अभाव एव नास्तीति केचित्
प्राभाकरमतरीत्या अभावस्वरूपाक्षेपस्तत्खण्डनञ्च
टीका
अभाव एव नास्तीति केचित् । तदसत्, नास्तीति प्रतीतेर्दुरपह्नवत्वात् । घटो नास्तीति प्रतीतिर्भूतलमात्रविषयेति चेत् । मात्रेति किं भूतलमेवोच्यते उतातिरिक्तं किञ्चित् । आद्ये घटवत्यपि प्रसङ्गः । अतिरिक्तोऽपि घटश्चेदुक्तो दोषः । भावान्तरं चेद्रूपवति घटे गन्धो नास्तीति प्रतीतिप्रसङ्गः ।
प्राभाकरेण विपक्षे बाधकप्रदर्शनपुरःसरं स्वपक्षस्थापनं तन्निरासश्च
ननु घटाभावो घटाभाववति भूतले सम्बध्यते उत घटवति । नाद्यः, आत्माश्रयादिदोषप्रसङ्गात् । न द्वितीयः, विरोधात् । अतो वक्तव्यं भूतलमात्र इति । तदेवास्तु नास्तीति प्रतीतिविषय इति चेन्न । प्रश्न एवायं विविच्यताम् । यद्यभावसम्बन्धात्प्राक् कीदृशं भूतलमिति, यदि वा सम्बन्धसमये कीदृशमिति, यद्वा यद्यभावादिदं विविच्येत तदा कीदृशं नाम स्यादिति । आद्ये सघटमित्येवोत्तरम् । द्वितीये घटाभाववदिति । तृतीये यदि विवेको वस्तुकृतः तदाऽभावस्य नष्टत्वाद्धटवदिति । यदि बुद्धिकृतस्तदा बुध्यैव घटप्रसक्तिमदिति । अन्यथा एवं भावप्रतिक्षेपोऽपि स्यादित्यास्तां विस्तरः ।
तत्वसङ्ख्यानटीकाभावदीपः
विवादं प्रदर्शयन्निराह ।। अभाव इति ।। केचित् प्रभाकराः ।। भावान्तरमिति ।। नास्तीतिधीविषय इति योज्यम् ।। रूपवतीति ।। रूपस्यैव तत्र भावान्तरत्वादिति भावः । अभाववादिनं प्रति बाधकोपन्यासमुखेन स्वोक्तपक्षं स्थापयति परवादी ।। नन्वित्यादिना ।। आत्माश्रयादीति ।। अभावभेदाधीकारे अन्योन्याश्रयादिरादिपदार्थः ।। इदमिति ।। भूतलमित्यर्थः ।। अभावस्य नष्टत्वादिति ।। तस्य घटसम्बन्धप्रागभावरूपत्वादिति भावः ।। भावप्रतिक्षेपोऽपीति ।। घटोऽपि किं घटवति भूतले सम्बध्यते उत घटरहिते । नाद्यः, आत्माश्रायादिप्रसङ्गात् । नान्त्यः विरोधात् । अतो भूतलमात्र इति वक्तव्यम् । स एव च घटादिप्रतीतिविषयोऽस्तु किं घटादिना इत्यपि वक्तुं शक्यत्वादिति भावः ।
तत्वसङ्ख्यानटीकाटिप्पणी
तामेव विप्रतिपत्तिं दर्शयति– अभाव एव नास्तीति ।। भावान्तरमिति ।। प्रतियोगिभिन्नमित्यर्थः । आत्माश्रयादिति ।। घटाभाववतीत्यत्र तेनैवाभावेन तद्वति वा अभावान्तरेण वा । आद्ये आत्माश्रयः । द्वितीयाद्यङ्गीकारे अन्योन्याश्रयादीत्यर्थः । भूतलमात्र इति ।। घटतदभावाभ्यां अविशेषित इत्यर्थः । घटाभावो घटाभाववति भूतले सम्बध्यत उत घटवति? इति प्रश्नवाक्यस्य घटाभावसम्बद्धं भूतलं कीदृगिति लब्धोऽर्थः । यथाश्रुते विशेष्यस्याभावसम्बद्धस्य प्रसिद्धप्रश्नविषयत्वाभावात् तं विकल्प्य पृच्छति । प्रश्न एवायमिति ।। प्रश्नवाक्यार्थ एव । अ(स)घटमिति घटाभाववदिति ।। अत्र सर्वत्र घटपदेन घटसंसर्गो विवक्षितः । घटे प्रतियोगित्वाभावस्य वक्ष्यमाणत्वात् । अस्य च नास्तीति प्रतीतिविषयत्वाङ्गीकारे पर्यवसितं विवादेनेति भावः । न चात्माश्रयः । पूर्वमभाववति भूतले पश्चाद्यद्यभावः सम्बध्येत् तदा परं आत्माश्रयः । न चैवम् । अभावतत्सम्बन्धयोर्भूतलाश्रितत्वस्यैककालीनत्वात् । अत एव तयोरेककालीनत्वेनात्माश्रयपरिजिहीर्षया काल एव विकल्पितः । ननु तथाप्यभावसम्बन्धाधिकरणतावच्छेदकं किमिति प्रश्नाभिप्राय इति चेत् अभाववद्भूतलत्वमेवेति वदामः । न चैवमात्माश्रयः । अभावस्य तटस्थतयैव व्यावर्तकतयाऽऽश्रयकोटावप्रवेशात् । यथा घटप्रागभावत्वादीनां कारणतावच्छेदकत्वेऽपि घटस्य तटस्थतया व्यावर्तकत्वेन न कारणकोटौ प्रवेशः तद्वत् प्रकृतेऽपीति न काप्यनुपपत्तिरिति ध्येयम् । घटादीत्यत्र घटप्रसक्तिमदित्यत्र च पूर्वोक्त एवाभिप्रायः । तथाचातिरिक्ताभावानङ्गीकारेऽधिकरणस्योक्तरीत्याऽविषयत्वेन नास्तीति प्रतीतिर्निरालम्बना स्यादिति प्रघट्टकतात्पर्यम् । अन्यथेति ।। अतिरिक्ताभावानङ्गीकार इत्यर्थः । तत्रापि अस्तीतिबुद्धेराश्रयविषयत्वस्य घटवति वा घटोऽस्ति उत तदभाववतीति विकल्पदूषणयोश्च वक्तुं शक्यत्वादिति भावः । किञ्च भूतलस्यैवाभावत्वे भूतले घटाभाव इत्याश्रयाश्रयिभावानुपपत्तिः । अभावस्य प्रतियोगिसापेक्षत्वानुपपत्तिश्चेति दूषणदुष्टोऽयं पक्ष इति ग्रन्थबहुत्वं स्यादित्येवोपरम्यत इत्याशयेनाह– इत्यास्तां विस्तर इति ।।
तत्वसङ्ख्यानविवरणम्
अभावपदार्थसमर्थनार्थं तामेव वादिविप्रतिपत्तिं दर्शयति ।। अभाव एवेति । केचित् मीमांसकाः ।। भूतलमात्रेति । तथा चाधिकरणातिरिक्ताभावो नास्तीति भावः ।। घटवत्त्यपीति । नास्तीति प्रतीतेर्भूतलमात्रविषयत्वे घटवत्यपि भूतले घटो नास्तीति प्रतीतिः स्यात् । नास्तीति प्रतीतिविषयस्य भूतलस्य घटसत्तायामपि सद्भावादित्यर्थः । घटो नास्तीति प्रतीतिर्भूतलातिरिक्तविषया चेत् तर्हि तत्र पृच्छामः । नास्तीति प्रतीतिविषयभूतं भूतलातिरिक्तं वस्तु किं प्रतियोगिभूतो घट एव उत प्रतियोगिभिन्नं भावान्तरमिति । नाद्य इत्याह ।। उक्तदोष इति । घटवत्यपि भूतले घटो नास्तीति प्रतीतिप्रसङ्ग इत्यर्थः । द्वितीयमाशङ्क्य निषेधति ।। भावान्तरमिति । प्रतियोगिभिन्नमित्यर्थः ।। रूपवतीति । गन्धो नास्तीति प्रतीतेः प्रतियोगिभूतगन्धभिन्नघटरूपाधिकरणभिन्नरूपाख्यभावान्तरविषयकत्वं स्यादित्यर्थः ।। आत्माश्रयादीति । घटाभाववतीत्यत्र प्रष्टव्यम् । किं स्वविशिष्ट एव भूतले स्वयं सम्बध्यते किं वा भावान्तरेण विशिष्टे । नाद्यः । आत्माश्रयप्रसङ्गात् । स्वस्यैवाधाराधेयकोटिप्रविष्टत्वात् । न द्वितीयः। अन्योन्याश्रयादिप्रसङ्गादित्यर्थः ।। भूतलमात्र इतीति । घटतदभावाभ्यामविशेषितमेव भूतलं घटाभावाधिकरणमिति वक्तव्यमित्यर्थः । तदेवेति । तथा च न तदतिरिक्तोऽभावोऽस्तीति भावः । घटाभावो घटाभाववति भूतले सम्बध्यते उत घटवतीति प्रश्नवाक्यस्य घटाभावसम्बद्धं भूतलं कीदृगिति लब्धोऽर्थः ।
तं विकल्प्य पृच्छति । प्रश्न एवायमिति । प्रश्नवाक्यार्थ एवेत्यर्थः । सम्बन्धसमय एवेति । घटाभावसम्बन्धसमय इत्यर्थः । इदं भूतलम् ।। सघटमिति । अत्र सर्वत्र घटशब्देन घटसंसर्गो विवक्षितः । घटसंसर्गाभावस्य वक्ष्यमाणत्वात् ।। घटाभाववदिति । अस्य च नास्तीति प्रतीतिविषयत्वाङ्गीकारे पर्यवसितं विवादेनेति भावः । न चात्माश्रयः । पूर्वमभाववति भूतले पश्चाद्यद्यभावः सम्बध्येत तदा परमात्माश्रयः । न चैवम् । अभावतत्सम्बन्धयोर्भूतलाश्रितत्वस्यैककालीनत्वात् । अत एव तयोरेककालीनत्वेनात्माश्रयपरिजिहीर्षया काल एव विकल्पितः ।
ननु तथाऽप्यभावसम्बन्धाधिकरणतावच्छेदकं किमिति प्रश्नाशय इति चेत् । अभाववद्भूतलत्वमेवेति वदामः । न चैवमात्माश्रयः । अभावस्य तटस्थतयैव व्यावर्तकतयाऽऽश्रयकोटावप्रवेशात् । यथा घटप्रागभावत्वादीनां घटकारणतावच्छेदकत्वेऽपि घटस्य तटस्थतया व्यावर्तकत्वेन न कारणकोटौ प्रवेशस्तथा प्रकृतेऽपीति न काप्यनुपपत्तिः । तथा चातिरिक्ताभावानङ्गीकारे अधिकरणस्योक्तरीत्याऽविषयत्वेन नास्तीति प्रतीतिर्निरालम्बना स्यादिति पूर्वोक्तमुपपन्नमेवेति तात्पर्यम् ।। यदि विवेक इति । अभावादिदं विविच्येतेत्यत्र विवेको भेदो भूतलघटाभावरूपवस्तुकृत इत्यर्थः । भूतलं यदा भावाद्विविक्तं जातं तदा अभावसम्बन्धो नष्ट इति यावत् । तदा कीदृशं भूतलमिति प्रश्नार्थ इति भावः ।। घटवदिति । घटसम्बन्धवदित्येवोत्तरमित्यर्थः ।। बुद्धिकृत इति । विवेक इति वर्तते । यदा भूतले घटाभावो नास्तीति ज्ञायते तदा कीदृशं भूतलमिति प्रश्नस्य बुध्यैव घटप्रसक्तिमदित्युत्तरम् । तत्र प्रतियोग्यधिकरणसंसर्गज्ञानरूपघटप्रसक्त्यभावे घटाभावाभावज्ञानानु-पपत्तेरित्यर्थः ।।
अन्यथेति । अधिकरणातिरिक्ताभावानङ्गीकार इत्यर्थः । तत्रापि घटोऽस्तीति बुद्धेरपि अधिकरणभूतलमात्रविषयत्वस्य वक्तुं शक्यत्वात् । तथा घटो घटवति भूतले सम्बध्यते उत तदभाववतीति । नोक्तः । आत्माश्रयप्रसङ्गात् । न द्वितीयः । विरोधादित्येवं विकल्पदूषणयोश्च समत्वादिति भावः ।। भावप्रतिक्षेप इति । भावपदार्थापलाप इत्यर्थः । किञ्च भूतलस्यैवाभावत्वे इह भूतले घटाभाव इत्याश्रयाश्रयिभावानुपपत्तिः । अभावस्य प्रतियोगिसापेक्षत्वानुपपत्तिश्चेत्यादिदूषणगणदुष्टोऽयं पक्षः । ग्रन्थबहुत्वं स्यादित्येवोपरम्यत इत्याशयेनाह ।। इत्यास्तां विस्तर इति ।।
तत्वसङ्ख्यानटिप्पणम्
भावाभावविभागकथनानुपपत्तिं प्राभाकररीत्या शङ्कते ।। अभाव एव नास्तीति ।। अभाव एव यद्यनिष्पन्नस्वरूपस्तदा दूरे तद्धटितविभागकथनमिति विभागो न सम्भवतीत्यनेन सूचयति । परिहरति ।। तदसदिति ।। न हि वाङ्मात्रेणार्थसिद्धिरित्यतो हेतुमाह ।। नास्तीति प्रतीतेरिति ।। प्रतीतिर्या या सा सर्वापि सविषया । तथा च घटो नास्तीति प्रत्ययस्यापि विषयेण भाव्यम् । न च स नास्तीत्यपलापो युक्तः । अनुभवविरोधादिति भावः । प्रतीतिपदेन तद्विषयस्याभावस्योपलक्षणम् । तेनात्र घटो नास्तीति प्रतीतिविषयस्य तस्य दुरपलापत्वादित्यर्थ इत्यप्याहुः । न प्रतीत्यन्यथोपपत्त्या भावकल्पना युक्ता । सा चाधिकरणादिगोचराऽङ्गीकर्तुमुचितेत्याशङ्कते ।। घटो नास्तीति प्रतीतिरिति ।। अभावादेर्विषयत्वमनङ्गीकुर्वाणो भूतलस्यैव विषयत्वं वर्णयाम्बभूवेति मात्रपदव्यावर्त्याभावात्तद्वैयर्थ्यं विकल्पमुखेनाह ।। मात्रेतीति ।। मात्रान्तपदेनेत्यर्थः। भूतलमेव भूतलपदशक्यमेव । अतिरिक्तं भूतलपदवाच्यात् । सामग्रीसद्भावे प्रतीत्यभावानुपपत्तेर्घटवत्यपि भूतले भूतलस्य सत्त्वान्नास्ति घट इति प्रतीतिः स्यादित्यनिष्टं प्रथमपक्षे प्रसञ्जयति ।। आद्य इति ।। अतिरिक्तो भूतलाद्धट एव चेत् सत्यपि घटे नास्तीति प्रतीतिविषयस्य भूतलस्य सत्त्वान्नास्तीति प्रतीतिरवर्जनीयेत्यतिरिक्तो घट इति वक्तुं न युक्त इति वक्ति ।। अतिरिक्त इति । उक्तो दोषः अतिप्रसङ्गरूपः । द्वितीयं कल्पं विकल्पयति ।। भावान्तरं चेदिति ।। प्रतियोगिभूताद्धटादन्यो भावश्चेदित्यर्थः । दोषमाविष्करोति ।। रूपवतीति ।। गन्धघटाभ्यां प्रतियोग्यधिकरणभूताभ्यां भिन्नस्य रूपरूपभावान्तरस्य विषयस्य सद्भावाद्गन्धो नास्तीति प्रतीतिः स्यादित्यर्थः । दोषप्रमोषाय यतते ।। नन्विति ।। घटप्रतियोगिकोऽभावो घटाभावः । सोऽस्यास्तीति घटाभाववत् भूतलम् । तस्मिन्सम्बध्यते वर्तते । अभावपदं ध्वंसपरम् । अथवा भावः सत्त्वम् । तदभावोऽसत्त्वं सम्बन्धाभाव इत्यर्थः । ततश्च घटैतद्भूतलसंसर्गाभाव उच्यते । यद्वा घटात्यन्ताभावः अभिनवगदाद्युक्तप्रकारेण प्रामाणिकप्रतियोगिको वर्तत इति परोक्तानुवादतया वा ग्राह्यः । अप्रामाणिकप्रतियोग्येव, नापि परोक्तानुवाद इति पक्षे पूर्वोक्तः संसर्गाभाव इति विवेको द्रष्टव्यः । उत घटवति सम्बध्यत इति वर्तते । सम्बध्यत इति न लडर्थविवक्षा । ततश्च विकल्पः सम्भवति । विशेषस्तु पाण्डुरङ्गीयैतद्व्याख्यानतोऽवगन्तव्यः । स्वसम्बद्धे भूतले वर्तत इति मनुषे चेत्स्वस्याश्रयकोटौ निविष्टतयाऽऽत्माश्रयः। स्वातिरिक्तैकाभावसम्बद्ध इति जानासि चेत् स्वातिरिक्ताभावः स्वसम्बद्धश्चेदात्माश्रयः । अथ स्वान्यैतदभावसम्बद्धश्चेत्परस्पराश्रयः । अभावत्रितयस्वीकारे चक्रकम् । अनवधिकाभावोररीकारेऽनवस्था च भवेयुरित्याह ।। नाद्यः । आत्माश्रयादिप्रसङ्गादिति ।। उत घटवतीति द्वितीयपक्षमधिक्षिपति ।। न द्वितीय इति ।। कुत इत्यत आह ।। विरोधादिति ।। तद्वति तदभावसम्बन्धो व्याघातान्नाङ्गीकारार्हः । परिशेषे सिद्धमाह ।। अत इति ।। अतः घटाभाववद्धटवदिति पक्षद्वयस्याप्यात्माश्रयादिविरोधाद्दुष्टत्वात् । वक्तव्यं त्वयेति शेषः । भूतलमात्र इति मात्रपदेन घटघटाभावाविशेषितं भूतलं ग्राह्यमिति सूचयति ।। तदेवेति ।। निषेधप्रक्रियां विकल्पमुखेनारभते ।। नेति ।। अयं प्रश्नः घटाभावः कुत्र सम्बध्यत इति प्रश्नः । तद्वाक्यम् । यद्वा प्रश्नः प्रश्नार्थः । विविच्यतां विव्रियताम् । विवरणप्रकारमेव विवृणोति ।। यदीति ।। अभावसम्बन्धात् घटाभावसम्बन्धात् । क्वचिद्यदि घटाभाव सम्बन्धादिति पाठेऽर्थस्तु स्पष्टः ।।
यदि वेति ।। सम्बन्धसमये अभावेन साकं सम्बन्धसमये । अभावात् घटाभावात् । इदं भूतलम् । विविच्येत वियुज्येत । तदा तर्हि ।। कीदृशं नाम स्यादितीति ।। कीदृशं स्यान्नामेत्यन्वयः । विकल्पक्रमानुगुणमुत्तरक्रममाह ।। आद्य इत्यादिना ।। आद्ये घटाभावसम्बन्धात्प्राक्कीदृशमिति पक्षे । सघटं घटसम्बद्धम् । उत्तरं वाच्यमिति शेषः । उत्तरत्र उत्तरं वाच्यमित्यपि शेषः । द्वितीये सम्बन्धसमये कीदृशमिति पक्षे ।। तृतीय इति ।। यद्यभावादिदमित्यादितृतीये । विवेकः वियोगः । अभावनाशकृतः तदाऽभावस्य नष्टत्वाद्धटसम्बद्धमिति । घटसंसर्गप्रागभावनाशस्य घटसंसर्गरूपत्वात् । बुद्धिकृतः विवेक इत्यनुवर्तते । बुध्यैवाङ्गीकृतः । तदा तर्हि । तयैव घटसंसर्गप्रतीतिमदित्युत्तरम् । नन्वभावः कुत्र सम्बध्यत इति प्रश्नार्थस्य लोकोक्तमुत्तरमस्तु । तथापि न घटाभावो घटाभाववति देशे तथाविधकाले वाऽस्ति । आत्माश्रयादिप्राप्तेः । नापि घटवति देशे काले वा । विरोधादिति पक्षद्वयेऽपि दोषसद्भावादित्यतिरिक्ताभाववादो न युज्यत इत्याशङ्कमानं प्रति विपक्षे बाधकमाह ।। अन्यथेति ।। अधिकरणभिन्नाभावानङ्गीकारे । भावप्रतिक्षेपः घटो भूतलदेशे घटवति तथाविधे काले वा वर्तत इति चेदात्माश्रयादिकम् । घटाभाववति चेद्विरोध इत्येवं घटादिभावप्रतिक्षेपोऽपि स्यादित्यतिप्रसङ्गो द्रष्टव्यः । यथैतत्परिहाराय यतसे तथाहमपि यते । यश्चोभयोः समो दोषः परिहारोऽपि वा सम इति दोषसाम्यमनेन दर्शयति । न हि पराङ्गन्यायेन दोषसाम्योपपादनमेव दोष इत्यतो यथा प्रामाणिकत्वाद्गुणानामपलापोऽयुक्तस्तथा मानसिद्धत्वादभावादीनामपलापो न युक्त इति ग्रन्थगौरवभीरव उपसंहरन्ति ।। इतीति ।। वक्तव्यं सर्वमर्थादुक्तमतो न शब्दतो विवरणं क्रियत इति विस्तरशब्दं प्रयुञ्जानः सूचयामासेति ज्ञेयम् ।
भावचन्द्रिका
तामेव विप्रतिपत्तिं दर्शयति अभाव एवेति । अभाववादिनाऽपि अधिकरणसापेक्षत्वमभ्युपगतमेव तथा च आवश्यकाधिकरणस्वरूपादेव अभावप्रतीतिव्यवहारयोः अन्यथासिद्धेः न अतिरिक्ताभावकल्पकमस्ति इत्यर्थः । न चैवम् ‘अधिकरणज्ञानस्यैव अभावगोचरत्वापत्त्या कथं घटाभावादिसंशयावकाशः ? इति वाच्यम् । अधिकरणज्ञानस्य वस्तुतो घटाभावगोचरत्वेऽपि तदप्रकारकत्वात् न तदभावसंशयविरोधित्वम् । समानप्रकारकनिश्चयस्यैव संशयविरोधित्वस्य सर्वसम्मतत्वादिति भावः ।।
नास्ति इति प्रतीतिरेव अभावं विना अनुपपद्यमानत्वात् तत्कल्पिका इति तत्कल्पकसद्भावात् अभावोऽपि अङ्गीकार्यः इत्याशयेन अनुपपत्तिं दर्शयति तदिति । एतेन अभावानङ्गीकारे प्रतीतिविरोधः स्यात् इत्युक्तं भवति ।
ननु न प्रतीतिविरोधः प्रतीतेः अधिकरणमात्रविषयत्वेन उपपत्तेः इति शङ्कते घटो नास्तीति । भूतलमात्रम्’ इत्यस्य हि ‘घटवद्भूतलं वा अर्थः’ इति न परेण वक्तुं शक्यम्, घटरहितत्वघटवदन्यत्वयोः अभावगर्भतया तत्स्वीकारप्रसङ्गात् । किन्तु अन्य एव इति भावेन विकल्पं पृच्छति किमित्यादिना ।। तथा च अत्र पक्षे भूतलमात्रशब्दो भूतलशब्दसमानार्थ एव इति भावः ।। उतेति । मात्रशब्दस्य निरर्थकत्वभीत्या ‘भूतलमात्रम्’ इत्यस्य स्वातिरिक्तवस्तुविशिष्टभूतलं इत्यर्थः इति भावः । आद्य इति । घटवद्भूतलस्यापि भूतलमात्रत्वात्, घटवत्यपि भूतले घटाभावधीः स्यादित्यर्थः ।। उक्तो दोष इति । घटवति भूतले ‘घटो नास्ति’ इति प्रतीतिप्रसङ्गरूपः इत्यर्थः । भावान्तरं चेदिति । भावविशिष्टे वस्तुनि अभावप्रतीतिः इति न परेण अङ्गीकर्तुं शक्यम् । अभावस्वीकारप्रसङ्गात् । अतः मात्रशब्देन भावान्तरवैशिष्ट्यमेव वक्तव्यमित्यभिप्रायेण भावान्तरं चेदित्युक्तम् ।
ननु मात्र इति किं भूतलमेव उच्यते ? इत्यादिदूषणमयुक्तम् । स्वव्याहतत्वात् । अतिरिक्ताभाववादिनाऽपि त्वया अभावाधिकरणत्वेन भूतलमात्रस्य अवश्यं वाच्यत्वेन, तत्रापि उक्तदूषणप्रसरात् । ततश्च परमते अभावस्य अधिकरणं न सिध्येत् । तस्मात् परेणापि ‘भूतलमात्रं अभावाधिकरणं’ वदता मात्रशब्दार्थः कश्चिदङ्गीकर्तव्य एव इति तस्यैव मयापि अङ्गीकारेण नास्ति इति प्रतीतेः भूतलमात्रविषयत्वसम्भवात् न दोषः इत्याशयेन स्वाभिमतमर्थं परेण अङ्गीकारयितुमाशङ्कते नन्विति ।। आत्माश्रयादीति । ‘घटाभाववति’ इत्यत्र तेनैव अभावेन तद्वत्त्वं विवक्षितम् ? अभावान्तरेण वा ? आद्ये आत्माश्रयः । द्वितीये अभावान्तरमपि स्वेनैव तद्वति ? अभावान्तरेण वा ? इति । आद्ये तु आत्माश्रय एव । द्वितीयेऽपि किं प्रथमेन ? उत अपरेण ? आद्ये अन्योन्याश्रयः । द्वितीये अपरोऽपि प्रथमेन तद्वति चेत् तदा चक्रकम् । चतुर्थादिना चेत् तदा अनवस्था इत्यर्थः । ननु कथं घटाभाववद्भूतलस्य घटाभावाधिकरणत्वे आत्माश्रयादिप्रसङ्गः ? न च ‘यद्विशिष्टे यद्वर्तते तद्विशेषणेऽपि तदस्ति’ इति न्यायेन घटाभावेऽपि घटाभावसत्त्वापातेन आत्माश्रयः इति वाच्यम् । दण्डविशिष्टे कुण्डलसत्तायामपि दण्डे कुण्डलस्य असत्त्वेन नियमासिद्धेः । अन्यथा तदपि स्यात् इति चेत् । न । भावानवबोधात् । यद्विशेषणाभावावच्छिन्नस्य यस्य यद्विशेषणाधारत्वमुपपद्यते तद्विशेषणे तद्विशेषणसत्तानियमाभावेऽपि यद्विशेषणाभावावच्छिन्नस्य यद्विशेषणाधारत्वं न सम्भवति तत्र तद्विशेषणे तद्विशेषणस्य सत्त्वं नियतमेव । व्यभिचाराभावात् । अस्ति च एतत् प्रकृते । घटाभावरूपविशेषणाभावावच्छिन्नघटवत्तया घटाभावरूपविशेषणवत्त्वासम्भवात् । ततश्च घटाभावरूपविशेषणे घटाभावरूपविशेषणसत्त्वे, अस्मिन् स्ववृत्त्या आत्माश्रयत्वं स्यादेव इति द्रष्टव्यम् । केचित्तु न वृत्तित्वमात्रमात्माश्रयः, प्रमेयत्वस्यापि तथात्वेन केवलान्वयित्वाभावापत्तेः । किन्तु स्वमात्रवृत्तित्वमेव । घटाभावस्य स्ववृत्तित्वे सति भूतलवृत्तित्वाङ्गीकारात् न स्वमात्रवृत्तित्वमिति आत्माश्रयोऽत्र दुर्निरूप एव । अतद्गुणसंविज्ञानबहुव्रीहिणा आदिपदोपात्तअन्योन्याश्रये एव च अस्य तात्पर्यमित्याहुः ।
विरोधादिति । घटवद्भूतलस्य घटाभावाधिकरणत्वं न सम्भवति, विरुद्धत्वादित्यर्थः । यद्यपि प्रागभावध्वंसाभावयोः अस्ति प्रतियोगि सामानाधिकरण्यम्, तथापि न एककालिकं तत् इति एककालिकं सामानाधिकरण्यं विरुद्धमेव इति भावः ।। अत्यन्ताभावमभिप्रेत्य इदमुक्तमित्याहुः ।। प्रश्न एवायमिति । ननु ‘अभावः किं घटाभाववति सम्बध्यते ? घटवति वा? इति परेण प्रश्ने कृते कथं वक्ष्यमाणो विकल्पावकाशः ? ‘सम्बध्यते’ इति वर्तमानप्रयोगात् ‘घटाभावसम्बन्धकालीनं भूतलं कीदृशम् ?’ इत्यर्थस्यैव पर्यवसन्नत्वात् इति चेत् । न । भावानाकलनात् । अत्र हि यत्र भूतले अभावः सम्बध्यते तद्भूतलं कीदृशम् ? इति प्रश्नाभिप्रायः । तत्र सम्बध्यते इति वर्तमानत्वविवक्षणात् सम्बध्यते इत्यस्य सम्बन्धवत् इत्येव अर्थः पर्यवसितो भवति । अभावसम्बन्धश्च तत्सत्तादशायामिव अभावसत्त्वदशायामपि प्रागभावादिरूपः सम्भवति इति युक्त एव विकल्पावसरः इति ध्येयम् । वस्तुकृत इति । वस्तुना कृतः इत्यर्थः । घटाभाववति भूतले घटानयनानन्तरमानीतेन घटाभावेन भूतलस्य अभावसम्बन्धसम्पादनात् इति भावः ।। बुद्धिकृत इति । बुध्या तर्कितः इत्यर्थः । अन्यथेति । अतिरिक्ताभावानङ्गीकारे इत्यर्थः ।। भावेति । तत्र ‘घटोऽस्ति’ इति बुद्धेः ‘घटो नास्ति’ इति बुद्धेरिव भूतलमात्रविषयत्वस्य, ‘घटवति घटः सम्बध्यते ? तदभाववति वा ?’ इतिप्रश्नस्य आत्माश्रयापत्त्यादिरूपतद्दूषणस्य च साम्यादिति भावः ।
उपसंहरति इतीति । ‘घटो नास्ति’ इति प्रतीतिविषयनिरूपणात्, अभावप्रतिक्षेपो न इत्यर्थः ।। ‘नातिविस्तरम्’ इति प्रतिज्ञाविरोधपरिहाराय आह आस्तां विस्तर इति ।।
काशी टिप्पणी
तामेव विप्रतिपत्तिं प्रदर्श्य निरस्यति ।। अभाव एवेति ।। निषेधत्वेन प्रथमप्रतीतिविषयपदार्थ एव नास्ति, दूरे तस्य परतन्त्रप्रभेदत्वमित्यर्थः । अत्र किमभावः साधकाभावान्नोपेयते उत बाधकभावात् । नाद्य इत्याह ।। नास्तीति ।। भूतले घटो नास्तीत्यादिप्रतीतेरित्यर्थः । प्रतीतेर्भावविषयत्वान्नाभावसाधकत्वमित्याशङ्कते ।। घटो नास्तीति ।। भूतलमात्रविषयेत्यस्याधाराधेयभावेनेत्यादिः । तेन प्रतियोगितया घटविषयत्वेऽपि न क्षतिः । तथा च भूतलादेः प्रथममस्तीत्युपलभ्यमानत्वान्नोक्ताभावत्वमिति भावः ।। भूतलमेवेति ।। उक्तप्रतीतिविषयत्वेनेति शेषः । मात्रपदेन भूतलातिरिक्तसामान्यव्यवच्छेदादिति भावः ।। उतातिरिक्तमिति ।। मात्रशब्दस्याभावमात्रव्यवच्छेदकत्वेन तदतिरिक्तभावान्तरलाभादिति भावः ।
केचित्तु भूतलमात्रपदस्य भूतलपदपर्यायत्वं वा किञ्चिद्विशिष्टभूतलपरत्वं वेति विकल्पार्थं वर्णयन्ति ।। घटवत्यपीति ।। घटाविशिष्टभूतलेऽपि घटो नास्तीति प्रसङ्ग इत्यर्थः । अत्र घटसत्तादशायामपि भूतलस्वरूपाभावसत्वादिति भावः । ननु घटवति घटप्रतीतिरूपविरोधिसत्वान्न घटभावप्रतीतिप्रसङ्गः । न च घटभूतलयोर्वस्तुनोर्विरोधाभावान्न तत्प्रतीत्योरपि विरोध इति वाच्यम् । अस्ति नास्तीति प्रतीत्योर्विरोधस्यापह्नोतुमशक्यत्वादिति चेत्सत्यम् । तथापि विरोधिप्रतीत्यसत्त्वदशायामुक्तप्रसङ्गो दुर्वारः । न च तदानीं घटसन्निकर्ष एव विरोधीति वाच्यम् । घटाभावस्यापि सन्निकृष्टत्वेन घटप्रतीतेरप्यनुपपत्तेः । घटवति दोषाधीनघटाभावप्रतीतेः प्रमात्वापत्तेश्च । द्वितीयपक्षे किं प्रतियोग्येवाभावत्वेन प्रतीयते उत तदतिरिक्तभावान्तरम् । नाद्य इत्याह ।। अतिरिक्तोऽपीति ।। उक्तो दोषः घटवति घटाभावप्रतीतिप्रसङ्गरूपः । द्वितीयं निराचष्टे ।। भावान्तरमिति ।। धर्मिप्रतियोग्यतिरिक्तभाव इत्यर्थः ।।
रूपवतीति ।। रूपस्य धर्मिप्रतियोग्यतिरिक्तत्वेन गन्धाभावत्वादिति भावः । घटे गन्धस्यावश्यम्भावान्नेष्टापत्तिरिति ध्येयम् । अत्र यद्यपि घटवति घटातिरिक्तरूपादिसत्वेन घटो नास्तीति प्रतीतिप्रसङ्ग एव सम्भवति । न च प्रतियोगिजातीयभावान्तरस्याभावधीविषयत्वोपगमान्नायं प्रसङ्गः । रूपादेरद्रव्यस्य घटविजातीयत्वादिति वाच्यम् । घटवति तदवयवकपालादेरेव सत्त्वात् । द्रव्यान्तरशून्ये घटाभावप्रतीत्यनुपपत्तेश्च । तथापि भावान्तरस्याभावरूपत्वे गन्धाभावस्य रूपादिस्वरूपत्वाच्चक्षुर्ग्राह्यत्वरूपदोषान्तरसूचनाय गन्धाभावानुधावनम् । न च गन्धवति भूतले घटाभावप्रतीत्यापादनेऽपि घटाभावस्य घ्राणग्राह्यत्वप्रसङ्गसूचनं सम्भवतीति वाच्यम् । तत्र चक्षुर्ग्राह्यरूपादेरेव घटाभावत्वोपगमेन निर्वाहादित्यवधेयम् । बाधकसद्भावान्नाभावसिद्धिरिति द्वितीयपक्षमाशङ्कते ।। नन्विति ।। आत्माश्रयादीति ।। स्वस्यैव स्वधर्मिघटकत्व आत्माश्रयः । यदि धर्मभूताभावाद्धर्मिघटकाभावो भिन्नस्तदा तस्य धर्मभूताभाववत्येव सम्बन्धो वाच्य इत्यन्योन्याश्रयः । तद्धर्मिघटकाभावस्य ततोऽप्यतिरिक्तत्वे तत्सम्बन्धस्यैव प्रथमाभाववति वाच्यत्वाच्चक्रकम् । तत्तद्धर्मिघटकाभावपरम्परास्वीकारे चानवस्थेत्यर्थः । ननु कथमात्माश्रयः स्वोत्पत्तेः स्वोत्पत्त्यनपेक्षत्वात् । न च यत्र यद्विशिष्टवृत्तित्वं तत्र तद्विशेषणवृत्तित्वमिति व्याप्तेः स्वस्य स्ववृत्तित्वापत्तिरूपोऽयमात्त्माश्रय इति वाच्यम् । दण्डविशिष्टवृत्तिकुण्डले दण्डवृत्तित्वाभावेन व्यभिचारात् । न च यत्र यद्विशिष्टमात्रवृत्तित्वं तत्र तद्विशेषणवृत्तित्वमिति व्याप्तिः । वह्निविशिष्टमात्रवृत्तिधूमादौ पृथिवीत्वविशिष्टमात्रवृत्तिगन्धादौ च वह्निपृथिवीत्वादिवृत्तित्वाभावेन व्यभिचारात् । प्रमेयत्वादेरिव घटात्यन्ताभावादेरपि स्ववृत्तित्वस्य प्रामाणिकत्वेनादोषाच्च । यत्तु ‘‘अभावज्ञानस्य धर्मिज्ञानाधीनत्वेन ज्ञप्तावात्माश्रयः’’ इति । तन्न । घटाभाववति घटो नास्तीति ज्ञानस्य घटाभावज्ञानाधीनतायाः प्रामाणिकत्वात् । भूतले घटो नास्तीत्यादिज्ञानस्य च घटाभावज्ञानानपेक्षत्वात् । यत्तु ‘‘अतद्गुणसंविज्ञानबहुव्रीहिणा आत्माश्रयादिशब्देन अन्योन्याश्रयादिरेव विवक्षितः’’ इति । इति तदसत् । द्वयोः परस्परापेक्षाभावेन तदभावात् ।
उच्यते । विशिष्टसम्बन्धस्य विशेष्यविशेषणसम्बन्धाधीनत्वात् घटाभावस्य घटाभावविशिष्टभूतलसम्बन्धो घटाभावभूतलसम्बन्धाधीनः । तथा च स्वनिष्ठतत्कालसम्बन्धस्य स्वनिष्ठतत्कालसम्बन्धाधीनत्व इव स्वनिष्ठतद्देशसम्बन्धस्य स्वनिष्ठतद्देशसम्बन्धाधीनत्वेऽप्यात्माश्रयो दुर्वार एव । घटाभावस्य भूतलसम्बन्धात्पूर्वं भूतलसम्बन्धासत्वेनेष्टापत्त्ययोगात् । न च विशिष्टसम्बन्धस्य विशेषणविशेष्यसम्बन्धात्पूर्वमसम्भवेऽपि केवलविशेष्यसम्बन्धसम्भवः । केवलभूतलादौ घटाभावस्य सम्बन्धानभ्युपगमेन विशिष्टसम्बन्धस्यैव वाच्यत्वादिति पूर्वपक्षाभिप्रायः ।
तदित्यस्य तर्हीत्यादिः । भूतलमात्रमित्यर्थः । घटवति घटाभावधीप्रसङ्गस्य, नियामकान्तराभावेन तद्वारणस्य च पक्षद्वयेऽपि साम्यादतिरिक्ताभावकल्पने गौरवमेव बाधकमित्याशयः । नन्वित्यादिप्रश्नवाक्यस्य षोढा व्याख्यानं सम्भवति । घटाभावः स्वसम्बन्धात्पूर्वं स्वसम्बन्धसमये स्वसम्बन्धानन्तरं वा यद्घटाभाववत्तत्र सम्बध्यते । किं वा स्वसम्बन्धात्पूर्वं स्वसम्बन्धसमये स्वसम्बन्धानन्तरं वा यद्घटवत्तत्र सम्बध्यते इति । एतेषां च फलतस्त्रिधैव प्रश्नपर्यवसानमित्याशयेन यथाश्रुतप्रश्नार्थं तावद्विकल्प्योत्तरमाह ।। प्रश्न एवायमिति ।। कीदृशं घटवद्घटाभाववद्वेत्यर्थः ।। सघटमिति ।। घटतदभावयोः कालभेदेन विरोधाभावादिति भावः ।। घटाभाववदित्येवोत्तरमिति ।। तावता स्वसम्बन्धाधीनत्वासिध्या आत्माश्रयाद्यनवकाशादिति भावः ।
विवेको विभागः । वस्तुकृतो वास्तवः । बुद्धिकृत आरोपितः । सत्यपि घटाभावे तदसत्वभ्रम इति यावत् ।। बुध्येति ।। घटाभावासत्वबुध्या घटारोप विषय इत्यर्थः । अत्राभावपदेन घटसंसर्गाभावो यथासम्भवं ग्राह्यः । ननु न वयमुक्तरीत्या वस्तुस्वरूपं पृच्छामः । येनोक्तबाधकपरिहारः स्यात् । अपि तु घटाभाववत्वे किं नियामकमिति । घटाभाव एव चेत्कथमात्माश्रयादिर्न स्यादतस्तत्कालविशिष्टतद्देशस्यैव नियामकत्वं वाच्यम् । तथा च तस्यैवाभावत्वसम्भवादतिरिक्ताभावकल्पने गौरवं दुर्वारमेवेत्यत आह ।। अन्यथेति ।। एवमभावप्रतिक्षेपे तथैव भावस्य घटादेः प्रतिक्षेपः स्यादित्यर्थः । तथा हि, घटवत्वे घटवत्वस्यैव प्रयोजकतायामात्माश्रयादिप्रसङ्गाद्देशविशेषादेरेव नियामकता वाच्या । तथा च तस्यैव घटबुद्धिविषयत्वसम्भवादतिरिक्तघटकल्पने गौरवम् । यदि च देशविशेषादेरननुगतत्वादनुगतेश्वरेच्छाविशेषस्यैव नियामकत्वं, तस्य चातीन्द्रियस्य घटादिबुद्धिविषयत्वायोगात् पृथक्प्रतीत्या च घटादिसिद्धिरित्युच्यते तदा तुल्यमभावेऽपि । तस्यापि प्राक्प्रध्वंससदात्वेन पृथक्प्रतीतेः । किं चासति सत्वाभावस्यासद्रूपत्वासम्भवादनन्ताधिकरणानामभावत्वकल्पनापेक्षया लाघवाच्चातिरिक्ताभावसिद्धिरित्याशयेनोक्तम् ।। इत्यास्तां विस्तर इति ।।