नित्यानित्यविभागेन त्रिधैवाचेतनं मतम्

अचेतनविभागः

टीका

एवं चेतनविभागं विस्तरेणाभिधायावसरप्राप्तमचेतनविभागमाह ।। नित्यानित्येति ।।

तत्वसङ्ख्यानम्

नित्यानित्यविभागेन त्रिधैवाचेतनं मतम् ।। ७ ।।

अत्राप्यचेतनमेवैवं विभागवदित्यर्थानभ्युपगमात् पूर्वोक्ततत्वानामपि प्रमाणान्तरेण नित्यत्वादिग्रहणं न विरुद्धम् । नित्यानित्यविभागेनेत्यस्य नित्यानित्यत्वेन तद्विभागेन चेत्यर्थः । तथा च नित्यानित्यं नित्यमनित्यं चेत्यचेतनं त्रिविधमित्युक्तं भवति ।

तत्वसङ्ख्यानटीकाभावदीपः

।। पूर्वोक्तेति ।। चेतनानां नित्यत्वं अत्यन्ताभावध्वंसयोर्नित्यत्वं प्रागभावस्यानित्यत्वं अन्योन्याभावस्य च यथाधिकरणं नित्यत्वमनित्यत्वं चेत्यादि ध्येयमित्यर्थः ।

तत्वसङ्ख्यानटीकाटिप्पणी

नित्यानित्यविभागेनेत्यादिना विधाद्वयस्यैव लाभात् त्रिधेति कथमुक्तमित्यत आह– नित्यानित्यविभागेनेत्यस्येति ।। तथा च नित्यानित्यत्वञ्च विभागश्च नित्यानित्यविभाग इति द्वन्द्वैकवद्भाव इत्युक्तं भवति ।

तत्वसङ्ख्यानविवरणम्

अवसरप्राप्तमिति । चेतनाचेतनयोर्मध्ये चेतनस्याभ्यर्हितत्वेन तन्निरूपणानन्तरं प्राप्तमित्यर्थः । नन्वेवं सति स्वतन्त्रतत्वस्य विष्णोर्नित्यत्वं नोक्तं स्यात् । तस्यास्वतन्त्रप्रभेदरूपत्वात् । परतन्त्रतत्वेऽपि चेतनानां नित्यत्वं नोक्तं स्यात् । तस्याचेतनप्रभेदरूपत्वात् । तथा ध्वंसात्यन्ताभावयोर्नित्यत्वं प्रागभावस्यानित्यत्वमपि नोक्तं स्यात् । तस्य भावप्रभेदरूपाचेतनप्रभेदरूपत्वादित्यत आह ।। अत्रापीति । एवं अचेतनं नित्यादिभेदेन त्रिविधमेव न पुनरेकविधं नापि चतुर्विधमित्येवार्थोऽभिमतो न पुनरचेतनमेव नित्यादिविभागवदिति । तथा च पूर्वोक्तानां विष्ण्वादितत्वानां नित्यत्वादिकं न विरुद्धमित्यर्थः । ननु नित्यानित्यविभागेनेत्यादिना विधाद्वयस्यैव लाभात् त्रिधेति कथमुक्तमित्यत आह ।। नित्यानित्यविभागेनेत्यस्येति ।। तद्विभागेनेति । नित्यानित्यस्य विभागेन पार्थक्यकरणेन । तथा च नित्यत्वेनानित्यत्वेन चेत्यर्थः । तथा च नित्यानित्यं च विभागश्च नित्यानित्यविभागमिति द्वन्द्वैकवद्भावमित्युक्तं भवति ।।

तत्वसङ्ख्यानटिप्पणम्

उत्तरमूलमवतारयति ।। एवमिति ।। विस्तरेण शब्दप्रपञ्चेन ।। अवसरप्राप्तमिति ।। चेतनविभागानन्तरमचेतनविभागस्य न्यायप्राप्तत्वादित्यर्थः । ननु विष्णोर्नित्यत्वस्यावश्यं वक्तव्यस्यानुक्तेर्न्यूनता स्याद्ग्रन्थस्य । न चानेनैव मूलेन तस्य तत्सेत्स्यतीति वाच्यम् । अस्यास्वतन्त्रप्रभेदत्वात् । एवमेव चेतनानां रमादीनामचेतनप्रभेदनित्यत्वालाभाच्चेत्यतो ‘‘भावाभावौ द्विधेतर’’दित्यादिमूलवाक्यानामन्यनिषेधकत्वाभावेन यथा तेभ्यो विष्णोर्भावत्वादिसिद्धिः तथाऽस्मादपि विष्ण्वादीनां नित्यत्वं सम्भवत्येवेत्याह ।। अत्रापीति ।। न केवलं ‘‘भावाभावा’’वित्यादिषु किं त्वत्रापीत्यर्थः । अत एव भगवत्पादैरवधारण मचेतन एतत्प्रकारत्रयं क्वचिदपि न वियुज्यत इति प्रदर्शनार्थं त्रिधेत्यनेनोपनिबद्धम् ।। एवं विभागवदिति ।। एवकारस्याचेतनपदेनान्वयमङ्गीकृत्यैवं विभागवदित्यर्थानङ्गीकारादित्यर्थः । पूर्वोक्ततत्वानां विष्ण्वादीनाम् । प्रमाणान्तरेण ‘‘नित्यो नित्यानां जीवो नित्यो धातुरस्य त्वनित्य’’ इत्यादिप्रमाणविशेषेण । आदिपदेनाभावप्रभेदप्रागभावस्यानित्यत्वं ग्राह्यम् ।

ननु ‘‘नित्यानित्यविभागेने’’ति मूले द्वैविध्यस्यैव प्रतीतेस्त्रिधेति कथनं कथं न विरुद्धमित्यतो नात्र नित्यमनित्यं चेति विभागेनेत्यर्थोऽभ्युपगम्यते येन विरोधः किन्तु नित्यं च तदनित्यं चेति नित्यानित्यम् । नित्यानित्यं च विभागश्च नित्यानित्यविभागः । सर्वो द्वन्द्वो विभाषयैकवद्भवतीत्येकवद्भावः । नित्यानित्येत्येतच्च भावप्रधानम् । विभागशब्दस्य च सम्बन्धिशब्दत्वात्तदाकाङ्क्षापूरकत्वेन नित्येत्यादि । तेनाप्यन्वेतीतीममर्थसन्दर्भं मनसि निधायाह ।। नित्यानित्येति ।। तद्विभागेनेति ।। नित्यत्वेनानित्यत्वेन चेत्येवं तस्य समस्तस्य भावप्रधानतया विभागेनेत्यर्थः । एवं वाक्यार्थोपयुक्तं पदार्थमुक्त्वा वाक्यार्थमाह ।। तथा चेति ।। इत्युक्तं भवति । अनेन मूलेनेति योज्यम् ।

भावचन्द्रिका

ननु स्वतन्त्रतत्त्वं, अभावतत्त्वं, चेतनतत्त्वं च; नित्यानित्यं, नित्यं, अनित्यं वा? उत न त्रयमपि? त्रयस्यापि अचेतनप्रभेदत्वेन उच्यमानत्वादित्यत आह अत्रापीति । अनभ्युपगमादिति उपलक्षणम्; ‘अचेतनं त्रिविधमेव, न पुनः एकविधं द्विविधं च’ इति अर्थाभ्युपगमादित्यपि द्रष्टव्यम् । पूर्वोक्ततत्त्वानामिति । स्वतन्त्रचेतनतत्त्वअभावतत्त्वचेतनतत्त्वानाम् इत्यर्थः । प्रमाणान्तरेणेति । ‘नित्यो नित्यानाम्’, ‘जीवो नित्यो धातुरस्य त्वनित्यः’ इत्यादिप्रमाणान्तरेण इत्यर्थः ।

नित्यत्वादीति आदिपदेन नित्यानित्यत्वपरिग्रहः । प्रागभावप्रध्वंसाभावयोः नित्यानित्यत्वादिति ध्येयम् ।। ननु ‘नित्यानित्यविभागेन’ इत्यनेन विधाद्वयस्य एव उक्तेः त्रैविध्योक्तिः अनुचिता इत्यत आह नित्येत्यादि ।

काशी टिप्पणी

।। अवसरप्राप्तमिति ।। अवश्यकर्तव्यत्वेन बुद्धिस्थमित्यर्थः । ननु भावरूपाचेतनस्यैव नित्यानित्यविभागवत्त्वे चेतनस्य नित्यत्वं प्रागभावादेर्नित्यानित्यत्वं च प्रमाणान्तरसिद्धं विरुद्ध्येतेत्यत आह ।। अत्रापीति ।। यद्यपि विभाजकधर्मप्रतिपत्त्यनन्तरमेवैषा शङ्का सम्भवति तथापि विशेष्यसङ्गतत्वादस्याः प्रथमं निरासः । विशेषणव्याख्याने सति तत्सङ्गतशङ्कानिरासस्यैवावसरप्राप्तेः । नित्यानित्ययोर्विभागेनेति व्याख्याने त्रैविध्यानुपपत्तेरन्यथा व्याचष्टे ।। नित्येति ।। नित्यानित्यमिति कर्मधारयो भावप्रधानश्च । तद्घटकविशेष्यविशेषणधर्मपरविभागशब्देन द्वन्द्वैकवद्भाव इति भावः । यद्यपि नित्यानित्यत्वघटकनित्यत्वानित्यत्वयोर्नित्यानित्यसाधारण त्वान्न विभाजकत्वं तथापि विभागशब्दस्य परस्परविविक्तभागार्थकतया केवलनित्यत्वानित्यत्वे बिभाजकत्वेन विवक्षिते । स्पष्टयिष्यते चैतत् ।

Load More