देवर्षिपितृपनरा इति मुक्तास्तु पञ्चधा
मुक्तचेतनविभागस्तल्लक्षणं च
टीका
इदानीं मुक्तानां प्रभेदमाह ।। देवेति ।।
तत्वसङ्ख्यानम्
देवर्षिपितृपनरा इति मुक्तास्तु पञ्चधा ।
पान्तीति पाश्चक्रवर्तिनः । नरा मनुष्योत्तमाः । तुशब्दोऽवधारणे । तेन ये मोक्षे तारतम्यं न मन्यन्ते तन्मतं निराचष्टे । गन्धर्वादीनां केषाञ्चिदेष्वेवान्तर्भावात् केषाञ्चिदविवक्षितत्वान्न ग्रन्थान्तरविरोधः ।
तत्वसङ्ख्यानटीकाभावदीपः
।। पान्तीति पा इति ।। पा रक्षणे, पचाद्यचू आतो लोप इटि चेत्याकारलोपः ।। केषाञ्चिदिति ।। देवगन्धर्वाणां कर्मजाजानजदेवानां चेत्यर्थः ।। केषाञ्चिदिति ।। मनुष्यगन्धर्वादीनामित्यर्थः ।। ग्रन्थान्तरेति ।। तैत्तिरीयादिग्रन्थान्तरेत्यर्थः ।
तत्वसङ्ख्यानटीकाटिप्पणी
पितृपत्वमेकोपाधिरिति भ्रान्तिं वारयितुमाह– पान्तीतीति ।। ननु गन्धर्वादीनामपि मुक्तेर्ग्रन्थान्तरे उक्तत्वाद्विभागन्यूनतेत्यत आह– गन्धर्वादीनामिति ।। आदिपदेनाप्सरसां ग्रहणम् । एषु ऋषिपितृपादिषु । केषाञ्चिदिति ।। असुरगन्धर्वादीनामित्यर्थः ।
तत्वसङ्ख्यानविवरणम्
पितृपत्वमेकोपाधिरिति भ्रान्तिं निवारयितुमाह ।। पान्तीति पा इति । तथा च ‘‘पा पालन’’ इति धातोः पाः पालकाश्चक्रवर्तिन इत्यर्थः । अवधारण इति । इत्येव नान्यथेत्यवधारण इत्यर्थः ।। तेनेति । मुक्ताः देवऋष्यादिभेदेन पञ्चधा तरतमभावेन स्थिता नान्यथेति वचनेनेत्यर्थः ।। ये रामानुजाः । ननु गन्धर्वादीनामपि ग्रन्थान्तरे मुक्तेरुक्तत्वात्तेऽप्यत्र कुतो नोक्ताः । अतो विभागन्यूनतेत्यत आह ।। गन्धर्वादीनामिति । आदिपदेन अप्सरस्स्त्रीणामपि ग्रहणम् ।। एष्वन्तर्भावादिति । एषु ऋषिपितृपादिषु, गन्धर्वाद्यास्तदन्तरा इति वचनादिति भावः ।। केषाञ्चिदिति । असुरगन्धर्वासुराप्सरस्त्रीणामित्यर्थः । आसुरगन्धर्वा एव न सन्तीति वदतां श्रीमन्महाभारततात्पर्यनिर्णयविरोधः । यथोक्तं भगवत्पादैः ।। ‘‘कोटित्रयं स निजघान तथासुराणागन्धर्वजन्मभरतेनेति ।।
तत्वसङ्ख्यानटिप्पणम्
क्रमप्राप्तत्वेन मुक्तियोग्यविभाग एवोच्यत इति वारयितुमवतारयति ।। इदानीमिति ।। दुःखसंस्थविभागानन्तरम् । मूले देवर्षिपितृपनराः देवाश्च ऋषयश्च पितरश्च पान्तीति पाश्चक्रवर्तिनश्च नरा मनुष्योत्तमाश्च ते तथा । अभ्यर्हितत्वाद्देवशब्दस्यादौ निर्देशः । न च पान्तीति पाश्चक्रवर्तिन इति न भवेत् । आतोऽनुपसर्गे क इत्यनुपसर्गे कर्मण्युपपदे सत्याकारान्ताद्धातोः कप्रत्ययविधानात् । प्रकृत उपपदस्याभावान्न कप्रत्ययसम्भव इति वाच्यम् । आत इति योगविभागाद्वा मूलविभुजादित्वाङ्गीकारेण कप्रत्यये वा ‘‘अन्येभ्योऽपि दृश्यत’’ इति डप्रत्यये वा रूपस्य सूपपादत्वात् । पः पातरि समीरेऽर्के पः पुमान्पवने पातरीति पैकविश्वैकाक्षरनिघण्टू । पान्ति रक्षयन्ति प्रजा इति पाश्चक्रवर्तिनः पृथ्वाद्याः । देवादिसाहचर्यान्नायं मनुष्यसामान्यवाची नरशब्दः किन्तु तद्विशेषपर इति व्याख्याति ।। मनुष्योत्तमा इति ।। शर्मणा नृपत्नीरिति ऋग्भाष्याख्यायां ‘‘नरो देवाः प्रधानपुरुषत्वा’’दिति देवग्रहणवन्मुख्यनयेन मनुष्योत्तमग्रहणं ज्ञेयम् ।। तुशब्द इति ।। अवधारणे अवधारणरूपार्थे वर्तत इत्यर्थः । तुशब्दस्तु विशेषे स्यात्स्वसिद्धान्तेऽवधारणे इत्यभिधानात् । अवधारण इत्यनन्तरं स च पञ्चधेत्यनेनान्वेतीति शेषः । अवधारणार्थकत्वे लब्धमर्थमाह ।। तेनेति ।। अवधारणार्थकतुशब्दस्य पञ्चधेत्यनेनान्वयकरणेनेत्यर्थः । परमं साम्यमुपैतीत्यादिश्रुतीनामन्यार्थकत्वस्य स्थितत्वादिति भावः । संसारदशायां तारतम्योपेते ब्रह्मादौ प्रसिद्धदेवर्ष्यादिशब्दैरेवोद्देशात्तारतम्यमुक्तप्रायमिति भावः । ननु–
क्षितिपा मनुष्यगन्धर्वा देवाश्च पितरश्चिराः ।
आजानजाः कर्मजाश्च देवा इन्द्रः पुरन्दरः ।
रुद्रः सरस्वती वायुर्मुक्ताः शतगुणोत्तराः ।
नृपाद्याः शतधृत्यन्ता मुक्तिगा उत्तरोत्तरम् ।
गुणैः सर्वैः शतगुणा मोदन्त ......... ।
इति ग्रन्थान्तरे गन्धर्वादीनामधिकानामपि श्रवणात्तद्विरोध इत्यत आह ।। गन्धर्वेत्यादिना ।। एष्वेवान्तर्भावादिति । अत्र देवपदेन तात्विकानामिव कर्मजाजानजानामपि देवानां ग्रहणात् । तुम्बुरुप्रमुखशतगन्धर्वाणामुर्वश्याद्यप्सरसाञ्चाजानदेवेष्वन्तर्भावः । तुम्बुरुप्रमुखा ये च तथोर्वश्यादिका अपि । आजानदेवास्ते प्रोक्ता इत्युक्तेः । तुम्बुरुप्रमुखेभ्योऽधिकाष्टगन्धर्वाणां तु कर्मजदेवेष्वन्तर्भावः । कर्मदेवगणा अष्ट गन्धर्वास्तत्परे शतमित्याद्युक्तेः । तदन्येषां गन्धर्वाणां चात्र विवक्षाभावेन ग्रन्थान्तरविरोधाभावादित्यर्थः । यद्वा भागवतादौ पूतनाकंसनरकशिशुपालादीनां मुक्तत्वप्रतिपादनात्तेषामत्राकथनात्कथं न तद्विरोध इत्यत आह ।। केषाञ्चिदविवक्षितत्वादिति ।। पूतनादीनां मुक्तत्वेनेदानीमविवक्षितत्वादित्यर्थः ।।
भावचन्द्रिका
पितृपत्वमेको विभाजकोपाधिः इति भ्रान्तिं निवारयति पान्तीति ।। नरशब्दस्य सर्वमनुष्यपरत्वभ्रान्तिवारणाय आह मनुष्योत्तमा इति ।। यद्यपि ‘देवर्षि’ इत्यादिवाक्ये विभागः एव प्रतीयते स्फुटं न तारतम्यं तथाऽपि संसारदशायां तारतम्योपेते ब्रह्मादौ प्रसिद्धदेवर्षि आदिसंज्ञया एव उद्देशात्, तारतम्यमुक्तप्रायमिति भावः ।। ननु पञ्चधा इति अयुक्तम्, गन्धर्वाणां, कर्मदेवानां, उर्वश्याद्यप्सरसां, आजानदेवानां मुक्तप्रभेदत्वस्य
क्षितिपा मनुष्यगन्धर्वा देवाश्च पितरश्चिराः ।
आजानजाः कर्मजाश्च तत्विकाश्च ।।
इत्यादिना उक्तत्वात् । अन्यथा बृहद्भाष्यविरोधापातादित्यत आह गन्धर्वादीनामिति । अत्र देवापदेन तात्त्विकानामिव कर्मजानामाजानजानां च देवनामपि ग्रहणात् ।
तुम्बुरुप्रमुखा ये च तथोर्वश्यादिका अपि ।
आजानदेवास्ते प्रोक्ताः .... .....।।
इत्युक्तेः तुम्बुरुप्रमुखगन्धर्वाणामुर्वश्यादि अप्सरसां च आजानदेवेषु अन्तर्भावात् । तुम्बुरुप्रमुखेभ्यः अपि उत्तमगन्धर्वाणां च अष्टानां ‘‘कर्मदेवगणा अष्ट गन्धर्वास्तत्परं शतम् । आजानदेवाः’’ इत्युक्तया कर्मदेवेषु अन्तर्भावात् तदन्येषां च देवगन्धर्वादीनां तारतम्योक्तिपरे अस्मिन् विभागवाक्ये विवक्षाविरहात् न ‘क्षितपा’ इत्यादिग्रन्थान्तरविरोधः । न हि विभागवाक्यस्य इव अस्यापि न्यूनाधिकसङ्ख्याव्यवच्छेदे तात्पर्यम् । किन्तु ‘देवर्ष्यादिभेदेन तारतम्योपेता एव’ इत्यत्र एव । न च ग्रन्थान्तरविरोधः अस्ति इति ध्येयम् । अत एव तत्त्वविवेके हि अत्र–
‘.... ....... .... ब्रह्मान्ता उत्तरोत्तरम् ।
मुक्ताः शतगुणाः प्रोक्ताः ...... ..... ।।’
इति तारतम्यमेव उक्तम् ।। इदमपि तत्र टीकायां तेन इत्यादिना मोक्षे न तारतम्यम् इति मतनिराकरणपरत्वेन व्याख्यातम् ।। इति ।
(वें.टि)
निराचष्ट इति ।। यद्यपि देवर्षीत्यादिवाक्ये विभाग एव प्रतीयते स्फुटं, न तारतम्यं, तथापि संसारदशायां तारतम्योपेते ब्रह्मादौ प्रसिद्धदेवर्ष्यादिसंज्ञयैवोद्देश्य तारतम्यमुक्तप्रायमिति भावः । ननु गन्धर्वाप्सरःप्रभृतीनामपि मुक्तप्रभेदत्वेन ‘क्षितिपा मनुष्यगन्धर्वा देवाश्च पितरश्चिराः । आजानजाः कर्मजाश्च देव इन्द्रः पुरन्दरः ।।’ इत्यादावुक्तत्वात्कथं पञ्चधेत्युक्तमित्यत आह ।। गन्धर्वादीनामिति ।। अत्र देवपदेन तात्विकानामिव कर्मजानामपि देवानां ग्रहणम्, ‘तुम्बुरुप्रमुखा ये च तथोर्वश्यादिका अपि । आजानदेवास्ते प्रोक्ताः इत्युक्तेः तुम्बुरुप्रमुखशतगन्धर्वाणां, उर्वश्याद्यष्सरसां चाजानदेवेष्वन्तर्भावात् । तुम्बुरुप्रमुखेभ्यः उत्तमगन्धर्वाणां चाष्टानां, ‘कर्मदेवगणा अष्टगन्धर्वास्तत्परे शतम् । आजानदेवाः’ इत्युक्त्या मुक्तकर्मदेवेष्वन्तर्भावात् । तदन्येषां देवगन्धर्वादीनां तारतम्योक्तिपरेऽस्मिन् विभागवाक्ये विवक्षाविरहात् न ‘क्षितिपा’ इत्यादिग्रन्थान्तरविरोध इत्यर्थः । न हि विभागवाक्यान्तरस्येव अस्य वाक्यस्य न्यूनाधिकसंख्यावान्तरव्यवच्छेदे तात्पर्यं किन्तु मुक्ता देवर्ष्यादिभेदेन तारतम्योपेता एवेत्यत्रैव । न चात्र ग्रन्थान्तरविरोधोऽस्तीति भावः । अत एव तत्त्वविवेके ह्यत्र ‘ब्रह्मान्ता उत्तरोत्तरमुक्ताः शतगुणाः प्रोक्ताः’ इति तारतम्यमेवोक्तम् । इदमपि वाक्यं तेनेत्यादिना मोक्षे तारतम्याभावमतनिराकरणपरत्वेन व्याख्यातमिति बोध्यम् ।।
काशी टिप्पणी
तथापि देवर्ष्यादिभेदेन मुक्तियोग्यान् विभज्य तदतिदेश एव मुक्तेषु किं न कृत इत्यत आह ।। इदानीमिति ।। दुःखसंस्थविभागानन्तरमित्यर्थः । मुक्तामुक्तभेदेन दुःखस्पृष्टविभागे कृते तदुभयविभागस्यैवाकाङ्क्षितत्वादिति भावः । पितृपत्वमेको विभाजकोपाधिरिति भ्रान्तिनिरासायाह ।। पान्तीति ।। पातृत्वस्य देवादिसाधारण्यान्न विभाजकतेत्यतो विवक्षितार्थमाह ।। चक्रवर्तिन इति ।। देवत्वादिजातिवच्चक्रवर्तित्वजातेरेव विभाजकत्वमिति भावः । सर्वमनुष्याणां मुक्त्ययोगादाह ।। मनुष्योत्तमा इति ।। तेनेति ।। यद्यपि पञ्चधैवेत्यवधारणेन मुक्तानामेकजातीयत्वनिरास एव लभ्यते तथापि तारतम्योपपादकत्वेनैव पञ्चविधत्वावधारणात्साम्यनिरासोऽपि सिध्यति । तथा हि ‘ब्रह्मान्ता उत्तरोत्तरम् । मुक्ताः शतगुणोद्रिक्ताः’ इति तत्वविवेकोक्तमुक्ततारतम्यमनुपपन्नम् । युवा स्यादित्यादिमूलश्रुतौ मनुष्यत्वादिजातिविशिष्टानामेव तारतम्योक्तेः । मुक्तौ च तदपायात् इति मतं न श्रद्धेयम् । मुक्तानामपि मनुष्यत्वादिजातिविशिष्टत्वेन तारतम्योपपत्तेरिति ।
ननु पञ्चधेत्ययुक्तं गन्धर्वादीनामधिकत्वात् ।
क्षितिपा मनुष्यगन्धर्वा देवाश्च पितरश्चिराः ।
आजानजाः कर्मजाश्च देवा इन्द्रः पुरन्दरः ।।
रुद्रः सरस्वती वायुर्मुक्ताः शतगुणोत्तराः ।
इत्यादौ तेषामपि मुक्तत्वोक्तेः । अत आह ।। गन्धर्वादीनामिति ।। देवगन्धर्वादीनां देवादिष्वेवान्तर्भावादित्यर्थः । आजानजकर्मजतात्विकदेवगन्धर्वाप्सरःप्रभृतिसाधारणदेवत्वादेरेव विभाजकत्वेन विवक्षितत्वादिति भावः । नन्वेवमसुरगन्धर्वादीनामसङ्ग्रह इत्याशङ्क्योक्तम् ।। केषाञ्चिदविवक्षितत्वादिति ।। उक्तवचनेऽपि तेषामविवक्षितत्वान्न तद्विरोध इत्यर्थः । अत्र देवाद्यनन्तर्भूताशेषमुक्तानां मनुष्योत्तमेष्वन्तर्भावः । देवादिभिन्नसच्चेतनमात्रस्य मनुष्योत्तमपदेन विवक्षितत्वादित्यवधेयम् ।
केचित्तु येषां तारतम्यं विशिष्य श्रुत्यादिप्रसिद्धं तेषामत्रैवान्तर्भावादन्येषामविवक्षितत्वान्न विरोधः । न चैवं विभागस्य न्यूनता । तत्वविवेकानुसारेण मुक्तास्तारतम्योपेता एवेत्यर्थे मूलतात्पर्यात् । पञ्चविधत्वं तु तारतम्यस्फुटीकरणायोपलक्षणत्वेनैवोक्तमित्याहुः । यद्यपि मन्दमध्यमोत्तमत्वेन त्रैविध्याभिधानेऽपि समस्तमुक्तसङ्ग्रहादिसम्भवः । अवान्तरजातीनां विशिष्य वक्तव्यत्वेऽपि देवर्ष्यादिप्रभेदेन मुक्ता बहुधा इत्येव वक्तुमुचितं तथापि ‘देवविशेषाः पितरो मनुष्यविशेषाश्चक्रवर्तिनः’ इत्यादिमतनिरासाय पञ्चविधत्वाभिधानमिति ।