुद्धमिति चेन्न । रजतज्ञानस्येति कोऽर्थः । यदि रजतविषयस्येति तदाऽसिद्धिः । यदा रजतमिति ज्ञानस्येति तदा परस्यैव संविद्विरोधः । यदिदं रजतमित्यमनिषं सा शुक्तिकैवेत्यबाधितप्रतीतेः । यदाकारं यद्विज्ञानमिति तु प्रमितिनिष्ठेयं व्यवस्था’’ इति । उक्तं च तत्रैवोत्तरत्र न हि तदाकारत्वं तद्विषयत्वमिति पर्यायावेतौ । किन्नाम सामान्यविशेषवचनौ’’ इति । उक्तं च तत्वनिर्णयटीकायां ‘‘यथा हि सत्यरजते इदं रजतमित्यभिज्ञाकारमेव ज्ञानमुत्पद्यते तथा भ्रान्तरजतेऽपि इदं रजतमित्यभिज्ञाकारमेव ज्ञानमुत्पद्यते । तत्केन प्रमाणेन तस्यान्यत्र सत्वं व्यवस्थाप्यत’’ इति । एवं चाविमर्शजास्तीत्याकारकज्ञानविषयत्वं भावस्य लक्षणम् । नास्तीत्याकारकापातजज्ञानविषयत्वमभावस्य लक्षणमित्युक्तं भवति ।

यद्वा आपातजप्रतीतावस्तीत्युपलभ्यते यः स भाव इत्यादौ के इमे अस्ति नास्तीति प्रतीती इत्यादिना विकल्पितेषु पक्षेषु अस्तित्वनास्तित्वप्रकारिके इति तृतीयकल्पं स्वीकुर्मः । न च तत्रास्तित्वनास्तित्वे दुरुपपादे । अपरप्रतिक्षेपत्वपरप्रतिक्षेपत्वयोरेव विधित्वापरपर्यायस्वरूपसत्त्वनिषेधत्व-पदार्थत्वात् । एवं चापाततोऽपरप्रतिक्षेपरूपतया प्रतीयमानत्वं भावस्य लक्षणम् । आपाततः परप्रतिक्षेपरूपतया प्रतीयमानत्वमभावस्य लक्षणमित्युक्तं भवति ।

नन्वेवं चेदुपाधिखण्डनमन्दारमञ्जर्यामेतत्सर्वं वैतण्डिकमतमाशङ्क्य कथमत्र टीकोक्तादन्यथोक्तमिति चेन्न । भावानवबोधात् । अयं भावः । द्विविधं हि भावाभावयोर्लक्षणम् । प्रमेयरूपं प्रमाणरूपं चेति । यथोक्तं युक्तिपादीय

विशेष्यतैव धर्मित्वं प्रथमप्रतिपत्तिषु ।

निषेधविधिरूपत्वं भावाभावत्वमत्र हि ।।

इत्यनुव्याख्यानसुधायाम्, ‘‘अयमर्थः । किं भावाभावनियमनिबन्धनं प्रमेयरूपमन्विष्यते प्रमाणं वा । आद्यस्योत्तरार्धमुत्तरम् । यद्यपि भावात्मका घटादयः, प्रागभावादयश्च । तथाप्यत्र पदार्थसार्थे यः पिण्डो विधिधर्मिको घटादिः स भावः । यस्तु निषेधधर्मिकः प्रागभावादिः सोऽभाव इति व्यवस्थोपपद्यते । अभेदेऽपि धर्मधर्मिभावो विशेषशक्त्या सङ्गच्छत इत्युक्तमेव । द्वितीयस्योत्तरं प्रथमप्रतिपत्तिष्विति । प्रथमं यो विधितया परप्रतिक्षेपरूपतां विना प्रतीयते स घटादिर्भावः । यस्तु निषेधतया परप्रतिक्षेपेण प्रतीयते प्रागभावादिः सोऽभाव इत्युत्तरार्धेनैकवाक्यतया योज्यम् । घटो हि प्रथमं विधित्वेन धर्मिरूपेण प्रतीतोऽनन्तरं पटो न भवतीति पटनिषेधात्मकतया प्रतीयते । प्रागभावादिरपि प्रथमं निषेधधर्मिस्वरूपेणावगतोऽनन्तरं प्रमेय इति विधितया प्रतीयत इति सकलप्रतिपत्तृप्रसिद्धमिति बहुवचनहिशब्दाभ्यां द्योतयतीति ।

व्याख्यातानि चैतानि वाक्यान्युक्तलक्षणोपपादनमुखेन कृतशङ्कानिवर्तकतया शेषवाक्यार्थचन्द्रिकादिषु । एवं च मन्दारमञ्जर्यां वैतण्डिकशङ्काविषयस्य प्रमाणोपहितलक्षणस्य पराप्रतिक्षेपत्वादिरूप-विधित्वापरपर्यायास्तित्वादिघटिततया तज्ज्ञानाधीनज्ञानत्वेन प्रमेयलक्षणनिरूपणेनैवैतदपि समाहितप्रायमित्याशयेन पराप्रतिक्षेपत्वतत्प्रतिक्षेपत्वरूपे भावत्वाभावत्वे उच्येते ।

अभावत्वावच्छिन्नाधारतानिरूप्याधेयत्वाश्रयान्यत्वप्रतियोगित्वं भावत्वमित्यादिना परिष्कृते । अतो नोक्तविरोध इति । ननूक्तरूपे अपि विधिनिषेधत्वे प्रत्येकं भावे अभावे च विद्येते इति सिद्धान्तः । ततश्च ते अपि स्वरूपप्रतीतौ यदि प्रतीयेते तदोक्तरूपविधित्वस्य भाव इवाभावेऽपि प्रत्येतव्यत्वात् उक्तरूपनिषेधत्वस्याप्यभाव इव भावेऽपि प्रत्येतव्यत्वादतिव्याप्तिः । यदि च स्वरूपप्रतीतौ न प्रतीयेते तदा त्वव्याप्तिः । भाव एवोक्तरूपं विधित्वमेव प्रथमं प्रतीयते अभावे चोक्तरूपं निषेधत्वमेव प्रथमं प्रतीयत इत्यत्र नियामकाभावादित्यतः भावाभावयोरभावभावधर्मवत्तया प्रतिक्षेपाप्रतिक्षेपात्मकत्वेऽपि धर्मिरूपेणाप्रतिक्षेपप्रतिक्षेपात्मकत्वादापातजायां संविदि भावे घटादावप्रतिक्षेपधर्मिभानसामग्य्रा अभावे च प्रागभावादौ प्रतिक्षेपरूपधर्मिभानसामग्य्राश्च सद्भावेऽपि तदा प्रतिक्षेपाप्रतिक्षेपरूपधर्मभानसामग्रीविरहेणोक्तरूपविधिनिषेधयोरेव भाननियमोपपत्तेर्नाव्याप्तिरित्याशयवानापातजायां संविदि रूपान्तरभानसामग्रीविरह एव द्वितीयादिप्रतीतौ तत्समावेशश्च कुत इत्यतः कार्यमेव तत्र प्रमाणमित्यभिप्रेत्य भावविषयमभावविषयञ्च प्रतीतिद्वयं क्रमेणोदाहरन्कार्यमेव दर्शयति ।। कार्यगम्यत्वादित्यादिना अस्ति घटाभाव इतीत्यन्तेन ।।

न च भावलक्षणस्य घटाभावोऽस्तीति वाक्यात्प्रथमतोऽस्तीत्युपलभ्यमाने भावेऽतिव्याप्तिरिति वाच्यम् । तत्रापि घटाभाव इत्यवान्तरवाक्यार्थभूतप्रतिषेधाकारप्रतीत्युत्तरकालमेव तदस्तित्वप्रतीतेः । अत एव घटाभावो नास्तीति वाक्यात्प्रथममेव घटस्य नास्तित्वाकारेण प्रतीतेरभावलक्षणस्य तत्रातिव्याप्तिरिति परास्तम् । नन्वेवमप्यभावलक्षणस्य भावेऽतिव्याप्तिः । तथा हि । भेदो हि धर्मिस्वरूपमेव । स च धर्मिग्रहेण गृह्यत एव । यथोक्तमनुव्याख्याने

‘‘स्वरूपं वस्तुनो भेदो यन्न तस्य ग्रहे ग्रह ।’’ इति ।

न च प्रथमप्रतीतौ सप्रतियोगिकप्रतिषेधाकारेण प्रतीयमानत्वं विवक्षितम् । तथा च घटप्रतीतौ स्वरूपाकारेण भेदस्य प्रतीतावप्युक्तरूपेणाप्रतीतेर्नातिव्याप्तिरिति वाच्यम् । प्रथममेव सर्वविलक्षणत्वेन वस्तुप्रतीतेरङ्गीकृतत्वात् । प्रायः सर्वतो विलक्षणं हि पदार्थस्वरूपं दृश्यत इत्यन्यत्रोक्तेः । तथा च कथं नातिव्याप्तिरिति चेत् उच्यते । विशेषतः प्रतिषेधाकारत्वेन प्रतीयमानताया एवाभावलक्षणत्वेन विवक्षितत्वात् । तथा च स्वरूपेण भेदप्रतीतावपि विशेषरूपेण भेदप्रतीत्यभावान्नातिव्याप्तिः । अत एवानन्तरप्रतीतिरिह न शुक्ल इति । सुधायाम् च ‘‘पटो न भवती’’ति विशेषाकारेणैवाभिहिता । उक्तं चैतदनुव्याख्याने

‘‘को विरोधः स्वरूपेण प्रतीतो भेद एव तु ।

 अस्यामुष्मादिति पुनर्विशेषेणैव गृह्यत’’ ।। इति ।

एतेन स्वरूपभेदस्य प्रतीतिभेदे नियामकत्वात्प्रतीत्युपाधिकस्वरूपभेदादेव प्रतीतिभेद इति कथं नेतरेतराश्रय इति निरस्तम् । उदाहृतसुधारीत्या प्रतीत्यनुपाधिकभावस्वरूपस्य वक्तंु शक्यत्वादित्यलं प्रपञ्चेन । कार्यगम्यत्वादित्युक्तम् । किन्तत्कार्यमित्यत आह ।। तथा च प्रतीतिरिति ।।

भावचन्द्रिका

द्विविधमित्युक्त्येति । स्वतन्त्रमस्वतन्त्रञ्चेति द्विविधम् इत्युक्त्या तत्त्वस्य स्वातन्त्र्यादिना द्वैविध्यमेव उक्तम्, न तु स्वतन्त्रपरतन्त्रयोः भावाभावत्वादिना अवान्तरभेदोऽपि; तथापि द्विविधम् इत्यनेन स्वातन्त्र्यपारतन्त्र्यरूपप्रकारद्वित्वं वदता प्रकारयोरेव द्वित्वं, न तु व्यक्तिनाम् । तत्रापि अनयोरेव प्रकारयोः द्वित्वं, अन्येषां अवान्तरप्रकाराणां बहुत्वं अस्त्येव इति सूचितम् । अन्यथा स्वतन्त्रमस्वतन्त्रञ्चेति द्वे तत्त्वे इत्येव ब्रूयात् । तत्र च स्वतन्त्रमेकम् इत्युक्त्या स्वतन्त्रावान्तरभेदो नास्ति इति सूचितमेव । परतन्त्रस्यापि भेदाभावे तत्सूचनस्य निर्विषयत्वमेव स्यादिति भावः । विष्णोरपि परतन्त्रात् इतरत्वेन तस्यैवायं विभागः इति मन्दां शङ्कां परिहरति इतरदिति । इतरत् भावाभावौ द्विधा इत्यन्वयानुपपत्तेः इतिशब्दाध्याहारेण मूलं व्याचष्टे भावोऽभावश्चेति । ननु भावाभावयोर्मध्ये भावस्यैव प्रथमोद्देशः किन्निमित्तम् ? न च अभावापेक्षया प्राधान्यमेव निमित्तम् । तत्प्रकारानिरूपणेन तदसिद्धेः इत्यत आह अभावप्रतीतिरिति ।

ननु घटाद्यभावस्य घटादिरूपभावनिरूप्यत्वात् भावस्य प्राधान्यम् इति न युक्तम् । भावस्यापि घटादेः स्वाभावाभावत्वेन निरूपणस्य अभावप्रतीत्यधीनत्वस्य तुल्यत्वात् । न च घटाभावाभावत्वेन घटप्रतीत्यर्थं घटाभावप्रतीत्यपेक्षायामपि घटत्वेन तत्प्रतीतौ तदनपेक्षणान्न भावस्य अभावनिरूप्यत्वम् इति वाच्यम् । अभावस्यापि प्रमेयत्वादिना प्रतीतौ तदनपेक्षणेन अभावस्यापि भावनिरूप्यत्वनियमासिद्धेः इति चेत्; न । अभावत्वप्रकारकाभावप्रतीतेः भावप्रतीत्यधीनत्वनियमस्य विवक्षितत्वेन अनतिप्रसङ्गात् । न च एवमपि अभावस्य प्रागभावादेः प्रतियोगिरूपभावज्ञानाधीननिरूपणत्वेन तत्प्रतीतेः भावप्रतीत्यधीनत्वेऽपि असत्प्रतियोगिकाभावस्य अत्यन्ताभावस्य प्रतियोगिभूतासन्निरूप्यत्वेन तस्य भावत्वाभावात्, न भावत्वप्रकारज्ञानस्यापि भावप्रतीत्यधीनत्वनियम इति वाच्यम् । प्रतियोगिनः असत्त्वेऽपि अधिकरणस्य सत्त्वेन अधिकरणरूपभावज्ञानस्य तत्रापि अपेक्षणात् प्रतियोगिज्ञानस्य इव अधिकरणज्ञानस्यापि ज्ञानजनकत्वात् । अप्रसक्तस्य निषेधानुपपत्त्या प्रसक्तेः अवश्यं वाच्यत्वात्, तस्याश्च भ्रान्तितया अधिष्ठानप्रधानीभूतभावनिरूप्यत्वात् । साक्षात् पारम्पर्येण वा अभावप्रतीतेः भावप्रतीत्यधीनत्वमस्त्येव इति न दोषः इत्यप्याहुः ।

यथोद्देशं भावाभावलक्षणे आह प्रथमेति । भावस्य पटादेः शुक्लो न इति नास्तित्वेन उपलभ्यमानत्वात्, अभावस्यापि घटाभावः अस्ति इति अस्तित्वेन उपलभ्यमानत्वात् अव्याप्तिः परस्परातिव्याप्तिश्च स्यातामित्यतः प्रथमप्रतीतौ इति विशेषणम् । ननु किं प्रतीतौ प्रथमं योऽस्ति इत्येवं प्रथमग्रहणं कालविशेषणं अभिमतम् ? किं वा प्रथमा या प्रतीतिः इति प्रतितिविशेषणम् ? नाद्यः । बुद्धेः विरम्यव्यापाराभावात् । द्वितीयेऽपि किमिह जन्मनि स्वविषयिका या प्रतीतिः सा विवक्षिता किं वा एकसामग्रीजन्यासु स्वविषयिकासु या प्रथमप्रतीतिः सा ? अथवा यदा यदा स्वयं जायते तदा तदा स्वविषयकं ज्ञानद्वयमस्ति आपातजं, विमर्शजञ्च; तत्र आपातजा या संवित् सा ? नाद्यः । गिरिदरीविवरवर्तिनः गजाभावस्य ज्ञानात् पूर्वमेव जातायां यत्प्रमेयं तदस्ति इत्यस्यां सामान्याकारेण प्रमेयमात्रविषयिकायां वन्यगजाभावस्य प्रथममस्तित्वप्रतीतेः भावाभावलक्षणयोः अतिव्याप्तिप्रसङ्गात् । न द्वितीयः । एकसामग्य्रा अनेकज्ञानजन्यत्वायोगात्, सामग्रीभेदाभावे कार्यभेदस्य आकस्मिकत्वप्रसङ्गात् । तृतीयेऽपि इमे अस्ति नास्ति इति प्रतीती किं अस्ति, नास्ति इति व्यवहारोत्पादिके ? किं वा अस्ति नास्ति पदार्थविषयिके ? किं वा अस्तिनास्तित्वप्रकारिके ?

नाद्यः । अव्याप्तेः । ज्ञानस्य व्यवहारजनकत्वनियमाभावेन विवक्षितस्य अस्ति इत्यादिप्रतीतिविषयत्वस्य अभावात् । उत्पन्नस्यापि ज्ञानस्य व्यवहारजिहीर्षाभावे व्यवहाराजनकत्वात् । न द्वितीयः । भावाभावलक्षणयोः अतिव्याप्ति असम्भवापातात् । अभावस्य अस्तिपदार्थत्वात् । अन्यथा कथं पश्चादपि घटाभावः अस्ति इति प्रतीतिः? तृतीयेऽपि के इमे अस्तिनास्तित्वे । भावाभावत्वे ? सत्त्वनिषेधत्वे वा ? आद्ये अन्योन्याश्रयः । द्वितीये । सत्ताऽनङ्गीकारेण स्वरूपसत्त्वनिषेधत्वरूपे उभे अपि प्रत्येकं भावाभावे च विद्येते इति सिद्धान्तः । एवञ्च ते स्वरूपप्रतीतौ एव प्रतीयेते ? उत न ? इति वक्तव्यम् । आद्ये स्वरूपसत्त्वस्य भावे इव अभावेऽपि प्रत्येतव्यत्वात् । निषेधत्वस्य च अभावे इव भावेऽपि प्रत्येतव्यत्वादतिव्याप्तिः । द्वितीये तु अतिव्याप्तिः । न हि भावे एव स्वरूपसत्त्वमेव प्रथमं प्रतीयते । अभावे एव निषेधत्वमेव प्रथमं प्रतीयते इत्यत्र नियामकमस्ति इति भावेन शङ्कते कुत इति ।। एतदिति ।। प्रथमप्रतिपत्तौ अस्तीत्युपलभ्यमानत्वादिकमित्यर्थः । परिहरति स्वरूपेण हीति ।। हिशब्दो हेतौ । स्वरूपेण धर्मितया इत्यर्थः ।। रूपान्तरेणेति ।। अभावभावरूपधर्मितया इत्यर्थः ।। निषेधविधिरूपाविति । धर्मधर्मिणोः ऐक्यादिति भावः ।

स्वरूपमेवेति । तदा रूपान्तरसामग्रीविरहादिति भावः ।। द्वितीयादीति । तदा रूपान्तरप्रतीतिसामग्रीसमावेशादिति भावः ।

ननु आपातजायां संविदि रूपान्तरप्रतीतिसामग्रीविरहः, द्वितीयादिप्रतीतौ तत्समावेशश्च कुतः कल्प्यते ? इत्यत आह कार्येति । तदेव दर्शयति तथा चेति । भावविषयं प्रतीतिद्वयं क्रमेण उदाहरति अस्त्यत्रेति ।। अभावविषयं प्रतीतिद्वयं तथैव उदाहरति एवमिति । घटाभावोऽस्ति इत्यादिवाक्यादपि यदा घटाभावः अवगम्यते तदाऽपि अवान्तरवाक्यार्थभूतप्रतिषेधाकारप्रतीत्युत्तरकालमेव तदस्तित्वप्रतीतेः न अभावे भावलक्षणस्य अतिव्याप्तिः इति भावः ।

ननु च स्वरूपं वस्तुनो भेदो यन्न तस्य ग्रहेऽग्रहः इति सिद्धान्ते धर्मिग्रहे गृह्यमाणत्वाभिधानात् , प्रायः सर्वतो विलक्षणं हि पदार्थस्वरूपं दृश्यते प्रथमत एव सर्वविलक्षणत्वेन वस्तुप्रतीत्यङ्गीकाराच्च, भावलक्षणस्य अभावे अतिव्याप्तिरेव इति चेत् न, प्रथमतो भेदस्य स्वरूपेण प्रतीतौ अपि विशेषप्रतिषेधाकारेण प्रथमप्रतीयमानत्वाभावात् । अत एव उक्तम्–

को विरोधः स्वरूपेण गृहीतो भेद एव तु ।

अस्यामुष्मादिति पुनर्विशेषेणैव गृह्यते ।। इत्यादि ।

विशेषतः प्रतिषेधाकारेण प्रतीयमानत्वमेव च अभावलक्षणतया अभिमतमिति न अव्याप्तिः इति ध्येयम् । अथापि स्यात् स्वरूपभेदस्य प्रतीतिभेदनियामकत्वात्, स्वरूपभेदाभावे कथं प्रतीतिभेदनियमः ? प्रतीत्युपाधिकस्वरूपभेदादेव प्रतीतिभेदे च स्फुटं इतरेतराश्रयत्वम् इति चेत् न । अत्र पदार्थस्य अर्थे यः पिण्डः विधिधर्मिकः घटादिः सः भावः । यस्तु निषेधधर्मिकः प्रागभावादिः सः अभावः इति सुधोक्तरीत्या प्रतीत्यनुपाधिकभावाभावस्वरूपस्यापि वक्तुं शक्यत्वात् धर्मद्वारमन्तरेण धर्मिण एव विधित्वं भावत्वम् । धर्मद्वारमन्तरेण धर्मिण एव निषेधश्च अभावः इति । तथा च घटादीनां प्रागभावादीनां भावाभावरूपत्वेऽपि घटादीनां धर्मिरूपेण विधित्वात् भावत्वमेव । प्रागभावादीनां च तद्रूपेण निषेधरूपत्वात् अभावत्वमेवेति युक्त एव भावाभावनियमः । यत् घटादिः भाव एव प्रागभावादिः अभाव एव इति । प्रथमप्रतिपत्तिस्तु भावाभावनियामकत्वेन उक्ता । अत एवोक्तम्–

प्रथमप्रतिपत्तिस्तु भावाभावनियामिका इत्यादि । इति सर्वम् अनवद्यम् ।

(वें.टि.) नियमेनेति ।। न च प्रागभावध्वंसप्रतीतेः प्रतियोगिरूपभावप्रतीत्यधीनत्वेऽपि अत्यन्तासत्प्रतियोगिकात्यन्ताभावस्य प्रतीतिः कथं भावप्रतीत्यधीनेति वाच्यम् । तत्राप्यप्रसक्तस्य प्रतिषेधायोगेन प्रसक्तेश्च भ्रान्तिरूपतया अधिष्ठानज्ञानरूपभावप्रतीत्यधीनत्वादिति भावः ।

कार्यमेव क्रमेणोदाहरति ।। एवमिति ।। ननु भावलक्षणे घटाभावोऽस्तीति वाक्यात् प्रथममेवास्तीत्युपलभ्यमानेऽभावेऽतिव्याप्तिरिति वाच्यम् । तत्रापि घटाभाव इत्यवान्तरवाक्यार्थभूतप्रतिषेधाकारप्रतीत्युत्तरकालमेव तदस्तित्वप्रतीतेः । अत एव घटो नास्तीति वाक्यात् प्रथममेव घटस्य नास्तित्वाकारेण प्रतीतेरभावलक्षणस्यातिव्याप्तिरिति परास्तम् ।

ननु भावलक्षणे तथाप्यतिव्याप्तिः । तथाहि । भेदो हि धर्मिस्वरूपमेव, स च धर्मिग्रहेण न गृह्यत एव । उक्तं हि- ‘स्वरूपं वस्तुनो भेदो यन्न तस्य ग्रहे ग्रहः’ इति । न च प्रथमोपलब्धौ सप्रतियोगिकप्रतिषेधाकारेण प्रतीयमानत्वं विवक्षितम् । तथा च स्वरूपाकारेण प्रतीतावपि नातिव्याप्तिरिति वाच्यम् । प्रथममेव सामान्यतः सर्वविलक्षणत्वेन वस्तुप्रतीत्यङ्गीकारात् । उक्तं हि- ‘प्रायः सर्वतोविलक्षणं पदार्थस्वरूपं दृश्यत’ इति । तथा च कथं नातिव्याप्तिरिति । मैवम् । विशेषतः प्रतिषेधाकारेण प्रथमं प्रतीयमानत्वस्य अभावलक्षणत्वेन विवक्षितत्वात् । स्वरूपेण भेदप्रतीतावपि प्रथमं विशेषाकारेण प्रतीत्यभावात् । अत एव अनन्तरप्रतीतिः ‘न शुक्ल’ इति विशेषाकारेणैवोदाहृता । उक्तं हि- ‘को विरोधः स्वरूपेण गृहीतो भेद एवतु ।

अस्य अमुष्मादिति पुनः विशेषेणैव गृह्यते’ ।। इति ।।

काशी टिप्पणी

चतुर्थपादस्यानाकाङ्क्षितत्वं निवारयन्नाह ।। द्विविधमिति ।। प्रकारस्यैव द्वित्वोक्त्या सूचितस्य प्रकार्यनेकत्वस्य स्वतन्त्रे अपवादे इति अस्वतन्त्र एव पर्यवसानादिति भावः । अपेक्षिताध्याहारेण मूलं योजयति ।। इतरदिति ।। द्विवचनार्थद्वित्वमविवक्षितमिति भावेनाह ।। भावोऽभावश्चेति ।। ननु पश्चान्निरूप्यमाणस्य भावस्य कथमादावुद्देशः? इति । अत आह ।। अभावप्रतीतिरिति ।। अभावत्वेनाभावप्रतीतिरित्यर्थः । तेन वस्तुत्वादिना तत्प्रतीतेर्भावप्रतीत्यनधीनत्वेऽपि न क्षतिः । न चाभावपदजन्याभावप्रतीतौ व्यभिचारः । तस्याः पदशक्त्यादिरूपभावप्रतीत्यधीनत्वात् । अत्यन्ताभावप्रतीतेरपि अधिकरणादिप्रतीत्यधीनत्वात् । अभावभिन्नो भावः इति प्रतीतेरभावप्रतीत्यधीनत्वादभावस्यापि प्राथम्यापत्तिरतो नियमेनेति । यत्तु भावत्वज्ञानं विना भावभिन्नत्वरूपाभावत्वज्ञानासम्भवात्प्रथमं भावस्योद्देश इति तन्न । वक्ष्यमाणाभावत्वस्य भावभिन्नत्वरूपत्वाभावादिति भावेनोक्तम् ।। इति प्राधान्यादिति ।। उक्तरूपप्राधान्यमेव प्राथम्यनियामकमित्यर्थः । उद्देशक्रमेण भावाभावयोर्लक्षणमाह ।। प्रथमेति ।। विधित्वेन प्रथमप्रतीतिविषयत्वं भावत्वम् । निषेधत्वेन प्रथमप्रतीतिविषयत्वमभावत्वमित्यर्थः । विधित्वनिषेधत्वे चाखण्डोपाधी । एतदभिप्रायेणैव भावत्वादिकमखण्डोपाधिरिति विजयीन्द्रतीर्थश्रीमच्चरणैरुक्तम् । न तूक्तप्रतीतिविषयत्वरूपे । उक्तप्रतीतौ नियामकाभावप्रसङ्गात् । न चैवं तयोरेव भावाभावलक्षणत्वम् । अभावभावयोरतिव्याप्तेः । द्वितीयादिप्रतीतावभावस्यापि विधित्वेन भानात्प्रथमेति । प्रथमत्वं च प्रतीत्यनुत्तरत्वम् । तेन द्वितीयादिप्रतीतेस्तृतीयादिप्रतीतितः प्राथम्येऽपि न क्षतिः । न चाभावप्रतीतेः प्रतियोग्यादिप्रतीत्युत्तरत्वनियमात्प्राथम्यायोगः । स्वविषयविषयकप्रतीत्यनुत्तरत्वस्यात्र विवक्षितत्वात् । न चान्योन्याभावेऽव्याप्तिः । तत्प्रतीतेस्तदभिन्नधर्मिप्रतीत्युत्तरत्वनियमादिति वाच्यम् । भावस्वरूपाभावस्यालक्ष्यत्वात् । अभावस्वरूपे च धर्मिप्रतीतिमादायैव लक्षणसङ्गतेः । अत एव यस्तु नास्तीति प्रतीयते सोऽभाव इत्युक्तम् । अन्यथा यस्तु नेति प्रतीयते इत्येवावक्ष्यत् ।। कुत एतदिति ।। प्रथमप्रतीतावेकस्य विधित्वेनैव भानमन्यस्य निषेधत्वेनैवेत्येतत्कुतः ? इत्यर्थः ।

अत्र वस्तुस्वरूपवैचित्र्यमेव नियामकमित्याह ।। स्वरूपेण हीति ।। भावो घटादिर्निर्विशेषेण विधिः सविशेषेण निषेधः । अभावस्तु प्रागभावादिस्तद्विपरीत इत्यर्थः । भावस्य विधित्वनिषेधत्वे निर्विशेषसविशेषरूपे, अभावस्य तु तद्विपरीत इति यावत् । विशेषश्चात्र प्रथमप्रतीतिविषयत्वविरोधी ग्राह्यः । ततः किं ? । अत आह ।। तत्रेति ।। स्वरूपरूपान्तरयोर्मध्ये अक्षसन्निकर्षमात्राधीनायां प्रथमप्रतीतौ स्वरूपोपाधिनैव वस्तुभानम् । न तु रूपान्तरोपाधिना । तद्भासकसामग्य्रभावादिति भावः । एवं च घटादिप्रतीतौ घटत्वादेर्भानमुपपद्यते । तस्य स्वरूपोपाधित्वात् । स्वरूपरूपान्तरभासकसामग्रीभेद एव कुतः ? इति । अत आह ।। कार्येति ।। कार्यवैचित्र्यगम्यत्वादित्यर्थः । अन्यथा कार्यवैचित्र्यानुपपत्तेः । स्वरूपप्रतीतिसहकृतसन्निकर्षादिकमेव रूपान्तरभासकसामग्रीति भावः । कार्यवैचित्र्यमेव दर्शयति ।। तथा चेति ।। न शुक्लः इति ।। भेदस्य धर्मिस्वरूपत्वेऽपि निषेधत्वेन प्रतीतिः पश्चादेवेति भावः । यद्यप्येवं स्वरूपेण विधिनिषेधत्वयोरेव भावाभावलक्षणत्वसम्भवः तथापि तयोः प्रमितत्वसिद्धये प्रतीतिघटितलक्षणाभिधानमित्यवधेयम् ।