स्पृष्टदुःखा विमुक्ताश्च दुःखसंस्था इति द्विधा
स्पृष्टदुःखचेतनविभागस्तल्लक्षणं च
टीका
अत एव तद्विभागमाह ।। स्पृष्टदुःखा इति ।।
तत्वसङ्ख्यानम्
स्पृष्टदुःखा विमुक्ताश्च दुःखसंस्था इति द्विधा ।
विमुक्ता दुःखात् । दुःखसंस्था वर्तमानदुःखाः । चशब्दो दुःखसंस्था इत्यतः परं योज्यः । अत्र प्राधान्यक्रमेणोद्देशः ।
तत्वसङ्ख्यानटीकाभावदीपः
।। अत एवेति ।। धाप्रत्ययेनावान्तरभेदस्य सूचनादेवेत्यर्थः ।।
तत्वसङ्ख्यानटीकाटिप्पणी
अत एव तद्विभागमिति ।। धाल्प्रत्ययेन दुःखस्पृष्टेष्वेवावान्तरभेदस्य ज्ञापितत्वादेव तज्जिज्ञासायामित्यर्थः । विमुक्तशब्देन रमाया अपि प्राप्तिं परिहर्तुमाह– दुःखादिति ।। तथा च दुःखध्वंसाधिकरणा इत्यर्थः । सृतियुक्तत्वरूपं दुःखसंस्थत्वं मुक्तेषु कदाचित् सृतियुक्तेषु गतमत आह– वर्तमानेति ।। एत एव चानयोर्लक्षणे । एवमुत्तरत्रापि संज्ञानिरुक्त्यैव (लक्षणं) लभ्यत इति द्रष्टव्यम् । स्पृष्टदुःखानां साधारणतया समुच्चेयत्वाभावादाह– चशब्द इति ।।
तत्वसङ्ख्यानविवरणम्
अत एव तद्विभागमिति । धाप्रत्ययेन दुःखस्पृष्टेष्वान्तरभेदस्य ज्ञापितत्वादेव । तज्जिज्ञासायां तद्विभागमाहेत्यर्थः । विमुक्ताश्चेत्यत्र विमुक्तशब्देन रमाया अपि प्राप्तिं परिहर्तुमाह ।। विमुक्ताः दुःखादिति । तथा च दुःखध्वंसवन्त इत्यर्थः । विमुक्तानामपि पूर्वं दुःखसंस्थत्वादाह ।। वर्तमानदुःखा इति । एते एवानयोर्लक्षणे । एवमुत्तरत्रापि संज्ञानिरुक्तयैव लक्षणं लभ्यत इति द्रष्टव्यम् ।। योज्य इति । विमुक्ता दुःखसंस्थाश्चेति योज्य इत्यर्थः ।। प्राधान्यक्रमेणेति । दुःखमुक्तदुःखसंस्थयोर्मध्ये दुःखमुक्तानां प्राधान्यादित्यर्थः ।
तत्वसङ्ख्यानटिप्पणम्
विमुक्ता इत्यस्यावधिमाह ।। दुःखादिति ।। दुःखपदं च तत्कारणमविद्याद्युपलक्षयत्सुषुप्तव्यावर्तकम् । दुःखस्पृष्टा इति विभागयोग्योक्तिः । ते च विमुक्ता दुःखसंस्था इति द्विधेत्यन्वयः । दुःखसंस्था इत्यत्र दुःखेषु सम्यक् तिष्ठन्तीति दुःखसंस्था इति विग्रहो न हि सुग्रहः । जीवानामेव दुःखाधिकरणत्वेन दुःखस्य तदधिकरणत्वानौचित्यादित्याशङ्क्य, सम्यक् स्थितिः संस्था, दुःखस्य संस्था येषु ते दुःखसंस्थाः । आतश्चोपसर्ग इत्यङ् । वर्तमानदुःखा इति । अत्रापि पूर्ववद्दुःखकारणेन सुप्तसंग्रहोऽपि भवति । वर्तमानदुःखपदेन दुःखप्रागभाव एव विवक्षित इत्याहुः । यथाश्रुतं चशब्दान्वये दुःखसंस्थाः स्पृष्टदुःखा विमुक्ताश्चेति द्विधेति विभागोऽवगतो भवेत् । विमुक्ताश्च दुःखस्पृष्टा दुःखसंस्था इति वा भवेत् । न चेष्टापत्तिः । पूर्वं दुःखस्पृष्टप्रभेद प्रसक्तिविरोधापत्तेरित्यतो भिन्नक्रमेण चशब्दान्वयमाह ।। चशब्द इति ।। ततश्च दुःखस्पृष्टा विभागयोग्याः विमुक्ता दुःखसंस्थाश्चेति द्विधेति तद्विभागोक्तिरिति मन्तव्यम् । इत्यतःपरं एतदुपरि सम्बन्धनीय इत्यर्थः । ननूत्तरत्र ‘‘दुःखसंस्था मुक्तियोग्या’’ इति भणनात्तदानुगुण्येन पूर्वमपि स्पृष्ट दुःखा दुःखसंस्था विमुक्ता इति वा । यथापूर्वन्यासं ‘‘देवर्षिपित्रि’’ति भेदो वाऽऽदौ निर्देश्यः । कथमनानुगुण्येन निरूपणमित्यतो निमित्तमाह ।। अत्रेति ।। प्राधान्यक्रमेण उत्कृष्टत्वक्रमेण ।
भावचन्द्रिका
अत एव आह अत एवेति । अपवादाभावेन दुःखस्पृष्टावान्तरभेदस्य प्रकारद्वित्वोक्त्या सूचितत्वात् एव इत्यर्थः ।। मूले विमुक्ताः इत्यस्य संसारात् मुक्ताः इत्यर्थकत्वे तमःप्राप्तानाम् अपि संसारात् मुक्तत्वेन तेषामपि अत्रैव प्राप्तौ ‘ते च प्राप्तान्धतमसः’ इत्युत्तरग्रन्थवैयर्थ्यमित्यतः व्याचष्टे विमुक्ता दुःखादिति । तमःप्राप्तानां दुःखविमुक्तत्वाभावात् न तेषामत्र ग्रहणमिति न उत्तरग्रन्थवैयर्थ्यम् इति भावः । ‘दुःखसंस्थाः’ इति मूलं दुःखे संस्थाः वर्तमानाः’ इति भाति । तदनुपपन्नम् । जीवानामेव दुःखाधिकरणत्वेन दुःखाऽऽधेयत्वाभावात् इत्यतः तद्व्याचष्टे दुःखसंस्था इति ।। ‘सम्यक् तिष्ठति’ इति संस्थम्=वर्तमानमिति यावत् । संस्थं दुःखं येषां ते ।। ‘वाऽऽहिताग्न्यादिषु’ इति विशेषणस्य परत्वात् । तेन ‘दुःखसंस्थाः’ इति मूलस्य वर्तमानदुःखाः इति व्याख्याने न उक्तानुपपत्तिः इत्यभिप्रायः । न च सुषुप्त्यवस्थापन्नेषु अव्याप्तिः । तत्रापि शरीरेन्द्रियादिरूपस्य दुःखस्य वर्तमानत्वादित्याहुः । वर्तमानदुःखपदेन दुःखप्रागभाव एव विवक्षितः इत्यपि आहुः ।। स्पृष्टदुःखत्वेन विमुक्तत्वेन च दुःखसंस्थानामयं विभागः इत्याभाति । तत् प्रकृतानुपयुक्तम् । दुःखस्पृष्टानां भेदस्य प्रक्रान्तत्वात् इत्यतः न अत्र यथास्थितः चशब्दः किन्तु भिन्नक्रमः इत्यभिप्रेत्य आह चशब्द इति । दुःखसंस्थाः इत्यतःपरं दुःखसंस्थाः इत्येतदनन्तरम्, योज्यः ।।
ननु अत्र मूले दुःखसंस्थानां प्रथमग्रहणं भवेत्, न मुक्तानाम् । अनुपदमेव दुःखसंस्थप्रभेदकथनानन्तरं मुक्तप्रभेदकथनात् । तत् कथं मुक्तानामादौ निर्देशः इत्यत आह अत्रेति । तर्हि प्राधान्यक्रमानुसारेण एव प्रथमं मुक्तभेदः कथनीयः इत्येतत्तु अनुपदमेव आशङ्क्य निराकरिष्यते इत्यवधेयम् ।
काशी टिप्पणी
।। अत एवेति ।। दुःखस्पृष्टापेक्षया धाल्प्रत्ययप्रयोगादेवेत्यर्थः । निगडमुक्तवारणायाह ।। दुःखादिति ।। दुःखमुक्तत्वस्य सुषुप्त्यादिसाधारण्यादात्यन्तिकदुःखनिवृत्तिलाभाय विशब्दः । आत्यन्तिकत्वं च दुःखप्रागभावानवच्छिन्नत्वम् । तथा च दुःखप्रागभावानवच्छिन्नदुःखाभावविशिष्टत्वं दुःखविमुक्तत्वमिति निष्कर्षः । दुःखवृत्तित्वरूपदुःखसंस्थत्वस्य जीवेष्वसम्भवादाह ।। वर्तमानदुःखा इति ।। ननु दःखविमुक्तानामपि कदाचिद्वर्तमानदुःखत्वात्कथमयं विभागः । विभिन्नदेशयोरेव विभाजकत्वदिति चेन्न । समानकालविभिन्नदेशयोरिव विभिन्नकालसमानदेशयोरपि धर्मयोर्विभाजकत्वे बाधकाभावात् । समानदेशयोः परस्परधर्मिव्यावर्तकत्वाभावात्कथं विभाजकत्वमिति चेन्न । परस्परोपलक्षितधर्मिस्वरूपव्यावर्तकत्वाभावेऽपि परस्परविशिष्टव्यावर्तकत्वेन विभाजकत्वोपपत्तेः । अत एवायं विशिष्टविभाग इति गीयते ।
नन्वेवं सुप्तिविशिष्टानामुभयत्राप्रवेशात् त्रैविध्यापत्तिरिति चेन्न । दुःखपदस्य दुःखप्रागभावपरत्वादिति केचित् । दुःखहेत्वविद्यापरत्वादित्यन्ये । वस्तुतस्तु एतत्कल्पप्रागभावानधिकरणकालवृत्तिदुःखोपलक्षितत्वं वर्तमानदुःखत्वम् । सृज्यजीवसङ्ग्रहायैतत्कल्पवृत्तित्वमुपेक्षितम् । तेषामेतत्कल्पीयदुःखशून्यत्वेऽपि एतत्कल्पप्रागभावानधिकरणीभूतोत्तरकल्पीयदुःखवत्वात्तत्सङ्ग्रहः । सुप्तानामपि दुःखोपलक्षितत्वान्नोक्तदोषः । न च तादृशदुःखोपलक्षितत्वस्य दुःखविमुक्तसाधारण्यात्साङ्कर्यमिति वाच्यम् । प्राक्कल्पीयमुक्तानामेव दुःखविमुक्तपदेन ग्रहणात् । न चैवं दुःखविमुक्तत्वस्यैतत्कल्पीयमुक्तेष्वतिव्याप्तिरिति वाच्यम् । एतत्कल्पीयदुःखासमानाधिकरणदुःखध्वंसवत्वरूपविमुक्तत्वस्य विवक्षितत्वात् ।
न चैवं सृज्यजीवेष्वतिव्याप्तिः । तेषामेतत्कल्पीयदुःखासमानाधिकरणोत्तरकल्पीयदुःखध्वंसवत्वादिति वाच्यम् । पूर्वकल्पीयत्वेन दुःखस्यैतत्कल्पीयत्वेन वा दुःखध्वंसस्य विशेषणीयत्वात् । अत एव ध्वंसपदमप्यर्थवत् । दुःखाभावमात्रोपादाने दुःखप्रागभावमादाय सृज्येष्वतिव्याप्तेः । एवं च साङ्कर्याभावात्तमोयोग्यविभागग्रन्थवत्स्वरूपविभागपर एवायं ग्रन्थ इत्यवधेयम् । विमुक्ताश्चेति चशब्दस्य स्पृष्टदुःखसमुच्चायकत्वप्रतीतिनिरासायाह ।। चशब्द इति ।। तथा चोक्तसमुच्चायकेनानेन विवक्षितस्य विमुक्तदुःखसंस्थसमुच्चयस्य लाभ इति भावः । यद्यपि तत्र चान्यत्र च प्रसिद्धानामित्यादौ चशब्दस्य वक्ष्यमाणसमुच्चायकत्वमप्यस्ति तथाप्युक्तसमुच्चायकशब्दान्तरसमभिव्याहृतस्यैव तथात्वमित्याशयेन दुःखसंस्थसमुच्चायक इत्यनुक्त्या दुःखसंस्था इत्यतःपरं योज्य इत्युक्तम् । मुक्तानां प्रथमोद्देशे नियामकमाह ।। अत्र चेति ।। बद्धमुक्तयोर्मुक्तस्य प्राधान्यं प्रसिद्धमेवेति भावः ।